146 अथ नालिका—

सोपहासा निगूढार्था नालिकैव प्रहेलिका ॥ १९ ॥

यथा मुद्राराक्षसे—

चरः

744हंहो बम्हण, मा कुप्प । किं पि तुह उवज्झाओ जाणादि । किं पि अम्हारिसा जणा जाणंति ।

शिष्यः

किमस्मदुपाध्यायस्य सर्वज्ञत्वमपहर्तुमिच्छसि ?

चरः

745यदि दे उवज्झाओ सव्वं जाणादि ता जाणादु दाव कस्स चंदो अणभिप्पेदो त्ति ।

शिष्यः

किमनेन ज्ञातेन भवति ?

इत्युपक्रमे
चाणक्यः

चन्द्रगुप्तादपरक्तान् पुरुषान् जानामीत्युक्तं भवति746

इति ।

अथासत्प्रलापः—

असंबद्धकथाप्रायोऽसत्प्रलापो 747यथोत्तरः ।

ननु चासंबद्धार्थत्वेऽसंगतिर्नाम वाग्दोष748 उक्तः । तन्न । उत्स्वप्नायित- मदोन्मादशैशवादीनामसंबद्धप्रलापितैव749 विभावः । यथा—

अर्चिप्मन्ति विदार्थ वक्त्रकुहराण्यासृक्कतो वासुके- रङ्गुल्या विषकर्वुरान् गणयतः संस्पृश्य दन्ताङ्कुरान् ।
एकं त्रीणि नवाष्ट सप्त षडिति प्रध्वस्तसंख्याक्रमा वाचः शक्तिधरस्य750 शैशवकलाः श्रेयांसि पुष्णन्तु वः ॥

  1. ‘हंहो ब्राह्मण, मा कुप्य । किमपि तवोपाध्यायो जानाति । किमप्यस्मादृशा जना जानन्ति ।’ इति च्छाया.
  2. ‘यदि त उपाध्यायः सर्वं जानाति तज्जानातु तावत् कस्य चन्द्रोऽनभिप्रेत इति ।’ इति च्छाया.
  3. पृ॰ ७२
  4. ‘यथोत्तरम्’ इति पाठः.
  5. N.S.P. vākyadoṣaḥ.

  6. A.T.A. -pralāpitaiva bhavatīti bhāvaḥ.

  7. N.S.P. vācaḥ krauñcaripoḥ śiśutvavikalāḥ.