527
अतस्मिन्नतदाकारा वेद्ये सति मतिर्भ्रमः ।
सर्वथा वेद्यहानौ तु न भ्रमो नाम तत्त्वतः ॥ १३६ ॥
यत् किञ्चिदतथाभूतं तथा भावेन कल्प्यते ।
कीदृक् तस्यापराधोऽस्तु कल्पकस्य तु युज्यते ॥ १३७ ॥
कल्पकोऽपि न कश्चिच्चेद्भ्रमो नाम न कश्चन ।
तन्नासिद्धतया हेतुर्व्यवहारादथ भ्रमः ॥ १३८ ॥
व्यवहारादवितथं बहिरेव कथं भ्रमः ।
अबहिर्व्यवहारे तु यदारोपस्तदा भ्रमः ॥ १३९ ॥
आरोपातिक्रमे यस्मात् तत्त्व एव व्यवस्थितिः ।
बाधनाद् वितथत्वेन भ्रमस्तदपि किं भ्रमः ॥ १४० ॥
भासनेऽलीकमित्यस्तु भ्रमत्वं वा कथं भवेत् ।
अतस्मिंस्तद्ग्रहाभावादनलीकमतेरिव ॥ १४१ ॥
द्विचन्द्रप्रतिभासेऽपि भ्रमत्वं यच्च विश्रुतम् ।
द्विचन्द्रग्राहिचित्तस्य तन्न चन्द्रद्वयस्य तु ॥ १४२ ॥
ग्राह्यग्राहकभावेन कल्पितेऽशद्वये धियः ।
ग्राहकांशे प्रमाणत्वं ग्राह्यांशे भ्रमता कथम् ॥ १४३ ॥
वेद्यत्वे वेदकत्वे च व्यतीते भासमात्रकम् ।
बोधकग्रस्तमप्येतदसत्यं स्यान्न तु भ्रमः ॥ १४४ ॥
वेदकाभिमतत्वेन भ्रमत्वं व्याप्तमिष्यते ।
तद्विरोधिन्यवेदित्वे भ्रमत्वं दूरतो हतम् ॥ १४५ ॥
अन्यथाध्यवसाये तु भ्रमत्वे निर्विकल्पकम् ।
न भ्रमस्तेन तेनैव सत्यसङ्गित्वमस्तु च ॥ १४६ ॥
यद् यत्रावस्थितेऽपैति तत् तद्भिन्नं पटाम्बुवत् ।
प्रकाशेऽवस्थितेऽपैति नीलादीति परे विदुः ॥ १४७ ॥