544
तन्निराकारमेवोक्तमिति चेन्निश्चयो हतः ।
किमन्यचिन्तयास्माकं प्रकृतस्य प्रसाधनात् ॥ १२ ॥
क्वापि व्यवस्था कथमप्यागमे क्रियतां जिनैः ।
आद्याचार्येण वा सर्वमिदानीं प्रस्तुतं न तत् ॥ १३ ॥
उपेक्षाकारसद्भावान्नारूप्येऽप्याकृतिक्षतिः ।
धियो विवर्तो ह्याकारः किंचिद्रूपस्य वा स्थितेः ॥ १४ ॥
धीजातेर्व्यक्तिराकारो यदि नाकनिभा न किम् ।
किं वाधुना व्यवच्छेद्यं न किञ्चिद् बुद्धिसंभवे ॥ १५ ॥
नीलादौ तु तदाकारादन्या बुद्धिर्निषिध्यते ।
स्वप्नेऽप्यदर्शनाद् धीस्तु तथा काचित् परान्यथा ॥ १६ ॥
यद् यथा भासते ज्ञानं तत्तथैव व्यवस्थितम् ।
तत्तद्रूपाङ्गमिच्छा चेत् पात्रमस्या निवेदितम् ॥ १७ ॥
मोहारूपविरागेणारूप्यधातुः शमाशया ।
तस्मान्नीलादिरात्मैव बुद्धीनां द्वयमेव न ॥ १८ ॥
प्रसज्यपर्युदासाभ्यां सर्वाभावस्थितिर्द्विधा ।
पर्युदासो द्वयस्यात्र धर्मिरूपं स्वलक्षणम् ॥ १९ ॥
तस्य वस्तुतया तावत् स्ववित्तिर्न विरुध्यते ।
धर्मिप्रत्यक्षमेवान्याभावेऽपि विहिता मितिः ॥ २० ॥
भूतले कलसाभावो भूतलाध्यक्षसाधनः ।
संभोगे च द्वयाभावः संभोगाध्यक्षसाधनः ॥ २१ ॥
आर्योऽन्यस्तदपेक्ष्येदमद्वयाय नमोऽस्तु ते ।
न रक्तो हरिन्माञ्जिष्ठ इत्यादिकमवर्णयत् ॥ २२ ॥
प्रत्यात्मवेद्यमित्येवं स्वविच्च स्वगिरोदिता ।
तत्पर्युदस्तेऽपि समं कल्पेऽप्यवसिताश्रयात् ॥ २३ ॥