530
भावैराकारसंज्ञैर्वा लक्ष्यते बोधरूपता ।
सामान्यं ज्ञानसंख्यातमत एवापृथग्वचः ॥ १२ ॥
लोके रूढं पृथगिव ज्ञानमादर्शसन्निभम् ।
आकाराः प्रतिबिम्बाभा उभयोः कल्पितं न सत् ॥ १३ ॥
बोधस्य नैकता बाह्यैः स्वरूपविरहाप्तितः ।
नान्यत्वमग्रहप्राप्तेर्न सत्ता चाप्रकाशिनः ॥ १४ ॥
शृजुक्रमेण चादर्शे एकानेकत्ववर्जितम् ।
इति युक्तं न भावाश्च युज्यन्ते दर्पणोपमाः ॥ १५ ॥
सर्वधर्माः स्वधीरेव स्थिताश्चित्ते समाहिते ।
अबाध्यां कल्पितैर्धर्मैः शून्यतामाश्रिता यतः ॥ १६ ॥
तत्प्रकाशतया चित्तं स्वमेवैते सितादयः ।
कल्पितास्त्वप्रकाशत्वान्न धर्मा न च धर्मता ॥ १७ ॥
शून्यताख्या यथा भाति विकल्पे भेदिनीव सा ।
भिन्नया हि तया शून्या धर्मैर्धर्मा न तैरमी ॥ १८ ॥
बाह्यग्राहस्य हानेऽपि ग्राहकस्थितिवारणम् ।
तथतारम्बणे स्थित्वा चित्तमात्रव्यतिक्रमः ॥ १९ ॥
आरोप्यहानादारोपविषयस्यापि मा स्म भूत् ।
चित्रस्योच्छेददृक्पात इत्यनाभासवारणम् ॥ २० ॥
निराभासे स्थितो योगीत्याभासः कल्पना मता ।
एकापोहेन यत्तस्यामीषदाभासते बहिः ॥ २१ ॥
समन्तभासादाभासः प्रपञ्चो वा कदम्बवत् ।
विचित्रकल्पनारूढो हेयश्चित्रेऽपि चेतसि ॥ २२ ॥
तदागन्तुमलध्वंसात् तदाकाशतलोपमम् ।
ज्ञेयेनाभितुला ज्ञेयनिर्विशिष्टतया स्फुटा ॥ २३ ॥