20b अथवा वस्त्वन्तरावाच्यत्वेऽपि तत्रापोहस्तद्विशेषणत्वेन गम्य इति
अपोहस्य वाच्यता स्वीकृतैव । तथापि कथं सर्वधर्मानभिलप्यत्वमित्याह,

वाच्यस्तत्त्वतो नैव कश्चिदर्थ इति ।

अयमभिप्रायः । पर्युदासपक्षे तावद् वस्तुरूपवत् तस्याप्यध्यवसायमात्रकृतं वाच्य
त्वम्, न प्रतिभासादध्यक्षवत् । प्रसज्यपक्षे पुनरन्यनिवृत्तिमात्रस्यान्यदापि न विशेषः,
तथाप्यसौ नार्थ इति नोक्तदोषः । यद वा यः शास्त्रे, तस्मात् सिद्धमेतत् सर्वशब्दा
विवेकविषया विकल्पाश्चेत्युपसंहारः, तस्यार्थनिष्ठामुपसंहारेणैव दर्शयति,—

वाच्यस्तत्त्वतो नैव कश्चिदर्थ इति ।

संवृतौ प्रतिभासाध्यवसायमात्रेण वाच्यताया दर्शितत्वात्,
तत्त्वत इत्याह ।