232
तदयमर्थः । यदेतच्छास्त्रे विवेक एव वाच्य इत्युपसंहृतं तस्य न किञ्चिद् वाच्यमेवार्थः,
यथा अभावो भवतीति भावो न भवतीत्येवार्थः, तथा अपोहस्य वाच्यतेति वाच्यताया
एवापोह इत्यर्थः । एतच्च हेतुत्रयविभागकरणादिना स्वयमेव शास्त्रेण स्फुटीकृतमित्युप
पादितम् ।

तदेवं कथमपोहः शब्दवाच्य इति प्रश्ने तद्गुणत्वेन यथोक्तार्थेनेत्युत्तरम् । अथ
बुद्ध्याकारः स्वलक्षणमुपाधयो वा कस्मान्न वाच्या इति प्रश्नः, तदध्यवसायस्य प्रति
भासस्य उभयस्य चाभावादिति क्रमेण विसर्जनानि । यदा तु शब्दैः किं वाच्यमित्यनु
योगः, तदा प्रतिभासादर्थाध्यवसायात्, यद् वा तत्त्वत इति विकल्प्य विकल्पस्थेऽन्या
पोढाकारः, अन्यापोढस्वलक्षणं न किञ्चिदिति प्रतिवचनानि क्रमेणैवेत्युक्तं भवति ।
तस्मात् शब्दलिङ्गयोरपोहविषयतास्थितिप्रसाधनं सर्वधर्मावाच्यत्वप्रतिपादनपरमिति
प्रथमश्लोकार्थोपसंहारः ॥

भवत्वपोहे कृतिनां प्रपञ्चो
वस्तुस्वरूपास्फुरणं तु मर्म ।
तत्रादृढे सर्वमयत्नशीर्णं
दृढे तु सौस्थ्यं ननु तावतैव ॥
समर्थनैतस्य दिशः प्रकाशः
कृतोऽयमस्माभिरविस्तरेण ।
तद्विस्तरस्त्वाकर एव चिन्त्यः
परोदितं तूलमिव क्षिपद्भिः ॥
॥ अपोहप्रकरणं समाप्तम् ॥