33b साधनम् । अनित्यताप्रक्रमणे तु
परस्य प्रमाणपर्येषणा प्रवर्तेत । तदुपन्यासनिदानत्वमात्रेणानित्यशब्दानुवादः । न पुनः
असावनित्य एव भगवान् अस्माभिरिष्यते । तथा हि—

एको विभुः सर्वविदेकबुद्धिसमाश्रयः शाश्वत ईश्वराख्यः ।
प्रमाणमिष्टो जगतो विधाता स्वर्गापवर्गार्थिभिरर्थनीयः ॥

अत्रोच्यते । किमेभिरेव हेतुभिरुपदिष्टगुणगणागारपुरुषातिशयसाधनमनो
रथोऽथ हेत्वन्तरबलात् ? तत्र न तावदाद्यः पक्षः । तथा हि यत् साधनं यावतीमर्थ
गतिं व्याप्नोति ततस्तावत्येव सिध्यति नार्थान्तरम् । न हि यावानिच्छया व्याप्तोऽर्थः,
तावति प्रमाणस्य सामर्थ्यम् । अपि तु यावति प्रमाणस्य सामर्थ्यम्, तावतोऽर्थस्य
तन्निमित्ता सिद्धिः । न च कार्यत्वादि चेतनपूर्वकत्वेन व्याप्यमानमपि तदेकत्वादि
नियतां मतिमुत्पादयितुं शक्तम्, तद्विशेषणे व्याप्तेरेवाप्रतीतेः, अन्यथा विपरीतरूप