764

भावः, समन्तात् प्रविशति एकतामन्यतामुभयतामनुभयतां च योऽर्थः स पर्यवः, पर्यवे
आस्तिकः पर्यवास्तिकः ।


उपनिबन्धनमस्य--तदुभयस्स आदिट्ठे अवत्तव्वं आता ति य णो आता ति यभगवती॰
१२ । १० । ४६९
इति ।


इति नियमभङ्गो नवमोऽरः ॥


किमेताः स्वमनीषिका उच्यन्त उतास्त्यस्योपनिबन्धनमा7921र्षमपि ? इति, अस्ति इत्युच्यते--४९४-२
उपनिबन्धनमस्य तदुभयस्स आदिट्ठे इत्यादि । 7922मा णं भंते रयणप्पभा पुढवी आता नो
आता ?
इति पृष्टे भगवद्वचनम्7923 --गोतमा ! सि+आ आता सि+आ णो आता । से केणट्ठेणं
भंते एवं वुच्चति सि+आ आता सि+आ णो आता ?
इति हेतुपरिप्रश्नः । भगवांस्तदुत्तरमाह
गो+अमा ! अप्पणो आदिट्ठे आ7924ता, परस्स आदिट्ठे णो आ7925ता, तदुभयस्स आदिट्ठे अवत्तव्वं
आता ति य णो आता ति7926
इति । एवमवक्तव्यत्वमात्मानात्मपर्यायाभ्यामादेशेऽत्र ज्ञापक
निबन्धनत्व उच्यते ।


इति नियमभङ्गो नवमोऽरः श्रीमल्लवादिप्रणीतनयचक्रस्य टीकायां
न्यायागमानुसारिण्यां सिंहसूरिगणिवादिक्षमाश्रमणदृब्धायां
समाप्तः ॥

  1. ॰माकर्ष॰ प्र॰ ॥

  2. पृ॰ ५५१ टि॰ १ ॥

  3. एतदन्तर्गतः पाठो य॰ प्रतौ नास्ति ॥

  4. आयाय॰

  5. आयाय॰

  6. येति प्र॰ ॥