364
फलं यदि गिरः क्वापि नान्यत् तच्चावबोधनात् ।
वाचः प्रत्यायने शक्ता नाक्षधूमादि सुन्दरम् ॥
यदि हेतुफले संवृत्तद्भावः केन गृह्यताम् ।
फलाच्च हेतुधीर्नूनं न चेद् व्यर्था व्रतादयः ॥
योऽपि तापार्दितोऽभ्येति चन्दनं न हुताशनम् ।
वक्तुं किञ्चिदनाश्रित्य सज्ञानं तु न वर्तते ॥
वस्तु किञ्चिदुपन्यस्य न्यस्यन्ते यदि युक्तयः ।
शास्त्रे पक्षग्रहः किं न नचेत्तत् केन गृह्यताम् ॥
मोक्षमार्ग यदा पृष्टो व्याकुर्यात् शून्यभावनाम् ।
बोधयन् शून्यतां तर्हि गर्हेत्पक्षग्रहं कथम् ॥
तस्मात् संवृतिमाश्रित्य साध्यं साधनमस्य वा ।
दुर्वारमिति दुर्वारः प्रमाणस्य परिग्रहः ॥
2540संवृत्तौ मानमिष्टं चेत् विचारोऽप्येष संवृतिः ।
संवृतावपि नेष्टं चेद् ब्रुवन् जेता यथा तथा ॥
यथा हेतुफले संवृत्तथा संवादिधीरपि ।
अनुमामिच्छतोऽध्यक्षं नेति कोऽप्येष निश्चयः ॥
स्ववेदने विवादश्चेत् न संवृत्यैव साधनात् ।
तस्मादपरमार्थत्वेऽप्यात्ता वित्तिः प्रबाधिका ॥
संवृतिश्चेत् क्व निष्कर्षः परमार्थोऽस्तु तावता ।
ततश्च संवृतावेव सांवृतं त्यज्यते कथम् ॥
तत्प्रकाशान्वयः सत्ताव्यवहारोऽस्तु चेतसः ।
न प्रकाशो न वा शक्तिर्यस्य तेन तुला कथम् ॥
ततो विचारासहतादिधर्मः
प्रकाशामानत्वमबाधमानः ।
  1. तुल० रत्न० निब० पृः ८९