3a स्याद्वा न वा तस्य धी-
रिष्टा नोऽनुपलब्धिरन्यविरहज्ञानस्थितेराश्रयः ॥

यत्र वेद्यमाने यस्य मतिः स्यादिति देशकालस्वभावविप्रकर्षाणां निषेधः । नियमे
नेति, उपलम्भकारकान्तरवैकल्यस्य । एतेन दृश्यविशेषणप्राप्तस्य भावज्ञानस्थितिरिति
दर्शितम् । अतो न सर्वस्य निषेधप्रसङ्गः । यत्र च वेद्यमाने यन्मतिर्नियमेन स्यात्,
तस्यैव धीरिष्टाऽन्यस्य द्वितीयस्याभावनिश्चयप्रबन्धाक्षेपाय क्षमेति । एतेन न विरहमात्रम्,
पर्युदासवृत्त्या त्वन्यविशेषबुद्धिरित्युक्तम्, अत्र च तस्यैवैकाकिन इति सामर्थ्यात्,
अन्यथेतरस्यानिषिद्धोपलब्धेरभावासिद्धेः ।

तद्यथा, नेह घट उपलभ्यस्यानुपलब्धेः । यथा क्वचित् किञ्चिदिति । तत्र
दृश्यस्येति स्वभावविशेष उपलम्भप्रत्ययान्तरसाकल्यं चोक्तं द्रष्टव्यम् । अनुपलब्धेरिति
प्रतियोगिन उपलब्धेरित्यर्थः । तच्च प्रतियोगी हेत्वाधारप्राप्तं भूतलमन्यद् वैकेन्द्रिय
ज्ञानसंसर्गि, तदन्यो वा ? यस्मिन् वेद्यमाने निषेध्य उपलभ्यमेवेति सामान्योक्तेः ।
तत्र यदि भूभाग उपलभ्य एव कुम्भसंभवः साध्यः, तदा स एव प्रतियोगी किमन्या
पेक्षया ? यदा तु नभसि तदापि तदेवालोकसंज्ञितम्, अन्यो वा घटादिरनियतस्थितिः
स्पृश्यनिषेधे त्वयमेव ।