तत्र वयोमुग्धा यथा—

विस्तारी स्तनभार एष गमितो न स्वोचितामुन्नतिं रेखोद्भासिकृतं वलित्रयमिदं न स्पष्टनिम्नोन्नतम् ।
मध्येऽस्या ऋजुरायतार्धकपिशा रोमावली निर्मिता रम्यं यौवनशैशवव्यतिकरोन्मिश्रं वयो वर्तते ॥

यथा च ममैव—

उच्छ्वसन्मण्डलप्रान्तरेखमाबद्धकुड्‏मलम् ।
अपर्याप्तमुरो वृद्धेः शंसत्यस्याः स्तनद्वयम् ॥

काममुग्धा यथा—

दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रे प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि ।
94 पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग् यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥

रतौ वामा यथा—

व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका ।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥558

मृदुः कोपे यथा—

प्रथमजनिते बाला मन्यौ विकारमजानती कितवचरितेनासज्याङ्के विनम्रमुखैव सा ।
चिबुकमलिकं चोन्नम्योच्चैरकृत्रिमविभ्रमा नयनसलिलस्यन्दिन्योष्ठे रुदत्यपि चुम्बिता ॥
एवमन्येऽपि लज्जासंवृतानुरागनिबन्धना मुग्धाव्यवहारा निबन्धनीयाः ।

यथा—

न मध्ये संस्कारं कुसुममपि बाला विषहते न निश्वासैः सुभ्रूर्जनयति तरङ्गव्यतिकरम् ।
नवोढा पश्यन्ती लिखितमिव भर्तुः प्रतिमुखं प्ररोहद्रोमाञ्चा न पिबति न पात्रं चलयति ॥

कितवचरितेनेति । कितवानां यच्चरितं तेनेत्यर्थः । एवमन्येऽपीति । अन्येऽपि लज्जया संवृतोऽनुरागो येषां निबन्धनं ते मुग्धाव्यवहाराः प्रबन्धे निबन्धनीया इत्यर्थः ।

  1. कुमार॰ ८।२