नायिका तु द्विधा तत्र कुलस्त्री गणिका तथा ।
क्वचिदेकैव कुलजा वेश्या क्वापि द्वयं क्वचित् ॥ ४१ ॥
कुलजाभ्पन्तरा बाह्या वेश्या नातिक्रमोऽनयोः ।
आभिः प्रकरणं त्रेधा संकीर्णं धूर्तसंकुलम् ॥ ४२ ॥

वेशः = भृतिः, सोऽस्या जीवनमिति वेश्या । तद्विशेषो गणिका । यदुक्तम्—

आभिरभ्यर्थिता वेश्या रूपशीलगुणान्विता ।
लभते गणिकाशब्दं स्थानं च जनसंसदि ॥
155 इति । एवं च कुलजा वेश्या उभयमिति त्रेधा प्रकरणे नायिका । यथा वेश्यैव तरङ्गदत्ते कुलजैव पुष्पदूषितके । ते द्वे अपि मृच्छकटिकायामिति । कितवद्यूतकारादिधूर्तसंकुलं तु मृच्छकटिकादिवत् संकीर्णप्रकरणमिति ।

नायिका तु द्विधा तत्रेति ।770 तत्र प्रकरणे द्विविधा नायिका । क्वचित् कुलस्त्री क्वचिद् गणिका क्वचिदुभयमिति । यत्रोभयं तत्र नायकेन अनयोः कुलस्त्रीगणिकयोः नातिक्रमः कार्यः । कुलस्त्रीमात्रयुक्तं गणिकामात्रयुक्तं च प्रकरणं शुद्धम् । उभययुक्तं प्रकरणं संकीर्णमिति । क्वचिद् गणिका नायिकेत्युक्त्वा पुनर्वेश्या क्वापीति वचनं व्याकुलमिव । तत्राह वेशो भृतिरित्यादि । गणिकैव वेशान्वयाद् वेश्येत्यभिधीयत इत्यर्थः ।

  1. N.S.P. reads nāyikā tu dvidhā netuḥ. tara instead of netuḥ is the pratīka given by Bh.Nṛ.