417

द्रव्यभावत्यागाद् द्वयविभागवचनं व्यर्थम्, ततश्च तथाभवनविनाभूतसन्निधानमपि
निर्मूलम्, सर्वनिर्मूलता चैवम्, अव्यक्तिरपि असन्निहितत्वात् खपुष्पवत् ।
अथोच्येत--सन्निहिततथाभूतवस्तुतत्त्वव्यक्ति द्रव्यमेव स्थित्यादिस्वावस्थमस्तु, एवं
तर्हि सर्वप्रभेदनिर्भेदत्वमसत्यं द्रव्यस्य क्रियायाश्चाक्रियात्वम4587व्यञ्जकत्वात् प्रागेव
तथाभूतव्यक्तिव्यर्थत्वात् ।


अथैतच्चेदुभयं नेच्छति ततोऽविभागावस्थत्वाद् द्रव्यमविभागावस्थं तद्व्य-


प्रवृत्तिसामान्यमेव भावः इत्युक्तत्वाद् विशेषास्तत्रैव सम्भव4588न्ति । अतोऽस्य व्यतिरेकसम्भवाद् यदपि
ओदनादि फलं तदपि प्रवृत्तिसामान्यमेव । तस्माद् भावादेव क्रियाया एव सर्वस्येष्ट4589स्य कृतत्वाद् द्रव्यं
भावः
इत्येतत् त्यक्तम् । तत्त्यागाद् द्वयविभागवचनं व्यर्थम्, द्रव्यं क्रिया च वस्तु इत्युभयाभ्युपगमो
मूलत एव विघटते । ततश्च तथाभवनेन प्रवृत्तिलक्षणेन विनाभूतस्य सन्निधानमपि निर्मूलम् । ततश्च
यदि द्वे अपि द्रव्यक्रिये विभक्ते न स्तः ततस्तयोर्लक्षणमनुपपन्न4590म्, अतश्च विभागेन लक्षणाभावात् तयोरभावः२९६-२
खपुष्पवत् । तदभावात् क्रिया कुतः तथाभवनक्रियासन्निधिलक्षणं द्रव्यं प्रवृत्तिसामान्यं वा कुतः तथाभवन
विनाभूतत्वात् खपुष्पवदेवेति । सर्वनिर्मूलता चैवमिति सन्निधिनिर्मूलत्वात् क्रियाया4591 अव्यक्तिर्भेदानाम
व्यक्तिश्च तया विनेत्यत आह --अव्यक्तिरपि असन्निहितत्वात् खपुष्पवत् ।


अथोच्येतेत्यादि । स्यान्मतम्--भावस्य प्रागुक्तवत् स्थित्युत्पत्तिल4592या अकल्पमानाः समनन्तरोक्त
दोषदर्शनात्, 4593न्निहिततथाभूतवस्तुतत्त्वव्यक्ति द्रव्यमेव उक्तवत् सम्मूर्च्छितसर्वप्रभेदं स्थित्यादिस्वाव4594
स्थमस्तु,
ताश्च स्थित्याद्यवस्थाः क्रिययाभिव्यक्तिं नीयन्त इति । अत्रोच्यते --एवं तर्हि सर्वप्रभेदनिर्भेदत्व
मसत्यं द्रव्यस्य,
ते हि स्थित्यादिभेदा द्रव्यस्यैव संवृत्ता इति निर्भेदत्वोक्तिर्व्याहन्यते । किञ्चान्यत्, क्रिया
याश्चाक्रियात्वम्,
सन्निहिततथाभूतवस्तुतत्त्वव्यक्तिः क्रियेष्यते, ते हि भेदाः क्रिययाभिव्यज्यन्ते चेद्
भेदाः प्रागपि क्रियाभिव्यक्तेः सन्ति, तथाभूतत्वात् क्रियाया व्यक्तिकरत्वाभावः । तस्माच्चाव्यञ्जनात् क्रिया
द्रव्यवत् खरविषाणवद्वा न क्रियेति । ततश्च द्रव्यस्याद्रव्यत्वात् क्रियायाश्चाक्रियात्वादशेषपक्षध्वंसित्वम्,
अनुपपन्नस्वावस्थत्वाद् द्रव्यस्य क्रियायाश्च खपुष्पवदभाव इति ।


अथैतच्चेदुभयं द्रव्यनिर्भेदासत्त्वादद्रव्यं सन्निहिततथाभूतवस्तुव्यक्त्यभावादक्रियात्वं च नेच्छति
भवान् सर्ववस्तुत्यागभयात् 4595तोऽविभागेत्यादि, अविभागावस्थत्वात्, विभागा भेदाः स्थित्याद्यवस्थाः,
तदभावाद् द्रव्यमविभागमित्यसदापन्नम्, मा भूद् द्रव्यस्य भेदात्मकस्याद्रव्यत्वमिति क्रियायाश्चाक्रियात्वम
व्यञ्जकत्वात् प्रागेव तथाभूतव्यक्तिव्यर्थत्वाद् मा भूदिति किमापन्नम् ? द्रव्यमविभागावस्थम् । तद्व्य-२९७-१

  1. दृश्णतां पं॰ २५ ॥

  2. ॰वंत्यततोऽस्यय॰

  3. ॰ष्टकृतत्वाद् प्र॰ ॥

  4. ॰न्नमतेतश्च प्र॰ ॥

  5. ॰या व्यक्ति॰ प्र॰ ॥

  6. ॰लयाः कल्पमानाःभा॰॰लयाः कल्ममानाः य॰स्थित्युत्पत्तिलयकल्पनायां ?

  7. ॰सन्निहितत्वात् खपुष्पवत् तथाभूतवस्तुतत्त्वव्यक्तिय॰

  8. ॰स्थस्तु प्र॰ ॥

  9. ऽतो॰भा॰अतो ?