740

पचारिकत्वं वक्रतायाः, नाङ्गुलेः, न हि वक्रत्वमङ्गुलिर्भवति अनुत्पन्नत्वात् खपुष्पवत् ।
भेदत्वाच्च रूपवत् ।


अत उक्तन्यायात् त्रिभुवनं भिन्नाभिमतमप्यभिन्नमेव द्रव्याश्रितत्वाद् भेदानाम् ।
पर्यायप्रवृत्तेः सर्वथैव भवनविध्यनुपपत्तिः ।


विशेषस्वरूपप्रत्यवेक्षायां भवनं स्वेनैव महिम्ना पृथग् वर्तते । तद् यदि पूर्वं
भवनमस्वतन्त्रं पृथक् चावृत्ति ततो निर्मूलत्वादसन् घटः खपुष्पवत् । नापि स
स्वयमेव भावः, विशेषप्रधानपक्षहानेः । नाप्यस्य भावः, ततश्च असत्त्वाविशेषात्


रित्यादि, यथा 7666ङ्गुलिर्वक्रा भवति इत्युक्तेऽङ्गुलेरवस्था वक्रताऽङ्गुलेः सामान्यस्य भेदा7667वस्थामात्र
मित्यौपचारिकत्वं वक्रतायाः, नाङ्गुलेः । यस्माद् न वक्रत्वमङ्गुलिर्भवति, वक्रत्वस्याऽनवस्थात्वा
दङ्गुलेः । अङ्गुलिरेव वक्रीभवति, न वक्रतैवाङ्गुलीभ7668वति । कस्मात् पुनर्न वक्रत्वमङ्गुलीभवति ?
उच्यते --अनुत्पन्नत्वात् खपुष्पवत् । एवं तावदयुगपद्भाविकालभिन्नाभिमतपर्यायेषु द्रव्यमात्रत्व7669मुक्तम् ।
युगपद्भाविदेशभिन्नाभिमतपर्यायेष्वपि भेदत्वाच्च रूपवत् 7670दवस्थामात्रम् इति वर्तते । यथा घट एव
चक्षुरादिग्रहणापदेशविशिष्टत्वात् रूपं रसो गन्धः इत्यादिभेदेनोच्यतेऽङ्गुलिर्वा, विज्ञानमात्रस्य तत्र
भेदत्वाद् वस्तुनो घटस्याभिन्नत्वात्, एवं पृथिव्यादिसामान्यभेदा घटादयोऽश्म-सिकतादयश्च
विज्ञानमात्रेणेति ।


किञ्चान्यत्, अत उक्तन्यायादित्यादि । अतीतविध्यादिद्रव्यार्थिकनयेषु एक-सर्वगत-नित्य
कारणवस्तुमात्रविजृम्भितं स्तिमितसरस्तरङ्गादिवत् त्रिभुवनं भिन्नाभिमतमप्यभिन्नमेव, द्रव्याश्रित
त्वाद् भेदानामवस्थादिसंज्ञानां पुरुषादिवादेषु प्रतिपादितत्वात् द्रव्यस्य पर्यायानाश्रितत्वाच्च ।
7671र्यायप्रवृत्तेरित्या7672दि, इति सर्वथैव भवनविध्यनुपपत्तिरेवं पूर्वातीतद्रव्यनयदर्शनेन ।


विशेषस्वरूपेत्यादि । तस्यापि च विशेषस्य स्वरूपं प्र7673त्यपेक्ष्यमाणमन्वयसामर्थ्यादृते न ल7674भ्यते,
तद्यथा--पूरयति पालयति कार्यस्यात्मनोऽवस्थादेः स्वरूपमिति कारणं भवनमन्वयः स्वेनैव महिम्ना४७८-२
पृथग् वर्तते भेदादृतेऽपि यथोपवर्णितमनेकधाऽतीतनयेषु । तद् यदि पूर्वं भवनमस्वतन्त्रं 7675पृथक्
चावृत्ति
यथा त्वयेष्टं स्यात् ततः किम् ? ततो निर्मूल7676त्वादित्यादि, निर्मूलत्वादसन् घटः खपुष्प
वत् ।
स्यान्मतम्--किं घटस्य मूलेन भवनेन ? किं न7677 स स्वयमेव भवति ? इति, एतच्च नापि स घटः
स्वयमेव भावः, कस्मात् ? विशेषप्रधानपक्षहानेः । यदि विशेष एव भावस्ततो घट एव विशेषः, स
एव भावो भवनम्, तेन भूयतेऽन्वयेन भावेनेत्यतस्तथाभावत्वाद् घटस्यापि भावमात्रं सा7678मान्यमर्थंर्थः ?

  1. अङ्गुलिर्वक्रीभवति इत्यपि पाठोऽत्र स्यात्, दृश्यतां पं॰ १० ॥

  2. भेदवस्था॰ प्र॰ । तदवस्था॰ इत्यपि पाठोऽत्र सम्भवेत् दृश्यतां पं॰ १२ ॥

  3. ॰भवतीतिभा॰

  4. त्वयृक्तम् प्र॰ ॥

  5. दृश्यतां पं॰ ८, पृ॰ ७३९ पं॰ २३ ॥

  6. पर्यायाप्रवृत्तेः ? ?

  7. ॰त्यादिः । अथ सर्वथैवभा॰

  8. प्रत्यवेक्ष्यमाण॰ ?

  9. लभ्येतोभा॰लभ्यते य॰

  10. पृथक्त्वावृत्ति यथा त्वयेष्टंभा॰पृथक्त्वावृत्तित्ते ?र्यथात्वयवेष्टं य॰

  11. ॰त्वादि निर्मूल॰य॰

  12. न स्वयमेवय॰

  13. सामान्यामर्थभा॰सामान्यमर्थं य॰सामान्यमेवं इत्यपि पाठोऽत्र स्यात् ॥