345

१० ॥ अद्वैतबिन्दुप्रकरणम् ॥

इह बहिरर्थाभिनिवेशिनो मनोरथो यद् यथा प्रतीयते तत् तथा सदिति
व्यवस्थाप्यते, यथा कुवलयं नीलरूपतया । विज्ञानाद् व्यतिरिक्तरूपतया च प्रतीयन्ते
घटादय इति स्वभावहेतुः । नात्रासिद्धिः, ग्राहकाङ्गाद् विच्छिन्नेन तर्जनीनिर्देशयोग्येन
पुरोऽवस्थायिना रूपेण घटाद्याकारस्य प्रतिभासाध्यवसायाभ्यां क्रोडीकरणात् । तथा
ह्ययं घटो नायं घट इति प्रतीतिः प्रत्यात्मवेद्या सर्वपुरुषाणामव्युत्पन्नसंकेतानामपि
संज्ञाविशेषोल्लेखविमुखस्तदनुरूप एवान्तर्जन्यः । बालोऽपि सुखसाधनं स्तनमवलोक्य
तदभिमुखे करमुखे प्रहिण्वन् बहिरवसायसचिवमात्मानमातनोति । ततश्च व्यतिरिक्तेन
रूपेण घटाद्याकारस्य प्रतीतिर्नासिद्धिपथप्रस्थायिनी । नापि विरोधिनी साध्येन, सपक्षे
संभवस्य दर्शितत्वात् । विपर्ययव्याप्तस्य च विरुद्धस्य तदसंभवात् ।

अतएव च नासाधारणत्वम्, नापि सन्दिग्धान्वयत्वम्, विपक्षेऽदर्शनाच्च न
साधारणानेकान्तः । न च वक्तव्यं कामलिनः पीतशङ्खप्रतीतावपि न तथैव व्यवस्था
केशोण्डूकप्रतीतौ वा तैमिरिकस्य, अतः साधारणत्वमेवेति, बाधकग्रस्तत्वेन तत्प्रतीतेः
भ्रान्तत्वेन प्रत्यक्षव्यापारविरहात् । प्रस्तुतस्तु बाधकाभावाद्भ्रान्त्यसिद्धेरध्यक्षव्यापार
एव । न च कदाचिदत्रापि स्याद् बाधकमित्यनाश्वासः, सर्वत्र प्रत्यक्षव्यापारोच्छेद
प्रसङ्गात् । तस्मात्,

देशकालनरान्यत्वे बाधके सति नाक्षजम् ।
घटादिभेदबोधस्तु प्रत्यक्षस्तदभावतः ॥
2535

एवं तर्हि प्रत्यक्षव्यापारे किमनुमानेनेत्यपि न चोद्यम्, व्यवहारसाधनस्य
विवक्षितत्वात् । प्रत्यक्षगोचरे हि विवादसंभवो नानुमानप्रयोज्ये विश्राम्यति । तत्र
यथा प्रत्यक्षेऽपि गवि कुतश्चिदारोपात् मूढस्तद्व्यवहारमप्रवर्तयन् सास्नादिसमुदाया
त्मकत्वेन प्रवर्त्त्यते, अभावव्यवहारं वानुपलब्ध्या, तथा प्रत्यक्षेऽपि ग्राह्यग्राहकयोर्भेद
आगमान्तरानुसारी तथाप्रतीत्या व्यवहार्यत इति न दोषः । स चायं व्यवहारः
तन्मात्रनिबन्धनः