2b अपरिहारात् । परिश्रमातिशयस्त्वतिरिच्यते, आहोपुरुषिका
वा ? अथापि स्यात् तादात्म्यमभ्युपगच्छतो यदा शब्दान्तरावृत्त्यादिदोषः परैः
प्रसज्यते, तदा भेदस्यापि संभवः परिहारः । भेदे च प्रतिभासभेदापादनेऽभेदोपनय
इति न शक्यमेकान्तवादे । न च पादप्रसारिकेति नाप्युभयदोषप्रसङ्गः । यदा हि पूर्वं
भेद उपनीतः, तदा तदासङ्गिदोषोत्खाते चाभेदस्योपनयात् ।

एवं पुनः पुनस्तदावर्तनपरम्परया पर्यवसानाभावेऽपि न क्षतिरिति चेत् ?
भवतोपनीयमानस्तर्हि बाधको धर्मः साधको वा न स्वसामर्थ्येनैवेत्यापन्नम् । उपनयश्च
वचनात्मन्यनभिधीयमानो भवत उषर्बुधोऽपि न बाधकः स्यात् । एतेन मया प्रसङ्गार्थ
मनङ्गीकारादित्यपि निरस्तम् । न हि जीवनाय भक्ष्यमाणं विषं न हिनस्तीति शक्यम् ।
तस्माद् भौतार्गलयुगलसमानमेतदुभयपरिजिहीर्षयोभयपक्षालम्बनं मन्दमेधसा
मिति ।

प्रयोगः, यद् यन्मात्रनिमित्तं तत् तस्मिन् सति भवत्येव, यथा चक्षुरादि
सामग्रीमात्रनिमित्तं ज्ञानजन्म, भेदाभेदमात्रापेक्षं च यथोक्तदोषजातमिति स्वभावहेतुः ।
तन्मात्रनिमित्तत्वमन्यानपेक्षत्वेन व्याप्तम्, तत्संभवेऽपि च तदभावे तद्विरुद्धमन्या
पेक्षत्वं स्यादिति व्यापकविरुद्धोपलब्ध्या विपर्ययान्निवर्तमानं तन्मात्रनिमित्तत्वं तस्मिन्
सति भावे नियम्यत इति व्याप्तिसिद्धिः । नाप्यसिद्धिस्तन्मात्रापेक्षायाः । न ह्यभेद
मात्रातिरिक्तं सहोत्पादनिमित्तमुपपद्यते । भेदमात्रातिरिक्तं वा पृथक्प्रकाशस्य दृश्यत्वे ।