79a मानिकी प्रमाणव्यवस्था तावत् सिध्यति ।
ततः प्रारब्धविचारस्य ग्राह्यलक्षणाभावात् स्ववेदनमात्रसिद्धेरप्रतिबन्धः । अतएव
तदन्ते,

नीलादिरूपस्तस्यासौ स्वभावोऽनुभवश्च सः
प्र. वा. २. ३२८

इत्यादि ब्रुवाणः शोभेत । अथैवमपि पश्चाद्व्यापकाभावाद् बाह्यस्याकारस्य वा वस्तुतां
निरस्य प्रकाशमात्रं स्थापयिष्याम इत्यभिप्रायः ? तर्हि किमादितः प्रभृत्याकारराक्षस
प्रसाधनप्रबन्धेन ? यथैव निराकारेयं बुद्धिराकारवान् संवादो बाह्य इति स्वपरमतिः,
तथैव व्यवस्थानुपलम्भमवतार्य कार्यसिद्धिरस्तु । ततः कुतो ग्राह्यलक्षणचिन्ता ? न
वा प्रकाशमानसहोपलब्धौ हेतू वक्तव्यौ, आकारसाधनद्वारेण दोषात्, व्यापकानुप
लम्भस्यावश्यमपेक्षणाच्चेति साधु सिद्धं धर्मोत्तरसमीहितेन ।

एतदेव च प्रकारत्रयमाचार्यस्य सर्वत्र विज्ञप्तिमात्रतासाधनमाञ्जसं पश्यामः,
समर्थनतात्पर्य चात्रैव, व्यापकानुपलम्भे तु पूर्वाचार्यचर्चितेऽनुमतिमात्रम्, स्थूलवत्
परमाणुदूषणाभावात् । ततो यदि धार्मोत्तरे परमाणुप्रतिविधावनवधानम्, एकमनेकं
च रूपं तेषां नेति वचनादयत्नो मुख्यतया चानुपश्यामः सिद्ध एवेति सकलमाकुल
माचार्यमतमत्र मते । न च तावता क्षतिः काचिद्, यदि न्यायगन्धः स्यात् । तत्र
किञ्चिदुक्तमेव । किं च मा वेदि बाह्यं प्रकाशवेद्यमलीकमित्यपि प्रकारान्तरेण ग्राह्य
ग्राहकस्थितिरुपनता । तेनाप्रकाशने च प्रसज्य स्वप्रकाशतावकाशिनीति किं प्रकाशा
न्तरेण ? तस्मात् सिद्धाः स्वसंवेदनत्वेन ज्ञानरूपा रूपशब्दादयः, असाधारणत्व
स्यापि बहिरर्थदूषणेऽस्माभिः प्रसाधनात् । अत्रापि स्वसंवेदनमात्रमनैकान्तिकं तात्त्विकं
चासिद्धमिति बालविभीषिकातो न भेतव्यम् । कल्पितस्यानुपपत्तेः तात्त्विकस्यैव
साधितत्वात् न विकल्पद्वयावकाशः ।

अत एव विज्ञानस्याप्याकारानतिरेकादलीकतां साधयतो नासिद्धिरनेकान्तो
वा शक्यः । यदपि विपर्ययेणोच्यते, यस्य यदबाध्यं रूपं तस्यासौ प्रकृतिः, तद्यथा
सर्वधर्माणां बोधात्मा । अबाध्यं च रूपं बोधात्मनः सत्त्वमिति स्वभावहेतुरिति,
तदप्यनेनैव निरस्तम् । भिन्नस्य धर्मिणोऽसिद्धेर्नीलस्य च बाधनादिति ॥

तस्मात्,