182
अयोगुडदहनयोः क्षीरोदकयोर्वा भेदेऽप्यभवन् प्रकाशभेद इतरसापेक्षः सिद्ध इति
चेत्—न, अभ्रान्तेन्द्रियज्ञानस्य प्रकृतत्वात् । तत्र भिन्ने एव वस्तुनी एकीकृत्य प्रतिपद्यमानं
ज्ञानं कथमभ्रान्तं नाम ?

एतेन चन्द्रद्वयप्रतिभासो व्याख्यातः । अथोभयकारणारब्धमेकमेव तद् वस्तु
संजातमिति मतिः, तदा व्यभिचार एव नास्तीति सिद्धं तन्मात्रापेक्षत्वम् । स्यादेतत् ।
तन्मात्रापेक्षस्यापि तद्भावेनावश्यम्भावः, यथा कटुकमधुरद्रव्यभाविनोरपि पित्त
श्लेष्मणोः । तदयुक्तम्, वीर्यविपाकापेक्षयापि तदतत्कार्यकरणसंभवाद् द्रव्याणाम्,
रसमात्रापेक्षातिपातात् पित्तादेरिति ॥

॥ भेदाभेदपरीक्षा समाप्ता ॥