246

ओँ अर्हम्

अथ तृतीयो विध्युभयारः ।


अथ किं भवता पुरुषादिवादेषु प्रतिस्वं तथा तथा या एता अवस्था उक्ताः
पुरुषादि तत्त्वं तल्लक्षणम्, उत पुरुषादिलक्षणास्ताः ?


यद्यवस्थास्वात्मैव पुरुषादि, न पुरुषाद्यात्मा अवस्थाः, ततः पुरुषो नाम न
कश्चिच्चतुरवस्थाव्यतिरिक्तः, समुदयिमात्रसमुदायाभ्युपगमाद् रूपादिसमुदायवत्


कमलदलविपुलनयना कमलमुखी कमलगर्भसमगौरी ।

कमले स्थिता भगवती ददातु श्रुतदेवता सिद्धिम् ॥

इदानीं विध्युभयारावसरः । यद्ययं विधिविधिनयारोक्तो भावो निर्दोषः स्यादरान्तरारम्भोऽनर्थकः
स्यात्, स तु सदोष एवेति प्राप्तावसरं तद्दोषमुक्त्वोत्तरत्र विध्युभयारं निर्दिदिक्षुः प्राच्यदोषाभिधानार्थमेव
तावदाह --अथ किं भ2996वता इत्यादि । अथेत्यधिकारोपन्यासे, अनन्तरोक्तपुरुषादिवाददूषणाधिकारोप
न्या2997सार्थोऽथशब्दः । किंशब्दः प्रश्ने, सामान्येन पुरुष-नियति-काल-स्वभाव-भावेषु अनन्तरोक्तेषु प्रतिस्वमा
त्मनो ग्राहे तथा तथा तेन तेन प्रकारेण पुरुषः सुप्तादिचतुरवस्थः, नियतिरेव पूर्वपरादिक्रियाऽक्रियादि
नियतावस्थारूपा, काल एव क्रमयौगपद्यभूतभवद्भा2998विव्यवस्थातत्त्वः, स्वभाव एवात्मप्रविभागमात्रप्र2999तिविविक्त
भवनभेदतत्त्वः, भाव एव स्वत्वास्वत्वाद्यविद्याविकल्पविनिर्मुक्तसत्तामात्रव्याप्यनञ्जनशब्दार्थज्ञानाद्यवस्थाविशेष
जगत्तत्त्व इति या एताः प्रतिस्व3000मशेषा व्रीह्यङ्कुरादिघटपटादिवस्तुव्याप्तिवृत्तयोऽवस्थास्तस्य तस्य पुरुषादि
१७८-१ दर्शनस्य व्यापित्वप्रदर्शनार्थमुक्तास्तासु किं पुरुषादि तत्त्वमवस्थालक्षणं 3001तल्लक्षणम् ? तानि च लक्षणं
तस्याः, न सोऽस्ति तद्व्यतिरिक्तः, यथा रूपादय एव घट इति । उत पुरुषादिलक्षणास्ताः ? पुरुषाद्येव
सत्यम्, न ताः काश्चिदवस्थाः, यथा घट एव रूपादयः न रूपादयो नाम केचिद् घटव्यतिरेकेण, इति द्वयो
र्विकल्पयोरन्यतरोऽवधार्यः ।


3002किञ्चातः ? यद्यवस्थास्वात्मेत्यादि यावत् समुदयमात्रवाद एवायमन्यः । यदि पुरुषादि न
किञ्चिदस्ति, अवस्थास्वात्मैव तल्लक्षणम्, ता एव सत्याः, न पुरुषाद्यात्मावस्थाः पुरुषादिस्वरूपास्ता
अवस्था न भवन्ति इत्येवमभ्युपगतं भवति ततः पुरुषो नाम न कश्चिच्चतुरवस्थाव्यतिरिक्त इत्येतदा

  1. भवतरं॰ही॰

  2. ॰न्यासोर्थे॰भा॰॰न्यासोर्थो॰ य॰

  3. ॰द्भाविविवस्थात्ततःय॰॰द्भाविवृवस्थात्ततः भा॰

  4. ॰प्रतिविवक्त॰य॰

  5. ॰स्वनशेषः प्र॰ ॥

  6. एतच्चिह्नान्तर्गतः पाठो य॰ प्रतिषु नास्ति ॥

  7. किं वातः प्र॰ ॥