243

॥ ईश्वरवादाधिकारे संक्षेपदूषणम् ॥

वार्तिकसप्तश्लोकीव्याख्यापेक्षप्रबन्धभीरूणाम् ।
ईश्वरवादे दूषणमात्रकथेयं समासेन ॥

इह यद्यपि बहुलं सहचारमात्रं कार्यस्य प्रयत्नवता दर्शितम्, दर्शितश्च तदभावे
क्वचिदभावः, तथापि प्रतिबन्धासिद्धेः कार्यमपि स्यात्, न च बुद्धिमत्कर्तृपूर्वकमित्या
शङ्का बाधवैधुर्यात् कार्यं बुद्धिमति साध्ये सन्दिग्धविपक्षव्यावृत्तिको हेत्वाभासः । न
च सपक्षविपक्षयोर्दर्शनादर्शनमात्रेण साधनस्य भावे साध्यस्यावश्यम्भावः, साध्या
भावे वा तदभाव इत्येवं रूपाया व्याप्तेः प्रतिबन्धशब्दवाच्यायाः साधनं भवितुमर्हति,
भाविव्यभिचारदर्शनेष्वपि तथोपलब्धेः । किमिदमिदानीमदर्शनमभावादेव व्यभिचारस्य,
अथ दर्शनसामग्रीसमवधानविरहादिति निर्णेतुमशक्यमेव सहचारमात्रदर्शिनो
विमर्शशीलस्य ।

अत एव वाचस्पतेः स्वाभाविकसम्बन्धधोषणमपि शब्दपुष्टिमात्रम्, तदतिरिक्तार्था
पोषणात् । भूयोदर्शने हि व्यभिचारादर्शने स्वाभाविकव्यवस्था । व्यभिचारादर्शनं च
विपक्षेऽदर्शनमात्रमुक्तं भवति । यत् पुनरेतदुपाधेरनुपलम्भेन व्यभिचारासिद्धिरिति, तत्र
नोपाधिर्नाम दृश्यचिह्नस्थानीयं किञ्चिदस्ति, यदनुपलम्भोऽव्यभिचारं व्यवहारयेत् । किं तु
व्यभिचारदर्शनमात्रेणैव तत्परिकल्पः । तददर्शनात् च स्वाभाविकत्वमिति विशेषाभावात्
न स्वाभाविकवादेन किञ्चित्, साध्येन सह भूयो दृष्टो हेतुर्व्यभिचारे च न हेतुरितीयतैव
पर्याप्तत्वात् । एतच्च सर्वं व्याप्तिचर्चायां विविच्य क्वचिदर्थान्तरस्य प्रतिबन्धो नाम
तदुत्पत्तिमन्तरेण, सा च प्रत्यक्षानुपलम्भसाधनैवेति व्यवस्थापितमिति तत एवावधार्यम् ।
एतेन शङ्करवाचस्पतिमतावलम्बिनः प्रत्युक्ताः ।

अस्तु तर्हि प्रयत्नवतापि कार्यस्य तदुत्पत्तिलक्षण एव प्रतिबन्धो धूमस्येव
वह्निना । यथोक्तं वित्तोकेन । तथा हि कुम्भकारव्यापारात् प्राक् मृत्पिण्डदण्ड
चक्रादिषु सत्स्वपि कार्यं कुम्भाख्यमुपलब्धिलक्षणप्राप्तमनुपलब्धं तद्व्यापारानन्तरम्
उपलभ्यत इति हेतुफलभावसिद्धौ कुतो विपक्षव्यावृत्तिसन्देहः ? सत्यमत्र पक्षविपक्ष
वृत्तिरेव न सन्देहः, अत्र हि प्रत्यक्षानुपलम्भयोग्यस्वरूपस्वीकारादभिव्यक्तोऽनुपलब्ध
पुरुषव्यापारैर्वृक्षवीरणादिभिर्व्यभिचारः । पक्षीकृतास्तृणादयः, न च पक्षीकृतेनैव