118
प्रतिषेधप्रयासः ? क्रियोपदेशन्याय्यत्वाभ्युपगमोऽपि चैवं विघटेत, संसेव्यविषयस्व
तत्त्वानुपातिपरिणामविज्ञानविरहितत्वात्, अवैद्यौषधोपदेशवद् बालकाहिग्रहणवत् ।
ज्ञातत्वयोश्च तद्दोषाविमोक्षात् । सामान्यं स्वविषयं परविषयं चेत्थमित्थं च न युज्यते तथा विशेष इति
प्रपञ्चितत्वादज्ञातं 1529चेत् तत् सर्वम्, अप्रत्ययत्वा1530न्न प्रतिषेध इत्युक्तम् । ज्ञातं चेत् कथं ज्ञातुमशक्यं
लोकतत्त्वम् ? इत्यप्रत्ययमेव । स्वयमसमीक्षितवाच्यवाचकसम्बन्धत्वात् 1531ते वचस उन्मत्तवदेव तावत्
अशक्यं प्राप्तुं लोकतत्त्वम् इत्युक्तम्, 1532विप्रतिषेधात् ।
यदप्युक्तम् --अ1533नर्थको विवेकयत्नः शास्त्रेष्विति, तत्रापि विप्रतिषेधात्, यदि तज्ज्ञानमफल
मेव किमिति शास्त्रविहितार्थप्रतिषेधप्रयासः ? शास्त्रविहितार्थज्ञानं तत्प्रतिषेधोपायज्ञानं
चा1534वधार्यम्--किं सफलम् ? अफलम् ? यद्यफलं विज्ञानम्, शास्त्रविहितार्थान् प्र1535तिषिषेधिषतः
आ८३-२ प्रयासोऽप्यफल ए1536वाज्ञातत्वात् पूर्ववत् । अथ सफलम्, अफलमेव लोकतत्त्वज्ञानम् इति व्याहन्यते ।
अतः को1537 ह वैतद्वेद ? किं वाऽनेन ज्ञातेन1538 ? इत्येतदयुक्तमुक्तम्, विप्रतिषेधात् ।
यदप्युक्तं वस्तुतत्त्वाशक्यप्राप्तेः क्रिया1539या एवोपदेशो न्याय्यस्तत्पूर्वकत्वात् सुखावाप्तेः इत्यत्रोच्यते —
क्रियोपदेशन्याय्यत्वाभ्युपगमोऽपि चैवं विघटेत, विघटत एव इति कथं निष्ठुरमुच्यते ? विघटेत
1540इति तत्सम्भावनयोच्यते दाक्षिण्यलोकज्ञानाभ्याम् । को हेतुर्विघ1541टने ? 1542संसेव्यविषयस्वतत्त्वानुपाति
परिणामविज्ञानविरहितत्वात् । सम् इत्येकीभावे, आत्मसाद्भावेन सेव्यमानस्य विषय1543स्य स्वतत्त्वमा
हारादेः शब्दस्पर्शरसरूपगन्धात्मकस्य स्वरूपं वातादिप्रकोपशमोपचयप्रलयावहम्—
तत्तत्त्वानुपा1544ती परिणा1545मः, तदनुपतितुं शीलमस्येति, किमुक्तं भवति ? आसेव्यमानस्य वस्तुनस्तत्क्रियात एव
स्वरूपानुपातेन विपाकः परिणामः । तद्विज्ञानविरहितत्वम् । स इत्थं विपाकः सुखाय दुःखाय वेत्येतद्विज्ञानं
हिताहितप्राप्तिपरिहारार्थम्, त1546त्तु भवतां नास्त्येव । अतस्तद्विरहितत्वात् क्रियोपदेशोऽपि अग्निहोत्रं जुहुयात्
स्वर्गकामः, तण्डुलान् पचेद्भोक्तुकामः इत्या1547दिर्दृष्टादृष्टार्थो न घटते, अज्ञात1548संसेव्यवस्तुतत्त्वपरिणा1549मत्वात्,
अवैद्यौषधोपदेशवत्, यथा कस्यचिदविज्ञातरसवीर्यविपाकप्रभावद्रव्यगुणविशेषभा1550गाभागसंयोगस्य देश
-
चेत्तर्हि सर्वम्॰य॰ ॥
↩ - ↩
-
ते नचसय॰ ॥
↩ -
विप्रतिषेधात् यद्यप्युक्तमनर्थको विवेकयत्नः शास्त्रेष्विति तत्रापि विप्रतिषेधात्तु तद् ज्ञानमफलमेवरं॰ही॰ डे॰लीं॰ । विप्रतिषेधोप्युक्तमनर्थको विवेकयत्नः शास्त्रेष्विति तत्रापि विप्रतिषेधात् । यद्यप्युक्तमनर्थको विवेकयत्नः शास्त्रेष्विति तत्रापि विप्रतिषेधात्तु तद् ज्ञानमफलमेव पा॰ वि॰ ॥
↩ -
दृश्यतां पृ॰ ११ पं॰ ४ ॥
↩ - ↩
- ↩
-
एव ज्ञातत्वात्य॰ ॥
↩ -
को हंय॰ । दृश्यतां पृ॰ ११२ पं॰ ४ ॥
↩ -
दृश्यतां पृ॰ ३५ पं॰ ४ ॥
↩ -
दृश्यतां पृ॰ ४५ पं॰ २ ॥
↩ -
इति न संभावनयोच्यते प्र॰ ॥
↩ -
॰घटतेय॰ ॥
↩ -
ससेव्य॰ प्र॰ ॥
↩ -
॰यस्य तत्त्वमा॰ प्र॰ ॥
↩ -
॰पातिय॰ ॥
↩ - ↩
- ↩
-
॰दिर्दृष्टार्थो प्र॰ ॥
↩ -
॰तसंवेव्य॰भा॰ । ॰तवैव्यद्य॰ पा॰ । ॰तवैव्य॰ डे॰ लीं॰ । ॰तवैथ्यद्य॰ रं॰ ही॰ । ॰तवैधव्य॰ वि॰ ॥
↩ -
॰णामवान्य॰ ॥
↩ -
॰षभागसंयो॰भा॰ ॥
↩