375

वाक्यार्थोऽपि च पृथक् सर्वं पदम्, सर्वसर्वात्मकत्वात् ।


निबन्धनमप्यस्य आर्षम्--जे एकणामे से बहुणामे आचाराङ्गसू॰ १ । ३ । ४ इति ।


तथा परिणममानः । अनित्यघटादिशब्दा अपीति, अनित्यः प्रध्वस्तः इत्यादयो घटः पटः इत्यादयश्च
शब्दाः पृथिव्यादिलक्षणा अपि नात्यन्तमुत्पन्नमभूतं वा4197र्थं ब्रुवते, किं तर्हि ? स्वतत्त्वबीजं द्रव्यमेवावि
च्छिन्नमाहुः,
स्वतत्त्वं यदभूत्वा भवति भूत्वा च न भवति तदनित्यम्, स4198मानकर्तृकयोः पूर्वकाले क्त्वा
प्रत्ययविधानात् । स एव तु दृ4199श्यादृश्यपरिणामाभ्यां भवति न भवतीति स्वतत्त्वस्य अनित्यत्वस्य बीजं२६८-१
द्रव्यमेवार्थः । घटादि ता4200वत्तदनित्यत्वम्, तस्य बीजमवस्थितं द्रव्यं सामान्यमेव अङ्कुरादेर्व्रीहिवत् । तदेवा
4201विच्छिन्नं महापृथिवीवदनुत्पादव्यययोगि अवृद्धम् अविचालि कूटस्थं ध्रुवं नान्यदिति पदार्थः ।


वाक्यार्थोऽपि च पृथक् सर्वं पदम्, प्रत्येकं पदं वाक्यम् देवदत्त गामभ्याज शुक्लाम् इत्यत्र
देवदत्त एवेतरपदार्थपरिसमाप्तेः कर्मविभक्त्यन्ते गोशब्दे च तथापरिसमाप्तेरितरपदार्थानाम् । तच्च सर्वसर्वा
त्मकत्वादुक्तन्यायादुपपन्नम् ।


न चैताः स्वमनीषिका उच्यन्ते, किन्तु निबन्धनमप्यस्य दर्शनस्य आर्षमस्ति यतोऽस्य दर्शनस्य
विनिर्गम इति तद्दर्शयति --जे एकणामे से बहुणामे, यदेकस्य भा4202वः तत् सर्वस्यापि यत् सर्वस्य
तदेकस्यापि ।


इति चतुर्थोऽरो नयचक्रस्य समाप्तः प्रथमश्च मार्गो नेमिरित्यर्थः ।
4203र्धमेकपुस्तकं समाप्तम् ॥ छ ॥

  1. चार्थंभा॰वि॰

  2. समानकर्तृकयोः पूर्वकाले इति पाणिनीयव्याकरणे ३ । ४ । २१ ॥

  3. दृश्यपरि॰ प्र॰ ॥

  4. तावतद॰भा॰

  5. ॰वच्छिन्नं प्र॰ ॥

  6. भावा प्र॰ । भवेत् ? । अत्र यदेकस्य नाम तत् सर्वस्यापि इत्यपि पाठः स्यात् ॥

  7. अर्धमेकमेकपु॰पा॰रं॰ही॰अर्धमेकमेकं पु॰ वि॰अर्धमेकं एकपु॰ भा॰