११ ॥ साकारसिद्धिशास्त्रम् ॥
प्रथमः परिच्छेदः
तथा हि बहिरर्थदूषणादिक्रमेण,
रूपं स्वतो नियमतश्च सहोपलब्धेः ।
न ग्राह्यलक्षणमतो मतिमात्र72b मेतत् ॥
गौरगान्धारमधुरसुरभिसुकुमारशातेतरादिचित्राकारं जगत् । तथा च सूत्रम्, 
		    विज्ञप्तिमात्रं भो जिनपुत्रा यदुत त्रैधातुकमिति, यदर्थं वार्तिककारः प्रयत्नपरम्परया 
		    बहिरर्थ एव साकारवादमुद्दीपयति । कथं तर्हि भाष्यकारोपज्ञमिदमुच्यत इति चेत् ? 
		    निराकारदिशान्यैर्योजितत्वात्, सत्तामात्रस्थित इवानेन प्रसाधित इत्युच्यते, न 
		    पुनस्तस्यैवोपज्ञेति ।
तत्रापरे प्राहुः । भवन्तु सितशातादयः प्रकाशैकस्वभावाः, स्वभावशून्यतां 
		    तु नातिवर्तितुमीशते । यदि युक्तिरेकानेकविरहलक्षणा बाह्यमसंभवि संभावयितुमुप
 
		    368  
		    नीयते, सा न विज्ञानस्वभावतामाबिभ्राणेभ्यः शुभ्रादिभ्यो बिभेति । तस्मात् सर्वधर्मशून्य
तैव ज्यायसी यथा प्रथितमागमे बहुशः । वार्तिकेऽपि, 
		    
इति । संवृतिमात्रं तु विज्ञाननीतिरिति ।
अत्रापरे समादधति । भवत्वाकाराणां बाधनादलीकत्वं प्रकाशमात्रं तु सत्य
माम्नायः, तदात्मवेदनस्य भ्रान्तत्वायोगेन प्रत्यक्षत्वात् । प्रकाशस्य प्रकाश एव निजं 
		    रूपमिति न तत् तस्य विप्लवोपनीतम्, येन तद्वेदनं भ्रान्तिः स्यात् । नीलं तु रूपान्तरत्वात् 
		    विप्लवोपनीतमपि स्यादिति स्यात्तद्वेदनं भ्रान्तिः । ततोऽस्ति नीलादौ बाधकस्यावतारो न 
		    प्रकाशे । कल्पितालीकयोस्तु निषेधो बोद्धव्यः सर्वत्रेति ॥
अत्र चिन्त्यते । कोऽयं प्रकाशो नाम नीलादिभ्यो व्यतिरिक्तः, अव्यतिरेके 
		    बाधाभयनिवृत्तेः ? न च व्यतिरिक्ते किञ्चित् प्रमाणमस्ति । न तावत् प्रत्यक्षम्, प्रकाश
मानरूपान्नोलादपरस्योपलम्भासंभवात् । न चानुमानम्, कदाचिदपि प्रत्यक्षतामननुभवतः 
		    केनचित् संबन्धग्रहणानुपपत्तेः । 
		    किं च,
व्यक्तमिदं शबरस्वामिदर्शनं शरणीकृतमिति किमत्र वक्तव्यम् ? तदयं दृश्यात्मा 
		    कुम्भादिभ्यो व्यतिरेकेणानुपलभ्यमानः सामान्यादिवन्न सद्व्यवहारगोचरीभवितुमर्हति । 
		    अन्यथा तेषामप्यनिषेधः,
कथं वा विषाणगुणकर्मादेर्निषेध इति यत्किञ्चिदेतत् । अथ नीले बोधरूपे 
		    प्रतीयमाने नीलबोधात्मनोः प्रतीतिरशक्यापह्नवेति न सिद्धानुपलब्धिरिति चेत् ? तर्हि 
		    गवि शाबलेये प्रतीयमाने उभयात्मप्रतीत्या प्रत्यवतिष्ठमानः कथं निषेध्यः ? पृथक्प्रतीत्य
 
		    369  
		    भावस्तु साधारणः । अविद्यावशात् प्रकाशनीलयोरपृथक्कथनमिति चेत् ? गुणद्रव्ययोरप्येवं 
		    भविष्यति । यदि समवायनिषेधे निर्बन्धः, किमविद्यावशात् पृथगदर्शनमथाभावादेवेति 
		    सन्देह उभयोरपि शक्यः । तदेव तस्य दर्शनमिति कर्मादेर73a पि शक्यम् । तृणाग्रे 
		    करिशतस्य वा, 
		    
तस्मात्,
सितादिभेदेषु निरंशभासिषु ।
सितादिबाधे किमबाधसंभवः ॥
किं च,
मायागोलकयोर्ह्यत्यन्तसादृश्येनैकबुद्धिर्भिन्नकाल एव, एकदा तु भिन्नदेशयो
र्भेदनिश्चयनान्तरीयक एव पटुराभासभेदः । तस्माद् देशभेदे निर्विबन्धः प्रतिभास
भेदस्तन्निश्चयश्च ।
ननु वातातपयोर्देशाभेदेऽपि स्वभावभेद इति चेत्—न, तयोरवयविरूपतया 
		    उत्पत्तेः, एकघनाकारयोः सप्रतिघयोरन्योऽन्यदेशनिवेशः । परमाणुनिकरस्तु व्यतिकरमा
सादयति । तथा च सति,
ततो यथा स्वभावभेदस्तथा देशभेदोऽपीति न देशो नामान्यः स्वरूपात् । ततस्तदभेदे 
		    स्वरूपाभेद एव प्रकाशस्यापि ।
स्थूले वा प्रतिघेऽपि देशभिदया दोषस्तथैव स्थितः ।
प्राप्तेस्तद्वशतः सितादिनि ततो यावत् प्रकाशस्थितिः ॥
यावद्देशो हि नीलाद्याकारस्तावद् व्याप्तिविरहे खण्डप्रतिभासनप्रसङ्गो नीलादौ 
		    तद्वशतः पृथगिष्टप्रकाशवशात् । ततो यावत् प्रकाशनं सितादेस्तावत्तस्य प्रकाशाख्यस्य 
		    स्थित्या भाव्यम् । ततस्तावद्देशव्यापिनस्तस्यापि नीलस्येवावयविपरमाणुरूपचिन्तायां 
		    पुनः साधारणदोषान्न मुक्तिः । तस्मान्न नीलादिनिषेधे कस्यचित् स्थितिर्भेदस्यैवाभावात् 
		    प्रतिभासभेदाभावादिति ॥
अथ क्षणयोरभेदभासनेऽपि यथा भेदसिद्धिर्बाधकात्, एवमिहापि । यथा हि 
		    कार्यविशेषस्य भावाभावावन्यथानुपपद्यमानौ तयोर्भेदसाधनौ तथा बाधकस्य भेदेन वृत्तिः 
		    प्रकाशनीलयोरपि । ततो बाध्यान्नीलादबाध्यः प्रकाशो भिन्न एवेति चेत् ? उच्यते, 
		    अबाध्यता नाम पर्यदासप्रसज्यभेदेन द्विधा । पर्युदासोऽपि प्रकृतव्यक्तिविषयः अस्पृश्यादि
वद्बाधान्तरमेबोपनयेदिति, अब्राह्मणक्षत्रियवज्जातिपर्युदासात् ।
प्रमित्योर्नैकापि स्वविदि भिदुरायां प्रभवति ।
पदे संदेहस्य प्रथयतु कथं भेदममुतः ॥
प्रसज्यप्रतिषेधपक्षे हि बाधास्फुरणमात्रमबाधार्थः । 73b  तच्च सन्दिग्ध
सत्ताकेऽसत्यपि समानम्, कथं ततो नीलादेर्भिन्नवस्तुरूपतां प्रकाशस्य साधयेत् ? 
		    नीलादिबाध्यमबाध्यस्तु प्रकाश इति भिन्नरूपसिद्धौ कः सन्देह इति चेत् ? नैबम्, 
		    अबाधाया बाधकास्फुरणमात्रत्वात्, सत्तासन्देहे बाधितादपि नीलाद्भिन्नरूपसिद्धेरयोगात् । 
		    अतएव पदे सन्देहस्येत्युक्तम् ।
क्षणभङ्गे तु बाधकान्तरबलादशक्यस्तत्परिहारः । नैतादृशासारसाधनप्रत्याशा । 
		    न च तद्वदत्रापि शक्यमभिधातुम् । तत्र हि कदाचिन्मधूदकाहरणादिवत् स्थूलकाला
पेक्षयाध्यक्षेण व्यवहृतोऽर्थक्रियाशक्तिक्रमः कदाचिदशक्योऽपि क्षणापेक्षया सामर्थ्या
 
		    371  
		    यातः स्वभावभेदं वेदयेत् । सकलक्रियाक्षयिणि क्षणेऽभावप्रसङ्गात्, कृतस्य कर्तुं न 
		    शक्यत्वात् ।
सोऽयं कार्यक्रमो न कारणक्रममतिक्रमितुं क्रमत इति युक्तम् । न च तथेह 
		    प्रकाशमात्रसाध्यं किञ्चित् सिद्धमध्यक्षतः, सामर्थ्यायातं वेति । न चापोद्धारेण कार्य
भेदव्यवस्थापितोऽप्यात्मभेदः सकृदभेदभासिनि तात्त्विको भवितुमर्हति विकल्पमात्र
निवेशिनोऽन्यत्र, प्रदीपे तमःक्षयावकाशपिञ्जरणोपयोगिप्रकाशपिशङ्गरूपवत् । अभिन्ना
वभासिनि चेयं चिन्ता । न च क्षणानामभेदावभासनम्, सकलकालकलाव्यापि
रूपप्रतिभासस्य सकृदेव पर्यवसाने सर्वस्य त्रिकालालोकप्रसङ्गात् । न चैवमध्यक्ष
व्यवहार्योऽपि कार्यभेदो भावाभावदशाभ्यां कारणभेदाय प्रभवेत् । एकीकृत्य 
		    ग्रहणे हि य एवैकक्षणे भावोऽभावो वा कार्यस्य स एव क्षणान्तरेऽपि, विवेका
भावात् ।
तस्मात् क्षणमात्रस्थायिनैव रूपेण यथास्य विषयो जनकस्तथेदमिन्द्रियज्ञानमपि 
		    तदनुकारि तेनैव रूपेण ग्राहकम् । अवसायस्तु तद्व्यापारं तिरयति । अत्र तु प्रतिभास 
		    एवाभेदेन स्फुटतरोऽनुभूयते । तथापि भेदकल्पने किमपराद्धमुपाधिसहस्रेण ? न 
		    चानुपलब्धेरन्यद् वारकं नामेत्युक्तप्रायम् । तदियमबाधा दृश्यानुपलब्धिसंभवे प्रति
ज्ञायमाना स्वयमेव विशीर्यते नोत्तरान्तरमपेक्षत इति ।
वर्गधर्मस्त्वाश्रीयमाणो न चक्रकमतिक्रामति ।
परेण परसंविदोऽन्यत्र विस्तरेण निरस्तत्वात् । असत्त्वान्न परमिति चेत् ? 
		    मा भूत् परत्वम्, स्वत्त्वं संभवतीत्येतावतैव तेन वेदनसिद्धेर्नापरमुपयोगि, स्वविन्मात्र
 
		    373  
		    रूपत्वात्तस्य । कल्पिततादात्म्यन्न दोष इति चेत् ? बालप्रतारणमेतत् । प्रतिभासादेव 
		    हि तादात्म्यकल्पनम्, तत्कृतश्च प्रतिभास इति व्यक्तमितरेतराश्रयत्वम् ।
न प्रतिभासनात् कल्पनम्, अपि तु प्रतिभासावसायादिति चेत् ? सोऽपि 
		    प्रतिभासावसायः प्रतिभासादिति चक्रकमस्तु, तादात्म्यकल्पनातः प्रतिभासस्ततस्तदव
सायस्ततस्तत्कल्पनमिति । तत्कल्प नमपि न तादात्म्यकल्पनातः, किं तु कल्पना
विषयीकृतं यत्तादात्म्यं तत इति चेत्—न, तस्य कल्पनातः प्रागभावात्, अन्यथा 
		    कल्पितत्वानुपपत्तेः । न च कल्पितं क्वचिदर्थक्रियायामुपयुज्यमानमुपलब्धम्, तथात्वे 
		    सत्यताया एव प्रसक्तेः ।
एतेनालीकतादात्म्यकीर्तनमपि प्रत्युक्तम्, क्वचिदुपयोगेऽलीकत्वस्याप्यनुपपत्तेः । 
		    अन्यथा नाममात्रक्रियायां निषेधानिर्बन्धात् । क्वचिदुपयोगिनः प्रकाशमानस्यापि 
		    बाधनादलीकत्वमविरुद्धमिति चेत् ? प्रकाशस्य न तर्हि बाधितुमशक्यत्वात् क्वचिद् 
		    उपयोगमपि यदि न बाधते बाधकं किमवश्यं बाधकमभिधेयमिति कुतोऽलीकतादात्म्यस्य ? 
		    अथ सामर्थ्यादर्थशक्तिं बाधते न साक्षात् ? भवतु किमत्र निर्बन्धेन शक्तिबाधायाः 
		    सिद्धत्वान्नालीकमुपयोगि तादात्म्यमिति स्थितम् ।
यदप्युच्यते । विज्ञानमेव प्रकाशरूपत्वात् प्रकाशमा74b नमनादिभ्रान्ति
वासनोपप्लवत्वाद् भ्रान्तमलोकैर्नीलादिभिराकारैः प्रख्याति स्वप्नादिवदिति, तदपि एतेन 
		    प्रतिव्यूढम् ।
नीलादिव्यतिरिक्तस्य विज्ञाननाम्नोऽनुपलब्धेः प्रक्रियाघोषणामात्रमेतत् । साध्य
शून्यः स्वप्नदृष्टान्तश्च । अपि चैवमलीकतया कारकशक्तेरभावान्नीलादिरिति इत्थंभूत
विवक्षायामपि सहप्रख्यानमात्रमर्थ इति व्यक्तमुक्तस्तत्प्रकाश्यताविरहः । तत् कथं 
		    स्वसंवेदनातिक्रमः ? अथाविद्यावासनावशात् तथा ख्यातीति तत्प्रकाश्यतैव भविष्यतीति 
		    चेत् ? एवं सत्यविद्याहेतुरेव स्यान्न प्रकाशिका । प्रकाशरूपस्य तु तस्य तस्याः सकाशा
दुदयः, प्रदीपस्येव स्वहेतोरिति कुतः स्वप्रकाशनाशः ?
एवमपि परप्रकाश्यताव्यवस्थायां चानुभवस्यापि प्रसङ्ग इति न किंचित् 
		    स्वप्रकाशं नाम । तथाप्यसंभवादेव स्वसंवेदनान्न क्वचित् सत्तासिद्धिः । तन्नायं न्यायः, 
		    प्रकाशरूपजनकापेक्षया क्षयः स्वसंवित्तेरिति, एवं नीलादेरपीति सिद्धा स्वसंवित्तिः । 
		    अथानीलस्यालीकत्वान्न कार्यता ततः प्रकाशनमात्रमविद्यया प्रकाशेन वा, अनुभवस्य 
		    374  
		    तु वस्तुत्वात् समनन्तरप्रत्ययेन जननमेवोच्यत इति चेत् ? तदपि यत्किञ्चित् । अनुभवोऽपि 
		    हि स्वसंवेदनादेव वस्तु ततो नीलस्यालीकत्वं नाम तदभावात्, तदभावश्चालीकत्वात् 
		    कार्यतापरिपन्थिन इति ॥
अपि च, नीलमलीकमस्तु न वा, कार्यता तु कथं वार्यते ? अपेक्षितपरव्यापारो हि 
		    स्वभावनिष्पत्तौ भावः कार्य उक्तः ।
एवं देशाद्यनियमोऽप्युपलक्षणीयः । न चान्यस्यापि कार्यताव्यवहारनिबन्धनम् 
		    अन्यदस्ति देशकालप्रतिनियमसिद्धां परायत्ततामवधूय । अन्यथा चानुभवस्यापि मा भूत् । 
		    तदयं श्रद्धामात्रविषयस्य तादृशादेव जन्मजल्पनं दृष्टात् कुतश्चिदाकारान्तरस्य दृष्टानुत्पत्तिं 
		    प्रतिक्षिपतीति किमत्र ब्रूमः ? एतेनाभूत्वाभावेऽपि शक्त्यभावान्न कार्यत्वमिति निरस्तम्, 
		    उक्तक्रमेण शक्तिव्यवस्थानात् । श्रद्धाविषयस्य तु चिन्त्यतामदर्शनात् । मा भूत् शक्तिः, 
		    परापेक्षोदयतया कार्यत्वं तु किं निवर्तते, अतद्व्यावृत्तेरनपायात् ?
अथ वस्तुधर्मः कार्यत्वम्, न च शक्तिमन्तरेण वस्तुत्वम् । तर्हि शक्तिरप्यस्तु, 
		    तद्व्याप्तवस्तुधर्मकार्यत्वस्य दर्शनात् । शक्त्यभावात् तदेव नास्तीति चेत्—न, असिद्ध
त्वात् । कार्यत्वे तु न सन्देहः कार्यान्तरवत् । तस्माद् यदि शक्तिकार्यत्वयोः प्रतिबन्धः 
		    शक्तिरनुमीयमाना क्वचिदस्तु नानूहमात्रेण प्रतिक्षेपः । प्रतिबन्धाभावे तु सिद्धं कार्य
त्वम् । अतः कथमुच्यते नीलस्याकार्यत्वात् 75a  प्रकाशमात्रहेतुभिः यतो न 
		    स्वसंवेदनमिति ।
किं च प्रकाशनमात्रं कस्यचित् केनचिदित्यप्रतीतोपादानान्तरसंभवे पूर्वापरक्षणा
नामभेदाध्यवसायाद् घटादिवदालोकेन स्यादपि वक्तुम्, अलीकाभिमते तु कीदृशी 
		    दुर्गृहीतिरियम् ? अपूर्वोत्पत्तिस्तु न विरुध्यते केवलं नीलतयेव प्रकाशतयापीति । मा भूद् 
		    वा सर्वथा कार्यत्वम्, तदापि परापेक्षानियमे परप्रकाश्यताशङ्कापि स्यात् । सर्वथा 
		    निरपेक्षत्वे निःसंशयः स्वयं वेदनाभावः सर्वाकाराणाम् । तत्र च बाधसन्दर्शनेऽन्यत्रापि 
		    सिद्धः सत्ताश्वासविरहः । अथवा,
बाध्यमानमेव नीलमारोपितमाहुः । तदा बाध्यताया एव फलमनारोपितत्वं 
		    कथमबाधसिद्धये प्रभवेत् ?
यथा हि प्रकाशस्य प्रकाश एव रूपम् न तु तस्य विप्लवोपनीतमित्युच्यते, तथा 
		    नीलस्यापि नीलतैव रूपं न तत् तस्य विप्लवोपनीतमित्युच्यमानमपि न वक्त्रं वक्रीकरोति । 
		    न च न्यायस्य विभागेन वृत्तिः, यतः एकमुपादेयं हेयमन्यदिति स्यात् । अथ प्रकाशमन्तरेण 
		    न नीलस्थितिः, नीलमन्तरेणापि न प्रकाशस्थितिः । पीतेऽस्तीति चेत् ? अस्तु, न तु 
		    नीलधर्मः । प्रकाशशब्दसाम्याच्चेत् ? तर्हि पीतधर्मप्रकाशापेक्षया प्रकाशविनाकृतस्यापि 
		    नीलस्य स्थितिरपह्नवस्य विषयः ।
ततस्तस्य तदेव रूपमिति नेयं प्रकाशैकनियता कल्पना, यतस्तस्यैवानारोपितत्वेन 
		    बाधावैधुर्याश्वासः । उभयोस्तर्हि परस्परं व्यभिचारादनायाससिद्धो भेदः सिध्यतु । 
		    नीलोत्पलं च निदर्शनं स्मारयामः, वस्त्रोदकस्य निदर्शयितुमशक्यत्वात् । स्थितिप्रच्युति
लक्षणयोरिव विरुद्धयोर्धर्मयोरुद्दिष्टाधारयोरनुपलब्धेरेवेति भवन्त एवात्र प्रमाणम् । 
		    तदलमभिनिवेशवशतया । तस्य तदेव रूपमिति श्रद्धेयस्य,
सत्यत्वं नीलस्य, केवलं स्वरूपनिर्भास एवास्य सत्तासिद्धावधिकोऽपराधः । 
		    किं चापूर्वोऽयमुपायस्तस्य तदेव तत्त्वमिति बाधाविधूतये । बाध्यमपि हि प्रधान
सामान्यादि, 
		    
नीले प्रकाशे वा । यदि परमसिद्ध्यादिदोषस्य विभागेन वृत्तौ विभागः, न तु तदेव
तत्त्वमिति कृत्वा । किं च,
आरोपितत्वं जलवत् कल्पित एव व्यवह्रियते केवलं बाध्ये । प्रकाशमानं तु 
		    बाधितमलीकमपि व्यपदिशन्ति, द्विचन्द्रवत् । ततो यदि दृश्यमप्यारोपितमिति 
		    वक्त75b व्यम्, उच्यताम् । दृश्यमेवारोपितमिति तु कुत एतत् ? तस्मान्न कल्पितमारोप
परिहारेण व्यवस्थितं प्रमाणसिद्धादन्यत्र । अतः प्रमाणेन सिद्धिर्बाधा वा निरूपणमर्हति । 
		    न तु तस्य तदेव तत्त्वमित्येव बाधोद्धूतिः सिद्धिर्वा ।
तदयमपि विभागः क्रियमाणो नीलादयः संवृतिसन्तः प्रतीयमानत्वेऽपि बाध्य
मानत्वात् । नीलादिप्रतिभासं तु प्रकाशशरीरं विज्ञानं परमार्थसत्, बाधकायोगात्, 
		    प्रमाणसिद्धशक्तियोगाच्चेति हस्तसमारचित एव प्रतिभाति । नीलव्यतिरिक्ते हि प्रकाशे 
		    नीलवद् व्यापकानुपलम्भस्य पक्षधर्मोपसंहारो नानिच्छामात्रेण निवर्तेत इत्याद्युक्तम् । 
		    बाधा च प्रकाशाभिमतस्याप्रकाशात् कीदृशी परेत्यपि । तथा शक्तिरप्याकारगोचरैव 
		    इत्यनन्तरम् ।
व्यतिरेकश्चायं कृतकानित्यत्ववत् कल्पनामात्रोपनीतः प्रतिभाति, न साक्षान्नि
र्भासी । यमलकवत्, द्विचन्द्रवद् वा । भिन्ने च प्रतिभासमाने धर्मिणि शक्यमधिगन्तुमत्र 
		    धर्मोऽयं संभवी, न संभवी चात्रेति । विशेषतो व्यापकानुपलम्भस्य विपर्ययेण वस्तुधर्मस्यै
वोपनेयत्वात् । सर्वश्च भेदसाधनो व्यवहारसाधन एव, विरुद्धधर्मसंसर्गमन्तरेण क्वचिदपि 
		    भेदासिद्धेः । अन्यथा न क्वचिदभेदो नाम विरुद्धौ च धर्मौ न कल्पनामात्रेण भिन्तः । 
		    प्रमाणतश्च भिन्नाधिकरणावेव प्रत्येतव्यौ, निराधारयोः भिन्नाधारयोर्वा प्रतीतौ न 
		    प्रमाणाप्रमाणयोरन्यतरव्यापारो विरोधसिद्धिर्वा । भिन्नधर्मिणोश्च तयोः सिद्धौ कोऽपरो 
		    धर्मिभेदसाधनव्यवसायः ?
अतएव व्यवहारसिद्धिर्मुखं प्रतीति निर्णयः । तत्र धर्मिभेदसिद्धिः क्वचिद् देशभेदेन 
		    गोलकवत्, क्वचित् कालभेदेन । यदधिकारेणोच्यते, अत एव तयोरवस्थयोः वस्तुभेदो 
		    निश्चेय इति । न हि तत्रापीयं कुशूलावस्था, इयं क्षेत्रावस्था चेति । कालभेदेनानुपदर्शने 
		    करणाकरणाभ्यां भेदः शक्यदर्शनः ।
तावता च भेदसिद्धिरवसितेति क्रियाक्रियोपन्यासो व्यवहारसाधन एव । यत्र 
		    तु न देशकालाभ्यां भेदोल्लेखः, तत्र प्रतिभासभेद एव शरणमिन्द्रियभेदो वा । 
		    पानकस्य रूपरसादिवत्, चार्वाकस्य स्वाभ्युपगम इव बुद्धिशरीरयोः । स हि शैलादि
विकल्पं करचरणाद्याकाराच्छरीराद्विसदृशमनुदाहरणे केनाकारेण शैलादिविकल्पतां 
		    377  
		    स्फुटयेत् ? यत्र तु प्रतिभासभेदगन्धोऽपि नास्ति कल्पनाकारादन्यस्तत्र नीलोत्पलादि
वदभेद एव तात्त्विकः । 
		    
इत्यन्तरश्लोकः ।
तस्माद् बाधाबाधलक्षणविरुद्धधर्माध्यासो धर्मिणः प्रतिभासभेदमन्तरेण न 
		    भेदव्यवहाराय प्रभवति । केवलं भेद76a साधनं सत्तासाधनरूपत्वान्न त्रयीं दोष
जातिमतिपतति । यदप्युच्यते, यद्येन रूपेण नैकं नानेकं, न तत् तेन सत् । तद् 
		    यथा दुःखं सुखरूपेण । नैकं नानेकं च विज्ञानं नीलादिरूपेणेति व्यापकानुपलब्धिरिति, 
		    तदपि हृदयपरितोषमात्रमेतेनैव निरस्तम् । तथाहि न विज्ञायते न विजानातीति वा 
		    व्यापारनिबन्धनं विज्ञानत्वमिष्टमन्यत्र निषेधात्, किं तु स्वप्रकाशतास्वभावम् । स 
		    च प्रकाशस्तेनात्मना असन्निति न तादात्म्यनिषेधमात्रमभिमतम्, किं तु स्वेनात्मना 
		    सन्नेवेति ।
अनेन तद्वद् दोषानवतारादित्यप्याक्षिप्तम् । अन्यथा न व्यतिरेकसिद्धिर्बन्ध्या
सुतेऽपि व्यवच्छेदमात्रेण प्रसङ्गात् । ततश्च बाधाबाधाभ्यामेव भेदसिद्धिरित्यस्मान्न 
		    कश्चिदतिरिक्तोऽर्थ उपात्त इति तेनैव गतमेतत् । तथापि किञ्चिदुच्यते । इहाकार
व्यतिरिक्तप्रकाशसाधनप्रकरणेऽप्रतिभासमान एव वा प्रकाशोऽनुमानेन साधयितव्यः, 
		    प्रतिभासमान एव वा आकाराद् व्यतिरिक्तो विधातव्यः, उभयथापि तु विधिसाधना
धिकारे कः प्रस्तावो व्यापकानुलम्भस्य ? तदाहितेन रूपेण सत्त्वेऽपि स्वरूपेण यदि 
		    असत्त्वशङ्कायाः न निवृत्तिः शृङ्गस्येव कुतो भेदसिद्धिः ?
अथ तयोरभावो भावान्तरस्वभाव एवाभिमतः तदा स्वभावहेतुरेव प्रयोक्तव्यः, 
		    विधिविषयत्वाद् विवादस्य । यदा तु तदभावेऽपि तत् स्यादिति संशयीत कश्चित्, 
		    तन्मात्रे युक्तो व्यापकानुपलम्भः । न चैकानेकवियोगेऽपि सत्त्वशंकायाः प्रस्तावः । न 
		    च विपर्ययविवक्षायां क्षेमः । तदा हि यद् येन रूपेण सत्, तत् तेन एकमनेकं वेति 
		    दर्शनीयम् । न चात्र दृष्टान्तः पक्षधर्मोपसंहारो वा शक्यनिर्वाहः । न हि प्रकाशमात्रं 
		    क्वचित् सिद्धमन्यस्य चासत्त्वादिति कुतो दृष्टान्तः, क्व पक्षधर्मोपसंहारो वा, अन्य
साधनाभावात्, तत्साधनत्वे वा अनवस्थाप्रसङ्गात् ?
प्रकाशश्च प्रकाशरूपेण सन्निति पक्षधर्मोपसंहारकाले वा नाप्रकृतोपालम्भ
परिहारः । न हि स्वरूपेणैकानेकत्वे विवादः । किं त्वाकारेण सह भेदाभेदे । एका
नेकत्वविवादिनो वा सत्त्वसिद्धिरिति कुतः ? शक्त्यभावादेव तर्हि नीलादिरसन्नेका
नेकत्वेऽपीति किं तदुपन्यासप्रयासेन, तदभावेऽपि प्रसज्यशक्त्या सत्त्वव्यवस्थापनात् ? 
		    अन्यथा तत्संशये च कथमवस्थापयेत् ? सा च चिन्तयिष्यते ।
अथ तेनैकानेकभाव इति स्वरूपेण एकानेकभावः, ततस्तेनैव सत्त्वमित्यभि
मतम् ? तदापि किं पुनरस्य तत्स्वरूपं येनैकानेकतायोग इति प्रश्ने यदीदमेव तर्जनी
निर्देशयोग्यमिति उच्यते, तदा नीलमेतदिति न तेनैकानेकं विज्ञानमिति प्लवत एतत् । 
		    अथान्यत् ? तन्न सिद्धम् । सिद्धौ वा किमनेन ? स चौपालम्भस्त76b दवस्थः । 
		    भिन्नस्य हि सिद्धावेव विवादः, न तु तस्मिन् सिद्धेऽपि किं पररूपेणापि तस्य सत्त्वम् 
		    इति प्रस्तावः ।
अथ सिद्ध एवायं प्रकाशो धर्मी, तस्य नीलादिरूपेणासत्त्वसिद्धौ सामर्थ्यलब्धो 
		    भेदः, तावता च सिद्धमभिमतमतो न विधेरनुरोध इति व्यापकानुपलम्भ एव प्रकृतोप
योगीति चेत् ? महतीयं वैदग्धी, केवलमविद्यापि नीलादिना असन् प्रकाशो यदि 
		    स्वेनापि रूपेण तथा, तदा का भेदसिद्धिः ? ननु तस्यासत्त्वाशंका नास्त्येव, स्वसंवेदन
प्रत्यक्षसिद्धत्वात्, स्वभावे भ्रान्त्यभावात् । भेदे एव हि विवादः । तादृशी तर्हि सिद्धिः 
		    नीलस्यापि कथं बाधा ? प्रकाशस्य प्रकाश एव रूपमित्यादाबुक्तमेव । शक्यं च 
		    नीलप्रकाशस्य नीलप्रकाश एव रूपमित्यादि वक्तुम् । ततो भेदाधिक्षेपेऽपि2543 यदि 
		    स्वानुभवो बाधकमनवकाशीकुर्वन् प्रकाशसत्तां साधयेत्, तथापि किमनेन ? तथा 
		    अशक्तावपि किमनेन, नीलवत्तत्रापि हस्तकत्यागावर्जनात् भेदासिद्धेः ?
अथ परस्य परमार्थसत्त्वेन सिद्धः प्रकाशो भेद एव विवादस्ततः सन्नेव प्रकाशो 
		    न नीलात्मनेति साध्यसिद्धिः । सर्वोपायपरिक्षीणन्यायपर्यवासना तर्हि वैदग्धी । 
		    तदेतदात्मवादिनो घटनैरात्म्यसिद्धिन्यायेन हेलामर्हति । किं चास्मिन् साधनेऽभेदाव
भासिनोरनुभवाकारयोर्भेदः प्रतिज्ञार्थः, तद्रूपेण एकानेकविरहो हेतुः । न चास्य यथोक्त
साध्येनान्वयो दृष्टान्ते दर्शयितुं शक्यः । तत्रापि दुःखाद्याकारव्यतिरेकिणः प्रकाशस्य 
		    असिद्धेः । सिद्धावपि यथा शातमशातेनेति न वक्तव्यम् । यथा दुःखानुभवो दुःखा
द्याकारेणेति युक्तम् ।
अन्यथा ह्याकारान्तरपरिगृहीतप्रकाशस्याकारान्तरेणासत्त्वख्यापने तदपेक्षयैव 
		    भेदः स्यात् । ततश्च साध्यकाले नीलाकारस्य पीतानुभवाद् भेदः सिध्येत् । ततो यदि 
		    स्वप्रकाशापेक्षो भेदो दृष्टान्ते नोपदर्शयितुं शक्यः साध्योऽपि कथं भविष्यति, अन्वयस्य 
		    एवाभावात् ?
यद् येन नैकानेकमिति सामान्येनान्वयोऽत्रोक्त इति चेत् ? तदसत् । यतः,
तदेतदपि चक्षुरादिपारार्थ्यसाधनादिना समानम् । अथवा यद् येन नैकानेकम् 
		    इत्यत्र यदभिन्नाभासि येनावभासिनेति विवक्षितम्, अथ सामान्येनेति विकल्प्य,
सुखदुःखयोरिव नीलपीतानुभवयोरपरस्पररूपतया तेनात्मनासत्त्वाकृष्टभेदसिद्धेः, 
		    अभेदग्राहिणस्तु प्रत्यक्षस्योभयत्रापि न क्षतिः । शेषमस्मद् बृहदीश्वरवादवत् । अपि च यदा 
		    प्रकाशश्च नैकानेको नीलादिनेति पक्षे हेतोरुपनयः, तत्र कोऽयं प्रकाशो नाम, प्रकाशनम्, 
		    प्रकाशत इति वा ? अथार्थान्तरमेव किञ्चित् प्रकाशशब्दाभिधेयं प्रकाशयतीत्यादिव्यापारा
पेक्षया व्यवस्थितेर्निरस्त77a त्वात् ?
प्रथमपक्षे प्रकाशमानानां नीलपीतादीनां प्रकाशो नाम धर्ममात्रमेतत्, 
		    भेदान्तरप्रतिक्षेपेण भिन्नवदाभासमानमपि कल्पनाबुद्धौ न धर्मिरूपविघटने तटस्थम् 
		    आसितुं शक्तम्, तत् कुतस्तत्त्वतो भेदसिद्धिः ? न हि धर्मिरूपमुद्धूय धर्माणां क्वचिदपि 
		    सत्त्वमस्ति, गुणकर्मादिवत् । कर्तृसाधनपक्षे तु नीलादिरेव प्रकाशत इति तस्यैव तेन रूपेण 
		    शून्यतेति पूर्ववत् ।
अर्थान्तरपक्षे च यदि प्रकाशत इति सान्वयपदं, तदा नीलादिव्यतिरिक्तस्य तस्य 
		    दृश्यानुपलब्धिबाधितस्य तेनात्मनासत्त्वेऽपि न साध्यसिद्धिः । निरन्वयनाशपक्षेऽपि न 
		    प्रमाणसिद्धिः, तत्र च व्यवच्छेदमात्रयोः साध्यसाधनभावाश्रयादाश्रयासिद्धिपरिहारेऽपि न 
		    प्रकृतोपयोगः । अथायमेव प्रतिविदितः प्रकाशो धर्मी । ननु प्रतिविदित इति प्रतिभासमानः 
		    स च नील एव, न तद्व्यतिरिक्तः कश्चित् ।
ननु तद्व्यतिरिक्तसाधनायैव यत्न एषः, कथं प्रथमतस्तत्प्रार्थनमिति चेत् ? 
		    किमपि साध्यमस्तु भवतः, साधनाधारस्तु निष्ठितस्वरूपो दर्शनीयो यदि प्रकाशो नाम 
		    380  
		    वस्तुरूपो धर्मी संमतः । यदि तु साध्यसाधनयोर्व्यवच्छेदमात्रतानुरोधात् अवस्तु 
		    संदिग्धवस्तुभावो वा धर्मी, तदा नायं नियमः । प्रकृतसिद्धिस्तु दूरे । अथ प्रकृतसिद्ध्यनु
रोधाद् वस्तुभूतः प्रकाशो धर्मी, तदा निष्ठितस्वरूपः स्वीक्रियमाणो नील एव स्यात् । तत्र 
		    रूपं रूपस्वभावेन शून्यमित्यायातम्, तथापि न प्रकृतसिद्धिः । न च तेन शून्यतयान्येन 
		    स्थितिरित्यनाकारप्रत्याशा । मा भूदन्यरूपेणान्यस्य शून्यतया सिद्धसाधनशंकेति तावतापि 
		    तेनेत्यस्य चरितार्थत्वात् ।
साकारनये वा तैमिरिकदृष्टचन्द्रद्वये चन्द्रद्वयरूपशून्यतावदध्यवसितबाह्यनिषेध 
		    एषः । सर्वत्र चारोपितस्यैव निषेधात् सर्वत्र च स्वाकारे बहिरारोप एव पृथग्जनस्य, 
		    अन्यथा तत्त्वहानेरिति । तस्मान्न नीले धर्मिणि प्रकृतसिद्धिः । अथ किमनया विशेष
निष्ठया, प्रकाशो नाम सामान्येन धर्मी मतः । विशेषनिष्ठया च साध्यावधूतेः साधनो
पन्यासप्रतिबन्धप्रसङ्गात् । न च साध्यमनभिसन्धाय साधनप्रयोगः कस्यचित् । नापि 
		    निरस्तसाध्यो धर्मी क्वचित् क्रियते, सिद्धसाध्यवत् । अतो न विशेषनिष्ठायां भरः । 
		    भवतु वा सापि ।
अयमेवासौ पुरःप्रकाशो नाम नीलेन सह यस्य पृथग्भावे सांशयिकोऽसीति 
		    भवतु दोहदोपरमः । दृष्टश्च व्यावृत्तिभेदेन धर्मधर्मिभावो यथा स्वभावहेतौ तदेका 
		    व्यावृत्तिर्धर्मिणी, अन्यया सह पृथग्भावः साध्य इति न कश्चिद्दोषः । तदप्यसंगतम् । 
		    यतः
सामान्याकारमन्तरेण हि प्रतिबन्धबोधस्याशक्यत्वात्77b  प्लवमानरूपयोः 
		    साध्यसाधनयोर्धर्मिस्वरूपनिष्ठयैव तत्त्वस्थितिः, न तु धर्मिरूपस्यापि प्लवमानतायां 
		    व्यावृत्तिमात्रेण, इदं च तथेति शाखिशब्दादेः स्वलक्षणानुपदर्शनेऽप्रतीतेः । व्यावृत्ति
भेदस्तु भेदव्यवहारार्थमपेक्ष्यते, न धर्मिसत्तार्थं, व्यक्तिविशेषनिष्ठतयाप्रतीतौ तस्या 
		    एवासिद्धिप्रसङ्गात् । यथा चायं शाखादिमान् श्रवणग्राह्यो घटादिशब्दो बाधधर्मीति 
		    स्वलक्षणे धर्मिणि प्रतीतेऽपि विरोधाभावात् वृक्षक्षणिकत्वादिसंदेहे साधनानुसारः, तथा 
		    न प्रस्तुतेऽस्त्यवकाशः ।
तथा हि यावदेवायमिति तर्जनीनिर्देशयोग्यो धर्मी नीलतया उपनीतस्तावतैव 
		    भेदसन्देहप्रच्युतेर्न साधनावतारः, तन्नीलरूपमन्तरेण प्रकाशस्य रूपविशेषनिष्ठानुप
पत्तेः । अप्रकाशव्यावृत्तिमात्रस्य हि क्वचिद् व्यक्तौ निष्ठायामात्मलाभः, अशब्दव्या
वृत्तेरिव, न प्रत्येकापोहे । ततोऽभावशङ्कावशान्न वस्तुसन् धर्मीष्टः सिद्धः । ततो 
		    वस्त्वपेक्षायां सर्वस्य सामान्यस्य विशेषरूपेणैवार्थकारितया वस्तुत्वान्नीलस्यैव धर्मिण 
		    उपनये पर्यवसितो भेदाभेदनिरूपणप्रक्रमः । क्षणिकादिरूपता तु सन्देहविषयः स्यात्, 
		    अप्रतिक्षेपात् ।
इह पुनरयमेव स धर्मी प्रकाशत इति नीलरूपतया वादिनैव दर्शिते किमिदानीं 
		    सभ्यैर्वेदितव्यम् ? अथ पश्चात् पक्षधर्मोपसंहारे न दोषः ? दोष एव, प्रकाशश्च नीलेन 
		    नैको नानेक इति पश्चादुक्तोऽपि, कोऽसौ प्रकाश इति नीलरूपतायामेव निष्ठानात्, 
		    भेदान्तरस्य दर्शयितुमशक्यत्वात्, विशेषादर्शने च धर्मिणः सद्रूपस्याशक्यनिर्वाहत्वात् । 
		    यद्यपि च स्वभावहेतावतद्रूपपरावृत्तमुभयमपि वस्तु, तथापि नैतदेव कृतकत्वादि किं 
		    त्वेतदपि । ततो दृष्टान्तसाधारणतया सामान्यमुच्यते न धर्मिरूपम् । एतदेवमिति 
		    असाधारणेनैव रूपेण प्रवृत्तिनिवृत्त्यर्थितयापेक्षणीयत्वात् ।
अतएव साध्येऽपि दृष्टान्तद्वारेण विशेषजिज्ञासोच्छेदः । मा भूत् सर्वव्यक्तिवियुक्ता
वसत्त्वमेव । अन्ततः पक्षेऽपि तल्लक्षणान्न व्यक्तिविरहः । क्षणिकत्वादेरप्येत एव व्यक्ति
भेदाः । काल्पनिकं तु भेदमास्थाय तत्त्वतो व्यतिरेकविवेकेऽपि साध्यसाधनभावः । तथा 
		    यदि काल्पनिकेन भेदेन धर्मिभावोऽपि स्यात्, अस्तु तेनैव रूपेण तस्य वस्तुत्वमिति 
		    स्वयमुपगमे कस्तन्निषेधाय योगः ? परो वा कथमन्यदाद्रियेत यद्धर्मिरूपनिरूपणेनैव 
		    प्रतिहतम् ? अतएव यथा तस्य साध्यार्थो यत्नस्तथा परस्यापि साध्यार्थिन एव 
		    धर्मिरूपगवेषणम् । सोऽयं तदनादरोदारवत् प्रसवार्थिनो न प्रेक्षां लक्षयति । ततो यस्य 
		    साध्यस्य धर्मिस्वरूपविशेषनिष्ठयैव प्रतिहतिस्तदनुमानेनालम् । 
		    
अत एव,
प्रमासिद्धविशेषे हि धर्मिण्येवमसंभवः ॥
रूपं तदनुसारेण विशिष्टमुपकल्पितम् ॥
तथा संभवेऽपि पुनरयं च प्रकाशस्तथेति वक्तुमशक्तेः पुनस्तदवस्थः प्रकृतहानि
दोषः ।
सिद्धो नान्यः सत्य इष्टो वृथा च ।
रेकः केकासाधने यद्वदुक्तः ॥
किं च यद् येन रूपेणेत्यादिप्रयोगे यदि नैकं नानेकं च नीलादिविज्ञानेनेति 
		    पक्षधर्मोपसंहारस्तदा को दोषः ? ततश्च शक्यमेवं पठितुम्,
तावद्देशव्यापिनो नीलस्येव प्रकाशस्यापि स्थूलाणुरूपविरहः केन वार्यते ? 
		    ततोऽस्ति नीलं न तु प्रकाशरूपेणेति । ततो भिन्नजडरूपसिद्धिः । अलीकस्तु प्रकाशात्मा । 
		    युक्तं चैतत्,
अथ व्यापकानुपलम्भस्तस्य तत्रावतारयितुमशक्तिः ? एवं तर्हि दुःखमपि 
		    प्रकाशात्मैवेति न कदाचित् प्रहीयेत । अपि चैवमवयव्यादेः प्रत्युज्जीवनप्रसङ्गात् 
		    सर्वमादितः प्रभृति शीर्णम् । तस्मान्न क्वचिदभेदप्रतिभासे भेदसिद्धिः । अतएव सर्वो 
		    भेदहेतुर्व्यवहारसाधन इत्युक्तम् ।
येऽप्याहुः द्वैताभासो धर्मी भ्रान्तत्वात् सत्यसङ्गतोऽवश्यं तैमिरिकचन्द्रबिम्ब
द्वयनिर्भासो यथादृष्ट इति, तेषामप्यसत्प्रकाशो भ्रान्तिरभिमतेत्येषा प्रत्याशा । 
		    सा च नित्यस्येत एव निरस्ता । एवं मायाख्यातिरसत्येत्याद्यपि निरस्तम् । न च 
		    मायाकारो नाम स्वप्रकाशाकारव्यतिरिक्तः सिद्धः । ज्ञानान्तरभवं च ज्ञानान्तरमिष्टम् 
		    इति ।
येऽप्यनुवृत्तव्यावृत्तरूपतया भेदमाहुः, तेषामपि कल्पनामात्रमेतत्, सामान्यवत् 
		    प्रमाणसिद्धेरभावादित्युक्तप्रायं वस्त्रोदकप्रस्तावे । तदयम्, 
		    
इत्येतत्पर्यवसानो वादः । तस्माद् यथास्वं समनन्तरप्रत्ययप्रभवेषु नीलपीतादिषु
प्रकाशभेदेषु 78b परापोहमात्रव्यवस्थापितशरीरः प्रकाशो नाम कल्पितं धर्ममात्रमेतत्,
तेषामपायेऽप्यनुपहतमिति स्थवीयसी भ्रान्तिः ।
अथ विपरीतो धर्मधर्मिभावः प्रसिद्धः, तत्रापि न प्रमाणव्यापारः, विपर्यय
स्त्वस्ति ।
केवलमन्वयव्यतिरेकाभ्यां भेदमास्थाय विवेकदुर्बलो लोक एष मृदि संस्था
नादिवत् भेदं धर्मधर्मिताविपर्ययं च व्यवहरतीति नात्राभिनिवेशः । न च पृथग्धर्मित्व
मनयोरुपगमक्षमः,
न खलु स्वयमप्रकाशं परेण नाम प्रकाशीभवति, यो हि यस्य स्वभाव इत्यादि
वचनात् । अथालीकाभिमानिनः स्वभावान्तराभावान्नैवमिति मतिः ? स्वभावान्तरविरहा
देव तर्हि प्रकाशमात्रमस्य स्वभाव इति किं प्रकाशान्तरेण ? क्वारूढं तदलीकम् 
		    आभासतामिति तु ज्ञानादिसमाश्रयात्मवादेन तुल्यम् । अयं तु विशेषः, प्रमेयस्यात्मनोऽ
प्रकाशतया स्थितिरविरुद्धेति प्रहारान्तरमपेक्षते, प्रकाशात्मनस्तूच्चारणमपि न क्षमत इति 
		    किं विफलगुरुभिरायासैः । मा भूद् वालीकत्वे स्वप्रकाशावर्जनम् । तेन तस्यानात्मभूतस्य 
		    प्रकाशने बाह्येन कीदृशः कृतोऽपराधः ? 
		    
इत्यन्तरश्लोकः ।
न चालीकस्यासद्रूपत्वात् क्वचिच्छक्तिरिति साधकतमत्वापेक्षः करणभावोऽपि 
		    यत्नसाधितोऽयत्नशीर्णः । विज्ञाननयावतारणार्थश्चायं क्रमः संमतः । अतश्चैवं यत् 
		    द्वैतरूपसिद्धौ पुनरसाधारणो निर्बन्धः प्रमाणवार्तिके, ततो यदि निराकारमेव तत्त्वती 
		    ज्ञानमभिमतम्, आस्तां तावदाकारस्य कारणतास्थितिः, आकारवद् बाह्यस्यापि 
		    वेदनानपह्नवत्वात् कुतो विज्ञानमात्रतासिद्धिरित्यलीकाकारसाधनं स्ववधाय कृत्योत्था
पनं यत्नेनेत्यायातम् । अभिन्ने त्वाकारे स्वरूपविशेषान्नीलं दृष्टं न पीतमित्यवसाय
 
		    385  
		    साधनसामर्थ्याद् बहिरभावेऽप्याभि79a मानिकी प्रमाणव्यवस्था तावत् सिध्यति । 
		    ततः प्रारब्धविचारस्य ग्राह्यलक्षणाभावात् स्ववेदनमात्रसिद्धेरप्रतिबन्धः । अतएव 
		    तदन्ते, 
		    
इत्यादि ब्रुवाणः शोभेत । अथैवमपि पश्चाद्व्यापकाभावाद् बाह्यस्याकारस्य वा वस्तुतां
निरस्य प्रकाशमात्रं स्थापयिष्याम इत्यभिप्रायः ? तर्हि किमादितः प्रभृत्याकारराक्षस
प्रसाधनप्रबन्धेन ? यथैव निराकारेयं बुद्धिराकारवान् संवादो बाह्य इति स्वपरमतिः,
तथैव व्यवस्थानुपलम्भमवतार्य कार्यसिद्धिरस्तु । ततः कुतो ग्राह्यलक्षणचिन्ता ? न
वा प्रकाशमानसहोपलब्धौ हेतू वक्तव्यौ, आकारसाधनद्वारेण दोषात्, व्यापकानुप
लम्भस्यावश्यमपेक्षणाच्चेति साधु सिद्धं धर्मोत्तरसमीहितेन ।
एतदेव च प्रकारत्रयमाचार्यस्य सर्वत्र विज्ञप्तिमात्रतासाधनमाञ्जसं पश्यामः, 
		    समर्थनतात्पर्य चात्रैव, व्यापकानुपलम्भे तु पूर्वाचार्यचर्चितेऽनुमतिमात्रम्, स्थूलवत् 
		    परमाणुदूषणाभावात् । ततो यदि धार्मोत्तरे परमाणुप्रतिविधावनवधानम्, एकमनेकं 
		    च रूपं तेषां नेति वचनादयत्नो मुख्यतया चानुपश्यामः सिद्ध एवेति सकलमाकुल
माचार्यमतमत्र मते । न च तावता क्षतिः काचिद्, यदि न्यायगन्धः स्यात् । तत्र 
		    किञ्चिदुक्तमेव । किं च मा वेदि बाह्यं प्रकाशवेद्यमलीकमित्यपि प्रकारान्तरेण ग्राह्य
ग्राहकस्थितिरुपनता । तेनाप्रकाशने च प्रसज्य स्वप्रकाशतावकाशिनीति किं प्रकाशा
न्तरेण ? तस्मात् सिद्धाः स्वसंवेदनत्वेन ज्ञानरूपा रूपशब्दादयः, असाधारणत्व
स्यापि बहिरर्थदूषणेऽस्माभिः प्रसाधनात् । अत्रापि स्वसंवेदनमात्रमनैकान्तिकं तात्त्विकं 
		    चासिद्धमिति बालविभीषिकातो न भेतव्यम् । कल्पितस्यानुपपत्तेः तात्त्विकस्यैव 
		    साधितत्वात् न विकल्पद्वयावकाशः ।
अत एव विज्ञानस्याप्याकारानतिरेकादलीकतां साधयतो नासिद्धिरनेकान्तो 
		    वा शक्यः । यदपि विपर्ययेणोच्यते, यस्य यदबाध्यं रूपं तस्यासौ प्रकृतिः, तद्यथा 
		    सर्वधर्माणां बोधात्मा । अबाध्यं च रूपं बोधात्मनः सत्त्वमिति स्वभावहेतुरिति, 
		    तदप्यनेनैव निरस्तम् । भिन्नस्य धर्मिणोऽसिद्धेर्नीलस्य च बाधनादिति ॥
तस्मात्,
386स्तद्वाधके बलिनि मध्यनये जयश्रीः ।
चेतो निराकृतिमतस्य तु कोऽवकाशः ॥
प्रथमः ॥
