437

चतुर्थः परिच्छेदः

अथवा केयमलीकताप्यनुभवस्वभावस्य, बाधकादिति चेत् ? कस्य केन बाधा ?
चित्राकारराशेर्व्यापकानुपलम्भेन । तदेतद् विक्रीतगवीरक्षणम्,

बाध्यबाधकभावस्य सांवृतस्योपपादनात् ।
भाष्ये तद्व्याप्यसत्ख्यातेर्विरोधस्य प्रसाधनात् ॥

अपि च, न तावज्ज्ञानमात्मानमेव बाधते, स्वरूपसंवेदनस्यैव बलवत्त्वात् ।
परेणापि तद्विषयेण भिन्नविषयेण वा बाधा स्यात्, समकालेनासमकालेन वा ? तत्र तद्विषयं
तच्च बाधत इति असंबद्धम् । भिन्नविषयेणापि तस्य कीदृशो बाधा ? स्वविषयोपस्थापन
मात्राच्चेत् ? तेनैवास्य किं न बाधा ? न च समसमयेन । एककालमनेकस्य सजातीयस्य
विजातीयस्य वा प्रतिभासे कस्य केन बाधा ? कालभेदे तु सुतरामनवकाशो महासंमत
श्रोहर्षयोरपि प्रसङ्गात् ।

अथैकस्य ज्ञानस्य ज्ञानान्तरेण निर्विषयत्वप्रतिपादनं बाधार्थः, स च भिन्नकाल
योर्न विरुध्यते । सोऽर्थस्तत्र ज्ञाने यदि प्रतिभासते, तदा सन्नेवेति कुतो बाधा ?
अप्रतिभासे तु स्वयमेवासन् किं निषेधान्तरेण ? न वा तद्विषयं बाधनमुक्तं भवति ।
आरोपितस्य निषेध इति चेत् ? आरोपोऽपि व्यवहारमात्रसिद्ध इति प्रतिपादनात्,
तदाश्रया बाधापि न सांवृतमतिक्रामति । अथ यथैव प्रतीत्यसमुत्पादभे