पताकास्थानकान्यत्र बिन्दुरन्ते च बीजवत् ॥ ३७ ॥
एवमङ्काः प्रकर्तव्याः प्रवेशादिपुरस्कृताः ।
पञ्चाङ्कमेतदवरं दशाङ्कं नाटकं परम् ॥ ३८ ॥

इत्युक्तं नाटकलक्षणम् ।

पताकास्थानकान्यत्राङ्के कुर्यात् । बीजयुक्तं बिन्दुमादावन्तेऽपि कुर्यादित्याह पताकास्थानकानीति । अयमङ्कविधानप्रकार इत्याह एवमिति । एतन्नाटकम् अवरं पञ्चाङ्कं परं दशाङ्कमिति नाटकस्याङ्केषु संख्यानियमं दर्शयति पञ्चाङ्कमिति । नाटकलक्षणं पूर्णमित्याह इत्युक्तमिति ।