368
नीयते, सा न विज्ञानस्वभावतामाबिभ्राणेभ्यः शुभ्रादिभ्यो बिभेति । तस्मात् सर्वधर्मशून्य
तैव ज्यायसी यथा प्रथितमागमे बहुशः । वार्तिकेऽपि,

यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा ॥
प्र. वा. २. २०९

इति । संवृतिमात्रं तु विज्ञाननीतिरिति ।

अत्रापरे समादधति । भवत्वाकाराणां बाधनादलीकत्वं प्रकाशमात्रं तु सत्य
माम्नायः, तदात्मवेदनस्य भ्रान्तत्वायोगेन प्रत्यक्षत्वात् । प्रकाशस्य प्रकाश एव निजं
रूपमिति न तत् तस्य विप्लवोपनीतम्, येन तद्वेदनं भ्रान्तिः स्यात् । नीलं तु रूपान्तरत्वात्
विप्लवोपनीतमपि स्यादिति स्यात्तद्वेदनं भ्रान्तिः । ततोऽस्ति नीलादौ बाधकस्यावतारो न
प्रकाशे । कल्पितालीकयोस्तु निषेधो बोद्धव्यः सर्वत्रेति ॥

अत्र चिन्त्यते । कोऽयं प्रकाशो नाम नीलादिभ्यो व्यतिरिक्तः, अव्यतिरेके
बाधाभयनिवृत्तेः ? न च व्यतिरिक्ते किञ्चित् प्रमाणमस्ति । न तावत् प्रत्यक्षम्, प्रकाश
मानरूपान्नोलादपरस्योपलम्भासंभवात् । न चानुमानम्, कदाचिदपि प्रत्यक्षतामननुभवतः
केनचित् संबन्धग्रहणानुपपत्तेः ।
किं च,

प्रकाश आत्मसन्तानेऽनुमानेन प्रतीयते ।
परोक्षविषयेणेति का धिक्कृतिरतः परम् ॥

व्यक्तमिदं शबरस्वामिदर्शनं शरणीकृतमिति किमत्र वक्तव्यम् ? तदयं दृश्यात्मा
कुम्भादिभ्यो व्यतिरेकेणानुपलभ्यमानः सामान्यादिवन्न सद्व्यवहारगोचरीभवितुमर्हति ।
अन्यथा तेषामप्यनिषेधः,

नित्यत्वाङ्गीकृतेस्तच्चेत् क्रमादिविरहादसत् ।
न प्रमाव्यापकाभावो दृश्यादृष्टेरनादरे ॥

कथं वा विषाणगुणकर्मादेर्निषेध इति यत्किञ्चिदेतत् । अथ नीले बोधरूपे
प्रतीयमाने नीलबोधात्मनोः प्रतीतिरशक्यापह्नवेति न सिद्धानुपलब्धिरिति चेत् ? तर्हि
गवि शाबलेये प्रतीयमाने उभयात्मप्रतीत्या प्रत्यवतिष्ठमानः कथं निषेध्यः ? पृथक्प्रतीत्य