एषामन्यतमेनार्थं पात्रं चाक्षिप्य सूत्रभृत् ॥ २१ ॥
प्रस्तावनान्ते निर्गच्छेत् ततो वस्तु प्रपञ्चयेत् ।

तत्र—

757अभिगम्यगुणैर्युक्तो धीरोदात्तः प्रतापवान् ॥ २२ ॥
कीर्तिकामो महोत्साहस्त्रय्यास्त्राता महीपतिः ।
प्रख्यातवंशो राजर्षिर्दिव्यो वा यत्र नायकः ॥ २३ ॥
तत्प्रख्यातं विधातव्यं वृत्तमत्राधिकारिकाम् ।

149 यत्रेतिवृत्ते सत्यवागविसंवादिनीतिशास्त्रप्रसिद्धाभिगामिकादिगुणयुक्तो रामायणमहाभारतादिप्रसिद्धो धीरोदात्तो राजर्षिर्दिव्यो वा नायकस्तत्प्रख्यातमेवात्र नाटक आधिकारिकं वस्तु विधेयमिति ।

नीतिशास्त्रप्रसिद्धेत्यनेन अभिगम्यगुणकथनम् । इतरत्र धीरोदात्तादिगुणकथनमिति । तत्प्रख्यातमिति । त्रिविधं हि प्रख्यातम्—इतिहासात् कथातो लोकाच्चेति । तत्रेतिहासप्रख्यातं प्रख्यातशब्देन गृह्यत इत्याह रामायणेति ।

  1. ‘अभिगामि’, ‘अधिगम्य’ इति पाठौ.