365
यदीष्यते चेतस एव सोऽस्तु
स्थिता प्रकाशान्मनसः प्रसिद्धिः ॥
प्रकाशमूर्तेर्यदसत्त्वमुच्यते
स्वकल्पितं सत्त्वमपेक्ष्य न क्षतिः ।
प्रकाशमेवैति परस्तु वस्तुसत्
समं द्वयं लौकिकसिद्धबाधने ।
नासत्प्रकाशवपुषी न च सत्तदन्यै-
रेकेन न द्वितयमद्वितयं न ताभ्याम् ।
इत्थं जगद् यदि चतुःशिखरीवियुक्तं
को भाष्यकारमतमध्यमयोर्विशेषः ॥
अर्थक्रियापि परमार्थत एव येषां
येषां प्रकाशवपुषोऽपि निषेध एव ।
तेषां भिदा भवतु किं तु निसर्गदुर्गो
मार्गोऽयमात्मविदि साहसभारसारः ॥

तदेतत् परस्योत्तरप्रबन्धानुरोधेनं प्रासङ्गिकं किञ्चिदायातमित्यलं विस्तरेण ।
स्थितमेतत् प्रकाशमानत्वेन विज्ञानमात्रं त्रिभुवनमिति ॥

॥ समाप्तमिदमद्वैतबिन्दुप्रकरणम् ॥