अर्थवादाधिकरणम्

105
सिद्धप्रमाणभावस्य धर्मे वेदस्य सर्वशः ।
विध्यर्थवादमन्त्राणामुपयोगोऽधुनोच्यते ॥

सामान्यतः प्रामाण्ये सिद्धेऽधुना विभज्य विनियोगः प्रतिपाद्यते । अवधृतप्रामाण्यस्य वा वेदस्येदानीं समस्तस्य विध्यर्थवादमन्त्रनामधेयात्मकस्य यथाविभागं धर्मं प्रत्युपयोगः प्रतिपाद्यते । तत्र पूर्वपक्षवाद्यभिप्रायः । चोदनालक्षणोऽर्थो धर्म इत्युपक्रमात्तस्य ज्ञानमुपदेश इति परामर्शातद्भूतानां क्रियार्थेन समाम्नाय इत्युपसंहाराद्विधिप्रतिषेधयोरेव प्रामाण्यं प्रतिपादितं, न च तद्वयतिरिक्तशब्दगम्यत्वं धर्माधर्मयोः, नाप्यनधिगतार्थबोधनं मुक्त्वाऽन्यः शब्दस्य व्यापारोऽस्तीत्युक्तमेव । अतश्च यावन्त्येव साध्यसाधनेतिकर्तव्यतावाचित्वेन विधिप्रतिषेधान्तर्गतानि तेषां भवतु प्रामाण्यं यानि त्वतिरिक्तर्थान्यर्थवादमन्त्रनामधेयानुपातीनि सोऽरोदीदिषे त्वोर्जे त्वोद्भिदेत्येवमादीनि तानि सत्यप्यपौरुषेयत्वेऽर्थाभिधानसामर्थ्ये च धर्माधर्मयोरप्रमाणमतदर्थत्वात् । यथाश्रुतगृहीतानां तावत्प्रतीत्यनुंपलब्धेः प्रसिद्धमेवातदर्थत्वम् । अथ कयाचिच्छब्दवृत्त्या तादर्थ्यं कल्प्येत, एवमपि व्यवस्थाहेत्वभावान्न धर्माधर्मयोरवधारणं स्यात् । यदेव हि वाक्यं गृहीतं तदेवाध्याहारविपरिणामादिभिर्यथेष्टं कल्पयितुं शक्यते । तद्यथा सोऽरोदीदित्येवमेव तावद्वाक्यं विशिष्टपुरुषाचरितोपन्यासद्वारा रोदनकर्तव्यतापरम् । अथ वा महता106 मप्येवंविधाः प्रमादाः संभवन्ति, तस्मात्प्रयत्नेन वर्जयितव्यमिति । अतो विधिप्रतिषेधयोरस्फुटत्वाद्धर्माधर्मत्वेन निर्णये शक्त्यभावः । शास्त्रदृष्टविरोधादयश्च स्थिता एव । यत्तु भूतान्वाख्यानमात्रं यथावस्थितैः प्रतिपाद्यते तत्र यद्यपि सत्यत्वमस्त्येव तथाऽपि न तेन प्रयोजनमित्यानर्थक्यम् । अपि च । धूम एवाग्नेर्दिवेत्यादीनां स्वार्थेऽप्यप्रामाण्यं वक्ष्यते । विध्येकवाक्यत्ववशेनैव तेषां रूपभङ्गः क्रियते । न च तस्यापि किंचित्प्रमाणमस्ति । भिन्नैरपि हि तैः किंचित्प्रतिपादयितुं शक्यमेव । न च तत्प्रतिपादयतां निष्प्रयोजनतेत्यविज्ञायमानप्रयोजनवदर्थान्तरकल्पना शक्या । न हि लोष्टं पश्यतस्तद्दर्शनं निष्प्रयोजनमिति सुवर्णदर्शनता कल्प्यते । सर्वाण्येव च प्रमाणान्युपयुज्यमानमनुपयुज्यमानं वाऽर्थमात्मगोचरतापन्नं गमयन्ति । तेनैव चैषां हानोपादानोपेक्षाबुद्धयः फलत्वेन वर्ण्यन्ते । अन्यथा ह्युपादानमेवैकं फलं स्यात् । अपि च प्रमाणोत्पत्त्युत्तरकालं प्रयोजनवत्त्वमप्रयोजनवत्त्वं वा विज्ञायते न तु तद्वशेन प्रमाणोद्भूतिः । तस्माद्यो यद्रूपोऽर्थः प्रतीयते स तथैव प्रयोजनवत्त्वमप्रयोजनवत्त्वं वा प्रतिपद्यते । न हि प्रयोजनवदेव प्रमातव्यमिति कश्चिन्नियमहेतुरस्ति । यत्रापि तावत्स्वाधीनः प्रमाणविनियोगस्तत्राप्येतद्दुर्लभं किमुताबुद्धिपूर्वनित्यावस्थितवेदोत्थापितज्ञानग्राह्ये । न च वेदस्य प्रयोजनवदर्थाभिधानशक्तिः प्रथममवधृता । अयमेव हि परीक्षाकालो वर्तते कीदृशं पुनर्ब्रवीतीति । तच्च विदित्वा यथानुरूपमनुष्ठातुं क्षमा वयं न तु वेदं पर्यनुयोक्तुं किमयं निष्प्रयोजनमभिदधाति तद्वाऽभिदधत्किमर्थं प्रयत्नेन धार्यत इति । सर्वपुरुषाणां केवलं प्रतिपत्तृत्वेन पारतन्व्याद्वेदग्रहणोत्तरकालं च परीक्षावसरात् । न ह्यनधीतवेद एवाऽऽदौ परीक्षितुं क्षमः । पश्चात्परीक्षमाणस्य तु नाबुद्धिपूर्वनिर्वृत्तमध्ययनं प्रकरणगतन्यायेन निश्चयहेतुर्भवति । तस्माद्यथैवाग्निहोत्रादिवाक्यानां गम्यमानप्रयोजनवत्त्वादानर्थक्यं निष्प्रमाणकमिति नाऽऽश्रीयते तथैवैषां प्रयोजनवत्त्वं नाऽऽश्रयितव्यम् । न हि यथावगताम्युपगमादन्यत्किचि107 त्साधीयः परीक्षकाणाम् । योऽपि च क्लेशेन स्तुतिनिन्दात्मकोऽर्थः कल्प्येत स भावनयांऽशत्रयानन्तःपातित्वान्न गृह्यते । तया चागृहीतं न विधिप्रतिषेधावाश्रयतः । तदनाश्रितं च दूरे पुरुषार्थाद्भवतीति । अपि चैवंविधेषु स्तुतिनिन्दाकल्पनायामितरेतराश्रयप्रसङ्गः । स्तुतिनिन्दात्मकत्वेनैव ह्येकवाक्यता तया चानुन्मीलितस्तुतिनिन्दोत्प्रेक्षाश्रयणम् । न चान्यतरमूलप्रसिद्धिरस्तिं यतो व्यवतिष्ठेत । तस्मात्पृथगवस्थितानां दृष्टत्वादानर्थक्यमेवोपपन्नतरमिति । स एष वाक्यैकदेशस्येति । विध्युद्देशातिरिक्तस्य सिद्धान्ताभिप्रायेणैकदेशत्वं न तु पूर्वपक्षे, भिन्नवाक्यत्वाभ्युपगमात् । अथ वा वाक्यानां मध्य एकदेशाक्षेपः कतिपयानामित्यर्थः । तत्र यानि तावत्केवलविधियुक्तानि तेषु नैवाऽऽशङ्का । यान्यपि लिङादिमन्ति प्रागर्थवादेभ्यो विधिसमर्थानि तैः संयुज्यार्थान्तरे स्तुतिस्तुत्यसंबन्धे वर्तन्ते तेषामर्थवादाभावे तन्मात्रमेव हीयते न तु विधित्वेन पुरुषार्थताऽपि । यानि तु वर्तमानापदेशयुक्तानि स्तुतिनिरपेक्षविध्यसमर्थानि यथा “यस्य खादिरः स्रुवो भवति स च्छन्दसामेव रसेनावद्यति” इत्येवमादीनि तान्येकदेशद्वारेण समस्तान्याक्षिप्यन्ते ॥ १ ॥

वाङ्मनसयोर्विद्यमानमविद्यमानं वा स्तेयानृतवदनमुच्यमानं धर्मे स्वार्थेऽपि वा न प्रामाण्यं प्रतिपद्यते । अथ त्वध्याहारादिभिरेवं कल्प्येत वाङ्मनसयोः सर्वशरीरेषु चेष्टाः प्रति प्राधान्यादितरभूतेन्द्रियैरपि तच्चरितमनुवर्तितव्यमिति । ततः शास्त्रविरोधः । तत्रैतत्स्यात् । विहितप्रतिषिद्धत्वात्षोडश्यादिवद्विकल्प इति । इतरस्तु कल्पनीयकॢप्तत्वेन वैषम्यमाह । ननु चात्यन्तदुर्बलोऽपि विधिस्तदधीनात्मलाभेन प्रतिषेधेन तुल्यबलो भवतीति “प्रतिषेधः प्रदेशेऽनारभ्य विधाने च1” इत्यत्र वक्ष्यते । सत्यम् । यस्य शास्त्रमन्तरेणाप्राप्तिरस्ति तत्रैतदेवम् । यत्पुनरर्थप्राप्तं निषिध्यते तत्र विध्यनभ्यनुज्ञयैव लब्धात्मानः प्रतिषेधा बलीयांसो भवन्तीति तत्रैव वक्ष्यतेऽर्थप्राप्तवदिति चेदिति । स्तेयानृतवादयोश्च विनैव शास्त्रेण प्रवृत्तयोर्विधिनिरपेक्षोऽवस्थितः प्रतिषेध इति कल्प्यं विधिं बाधते । 108 तस्मादानर्थक्यम् । अतः परं स्वार्थे नैवाऽऽनर्थक्यं प्रतिपादयति । रात्रिंदिवं धूमार्चिषोरपि दर्शनात् “धूम एवार्चिरेवेति” चैतदद्वयमपि प्रत्यक्षविरोधादवधारणं न संभवति । अथ वा यदनेन प्रतिपाद्यते दिवाऽग्निरादित्यमनुप्रविशति रात्रावादित्यमिति तदवधारणं नोपपद्यते । पूर्वोक्तस्य हेतोरसिद्धत्वात् । ततश्चाग्निसूर्ययोर्नक्तंदिवं व्यवस्थितज्योतिष्टवप्रतिपादनाय स्तुतिरप्यसत्यत्वान्नावकल्पत इत्येषा वाऽनवधारणा । अथ वा सूर्यो ज्योतिरिति प्रातरयं मन्त्रोऽग्निर्ज्योतिरित्येष सायमित्येषा मन्त्रयोरवधारणा न सिध्यति । अथ वा समस्तो वेदः प्रमाणमित्येषाऽवधारणा न सिध्यतीत्यभिप्रायः । शास्त्रविरोधो दृष्टविरोधद्वयं पुनः शास्त्रदृष्टविरोध इति यत्, सदृशन्यायानि सन्ति क्रमभेदेन चोद्यते तत्परिहारसूत्रक्रमभेदानुरोधेन । न चैतद्विद्म इत्यार्षेयवरणशेषोऽभिमतः । स चायं क्रियातत्संबन्ध्यनभिधानात्तद्विषयत्वेनाप्रमाणम् । न हि ब्राह्मणत्वाज्ञानसंदेहविपर्ययाः केनचिदंशेन कर्मण्युपयुज्यन्ते । न च प्रत्यक्षविरुद्धा स्तुतिः संभवति । न च स्वतन्त्रब्राह्मणत्वाज्ञानप्रतिपादनेन प्रामाण्यम् । कथं पुनरयं दृष्टविरोधो यदा समानाकारेषु पिण्डेषु ब्राह्मणत्वादिविभागः शास्त्रेणैव निश्चीयते । नायं शास्त्रविषयो लोकप्रसिद्धत्वादवृक्षत्वादिवत् । कथं पुनरिदं लोकस्य प्रसिद्धम् । प्रत्यक्षेणेति ब्रूमः । कस्मात्पुनर्मातापितृसंबन्धानभिज्ञाश्चक्षुःसंनिकृष्टेषु मनुष्येष्वनाख्यातं न प्रतिपद्यन्ते । शक्त्यभावात् । यथा वृक्षत्वं प्रागभिधानव्युत्पत्तेः । नैतत्तुल्यं वृक्षत्वं प्रागभिधायकव्यापाराज्जात्यन्तरव्यवच्छिन्नं स्वव्यक्तिष्वनुगतं शाखादिमद्रूपेण दृश्यते । न तु ब्राह्मणत्वम् । अपि च व्युत्पन्नशब्दोऽपि निमित्तान्तरादृते नैव प्रतिपद्यते । न चोपवीताध्ययनादि निमित्तम् । वर्णत्रयसाधारणत्वात् । अध्यापनाद्यपि भिन्नाचारक्षत्रियवैश्यप्रतियोगित्वात्संदिग्धम् । सर्वं च दुष्टशूद्रेषु सभाव्यमान109 त्वादनिश्चितम् । यस्त्वविचारितसिद्धमेव प्रतिपद्येत स शुक्तिकामपि रजतं मन्यमानः क्रीणीयात् । नैष दोषः । क्वचिद्धि काचिज्जातिग्रहण इतिकर्तव्यता भवतीति वर्णितमेतत् । तेन यथैवाऽऽलोकेन्द्रियानेकपिण्डानुस्यूतिशब्दस्मरणव्यक्तिमहत्त्वसंनिकर्षाकारविशेषादयोऽन्यजातिग्रहणे कारणं तथैवात्रोत्पादकजातिस्मरणम् । अयं चोत्पाद्योत्पादकसंबन्धो मातुरेव प्रत्यक्षोऽन्येषां त्वनुमानाप्तोपदेशाद्यवगतः कारणं भवति । न चावश्यं प्रत्यक्षावगतमेव प्रत्यक्षनिमित्तं भवति चक्षुरादरेनवगतस्यापि निमित्तत्वदर्शनात् । आन्तरालिकस्मृतिव्यवहितमपि चेन्द्रियसंबन्धानुसारि प्रत्यक्षमित्येतत्साधितम् । न च यत्सहसा सर्वस्य प्रत्यक्षं न भवति तन्निपुणतोऽपि पश्यतां न प्रत्यक्षमित्येतदप्युक्तमेव । स्त्र्यपराधात्तु दुर्ज्ञानोऽयं संबन्ध इति स्वयमेव वक्ष्यति । न च तावन्मात्रेण प्रत्यक्षता हीयते । न हि यद्गिरिशृङ्गमारुह्य गृह्यते तदप्रत्यक्षम् । न च स्त्रीणां क्वचिद्वयभिचारदर्शनात्सर्वत्रैव कल्पना युक्ता । लोकविरुद्धानुमानासंभवात् । विशिष्टेन हि प्रयत्नेन महाकुलीनाः परिरक्षन्त्यात्मानमनेनैव हेतुना राजभिर्ब्राह्मणैश्च स्वपितृपितामहादिपारम्पर्याविस्मरणार्थं समूहलेख्यानि प्रवर्तितानि । तथा च प्रतिकुलं गुणदोषस्मरणात्तदनुरूपाः प्रवृत्तिनिवृत्तयो दृश्यन्ते । न च भर्तृव्यतिरेककृतेन वर्णसंकरोऽपराधेन जायते । दृश्यते ह्यपराधिनीमामपि स्वभर्तृनिमित्तः प्रसवः । तदपराधनिमित्तस्तु तासामशुभफलोपभोगो भवेन्नत्वपत्यानां वर्णसंकरः । न च नियोगतो वर्णान्तरैरेव सह प्रमादः । सवर्णेन चोत्पादितस्य नैव वर्णान्तरत्वापत्तिः । संकरजातानामपि च पुनरुत्कर्षापकर्षाभ्यां सप्तमे पञ्चमे वाऽन्यतरवर्णापत्तिः स्मर्यते । तत्र त्वेतावन्मात्रमागमिकं प्रत्येतव्यम् । न ह्ययं पुरुषेयत्तानियमो लौकिकप्रमाणगम्यः । तस्मात्सत्यपि सारूप्ये यथा केनचिन्निमित्तेन स्त्रीपुंस्कोकिलादिविभागज्ञानं तथैव दर्शनस्मरणपारम्पर्यानुगृहीतप्रत्यक्षगम्यानि ब्राह्मणत्वादीनीति भवत्यज्ञानवचनस्य प्रत्यक्षविरोधः । येषामप्याचारनिमित्ता ब्राह्मणत्वादयस्तेषामपि दृष्टविरोधस्तावदस्त्येव न त्वाचारनिमित्तवर्णविभागे प्रमाणं किंचित् । सिद्धानां हि ब्राह्मणादीनामाचारा विधीयन्ते, तत्रेतरेतराश्रयता भवेत् । ब्राह्मणादीनामाचारस्तद्वशेन ब्राह्मणादय इति । स एव शुभाचारकाले ब्राह्मणः पुनरशुभाचारकाले शूद्र इत्यनवस्थितत्वम् । तथैकेनैव प्रयत्नेन परपीडानुग्रहादि कुर्वतां युगपद्ब्राह्मणत्वाब्राह्मणत्वविरोधः । एताभिरुपपत्तिभिस्त्वयं प्रतिपाद्यते । न तपआदीनां 110 समुदायो ब्राह्मण्यम् । न तज्जनितः संस्कारः । न तदभिवयङ्ग्या जातिः । किं तर्हि मातापितृजातिज्ञानामिव्यङ्ग्या प्रत्यक्षसमधिगम्या । तस्मात्पूर्वेणैव न्यायेन वर्णविभागे व्यवस्थिते मासेन शूद्रीभवतीत्येवमादीनि कर्मनिन्दावचनान्यथ वा वर्णत्रयकर्महानिप्रतिपादनार्थानीति वक्तव्यम् । पूर्ववच्चात्रापि कॢप्तत्वात्प्रत्यक्षस्य कल्प्येनाज्ञानविधिना सह विकल्पो न संभवति । अपि च तत्रानुष्ठानात्मकत्वाद्भवेदपि न त्वत्र वस्तुरूपाणामैकात्म्येनाविकल्प्यत्वात् । को हि तद्वेदेति पूर्ववदेवाज्ञानसंशयविपर्ययाणामनौपयिकत्वादानर्थक्यम् । निश्चितवेदप्रामाण्यैश्च त्रैविद्यवृद्धैर्विज्ञायमानत्वात्स्वार्थेऽप्यानर्थक्यम् । विकल्पाभावश्चानन्तरोक्तवत् ॥ २ ॥

यदि तावद्गर्गत्रिरात्रब्राह्मणवेदानुमन्त्रणज्ञानकाले विद्यमानयोरेव मुखशोभावाजिजन्मनोः संकीर्तनं न धर्मं प्रति प्रमाणम् । अथ त्वविद्यमानयोस्ततः स्वार्थेऽपि । वर्तमानापदेशाच्च प्रत्यक्षानुपलब्धिविरोधः, कर्मानुष्ठानयोग्यपुरुषकरणाद्विद्यासंस्कारस्य दीक्षिततीर्थस्नानादिवन्निराकाङ्क्षत्वात्फलविधित्वं निराकरिष्यते । पौनरुक्त्यात्तर्ह्यत्र न विचारयितव्यमत आह तेन फलविधित्वान्निराकृतस्येहाऽऽनर्थक्यार्थवादत्वविचार इति । स्तुत्यर्थताऽपि चासत्यस्य नास्तीति व्यवस्थितमेव ॥ ३ ॥

अनन्तरेणैव पूर्णाहुत्यादिफलवचनानि व्याख्यातानि विधित्वाभ्युपेत्यवादेन तु दोषा111 न्तरमभिधीयते । पूर्णाहुतेरग्निसंस्कारत्वात्पशुबन्धस्य च ज्योतिष्टोमोपकारकत्वादश्वमेधज्ञानस्य च संस्कारत्वान्न तावत्फलविधित्वावसरः । यदि पुनरिष्यते ततोऽन्यानर्थक्यम् । समानफलान्यपि कर्माणि यानि परस्परानपेक्षाणि क्रियन्ते तेषां यथारुच्यनुष्ठानान्नान्यानर्थक्यकरत्वम् । पूर्णाहुतिपशुबन्धयोस्त्वकृतयोरितरकर्मानधिकारात् । प्रथमं वा नियम्येतेत्यनेन न्यायेनावाप्तं फले नोत्तरकर्मानुष्ठानप्रयोजनमस्तीति तद्विध्यानर्थक्यम् । तथा च दृष्टान्तोऽपि तेनैव पथा मध्वर्थिन इति यत्रान्यः पन्थाः पर्वतस्य तत्र गच्छेयुरपि न तु तेनैव गच्छन्ति । तस्माद्भूयसां कॢप्तानां विधीनामनुग्रहाय वरं कल्प्यानामेवानर्थकत्वम् । न च फलविशेषार्थिनः पराणि कर्माण्यविशेषश्रवणात् । न हि समानायां श्रुतावप्रत्यक्षः सन् फलविशेषः कर्मविशेषेभ्यः शक्यः कल्पयितुम् । न च स्तुति रसत्यत्वादिति स्थितमेव ॥ ४ ॥

त्रीण्यपि पृथिव्यादिवचनान्यप्रतिषेधभागिनमर्थं प्रतिषेधन्ति । अन्तरिक्षे दिवि च तावदप्राप्तत्वात्प्रतिषेधविषयत्वम् । अतश्च पर्युदसितव्याभावान्न पर्युदासः । अनन्तरिक्षे ह्यदिवि च पृथिव्यां नित्यं चयनं प्राप्तमिति तद्विधिरनर्थकः । अथापि नित्यानुवादस्तथाऽप्याक्रियार्थत्वमेव । पृथिवीचयनप्रतिषेधपर्युदासौ तु चयनविध्यबाधेनाशक्यौ । बाधे च विध्यानर्थक्यम् । विकल्पेऽपि पक्षे बाधः । कामसंयोगाच्चाग्नेरस्त्येव पाक्षिकत्वम् । दुर्बलश्च प्रतिषेधः । पृथिवीपरत्वे सति चयने कल्प्यत्वात् । एतदेवास्य स्वयमाकुलत्वम् । विध्य112 नन्तरमेव हिरण्यं निधाय चेतव्यामिष्टकाभिरग्निं चिनुत एतच्चाऽऽकुलयेत् । प्ररोचनाबुद्विस्तु नैवोत्पद्यते ॥ ५ ॥

सर्वोपाख्यानेष्वन्यपरत्वासंभवात्स्वरूपप्रतिपादनादनित्यसंयोगः । स च समस्तवेदप्रामाण्ये सति कथंचिदन्यथा नीयेत । यदा तु यथैव प्रमाणानां मध्ये शब्दस्तन्नापि च वेदः प्रमाणं तथैव वेदेऽपि विधिमात्रं युक्त्या कल्प्यते तदेतरैकदेशवदनित्यार्थैकदेशाप्रामाण्यं यथाश्रुतार्थग्रहणादापन्नं किं निवार्यते । तस्मादेवमादीनामनपेक्ष्यार्थमध्ययनमात्रादेव फलं कल्प्यम् । अथ वा यथैतान्युपेक्षाफलानि तथा तद्विषयं प्रत्यक्षमपि प्रतिपत्तव्यम् । अथ कस्मान्मन्त्रवद्यथाप्रकरणं प्रयोगकाले न प्रयुज्यते । प्रयोगरूपसामर्थ्याभावात् । न हि मन्त्राणां पाठमात्रेण विनयोगः किं तर्हि तत्सामर्थ्यात् । न चात्र तदस्ति । अथ वा यथा तेषां पूर्वपक्षे कार्यान्तरामावाद्रूपमात्रं ग्रहीष्यते तथाऽत्राप्यस्तु । यत्तु सूत्रकारेणानित्यत्वमुक्तं तत्प्रामाण्यापेक्षया नाप्रयोज्यतया ॥ ६ ॥

पूर्वपक्षोदाहृतेष्वेव वाक्येषु सिद्धान्तेऽभिधातव्ये किमर्थं वायव्यवाक्यमुपन्यस्यते । केचिदाहुः । समानन्यायत्वादिदमपि तत्र तान्यपि चेहोदाहृतानि द्रष्टव्यानीति । यद्यप्येवं तथाऽप्यपूर्वोदाहरणमभिप्रायान्तरमाकाङ्क्षति । तदभिधीयते । पूर्वोदाहृतेषु सर्वत्र स्वार्थासत्यत्वमप्याशङ्क्यते । तत्र कः प्रथममेव तत्प्रतिपादनक्लेशमङ्गीकुर्यादिति प्रासिद्धस्वार्थसत्यत्वानां स्तुतिद्वारैकवाक्यभावेन धर्मप्रमाणशेषत्वमात्रप्रतिपत्तिसौकर्यार्थं वायव्यवाक्योपन्यासः । तत्र भाष्यकाराः प्रसिद्धेनैवैकवाक्यत्वेन स्तुत्यर्थोपयोगं वदन्ति । एतावत्त्वत्र प्रथमं वक्तव्यम् । किमर्थं रूपभङ्गेन बलादेकवाक्यता पुरुषार्थत्वं वा वेदस्योच्यत इति । लौकिकवाक्ये तु दृष्टत्वादिति यद्युच्येत तत्राभिधीयते । युक्तं लोके वाक्यार्थस्य प्रमाणान्तरगम्यत्वादन्यथाऽपि कल्पनम् । इह त्वत्यन्तातीन्द्रियत्वाद्यथाश्रुतादीषदप्यन्यथात्वे पौरुषेयत्वमापद्येत । लोकेऽपि च यानि प्रमाणान्तरानवगतार्थानि 113 आप्तप्रत्ययमात्रेण श्रोतॄणां प्रमाणानि भवन्ति तेषां नैवान्यथात्वकल्पनं लभ्यते । तत्र केचिद्वदन्ति । “तुल्यं च सांप्रदायिकम्” इति यद्वक्ष्याति तेन समस्तो वेदः पुरुषार्थ इति साध्यते । न ह्यात्मानुपकारिणं सन्तमेनं बुद्धिपूर्वकारिणः पुरुषाः प्रयत्नेन धारयेयुः । यद्यपि च केषांचिदज्ञानं भवेत्तथाऽप्यस्मत्पूर्वातिक्रान्ताऽनेकपरीक्षकप्रमादकल्पना निष्प्रमाणिका । तस्माद्यथा यथा पुरुषार्थता भवति तथा तथा भङ्क्त्वाऽपि रूपं व्याख्यायत इति । न त्वेतद्युक्तमिव । कुतः, पुरुषधीनप्रामाण्यप्रसङ्गात् । यदि ह्यक्षरानुपात्तोऽप्यर्थोऽस्मदादिभिरेवं कल्प्यते । यस्माद्वयं प्रयत्नेन धारयामस्तस्मादस्य पुरुषर्थतेति । तथा सत्यात्मचेष्टितवशेन प्रामाण्यमभ्युपगतं स्यात् । अथ पुरुषान्तरधारणमुच्येत । एवमपि तद्वशेन तैरप्येवमन्यवशेनेत्यनादित्वेऽपि सत्यन्धपरम्परान्यायेन सर्वेषां परप्रत्ययान्न क्वचित्प्रामाण्यावस्थानम् । सर्वत्र ह्येवमयं पुरुषो वेदेति प्रत्ययो नैवमयमर्थ इति । तेन यद्यपि तेषु तेष्वध्येतृषु नूनं पुरुषार्थं वेदं मन्यन्त इत्यभिप्रायोऽनुमीयते । तथाऽपि निर्मूलत्वात्तन्मात्रेणासिद्धिः । अतो यावद्वेद एव पुरुषार्थतया सकलमात्मानं न प्रतिपादयति तावदप्रमाणम् । तदुच्यते । सकलस्य तावद्वेदस्य स्वाध्यायोऽध्येतव्य इत्यध्ययनभावनाविधीयते । तत्र किं भावयेदित्यपेक्षायामध्ययनमित्यागतमपि पुरुषप्रवर्तनाशक्तियुक्तेन विधायकेनापुरुषार्थसाध्यायां भावनायां प्रवर्तनाशक्तिप्रसक्तेस्तदंशान्निराक्रियते । ततश्चाध्ययनेनेत्यविरोधात्संनिधेश्च करणांशे निविशते । तेन किमित्यपेक्षिते यच्छक्यत इत्युपबन्धादक्षरग्रहणमित्यापतति । तस्याप्यपुरुषार्थत्वात्तेन किमिति पदावधारणमित्युपतिष्ठते तेनापि पदार्थज्ञानं तेन वाक्यार्थज्ञानं तेन चानुष्ठानमनुष्ठानेन स्वर्गादिफलप्राप्तिरित्येतावति प्राप्ते निराकाङ्क्षी भवति । एवं सर्वविधीनां प्राक् पुरुषार्थलाभादपर्यवसानम् । न च सहसैव विधिदर्शनात्स्वर्गाद्येव फलं कल्प्यते । योग्यतया हि यस्य यत्रानन्तरभाविनि व्यापारो लक्ष्यते तदेव तस्य कार्यमित्यवधार्यते । तत्र यदि तावत्तदनुसारेणैव कियत्यप्यध्वनि फलमासाद्यते ततो नान्तरा कल्पनमर्हति । पारम्पर्यप्रयोजनेनापि श्रुतविध्युपपत्त्याऽन्यथानुपपत्तिलक्षणार्थापत्त्यनुत्पादात् । यत्र त्वनन्तरं दृष्टं कार्यं न स्वयं पुरुषार्थो नापि पारम्पर्येण तमाप्नोति यथा होमस्याऽऽहवनीयप्राप्तिर्भस्मसाद्भावो वा तत्र तदतिक्रमेण साक्षात्कर्मण एवादृष्टकल्पना । सर्वत्र चैतल्लक्षयितव्यम् । यत्र तु विहिते फलाकाङ्क्षिणि तदनात्मककार्यपरम्परायां सत्यामान्तरालिकं किंचित्क्रतवे पुरुषार्थाय वा चोद्यते तत्र तदेव तत्साधनं पूर्वस्य तु विधेस्तदुपकारार्थतया पर्यवसानम् । यानि तत्तरविधेः कार्याणि प्राक्तानि साध्यसाधनभावेनाचोदितत्वान्नान्तरीयकत्वेन काष्ठादीनामिव ज्वलनादीनि पूर्वविहितकर्मस्वव्यापारमात्रतया मन्यव्यानि । यत्र तु पारम्पर्यजन्यं न किंचिदन्तरा विधीयते तत्र सर्वाणि स्वव्यापारीकृत्य विधेयस्यैव स्वयं फल114 साधनता । तत्र यानि तावत्कॢप्तकल्पयिष्यमाणपुरुषार्थसाधनविधिवाक्यानि तानि तत्प्रतिपादंन यावत्स्वाध्यायाध्ययनविधिना नीयन्ते परतस्तु फलवत्त्वं ज्ञातमेवेति न तद्यावत्प्राप्यन्ते । यानि तु तत्प्रकरणे पठ्यन्ते तान्यपि तथैवाक्षरग्रहणादिक्रमेण स्वार्थावबोधनं यावद्गतानि न साक्षात्क्रत्वङ्गं भवन्ति । कुतः । कथमित्यदृष्टोपायापेक्षेण क्रतुना दृष्टार्थत्वादक्षरादिष्वनवसजता तद्विहितं कर्ममात्रमेव हि प्रयोजनद्वारेणोपादीयते नान्यत् । अतः प्रधानवाक्यतुल्यान्यङ्गानि भवन्ति । तद्वाक्यानि तु बाह्यतराण्यध्ययनादिवत् । एवं प्रोक्षणादिवाक्यानां व्रीह्यादिसंस्कारमात्रफलावसितानां तण्डुलपिष्टपुरोडाशद्वयवदानादिभिर्व्यवहिततरः प्रधानसंबन्धः । एवमेवानारभ्याधीतारादुपकारकसामवायिकाङ्गवाक्यानि योजयितव्यानि । तत्र त्वेतावान्विशेषः । यदप्रकरणस्थत्वादक्षराण्यस्पृशत्प्रधानमर्थैरेव संबध्यते यानि त्वाधानादिवाक्यानि तान्यपि फलवत्क्रत्वङ्गाहवनीयादिसंस्कारप्रतिपादनावसायीनि दूरस्थेनैव फलेन निराकाङ्क्षी क्रियन्ते । एतेन क्रत्वर्थकर्तृप्रतिपादनद्वारेणोपनिषदां नैराकाङ्क्ष्यं व्याख्यातम् । मन्त्रनामधेययोस्तु स्वाधिकारे योजना वक्ष्यते । तेन सर्वेषां भावनान्तर्गतिरुपपन्ना । यत्त्वर्थवादानां भावनांशत्रयानन्तःपातित्वादग्रहणमिति । तत्राभिधीयते । सत्यमतिरिक्तं न गृह्यते । अस्ति त्वन्तर्गतिः । कथम् । इह हि लिङादियुक्तेषु वाक्येषु द्वे भावने गम्येते । शब्दात्मिका चार्थात्मिका च । तत्रार्थात्मिकयाऽर्थवादा नापेक्ष्यन्ते शब्दात्मिकया तु ग्रहीष्यन्ते । सा ह्येवं प्रवर्तते । स्वाध्यायाध्ययनविधिनेतरे सर्वे विधायकाः स्वाध्यायपदोपात्तश्चाऽऽत्मा नियुज्यते भावयेदिति । तत्र लिङादीनां प्रयोजककर्तृत्वं पुरुषः प्रयोज्यस्तेन किमित्यपेक्षायां पुरुषप्रवर्तनमिति संबध्यते । अथ तु योग्यतयैव लिङादिविषया क्रियोच्यते प्रवर्तयेदिति ततः किमित्यपेक्षिते पुरुषमित्येव संबध्यते । यद्यपि चाचेतनत्वाल्लिङादिष्वेवंविधं प्रयोजकत्वं न संभवति तताऽपि पुरुषस्य प्रयोज्यस्य प्रयोजकत्वानुपपत्तेस्तद्गतचैतन्यद्वारेण विधायकानां प्रयोजकता । यदि चैवं न कल्प्येत नैवैषां विधायकत्वव्यपदेशो भवेत् । अथ केनेत्यपेक्षिते पूर्वसंबन्धानुभवापेक्षेण विधिविज्ञानेनेति संबध्यते । कथमिति प्राशस्त्यज्ञानानुगृहीतेनेति । कुत एतत् । बुद्धिपूर्वकारिणो हि षुरुषा यावत्प्रशस्तोऽयमिति नावबुध्यन्ते तावन्न प्रवर्तन्ते । तत्र विधिविभक्तिरवसीदति तां प्राशस्त्यज्ञानमुत्तभ्नाति । तच्च पुरुषार्थात्मके फलांशे सर्वस्य स्वयमेवानुष्ठानं भवतीति प्रसिद्धत्वान्न वेदादुत्पद्यमानमपेक्ष्यते । साधनेतिकर्तव्यतयोस्त्वप्रवृत्तपुरुषनियोगाच्छास्त्रमेव प्राशस्त्यप्रतिपादनायाऽऽकाङ्क्ष्यते । तत्पुनः केन क्रियेतेति साधनापेक्षायां यदि वि फलपदेन निवर्त्येत प्रशस्तोऽयं भूतिफलत्वात् । अथ वा विधिनैव सर्वदोषाशङ्काविनिर्मुक्तवेदविहितत्वादिति । अथ वा विशिष्टद्रव्यदेवतेतिकर्तव्यतायुक्तत्वादिति । तत्र फलपदादीनामर्थान्तरोपयोगात्पुनरन्यत्राप्युपयोगो न युज्यते । 115 विध्युत्तरकाला चेयमाकाङ्क्षा पूर्वं च फलपदादिनिवेशः । तस्मादपि न तैर्निवर्त्यते । लक्षणा चैतेभ्यः कल्प्यते । न च श्रौतार्थसंभवे सा युक्ता । युगपच्चोभयवृत्तिविरोधात्प्राशस्त्यपरत्वे फलादीनि न स्युः । न ह्यन्यशास्त्रे सत्युपायमात्रत्वेनोपात्तानामेकान्तेन पारमार्थिकत्वमिति वक्ष्यते । अत एव चार्थाद्गम्यमानमन्यपरत्वाच्छब्दानां न प्राशस्त्यं प्रयोजनं भवति । न हि यद्यत्प्रतीयते तत्तच्छास्त्रफलमवसीयते । यथा पूर्वो धावतीत्युक्ते यद्यप्यपरो गम्यते तथाऽपि न कार्येण युज्यते तद्वत्प्ररोचना गम्यमानाऽपि न कार्यान्तरोपयुक्तशास्त्रार्थत्वेनावतिष्ठते । अन्यथानुपपत्त्या चेयं तेभ्यः कल्प्येत । सर्वप्रमाणप्रत्यस्तमये चान्यथानुपपत्तिर्भवति । प्रमाणाभावश्च यःसर्वप्रकारं प्रयतमानस्य स प्रमाणम् । तद्यदि केनचिदुपदेशेन वाऽतिदेशेन वा न लप्स्यामहे ततो दर्विहोमन्यायेन विध्युद्देशस्यैव द्वे शक्ती कल्पयिष्यामः । अथ तु केनचिद्दूरस्थेनापि सेत्स्यति ततस्तदनुसारस्तावत्कर्तव्य इत्येवं साकाङ्क्षो विधिरास्ते । तथा वायुर्वै क्षेपिष्ठा देवतेत्येवमाद्यपि स्वाध्यायाध्ययनविधिना पुरुषार्थतयोपनीतं यच्छक्यते तत्कुर्यादित्युपबन्धाच्च सहसैव तेनासंबध्यमानमपुरुषार्थत्वेन च पूर्ववदक्षरादिष्वपर्यवस्यद्भूतान्वाख्यानवाक्यार्थं यावद्भूतम् । तत्रापि तु साकाङ्क्षमेवेति यस्तेन लक्ष्यमाणः साधनानुरूपसाध्योत्पत्तिद्वारेण क्षिप्रदेवतासाध्यं कर्म क्षिप्रमेव फलं दास्यतीति प्राशस्त्यरूपोऽर्थः सोऽनन्तरप्रवृत्तविध्युद्देशाकाङ्क्षितत्वात्पुरुषार्थे द्वारतां शक्नोति प्रतिपत्तुमिति परिगृह्यते । सोऽयं नष्टाश्वदग्धरथवत्संप्रयोगः । एवं च न प्ररोचनाऽन्यकृता कर्माङ्गम् । न चार्थवादपदैः प्रयोजनान्तरं साधनीयमित्याम्नानसामर्थ्यादुभयोर्नियमः । एतेन प्रतिषेधापेक्षितद्वेषसिद्धयंर्थ निन्दापदसंगतिर्व्याख्याता । तत्रापि हि न द्वेषादृते विद्वान्निवर्त्तते । द्वेषश्चाप्रशस्तप्रत्ययाधीनोत्पत्तिः । न चाप्रशस्तज्ञानं नाकारादिभिः पदैः प्रशस्ताप्रशस्तानभिधानेन निषेधतत्फलेतिकर्तव्यतामात्रपर्यवसितैः शक्यमवलम्बितुमित्यनन्यप्रयोजननिन्दावाक्यगम्यमेव भवति । अतश्चैकवाक्यत्वसिद्धिः । नित्यं च विधिप्रतिषेधयोः क्रमेण वाक्यशेषाः स्तुतिनिन्दानिर्णयहेतवो भवन्ति । न हि स्तुतिनिन्दे नाम व्यवस्थिते निन्दारूपासु स्तुतिषु स्तुतिरूपास्वपि च निन्दासु विपर्ययदर्शनात् । यथा वक्ष्यति नहि निन्दा निन्द्यं निन्दितुं प्रवर्तते अपि तु विधेयं स्तोतुमिति । तथा त्रैयम्बकवाक्येषु “यदभिघारयेत्तद्रुद्रायाऽऽस्ये पशून्निदध्यात्” इति स्तुतमप्यभिधारणं नाऽऽश्रयिष्यते निन्दितमपि चान्ते विधिदर्शनादभिघारणमेव प्रशस्तं भविष्यति । संदिग्धस्तुतिनिन्दानामपि च प्रक्रमादेव निर्णयो यथा वक्ष्यति न वयं निन्दिताननिन्दितान्वाऽसुरान्विद्मः । कदाचिद्धि यस्मादसुरानप्येषा वशीकृत्याऽऽनयति क्रिया तस्मान्नूनं प्रशस्तेति स्तुतिः स्यात् । अथ वा विध्वंसकासुरागमननिमित्तत्वादशोभनेति निन्दा । तत्रान्ते सामविधानात्तत्प्रशंसार्थमृचां निन्देति गम्यते । सर्वत्र 116 च किंचित्पदं स्तौति निन्दति चेतराणि त्वेकवाक्यतया तादर्थ्यं प्रतिपद्यन्ते । यत्रापि तादृशं पदं न स्यात्तत्रापि लक्षणा लक्षितलक्षणा वाऽन्यथानुपपत्तेराश्रयणीया । विधिप्रतिषेधयोश्च स्तुतिनिन्दाभ्यामविनाभावादन्यतरदर्शनेनेतरदनुमाय वाक्यं पूरयितव्यम् । एवं भारतादिवाक्यानि व्याख्येयानि । तेषामपि हि श्रावयेच्चतुरो वर्णानित्येवमादिविध्यनुसारेण पुरुषार्थत्वान्वेषणादक्षरादि व्यतिक्रम्य धर्मार्थकाममोक्षाधर्मानर्थदुःखसंसारसाध्यसाधनप्रतिपत्तिरुपादानपरित्यागाङ्गभूता फलम्2 । तत्रापि तु दानराजमोक्षधर्मादिषु केचित्साक्षाद्विधयः केचित्पुनः परकृतिपुराकल्परूपेणार्थवादाः । सर्वोपाख्यानेषु च तात्पर्ये सति श्रावयेदिति विधेरानर्थक्यात्कथंचिद्गम्यमानस्तुतिनिन्दापरिग्रहः । तत्परत्वाच्च नातीवोपाख्यानेषु तत्त्वाभिनिवेशः कार्यः । वेदप्रस्थानाभ्यासेन हि वाल्मीकिद्वैपायनप्रभृति भिस्तथैव स्ववाक्यानि प्रणीतानि । प्रतिपाद्यानां च विचित्रबुद्धित्वाद्युक्तमेवैतत् । इह केचिद्विधिमात्रेण प्रतिपद्यन्ते । अपरे सार्थवादेनापरेऽल्पेनार्थवादेनापरे महता । सर्वेषां च चित्तं ग्रहीतव्यमित्येवमारम्भः । तत्र तु केचिद्विधिप्रतिषेधाः श्रुतिमूलाः केचिदर्थसुखादिषु लोकमूलास्तथाऽर्थवादाः केचिद्वैदिका एव केचिल्लौकिका एव केचित्तु स्वयमेव काव्यन्यायेन रचिताः । सर्वे च स्तुत्यर्थेन प्रमाणम् । ये तु वाक्यशेषत्वं न प्रतिपद्यन्ते तेऽपि केचित्स्वयमेव श्रूयमाणगन्धमादनादिवर्णकप्रभृतयः प्रीतिं जनयन्ति । ये तु युद्धवर्णकास्ते सर्वेषां शूराणां भीरूणां चोत्साहकराः पार्थिवानामुपयुज्यन्ते । यत्र तु न किंचिद्दृष्टमुपलभ्यते तत्र विशिष्टदेवतादिस्तुतिद्वारमदृष्टं कल्पनीयमित्येषा दिक् । विध्युद्देशेनैकवाक्यत्वादिति । केचिदाहुः । किमर्था स्तुतिरिति चेत्कथं रोचेत नोऽनुष्ठीयेतेत्येवं स्तुतिनिन्दाभ्यां प्रवृत्तिनिवृत्तिप्रतिपादनं लिङादिभिश्चाभिधानमतस्तुल्यार्थत्वम् । न च तुल्यार्थानां समुच्चयः । तत्र ये तावदर्थवादरहिता लिङादयस्तद्रहिताश्चार्थवादास्तेषां यथाविषयं व्यवस्थितं निवर्तकत्वं प्रवर्तकत्वमविरुद्धम् । यत्र तु द्वयसंनिपातस्तत्रान्यतरेण कृतार्थत्वादवश्यावहेयेऽन्यतरस्मिन्भूयसामनुग्रहो युक्तः । त्यजेदेकं कुलस्यार्थ इतिवद्विधिप्रत्ययः परित्यज्यते । केवलप्रकृतिप्रयोगाभावात्तदनुग्रहार्थप्ररोचनालब्धविधित्वानुवादेन प्रवर्तते । यथा सत्रादुदवसाय पृष्ठशमनीयेन यजेरन्निति क्त्वाप्रत्ययसिद्धप्रवृत्त्यनुवादकत्वं वक्ष्यते । तस्माद्वायव्यश्वेतालम्भ इत्येतावन्मात्रं विव117 क्षितम् । स एव च विध्युद्देशः फलादिसंबन्धोत्तरकालं स्तूयत इत्येतद्भूतिकाम इत्येवमन्तो विध्युद्देश इत्यनेन कथ्यते । अन्यथा पुनरुद्देशग्रहणमनर्थकमेव स्यात् । सूत्रोक्तेन तु विधिनैकवाक्यत्वं न संभवतीत्यतिक्रम्य तद्विषयः परिगृह्यते । तथा चाऽऽह—नायमभिसंबन्ध इति । विधिविधेयसंबन्धनिषेधेन स्तुतिस्तुत्यसंबन्धं विवक्षितं वदति यतस्ततो भूतिरिति । सैव च भूतिनिमित्तस्य योजना । भिन्नाविमाविति पूर्वोक्तौ संबन्धावभिधत्ते । किमर्था स्तुतिरिति चेदिति । प्रत्ययश्चेदुत्खातस्तेनाविधीयमानस्य किं स्तुत्येति । अथ वा यदनया साध्यते तत्प्रत्ययेनैव सेत्स्यतीति मनसि कृत्वा वदति । आचार्यस्तूत्खातेऽपि प्रत्ययेऽर्थवादादेव तदर्थावाप्तिमुभयसंभवे चार्थवादानुग्रहं मत्वाऽऽह—कथं रोचेतेति । इतरः प्रश्नाभिप्रायं विवृणोति । प्रागेव सिद्धेः स्तुतिवचनमनर्थकमिति । नहीति ग्रन्थच्छेदः । सर्वत्रावान्तरवाक्यानि महावाक्येष्वप्रमाणं महासंख्यास्विवावान्तरसंख्या भवन्ति । तान्येव तु यदा केवलानि प्रयुज्यन्ते तदा निरपेक्षत्वाद्भवन्ति प्रमाणम् । यथा पटो भवतीति । न च कदाचिदेतावन्मात्रेण समाप्तेर्नैराकाङ्क्ष्यदर्शनात्सर्वत्र नैराकाङ्क्ष्यम् । योग्यपदान्तरानुच्चारणेन हि सर्ववाक्यानि पर्यवस्यन्ति । इतरथा पुनः श्रुतपदातिरेकेणापि निपुणदृशां भवत्येवापेक्षा । सा चानुपलब्ध्या निवर्तते । तथा च यत्रोपलप्स्यन्ते तत्रैकवाक्यतां गमयिष्यन्ते । अन्यथा ह्यसौ तदुच्चारणेऽपि न स्यात् । तदिह महावाक्येन विनाऽवान्तरवाक्यं प्रमाणं तत्सद्भावे तु नेत्येतदाह—यदा न स्तुतिपदानीति । नन्वेवं सतीति । यत्र महावा118 क्यावान्तरवाक्ययोः फलं भिद्यते यथा पटभवनरागभवने, तत्रेवं युक्तमिह त्वनतिरिक्तार्थस्य सतः किमवान्तरवाक्यनिराकरणमेव महावाक्यस्य युक्तं फलम् । तदेतदाह— यस्मिन् सत्यविधायकमवान्तरवाक्यं भवति मा भूत्तन्महावाक्यमिति । सत्यं विनाऽपि तेनेति । यो नाम वेदस्य कर्ता स्यात्स एवं पर्यनुयुज्येत लघुनोपायेन सिद्धे किं महावाक्यमाश्रयसीति । तदभावान्न पर्यनुयोगः । परिहारपथग्रामगमनवच्च श्रमातिरेकमात्रं स्यान्नार्थानवाप्तिः । दृष्टं चैवंजातीयकेषु गौरवाश्रयणम् । यथा तमेवार्थं खमित्येतावता सिध्यन्तमाकाशप्रभृतिभिरभिपलन्ति न च जाड्यं लभन्ते तथाऽत्र लिङादिभिरपि सिध्यन्तमर्थवादेभ्यो गृह्णत इति । शक्यते चेदमिह वक्तुं यथैवानेकोपायप्रसङ्गे मन्त्रेण स्मृतं क्रियमाणमभ्युदयकारि भवति तथाऽन्येनापि विधिसिद्धावर्थवादप्रतिपादिताविधिविहितमिति । ननु सत्स्वपि स्तुतिपदेष्विति । यत्र लघुमुपायमनुपादाय गुरूपाय आश्रीयते तत्र तथाऽपि भवेदत्र तु पूर्वमेव लघुतर आश्रितः समर्थतरश्च तस्माद्यथैव प्रयुक्ते खशब्दे नाऽऽकाशादयस्तदानीमेव प्रयुज्यन्ते तथाऽत्र विधौ सति स्तुतिर्नाऽऽश्रयितव्येति । तत्रोत्तरसाकाङ्क्षत्वात्स्तुतिपदान्यनर्थकानि स्युरिति । भवन्त्विति चेत् । नोक्तेन न्यायेनार्थवत्त्वादविवक्षितार्थता युक्तेति । द्वयसंभवे हि प्रत्यक्षादेकवाक्यत्वादर्थवादानुग्रहो युक्त इति । ननु सत्स्वपीत्यनेन गतार्थत्वान्ननु निरपेक्षादित्यवक्तव्यम् । तदुच्यते । तत्रार्थवादपरित्यागायोक्तमिदानीं तु भवतु नाभ स्तुतिसंबन्धः समस्तस्य पूर्वस्यापि तु स्वरूपावगतो विधिसंबन्धो न बाधितव्यः । अथास्य क्व चिदपि शक्तिरपह्रियते ततः प्रतिप्रसवहेत्वभावात्सर्वत्राशक्तत्वप्रसङ्ग इति । तदभिधीयते । भवतु पूर्वस्य विधिशक्तिर्न त्वियं क्वचिद्बाधितेत्यन्यत्रापि बाध्यते । कदा119 चिदाविर्भूतेति सर्वत्राऽऽविर्भवति । यत्र त्वर्थान्तरस्तुत्यादि नोपादीयते तत्राऽऽविर्भूता शक्तिः कार्यमारभते । यत्र त्वपवादभूतशक्त्यन्तराभिव्यक्तिस्तत्र वाक्यभेदप्रसङ्गात्पूर्वा तिरोधीयते । प्रश्नोत्तरत्वेनायं पूर्वोक्त एव वाक्यभेदः परामृश्यते । तस्मादैकार्थ्यात्प्ररोचनयैवात्र विधिरिति । प्ररोचयमाना अनुष्ठातॄणामिति । “रुच्यर्थानां प्रीयमाणः” इति संप्रदानत्वं कस्मान्न भवति । प्ररोचयतेः प्रकृत्यन्तरत्वादिति चेन्न । तत्रापि रुचिसंबन्धानपह्रवात् । अथ सामान्यविवक्षया षष्ठ्युच्यते । साऽप्युपात्ते विशेषे दुर्लभा । तस्मादनुष्ठातॄणां क्रियाया इति संबन्धः केभ्यः प्ररोचयमाना इत्यपेक्षितेऽर्थात्तेभ्य एवेति गम्यते । अथ चानुष्ठातॄणामुपकरिष्यन्तीति संबन्धः । क्रियाया इति पञ्चमी क्रियातोऽपि हि त एव प्ररोचका इति । अथ वा क्रियार्थमिति षष्ठ्यर्थः कल्प्यः । कंचिदर्थं स्तुवन्तीति शत्रन्तं कंचिदिति विधेयं तत्संबन्धिनं वा कंचिद्वा विदधति क्रियां तत्संबन्धिनं वा तच्च स्तुतिद्वारेणेत्युपपन्नं प्रत्ययोद्धारेणार्थवादप्रामाण्यम् । इदं तु व्याख्यानं नानुमन्यन्ते । यदि हि प्रत्ययोत्खातिः स्यात्ततः केन स्तुतिराकाङ्क्ष्येत न तावच्छब्दभावनाकथंभावोऽस्ति । याऽपि कस्मादित्यपेक्षा कल्प्येत साऽपि विधीतिकर्तव्यताविषयैव तदनुग्रहार्थत्वात् । शब्दान्तरव्यपदेशमात्रं तु भिद्यते । साऽपि च नियुज्यमानस्यैव पुरुषस्य भवति न क्रियामात्रश्रवणात् । न हि वायव्यश्वेतालम्भ इत्युक्ते कर्तव्यताऽकर्तव्यतोक्तेः प्राक् प्रशस्तोऽप्रशस्त इति वाऽपेक्ष्यते । तदनपेक्षितं च श्रुतिमात्रेणैव वदन्तो नार्थवादाः प्रतिपादयन्ति । न च धात्वर्थेन सह कस्यचित्संबन्धोऽपेक्षा वा विद्यते । सर्वस्य भावनागामित्वात् । भावना तु प्रत्ययोद्धारेणापनीता किमपेक्षेत । तस्मात्तद्गतांशत्रयोच्छेदान्न भूतिः फलं न यागः करणं न वेतिकर्तव्यता काचित्स्यात् । उक्तेऽपि च प्राशस्त्ये कस्मादित्यनपेक्षितत्वात्प्रशस्तोऽयमित्येतावन्मात्रेऽवधृते प्रशस्तत्वादित्यनुच्यमाने कर्तव्यताबुद्धिर्नैव स्यात् । भवन्ती वा तन्निष्ठा भवेत्प्रशस्तोऽयं कर्तव्यः पटो रक्तः कर्तव्य इतिवत् । अकल्पिते विधावानर्थक्यमेव स्यात् । प्रत्यक्षं च विधिमुत्सृज्य पारम्पर्यलक्षणयाऽर्थवादेभ्यः परिगृह्यत इत्यपूर्वा वाचोयुक्तिः । न 120 चैतत्कल्पनावसरोऽस्त्यन्यतः सिद्धत्वात् । अनुक्तो हि सन्नर्थवादादेव विधिः कल्प्येत यद्यन्यथा नोपपद्येत । प्रत्यक्षप्रत्ययोपपन्नत्वान्नान्यथानुपपत्तिस्तथाऽर्थवादोऽपि यद्युपाख्यानादिष्विव प्ररोचनायां निष्प्रयोजनः स्यात्ततो दूरं नीयेत । यथोक्तेन तु न्यायेन प्ररोचनोपयोगान्नान्यत्र गच्छतीत्यवश्यकर्तव्या च प्ररोचना यद्यन्यतः सिध्येत्ततोऽर्थवादान्नापेक्षेत । साऽपि त्वनन्यगतिकत्वात्तमेवाऽऽश्रयति । सर्वत्र च वैदिकेऽर्थेऽर्थापत्त्या शब्दः कल्प्येत ततोऽर्थसिद्धिस्तेन प्ररोचनया विधिशब्दः कल्प्येत नार्थः, तत्कल्पनावेलायां च यथैन्द्रवायवादिवाक्येषु सोमेन यजेतेत्यस्मिन्नुपतिष्ठमाने नान्ययजिकल्पना तथैवाऽऽलभेतेत्यनेनान्यानुमानप्रतिबन्धः । तुल्यार्थयोश्च बाधविकल्पौ भवतः प्रत्ययार्थवादयोः पुनरत्यन्तभिन्नानुग्राह्यानुग्राहकार्थविषयत्वेनार्थभेदात्समुच्चय इत्येकवाक्यता । यदि च प्रत्ययोत्खातिः स्यात्ततः कर्तृसंख्योपग्रहविशेषावगतक्रियाफलस्वार्थपरार्थत्वाद्युच्छेदप्रसङ्गः । स्यादेतत् । विधित्वमात्रमविवक्षयित्वा शेषविवक्षया कर्तृसंख्यादिलाभ इति । एतच्चाशक्यं यतस्तदर्थमप्युपात्तः प्रत्ययः सामर्थ्याद्विधित्वं वदत्येव । प्रतीतस्य च द्वय्येवाविवक्षा विध्यसंस्पर्शो वा ग्रहैकत्ववदनुवादकत्वं वेन्द्रियकामहोमवत् । न तावद्विधेरविधित्वं नाम किंचित् । नाप्यनुवादस्तस्यामवस्थायामप्राप्तेः । न ह्येवं संभवति योऽयं वायव्यश्वेतालम्भः कर्तव्यः स प्रशस्त इति । भवति त्वेवं कर्तव्यः प्रशस्तत्वादिति । यत्तूदवसानीयवदिति तत्रापि क्त्वावशेन विधिप्रतिषेधावनपेक्ष्य क्रियामात्राक्षेपाद् विधित्वमाश्रितमेवेत्यदृष्टान्तता । यदि च विध्यविवक्षा स्यात्ततः प्रत्यासत्तेर्धात्वर्थ एव साध्यांशे निपतेदिति निष्फलत्वं स्यात् । तस्मात्सूत्राविनाशेनैव विधिनैकवाक्यत्वम् । तथा च भाष्यकारः । सविधिकमेव भूतिकाम इत्येवमन्तो विध्युद्देश इत्याह । अन्यथा धात्वर्थ इत्येवावक्ष्यत् । न चास्य क्रियामात्रतया विध्युद्देशत्वं शक्यते वक्तुम् । तस्मात्प्रत्यय एव विध्यभिधायित्वाद्विध्युद्देशः । विध्यर्थेन त्वेकवाक्यत्वासंभवात्सूत्रातिरेकेणोद्देशग्रहणम् । भूतिकाम इत्येवमन्त इति च फलादिसंगत्युत्तरकालं स्तुत्यवसरप्रदर्शनार्थम् । नन्वेवं सति वर्तमानापदेशेष्वनाकाङ्क्षणादर्थवादा न संबध्येरन् । एवमेवैतत् तथाऽपि तु प्रमाणान्तरप्राप्त्यभावात्क्वचित्प्रयोगवचनेन क्वचित्पञ्चमलकारेण । अथवा श्रुतवर्तमानान्यथानुपपत्त्या कल्पिते विधित्वेऽर्थवादसंगतिः । यत्रापि केवलार्थवाददर्शनादेव विधित्वं तत्राप्यन्यथानुपपत्तिमात्रं शरणम् । संभवन्त्यां तु गतौ नातिगौरवं युक्तमिति । यस्त्वस्मिन्पक्षे वाक्यभेदः संबन्धद्वयाश्रयणादिति स आलभेत प्रशस्तत्वादित्येकप्रसरोपपत्तेः परिहृतः । विधीयमानस्यैव हि स्तुत्याकाङ्क्षेत्यवैरूप्यादुपपन्नं तन्त्रत्वम् । यदि चैवंविधैः संबन्धभेदैर्वाक्यं भिद्येत ततः साध्यसाधनेतिकर्तव्यतासंबन्धैरपि भिद्येत । 121 तस्मान्नायमाभिसंबन्धो3 विवक्षित इत्यादिभाष्यमेवं नेतव्यम् । न पूर्वत्रैव साङ्गविधिपर्यवसानं विवक्षितम् । विधित्वादिद्वारप्ररोचनाकल्पनायामतिगौरवनिमित्ताद्वाक्यभेदात् । किमर्था स्तुतिरिति । पूर्वेणैव प्ररोचनाऽपि सिद्धेत्याभिमानात् । कथं रोचेतेति—विध्यनुग्रहकथनम् । ननु प्रागिति—पूर्वाभिप्रायविवरणम् । हीति । स्तुत्यभावे तस्य शक्तिद्वयमगत्याऽऽश्रीयते न संभवन्त्यामपीत्येतन्न तदा भूतिकामस्य विधिः समाप्यत इत्याह—यथा पट इति । गतार्थम् । विधिशब्देन तदा प्ररोचनेति विवृतं कार्यनानात्वं विधिस्तुत्योः । नन्वेवमिति । अस्ति चेत्प्ररोचयितुमपि शक्तिः कस्मादन्यदपेक्ष्यत इति । सत्यमिति । तस्माद्विद्यमाने तस्मिन्नाविद्यमाने योऽर्थः स गम्यते । कश्चासौ । स्तुतिः प्रयोजनं तयोः । न तस्यैव पूर्वस्यापीत्यर्थः । स्तुतिविषयोपकल्पनाच्च विधेरपि स्तुतिप्रयोजनव्यपदेशः । न हि निर्विषया स्तुतिरुपपद्यते । अर्थवादाभावे त्वगत्या केवलोऽपि गौरवमङ्गीकरिष्यति । ननु सत्स्वपीति । पूर्ववदेव व्याख्येयम् । अतोऽस्माद्विधेरिति4 । इदानीं षष्ठी, वाक्यशेषसंबन्धादित एवास्य स्तुतिमवगच्छामो न स्वत इत्यर्थः । ननु निरपेक्षादपीति । यदि क्वचिदनितिकर्तव्यताकस्य विधेः प्रवर्तनशक्तिः कस्मादन्यदपेक्षते तेन सत्स्वप्यनादरः स्यात् । आचार्यस्तु सोपहासमाह यत्रासौ केवलः प्रयुज्यमानो निरपेक्षस्तत्रं भवतु न कश्चिद्विरोधः । इह तु न तत्संभवः साकाङ्क्षैः पदान्तरैराक्षिप्तत्वात् । वाक्यं ह्येकमेकस्यैव संबन्धस्य विधायकं तत्र यदि द्वौ विध्युद्देश एव कुर्यात्तथा सति भिद्येत । विध्युद्देशोत्थापितानामेवैष हि गुणो भवतीति प्ररोचनां दर्शयति । तस्माद्विधिनैकवाक्यत्वात्तदनुग्रहेणार्थवन्तोऽर्थवादा इति ॥ ७ ॥

चशब्दव्याख्यानार्थं परिचोदनोपन्यस्ता । आनर्थक्यमेवास्त्विति तन्नैव । कुतः । पूर्वोक्तेन न्यायेनार्थस्यावगम्यमानत्वात् । अथ वा तन्नेत्यवच्छिद्यैवमर्थावगमादित्युक्त122 प्रकारपरामर्थः । किं च तुल्यं चेति योजना । संप्रदायानुग्रहार्थं धर्मजातम् । तत्संबन्धस्मरणात् । स्वर्गाद्यसंयोगाच्च । न चास्य प्रयोजनवत्संनिहिताध्ययनपरित्यागेनान्यार्थत्वे प्रमाणमस्ति । संप्रदायाङ्गत्वेऽपि चाविघ्नस्याऽऽकाङ्क्षितत्वात् । तादर्थ्यस्मरणाच्चाविघ्नार्थत्वम् । न ह्यन्यत्कल्प्यमानं स्वाध्यायेतिकर्तव्यतानुगुणं भवति । यदि तावत्स्वर्गः कल्प्येत ततः पुरुषार्थत्वमेवाऽऽपद्यते । अथ पुनः क्रतुफलसिद्धिरेवं पठिते वेदे भवतीति । एवमपि दूरस्थोपकारितैव । तस्मात्संप्रदायस्याक्षरग्रहणं साधयतो नियमजातमनुग्राहकम् । न च निष्प्रयोजनस्याविघ्नेन कार्यं वरं तादृशस्य विघ्नमेवोत्पन्नं येन क्लेशोऽपि तावन्न स्यात् । यतस्ते सप्रयोजनैर्विधिवाक्यैस्तुल्यमेवाऽऽद्रियन्ते । तेनावश्यं तद्वदेव प्रयोजनवन्त्यपीति । नियमस्मृतेश्च वेदमूलत्वाद्वेदकृत एवायमादरः । स च प्रयोजनवत्त्वादृते नोपपद्यत इति प्रयोजनवत्त्वमपि सामान्येनानुमायार्थाद्वा कल्पनैकदेशत्वादिति । सामर्थ्यतोऽर्थवादानां स्तुतिर्नाम प्रयोजनविशेषो लभ्यते । स्मरणं च दृढमित्येतदेवाऽऽह । अथ वा यदेवेदं ग्रन्थस्मरणं परिपालनात्मकं तेनाध्येतृपुरुषप्रयोजनवत्त्वाभिप्रायप्रतिपत्तिपूर्वकं प्रयोजनवत्त्वानुमानम् । संभाव्यते च कुतश्चिद्वाक्यादियं प्रतिपत्तिरिति नाप्रमाणम् । अन्यथा हि निष्प्रयोजनान्येतानीति केचित्परित्यज्यार्थवादान्विधिमात्रं प्रतिपद्येरन् । तत्र दृढस्मरणमेतेषु न स्यात् । अस्ति तु तत् । तस्मान्न प्रमादपाठः । ततश्चार्थवन्त इति । तुल्यं च सांप्रदायिकमित्यस्यापरा व्याख्या । संप्रदायः प्रयोजनं यस्य वाक्यस्य येन प्रवर्तितः संप्रदायस्तस्मात्स्वाध्यायोऽध्येतव्य इत्येतत्स्वाध्यायत्वाविशेषाद्विध्यर्थवादयोस्तुल्यमतः प्रागुक्तेन न्यायेन प्राक् पुरुषार्थासिद्धेरवस्थातुं न लभ्यत इति शक्त्यनुसारेण स्थितमर्थवादानां स्तुत्यर्थत्वमिति ॥ ८ ॥

उक्तदोषपरिहारोऽतः परम् । शास्त्रदृष्टविरोधिका याऽत्रानुपपत्तिर्विधिकल्पनायामुक्ता123 तामस्मत्पक्षमप्राप्तां मन्यामहे । अथवेदं स्तुतिव्याख्यानं तामनुपपत्तिमप्राप्तमिति व्याख्येयं येषां ह्रस्वः पाठः । प्रयोगे ह्यनुष्ठांने रोदनवपोत्खननदिङ्मोहस्तेयानृतवादादीनां कल्प्यमाने विरोधः स्यात् । अस्माकं तु पुनर्य एषां शब्दानां श्रौतोऽर्थः स नैव विवक्षितः । न चाध्याहारादिभिर्विधिः किं तर्हि स्तुतिमात्रं विवक्षितम् । न च तद्विरुध्यते तस्मादुपपद्येत । अथ वा शब्दार्थस्त्विति विधायकशब्दानुग्रहार्थः सन्नयमर्थवादो न स्वार्थानुष्ठानेन संबध्यते प्रयोगमप्राप्तोऽप्रयोगभूतस्तस्मादुपपद्येत । त्रयोऽत्र पाठाः । अप्राप्तां चानुपपत्तिमित्यत्र मन्यामह इति वाक्यशेषः । अप्राप्तं चानुपपत्तिमित्यपरस्तत्रास्मद्वयाख्यानमित्यध्याहारः । अप्राप्ता चानुपपत्तिरित्यपरस्तत्रास्मत्पक्षे विज्ञेयेति ॥ ९ ॥

यत्र तावद्विधिस्तुत्योरेकविषयता तत्रोपपद्यतां नाम, संबन्धे विषयनानात्वे तु कथमिति । गुणादित्याह । यत्क्रियायाः संबन्धिनि स्तोतव्ये तत्संबन्ध्यन्तरं स्तूयते अथ वा यद्विकारे प्रकृतिसंबन्धिनि विधानार्थं स्तोतव्ये तत्संबन्ध्यन्तरं प्रकृतिः स्तूयते तत्र तद्द्वारेणापि लोके वेदे च स्तुतिसिद्धेः प्रकारान्तरता । तस्माददोषः । एतस्यास्तु स्तुतेरर्थमुपरिष्टाद्वक्ष्यति । शान्ताभिरद्भिः संबद्धो विकारः शान्तिहेतुर्भवन्यजमानस्य कष्टं शमयतीति । गुणवादसूत्रेण शुद्धेनैव तावद्रोदनाद्युदाहरणत्रयपरिहारः । शेषसुत्राण्यप्येतदुक्तोपपादनार्थतया संभन्त्स्यन्ते । तत्रोदाहृतानां गौणतानिमितं किंचिदिहैव वक्ष्यते परं 124 तु तत्सिद्धिसूत्रे । सोऽरोदीदिति साकाङ्क्षत्वेनैकवाक्यता विधिस्तुत्योः प्रत्यवयवं कथ्यते । स इति प्रकृतापेक्षः । कुतः । तत्प्रत्ययात् । तद्धि प्रकृतं प्रतीयते । अथ वा तच्छब्दस्य प्रकृतग्राहित्वं प्रसिद्धम् । स इत्युक्ते तच्छब्दप्रत्ययात्स एवार्थः । एवं तस्य यदश्रु तद्रजतमिति संबन्धः । सर्वा चेयमुपरितनस्य निन्दाग्रन्थस्योपपत्तिरिति तदनन्तरं तदभिधानमुपपद्यते । कोऽसौ ग्रन्थस्तं दर्शयति । यो बर्हिषि रजतं दद्यात्पुराऽस्य संवत्सराद्गृहे रोदनं भवेदिति । केन हेतुना तदेवं भवतीति तदुपपाद्यते कारणानुरूपत्वात्कार्यस्य रोदनप्रभवरजतदानाद्रोदनोत्पत्तिस्तस्मान्न देयमिति सकलमदानस्योपपत्तिरिति । निन्दया तच्छेषत्वमर्थवत् । गुणवादस्तु शब्दालम्बनं रुद्रशब्दोत्थापिताविज्ञानवशेन रोदनसामान्यतोऽदृष्टकल्पना । अश्रुणश्च शौक्ल्याद्यदि नामैतत्कठिनं भवेत्ततो रजतसदृशं भवेदित्युत्प्रेक्ष्य तत्प्रभवनिन्दा । धनत्यागेनात्यन्तोदारस्यापि गृहजनः पीड्यत इति तत्सामान्याद्वा रोदनोपन्यासः । एवं येन केनचिदालम्बनेन निन्दाविज्ञानोत्पत्तिः प्रतिषेधोपकारिणीति मुख्यार्थाभावेऽप्यदोषः । एवं वपोत्खननादिवाक्ययोजना । स्वात्मवपोत्कर्तनेनापि हि विशिष्टप्रयोजनार्थं कर्माणि 125 क्रियन्ते किमुत बाह्यधनत्यागेनेति स्तुतिः । यथा नेत्रमप्युद्धृत्यायं ददातीति लोकेऽपि त्यागिनं स्तुवन्तीति । वृत्तान्तपर्यवसायी च वेदस्तत्र प्रामाण्यमप्रतिपद्यमानः स्तुतौ सत्यत्वान्नान्यत्रान्वेषणमर्हतीति निष्प्रयोजनोपाख्यानसत्यतथा नार्थः । शब्दभावनाङ्गं वाऽर्थवादाः । सा च प्रवृत्तिर्विज्ञानमात्रेणैवोपयुज्यते नार्थेन । अर्थात्मिकार्या तु सर्वत्राविसंवादः सिद्ध एव । अथोच्येत, असदन्वाख्यानेन स्तुतिनिन्दात्वमिति सुतरां तत्र प्रतीयते । कामं परमार्थे वक्तारो भवन्ति काऽत्र स्तुतिर्निन्दा वा सत्यमेवैतदिति । असत्ये तु यस्मादन्यत्र दुष्टमप्यवधृतमिह गुणवन्तमिति ब्रवीत्यतो नूनं मे प्ररोचयति तथा गुणवन्तं सन्तं निन्दति निवर्तयितुमिति । ततश्चैवं विदित्वा यो यस्यानतिक्रमणीयस्तदनुरोधेन स तथा प्रवर्तते । वेदश्च प्रमाणमिति स्थितम् । तेन प्रवृत्तिनिवृत्त्यनुग्रहणीये स्वसंवेद्येऽर्थे पुंसः प्रशस्ताप्रशस्तज्ञाने भवतः । इह ते वेदेनोत्पादिते । तस्मात्तदनुरूपं व्यवहर्तव्यमिति लोकेऽपि यां क्रियां फलान्तरयुक्तां मेधादिहेतुत्वेनाऽऽप्तां मन्यन्ते तस्यां कंचित्प्रवर्तयन्तस्तदभिप्रेतं सौभाग्यादिफलमसत्यमप्युपन्यस्य नियुञ्जते । तत्प्रवृत्तश्चेतरोऽपि क्रियाश्रयं फलं प्राप्नोति । यद्यपि च प्रतिपत्ता जानाति नैतदत्र पारमार्थिकं फलं मदभिप्रायानुसारेणैतै5रुपन्यस्तं सर्वथा त्वपुरुषार्थे मां न प्रवर्तयन्ति तदसत्यं नामैतत्किमप्यन्यदवाप्स्यामीति ज्ञात्वाऽनुतिष्ठति । एवं वेदेऽपि विधिना तावत्फलमवगमितमर्थवादास्त्वसत्येन नाम प्ररोचयन्तु न तद्गते सत्यासत्यत्वे किंचिद्दूषयतः प्रवर्तनमात्रोपकारित्वात् । यत्तु परस्ताद्भविष्यति तद्विधेरुपरिगतमिति निश्चित्य नैव विद्वांसो न प्रवर्तन्ते । तस्मादुपाख्यानासत्यत्वमतन्त्रम् । न हि शुक्तिकादृष्टसत्यरजतो यदि रजतान्तरं तद्देशे लभते ततोऽभिसंधीयते । शुक्तिकावत्तु किंचिदालम्बनं श्रुतिसामान्यमात्रेण सर्वत्र योजनीयम् । यथेह महाभूतानि प्रजाः 126 पान्तीति प्रजापतित्वेनोच्यन्ते । वाय्वादीनां यथासंख्येन मध्यवर्तिनः सारावृष्ट्यादयो वपास्तामग्नाविति तेनैव क्रमेण वैद्युते वृष्टिमार्बीसे शरीरान्तर्वर्तिनि वायुमन्तश्चरत्वसामान्याद्रश्मिं लौकिके तदाप्यायनात्तस्य । ततोऽज इति बीजादीनां सामान्येनानादित्वादजत्वप्रसिद्धेः । तमालभ्य प्राप्य प्रजाः पशूनाप्नोति । सर्वप्रजानां व्रीह्यादिपरिणामप्रभवत्वादित्यालम्बनम् । एतस्मिंस्तु प्रक्रमे सत्यं सालम्बनता किं तु स्तुतित्वमेव हीयते । अतः स्तुतित्वात्यागेनैव स्वार्थसत्यतां वर्णयामः । मन्त्रार्थवादेतिहासप्रामाण्यात्सृष्टिप्रलयाविष्येते तत्र सृष्ट्यादौ प्रजापतिरेव योगी तस्मिन्काले पुण्यकर्मोद्भवाभ्युपगमेन पशूनामभावात्स्वमाहात्म्येनाऽऽत्मन एव पशुरूपमभिनिर्माय वपोत्खननादि कृतवांस्ततोऽसमाप्त एव कर्मणि तूपरः पशुरुत्थित इतीदृशमिदं कर्म प्रत्यासन्नफलम् । एवं च महता यत्नेन प्रजापतिना चरितमिति सर्वं सत्यमेव । प्रतिसृष्टि चर्तुलिङ्गन्यायेन तुल्यनामप्रभावव्यापारवस्तूत्पत्तेर्नानित्यताप्रसङ्ग इति । कर्मसु कौशलेन दीव्यन्तीति देवा ऋत्विजः, ते देवयजनाध्यवसानानन्तरं दर्शपूर्णमासयोरनभ्यस्तं सौमिकं कर्मराशिमालोक्य कथमविदितं करिष्याम इत्याकुलीभावसामान्याद्दिङ्मोहाभिधानम् । तथा च लोके कर्तव्यतासु दिशो मे परिभ्रमन्तीति वक्तारो भवन्ति । तत्र तद्व्युदासेनादितियागः प्रशस्यते कथं तु तद्द्रव्युदसनम् । अवधारणावकाशदानात् । यावद्धि प्रायणीयायां प्राकृतानि समभ्यस्तानि कर्माणि क्रियन्ते तावदितरेषु भविष्यत्सु प्रणिधानं भवति अन्यथा सर्वस्मिन्नप्राकृते निरवकाशत्वादनवधारणं स्यात् । तेनाऽऽदित्येनैवैतज्ज्ञापितमिति मोहापनयेन स्तुतिः ॥ १० ॥

127 इह सर्वं क्रियमाणं मनसा संकल्प्य वाचा चाभिधाय क्रियते तदत्यन्तान्तरङ्गभूतयोरप्यनयोर्दूरेण हिरण्यादूनत्वं स्तेयानृतवादयोगादिति । या निन्दा तन्मात्रपर्यवसायिनी सा निषेधफला भवति । विधिपरा तु स्तुत्यर्था जायते । तदुपपादनस्य दृष्टार्थत्वात् । यथा वक्ष्यति न चेदन्यं प्रकल्पयेत्प्रकॢप्तावर्थवादः6 स्यादिति ॥ ११ ॥

तस्माद्धूम एवेति दिवाऽग्निरादित्यं गच्छतीत्यस्योपपत्तित्वेन । तदिदं किमर्थमुच्यते । मिश्रलिङ्गाग्निहोत्रमन्त्रविधिस्तुत्यर्थम् । कथं पुनरग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेत्यनयोर्मिश्रलिङ्गत्वम् । यदा विविक्तावेवाग्निसूर्यौ देवतात्वेनोपलभ्येते । के चिदाहुः । अग्निर्ज्योतिरित्यत्र ज्योतिःशब्दः सूर्यवाची सूर्यो ज्योतिरिति पुनरग्निवाची तेनोभौ मिश्रलिङ्गाविति । तदयुक्तम् । ज्योतिःश्रुतेस्तेजः सामान्यवाचित्वेनोभयत्र सामानाधिकरण्येनोपपत्तेः । अन्यतरपर्यायश्च सन्नितरत्र न प्रयुज्येत । न हि यो यत्पर्यायः स तेनैव सह प्रयुज्यते । सूर्यवाची सन्प्रातर्मन्त्रे न प्राप्नोति । अग्निवाची सायंमन्त्रे । तस्मादुदाहरणं भ्रान्तिलिखितमितीमावुदाहर्तव्यावग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहा सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहेति । तद्विधेश्च स्तुतिः प्रथमविहितकेवलदेवत्यमन्त्रपर्युदासेन मिश्रलिङ्गविधानोपपत्तिरियमुच्यते । यदनयोर्मिश्रत्वं दिवाऽग्नेरनुप्रवेशान्नक्तं चाऽऽदित्यस्येति केवलेज्या न युक्तेति । अस्मिन्नपि तु व्याख्याने पर्युदसनीयत्वेनैव पूर्वमन्त्रोदाहरणम् । इतरौतु स्तुतिभागिनौ मिश्रलिङ्गाभिधानादेव ज्ञास्येते इति नोच्चारिताविति भाष्यं नेयम् । अथ वोभयोः केवलमिश्रलिङ्गयोर्मध्ये पठितोऽयमर्थवादः । 128 तत्र उभयदेवत्ययोरन्या प्रशंसा, इतरयोः पुनरियं, यस्माद्दिवाऽग्निरादित्यं गच्छति तस्मात्सूर्य एव तदा ज्योतिः । एवं नक्तमग्निरतस्तौ व्यवस्थितावेव यष्टव्याविति स्तुतिः । कथं तु धूम एवेत्यवधारणा । दूरस्थैर्भूम्ना दिवा धूम एव गृह्यते रात्रावर्चिरिति केनचिदंशेन स्तुत्यालम्बनम् ॥ १२ ॥

प्रवरे प्रव्रियमाणे यजमानो वदेद्देवाः पितर इत्यादि । तत्प्रशंसार्थमुक्तमब्राह्मणोऽपि बाह्मणो भवति प्रवरानुमन्त्रणेनेति । तत्र प्रसिद्धब्राह्मणत्वानामेव ब्राह्मण्यलाभो निष्प्रयोजन इति तदुपपत्त्यर्थमुक्तं न चैताद्विद्म इति । ज्ञायमाने त्वज्ञानवचनं दुर्ज्ञानत्वात् । यत्सुस्वेनाज्ञानं तदज्ञानमेव । तच्च स्त्र्यपराधनिमित्तम् । सत्यपि च स्त्र्यपराधे यदि मातुरेव क्षेत्रिणो वा पुत्रः स्यात्ततस्तयोः प्रसिद्धजातित्वान्नैव दुर्ज्ञानता भवेत् । तयोरप्येवमेवं तत्पूर्वजयोरित्यनादिन्यायेन जातिरधार्येतैव । यतस्तु माता भस्त्रा पितुः पुत्र इति स्मर्तॄणां दर्शनं जनयितुश्च नानाजातित्वोपपत्तिस्तेन वर्णसंकरः । वेदेऽपि चाप्रमत्ता रक्षत तन्तुमेनमिति जातिविच्छेददर्शनं स्त्र्यपराधे कर्तृपुत्रनिमित्तमेवोपपद्यते । अन्यथा ह्यपरिरक्ष्यमाणेऽपि नैव स्वजातितन्तुविच्छेदो भवेत् । तेनास्ति प्रशंसावकाश इति । निरूढब्राह्मण्यप्रवरसंकीर्तनात्तत्प्रभवोऽयमिति ज्ञानाद्ब्राह्मणः कृतो भवतीति स्तुतिः ॥ १३ ॥

यत्तदानीमेवोत्पद्यते तदाकालिकम् । तच्च सर्वलोकस्याभिमतं न यच्चिरभावि । तस्मात्प्रवर्ग्यकाले दिक्ष्वतीकाशकरणं प्राग्वंशस्य प्रशस्यते । तद्धि सद्यःफलं धूमक्लेशाननुभवात् । इतरत्तु कर्मजन्यं सत्कदाचिद्भविष्यति । कस्तद्वेद शास्त्रमात्रगम्यं हि 129 तत्, इदं तु सर्वप्रत्यक्षम् । तदपेक्षया च ज्ञायमानेऽप्यज्ञायमानवचनमितरप्रशंसार्थम्- । पाठान्तरमाकालिकडाद्यन्तवचन इति । अकालिकमिति वा पाठः । काल इति लोके विप्रकर्ष उच्यते । तत्र भवं कालाठ्ठञिति ठञि कालिकं न कालिकमकालिकम् ॥ १४ ॥

अध्ययनविधिशेषत्वादफलविधिः सन्यथाविज्ञातमुखशोभावाजिमत्त्वानुवादो विज्ञायते । न चैक एव प्रकारो मुखशोभायाः संस्थानं रमणीयता लावण्यं चेति । स्त्रीविषयं ह्येतत् । विदुषां पुनः पदवाक्यन्यायोद्गारि मुखं शोभते तेनाऽऽत्मना मुख्ययैव वृत्त्या शोभते । पुत्रश्च वाजवान्व्रह्मवर्चसद्वारेण । अथापि गौणता तथाऽपि स्तुतिपरत्वाददोषः ॥ १५ ॥

संस्कारकर्मत्वान्न फलविधिः । स्तुतेस्त्वालम्बनं निमित्ते नैमित्तिकवदुपचारात् । सर्वकामनिमित्तानां कर्मणां सामान्यसाधनभूतानग्नीनवाप्नोतीत्यर्थः । सूत्रं चैवं योज्यते । सर्वकामनिमित्तैः कर्मभिराहिताग्नित्वादिदानीमधिकृत इति वक्तव्ये सत्याधिकारिकं सर्वत्वं स्तोतुमवाप्तावुपचरितम् । ननु चाऽऽकाशगमनसुरकन्यालाभादयोऽत्यन्तासन्तः सर्वशब्देन वैदिकेषु कर्मसु निमित्तद्वारेणापि न शक्यन्तेऽनुवदितुमतः पुनः सूत्रमुच्यते । यथैवौदनादिषु सर्वशब्दोऽधिकृतापेक्षत्वान्न त्रैलोक्यं गृह्णाति तथाऽत्राग्निकर्माधिकृतफलग्राही भविष्यतीत्यदोषः ॥ १६ ॥

130 तच्चैतत्समानस्वर्गादिफलेष्वग्निहोत्रादिषूपयोक्ष्यत इत्युपन्यस्तं साधनानुरूपत्वात्साध्यानाम् । सर्वे हि कामाः पूर्णाहुत्याऽवाप्यमानाः स्तोकस्तोकाः प्राप्यन्ते । तत्र फलभूमार्थिनः कर्मान्तरविधिरर्थवान्भविष्यतीति स्थिते चोद्यते । युक्तं लोके कृष्यादिफलानां प्रत्यक्षावगतत्वात्साधनानुरूपं जन्म । पूर्णाहुत्यादिषु त्वत्यन्तशास्त्राधीनत्वादविशेषश्रुते फले किंमूला विशेषकल्पना । न ह्यग्निहोत्रज्योतिष्टोमस्वर्गयोः कश्चिद्विशेषः श्रूयते । न चानुमानमीदृशे विषये समर्थम् । तदभिधीयते । विधिसामर्थ्यादेवेदं सिद्धम् । कथम् । यदि ह्यल्पान्महतश्च कर्मणः समं फलं जायेत ततोऽर्के चेन्मधु विन्देतेत्यनेनैव न्यायेनाल्पेन सिद्धे महति न कश्चित्प्रवर्तेत । तत्र विधिशक्तिबाधः स्यात् । अविहतशक्तिस्तु सन् अर्थाद्वा कल्पनैकदेशत्वादिति7 विधिरेव फलाधिक्यमङ्गीकरोति । अतो यथा विश्वजिदादौ फलसद्भावः प्रमाणवानेवमिह तद्विशेष इति । किं च

कर्मणामल्पमहतां फलानां च स्वगोचरः ।
विभागः स्थानसामान्यादविशेषेऽपि चोदिते ॥

यथैव क्रमाम्नातानामङ्गाङ्गिनां प्रथमस्य प्रथमं द्वितीयस्य द्वितीयमिति विनियोगव्यवस्था तथैव कर्मगोचरेऽल्पस्य कर्मणः परिमाणसामान्येन फलगोचरेऽल्पमेवोपतिष्ठते । मध्यमस्य मध्यमं महतो महदिति स्थानमेव विनियोजकम् । स्मरणमप्येवमेव । चातुर्मास्यसोमेषु च फलार्थवादो यदाऽग्निहोत्रं जुहोत्यथ दश गृहमेधिन आप्नोत्येकया रात्रियेत्यारभ्य न्यूनाग्निहोत्रदशसंवत्सरप्रयोगादिभिरेकदर्शपूर्णमासादिप्रयोगावाप्तिवचनं कर्माल्पत्वमहत्त्वकृतं फलभेदं दर्शयति ॥ १७ ॥

यथैव वाङ्मनसयोर्निन्दा हिरण्यस्तुत्यर्था तथा शुद्धपृथिवीनिषेधः प्रकॢप्तावर्थवादः स्यादित्येवं हिरण्यनिधानस्तुत्यर्थो न प्रतिषेधमात्रफलः । नान्तरिक्षे न दिवीत्यौचित्येन शुद्धपृथिवीनिषेधसमर्थनायैव यथाऽन्तरिक्षे दिवि वा चयनं न प्रसिद्धं तथा हिरण्यरहितायां पृथिव्यामिति स्तवनम् । अनित्यसंयोगो गतार्थः परं तु श्रुतिसामान्य131 मिति । प्रयोजनं रात्रिसत्रे पूर्वपक्षे स्वर्गः फलं स्यादिति सिद्धान्ते त्वर्थवादस्थमेव फलम् ॥ १८ ॥

इत्यर्थवादाधिकरणम् ।

औदुम्बराधिकरणम्

एवमानर्थक्योपाख्यानादिप्रतियोगिष्वर्थवादेषु व्याख्यातेष्विदानीं विधिप्रतियोगिनो विचार्यन्ते । कुतः संशयः । पूर्वत्र हि स्वार्थानुपयोगित्वेन दूरलक्षितस्तुतिग्रहणमङ्गीकृतम् । तत्संभवे तु स्तुतिरप्यनर्थकतुल्याऽऽपद्यते । विध्यंशश्च न कथंचनान्यस्मात्सिध्यति । प्ररोचना पुनः कथं चिद्विध्युद्देशादप्युपपद्यत इत्युक्तं पुरस्तात् । अपि च प्रधानं विधिरङ्गं स्तुतिस्तत्र प्रधानविशेषणसंभविनस्तद्गामित्वमेव युक्तम् । समाप्ते च विध्युद्देशेऽर्थवादः प्रवर्तते तत्प्रक्रमावस्थायामेव तु भावनांशाः संनिपतन्ति । विशेषेण तु फलं प्राथम्यप्राधान्याभ्यामित्यादि मन्वानोऽपूर्वत्वादिति वदति । तदपेक्षया च स्तुतिमात्रमनर्थकं मन्यते । ननु चैवंजातीयकः फलविधिरुतार्थवाद इति विचारश्चतुर्थेऽपि द्रव्यसंस्कारकर्मस्विति8 भविष्यति । अतो नेह प्रस्तोतव्यः । तत्र केचिदाहुः । अनेन गतार्थत्वात्तत्रैवैष पर्यनुयोगो युज्यते न त्विदं पुनरुक्तमिति । सत्यमेवं यदि तु तत्कालप्रतीक्षणात्किंचित्परिहारान्तरं लभ्यतेऽतस्तत्रान्विच्छेम । अथ पुनरिहैव शक्यते वक्तुं तथा सतीदानीमप्युच्यमाने मन्दो दोष इति । अत्रापरे वदन्ति तेन फलविधित्वनिराकरणमात्रमिह त्वर्थवत्त्वाय त्वर्थवादः स्यादिति तत्र वक्ष्यति तद्विधित्वनिराकरणमात्रपरमेव द्रष्टव्यम् । तदयुक्तम् । यतस्तेन फलविधित्वात्प्रच्यावितानामानर्थक्यप्रसक्तौ पूर्वाधिकरणेनैव स्तुत्यर्थता साधिता । तथा च दर्शितं शोभतेऽस्य मुखमित्यादिषु । केचित्पुनराहुः । युक्तं वायुर्वै क्षेपिष्ठेत्यादीनां स्तुतित्वम् । ऊर्जोऽवरुद्ध्या इति पुनर्यथा फलविधित्वात्प्रच्याव्यते तथैव विसंवादेन स्तुतित्वादपीति कामं विधिर्भवतु येन कालान्तरभावित्वेन कथं चिद्विसंवादो निवर्तत इत्यारम्भः । तदप्ययुक्तम् । अपि च वेदे व्यक्तमसंवाद इति ह्यभ्युच्चयहेतुरनुरुक्तः स्यात् । अधिकरणशरीरं तु तदेव । विसंवादोऽपि च गुणवादस्त्वित्यनेन न कश्चिदपरिहृतः । पुनरपि च तावन्मात्रमेवोत्तरं भविष्यति । तस्माद्विधिर्वा स्यादित्यविशेषोपादानाच्चतुर्थे च फलश्रुतिग्रहणादिहाशेषद्रव्यगुणक्रियादिविधिसरूपास्तत्र फलविधिसरूपा एवोदाहरणमित्यपरे । तथा च 132 विधिश्चानर्थकः क्वचित्प्रकरणे च संभवन्निति चाप्सुयोनिर्वा अश्वोऽप्सुजो वेतसो यो विदग्ध इति चोदाह्रियते । अन्यथा फलविधिमात्रोपन्यासे तदसंबद्धमेव स्यात् । इहापि तस्य तावद्विशेषविषयत्वादिदमगतार्थं भवेत् । अनेन तु सामान्यतः सर्वविषयावरोधिना तत्पुनरुक्तमेवेति व्यवस्थया केचिदुदाहरन्ति । अत्र द्रव्यादिविधीनेव तत्र फलविधीनेव भाष्यकारोदाहरणमतन्त्रीकृत्योदाहरणान्तरं दातव्यमिति । अत्र वदामः । किमधिकरणद्वयमवश्यारब्धव्यं येनैवमुदाहरणव्यवस्थाऽऽश्रीयते न ह्युदाहरणभेदादधिकरणं भिद्यते । मा भूद्यथाव्यवस्थितेऽपि खादिरौदुम्बरत्वभेदादपौनरुक्त्यम् । न्यायविषयत्वेन त्वधिकरणानां तद्भेद एवापौनरुक्त्ये हेतुः ।

द्रव्यादिविधयोऽपि न सर्वे विचारिताः । केचित्तत्सिद्धिसूत्रे । केचिन्निवीताद्यधिकरणेषु । परकृतिपुराकल्पद्वारेणान्ये षष्ठे । यदृचा स्तुवत इत्यादयोऽर्थैकत्वाद्विकल्प इति नवमे । जर्तिलगवीधुकविधिसरूपा दशमे । अतश्च न पुनरुक्तता महान्दोष इत्येव वक्तव्यम् । अथ वैकस्यैव न्यायस्य क्वचित्कश्चिदंशः शोध्यत इति पुनरारम्भः । स्पष्टं वा विषयनानात्वमेवं वर्णनीयम् । सर्वविधिसरूपाणां केवलविधित्वनिराकरणेनार्थवादत्वमिह सिद्धम् । यस्तु चतुर्थे पुनरारम्भः सोऽर्थवादकल्पिते विधौ फलाकाङ्क्षावेलायामन्यार्थोपात्तमपि क्रतुप्रयोगवचनात्तदेव संनिहिततरं कॢप्तसंबन्धस्य च विशेषमात्रं सुकरम् । इतरथा संबन्धस्तद्विशेषश्चोपकारकत्वं कल्पनीयमिति रात्रिसत्रप्रतिष्ठादिवत्फलविधित्वमपीति पूर्वपक्षाभिप्रायः । कथं चित्प्रयोजनान्तरे लभ्यमाने नैकस्यानेकार्थता युक्ता तस्मादर्थवादत्वमेवेति सिद्धान्तः । एतेन निवीताद्यधिकरणानि व्याख्यातानि । अथ वौदुम्बराधिकरणपूर्वपक्षं कृत्वा चिन्तास्ताः प्रत्येतव्याः । विधित्वाभ्युपगमेन हि कस्य शेषः क्रतोः पुरुषस्य वेत्यादि विचार्येह सिद्धेनार्थवादत्वेनोपसंहारः । तथा परकृतिपुराकल्पयोः किं तद्गोत्राणामुत सर्वपुंसामिति चिन्तितम् । एवमूहबाधप्रसङ्गेन नवमदशमगता चिन्ता, तत्सिद्धिसूत्रे तु गुणवादनिमित्तमात्रकथनम् । अथ वा फलविधावेव यत्र भेदेन स्तुतिफलपदानि भवन्ति तदिहोदाहरणम् । यथाऽत्रैवोर्गुदुम्बर ऊर्क्पशव इत्येतैरेव स्तुतिः । ऊर्जोऽवरुद्धया इत्यनेन फलमिति । यत्र पुनस्तावन्मात्रेणैव फलं वा स्तुतिर्वा वक्तव्येति भवति ते चतुर्थ इति । अथवा तत्र परार्थत्वादिति हेतुव्यपदेशात्प्रसिद्धेन च हेतुना व्यवहाराद्ये विज्ञातपारार्थ्यास्त उदाहरणं यथा यस्य पर्णमयी जुहूरिति । अत्र ह्यवश्यं जुह्वनुवादेन पर्णमयीत्वं विधातव्यं स्वातन्त्र्येण फलसंबन्धाशक्तेः । सर्वत्र 133 हि गुणः फलाय चोद्यमानः कंचिदाश्रयमपेक्षते । न च प्रकरणमन्तरेणाऽऽश्रयप्राप्तिः । तदिह यदि पर्णमयीत्वेन फलं भावयेदिति वचनं व्यज्येत किमाश्रितेनेत्यपेक्षायां किं संबध्यताम् । जुहूरिति चेन्न । वाक्यभेदप्रसङ्गात् । साऽपि च प्राक्क्रियालाभान्नैव निराकाङ्क्षी भवति । न च क्रियासंबन्धे प्रमाणमस्ति । तस्मादनिर्वहणादेतद्वचनव्यक्तिपरित्यागेनेतराश्रयणम् । तत्र च जुह्वा जुहोतीत्यस्याः प्रकरणे निर्ज्ञातप्रयोजनात्वादविहितजातिविशेषायास्तदाकाङ्क्षायां सत्यां यावदेव पर्णत्वजातिरुपनीता तावदविज्ञातप्रयोजनावस्थत्वादङ्गतां प्रतिपद्यते । ततश्च निराकाङ्क्षीभूतायास्तस्मिन्नेव वाक्ये फलकल्पनानिमित्तं नास्तीति युक्तमर्थवादत्वम् । इह पुनर्वैकृतपशुप्रकरणे श्रूयमाणमौदुम्बरत्वमुदाह्रियते । न च तस्य प्रसिद्धं पारार्थ्यं येन चतुर्थाधिकरणविषयता भवेत् । कथम् । अत्र हि न तावदप्राप्ते यूपे जातिविधानं शक्यम् । तत्प्राप्तिश्चेदवश्यं कॢप्तोपकारप्रकृतखादिरत्वादिनैव निराकाङ्क्षेण भवितव्यम् । तत्कुतो जात्यन्तरस्य तादर्थ्येन विधिरतः फले विधानम् । याऽपि चाऽऽश्रयापेक्षा साऽपि प्राकृतकर्मसंबन्धिचोदकप्राप्तयूपग्रहणान्निवर्तत इत्यविघातः । तेन प्रागेव पारार्थ्यात्फलसंबन्धप्रसक्तिरवश्यं न्यायान्तरेण निराकर्तव्येत्येतदधिकरणारम्भः । इदमपरं मतम् । औदुम्बरवाक्यं जुह्वादिवाक्यं चोभयमुभयत्रोदाहरणम् । कथं, भावनांशान्तरविचारादपौनरुक्त्यम् । साध्यसाधनसंबन्धस्तावद्द्वयोरपि योग्यत्वेनोपात्तयोरवकल्पते नान्यथा । तत्र चतुर्थे साधनांशयोग्यविचारमनादृत्याभ्युपेत्य वा केवलसाध्यांशविचारः किमीदृशेन कामशब्दोपवन्धरहितेन वर्तमानफलसंबन्धाभिधायिना फलत्वं शक्यते गमयितुं न वेति विचारः । इह पुनः साध्यांशमनादृत्याभ्युपेत्य वा केवलसाधनांशविचारः । किमीदृशेन विधिविभक्तिरहितेन द्रव्यगुणक्रियाः कंचित्प्रति साधनत्वेन प्रतिपाद्यन्ते नेति । यच्च यदात्मना प्रतिपादितं भवति तत्प्रतियोगिविशेषापेक्षं सत्पदान्तराद्युपात्तेन तेन संबध्यते । तत्र साध्यमित्यवधृते परिशेषादवशिष्टं साधनं गम्यते । एवं साधनावधारणेऽपीति द्वावप्यंशौ स्वरूपेण निरूपयितव्यौ । तदिह साधनांशे विचार्यमाणे यो नाम फलांशस्य संस्पर्शः स चतुर्थे सिद्धः प्रसङ्गाद्धेतुत्वेनेति मन्तव्यः । तथा यस्तत्र साधनांशपरामर्शः स इह सिद्धस्तत्र प्रसङ्गादित्यपुनरुक्तम् । नन्वेवं सति विध्युद्देशचिन्तेयमित्यर्थवादाधिकरणेन न संबध्यते । नैष दोषः । तद्वशेनैवार्थपरिच्छेदात् । यदि ह्यसौ विधीयमानतया पूर्वेणावगतस्ततो नार्थवादत्वमथ स्तुत्यर्थतया ततोऽर्थवादत्वमिति । तत्र पूर्वपक्षाभिप्रायः । सर्वथा साध्यसंनिधाने यदु134 च्चरितं तदाकाङ्क्षावशेन ताद्रूप्येणानुपात्तमपि साधनं भवति यथैव यागेनेत्यनुदितं संबध्यते तथैवौदुम्बरेणेति । तत्र विधिः किं कुर्यात्पुरुषं प्रवर्तयेत् । स च फलार्थितयैव प्रवृत्त इति किं विधिना । अथ वा प्रयोगवचनविहितस्य फलसंबन्धमात्रमनेन क्रियते । पञ्चमो वा लकारो विधास्यति । अर्थवादैकदेशो वेत्युक्तमेव । तस्मादूर्जोऽवरुद्ध्या इति तादर्थ्यचतुर्थ्यैवैवं कामशब्दादपि स्फुटतरं फलमुपात्तमिति तस्मिन्नौदुम्बरताविधिः । न तु फलस्य विधानमिति ग्रहीतव्यं भावार्थाधिकरणे फलविधिनिषेधात् । ऊर्गुदुम्बर इत्यतः स्तुतिरित्यविरोधः । तस्मान्मुख्यविधिसंभवे लक्षणया न स्तुतिः प्रतिपत्तव्येति ॥ १९ ॥

लोके तावद्बुद्धिपूर्वकारिणः पुरुषा मात्रामपि न निष्प्रयोजनां प्रयुञ्जते, तत्र च क्रेतव्येति विहिते बहुक्षीरादिभिर्गुणैः स्तुतिः प्रवृत्तिविशेषनिमित्तत्वेनाऽऽश्रीयते । न च क्षीरादयः फलविधयः प्रत्यक्षविषयत्वादतः स्तुतिः । एवं वेदेऽपि । श्रुत्यसंभवाच्च लक्षणापरिग्रह इत्यदोषः ॥ २० ॥

नायं दृष्टान्तः स्तुतेः प्रमाणान्तरावगत्यपेक्षत्वाल्लोके तत्संभवादुपपत्तिः । वेदे त्वविदितवादत्वान्न श्रद्दधीरन् । अथ वा लोक एव यद्यविदितं कश्चिद्वदेत्तदा नैव श्रद्दधीरन् । पूर्ववचनादिवेति । विध्युद्देशादिव । अथ वा वैधर्म्योपमा । यथाऽधिगतपूर्ववचने श्रद्दधते नैवमविदितवादे । न चोक्तिमात्रेणैते बहुक्षीरादयः प्ररोचयन्ते किं तर्हि विदितत्वादेव । वेदे त्वर्थवादासत्यत्वेन विधौ जाताशङ्को न प्रवर्तेत । अथ वा यो विध135 मुत्क्रम्यार्थवादं प्रार्थयते नूनमस्य विधावविश्रम्भः । तत्र चेदनाश्वासोऽर्थवादे कुतः प्रत्यय इति । अपि च वेदे व्यक्तमसंवादो वंर्तमानेनोर्जोऽवरोधनेनेयं स्तुतिर्न च तदस्ति । तत्राविद्यमानबहुक्षीरसंकीर्तनवदेतत्स्यात् । स्वरूपतस्तावदुदुम्बरेऽन्नत्वं पक्षधर्मेणाप्रसिद्धम् । अन्वयाप्रसिद्धेश्च हेतुत्वाप्रसिद्धिः । न हि यद्यदन्नं स स यूप इति लोके वेदे वा प्रसिद्धमित्यसंबद्धम् । तस्मादसंवादाद्वरं विधिरेव किं स्तुत्या संवादापेक्षिण्येति ॥ २१ ॥

ऊर्गुदुम्बर इत्यादि तावदूर्जोऽवरुद्ध्या इत्यस्योपपत्तितयैकवाक्यभूतं न विच्छिन्नं स्तावकम् । न ह्यन्नमुदुम्बर इत्युक्ते पुरुषं प्रति प्रशस्तता गम्यते । ऊर्जोऽवरुद्ध्या इति तु प्ररोचयति । तदुपपत्तिरितरेति संगच्छते । तस्मात्कृत्स्नेन फलं प्ररोचना वा । तत्र यद्यपि तावल्लिङादिः स्यात्तथाऽपि सुतरामर्थवादतया गृह्णीयात् । किमुत वर्तमानापदेशो यो विधिसिद्धयर्थमेव । प्रकरणाच्च यागोपकारे प्रयोजने लभ्यमाने किमित्यवाचकांत्फलं कल्पयिष्यामः । प्रकरणं वाक्येन बाध्यत इति चेन्न । अविरोधात् । यदि ह्येकांशग्राहित्वेन वाक्यप्रकरणे संनिपतेतां तथा सति बाधः स्यात् । इह तु प्रकरणमौदुम्बरताविधिं गुह्णाति सोऽप्यूर्गुदुम्बर इत्यादिलभ्यां प्ररोचनाम् । तत्र तद्विशिष्टौदुम्बरत्वग्राहिणः प्रकरणस्य को विरोधः । तस्मात्फलविधिसामर्थ्याभावात्प्रकरणाबाधेन निवेशसंभवो नातिक्रमितव्यः । प्ररोचनाऽपि च वाक्यशेषादुपपद्यमाना नार्थापत्त्या विध्युद्देशादेव कल्पिता भविष्यति । अन्यत्र विधिरपि हि तावत्तां कल्पयेत । इह तु स स्वयमेव दुःस्थितः किं प्ररोचनया करिष्यतीति । न च स्तुत्युपयुक्तस्य पुनः फलेऽपि प्रतिष्ठादाविव व्यापारो युज्यते । रात्रिस136 त्राणां ह्यनन्यपरत्वाद्गुर्व्यपि कल्पनाऽऽश्रीयते । अत्र तु प्रकरणादस्ति प्रयोजनसिद्धिरित्युक्तम् । जातिविशेषस्य च योग्यतयैव काष्ठाङ्गत्वं प्रसिद्धं न फलार्थता । यूपशब्दोऽपि च कर्माविष्टकाष्ठवचन इत्युपनीतमात्रमेव गृह्णाति । अतश्च प्रसिद्धे पारार्थ्येऽर्थवादता । यत्तु यूपे निराकाङ्क्षो जातिं प्रतीति शरवद्बाधो भविष्यति । न चाबाधप्रकारोऽस्ति । काम्यपक्षेऽपि तदभ्युपगमात् । एतावांस्तु विशेषः । तव पुरुषार्थत्वाद्भिन्नविषयेण सता कथंचित्प्रसङ्गलभ्यसमानाश्रयत्वेन, मम तूभयोः क्रत्वर्थत्वात्समानविषयेणेति । न चात्र जातौ फलाय विधीयमानायां दध्न इव होम आश्रयो मनसि विपरिवर्तते । यो हि पशुयागः प्रकृतः स तावदयोग्यः । पशुनियोजनं च यूपद्वारेण योग्यं तदपि सह यूपेनाप्रकृतम् । न चानर्थक्यात्तदङ्गेषु इति9 प्रधानादवतीर्य तदङ्गमाश्रीयते । यो हि प्रधानोपकारित्वेन श्रूयते स तदङ्गेऽपि स्थित उपकरोतीत्येवं कल्प्यते न त्विह तथा । अत्र हि प्राधान्यांशभाजा गुणेनाऽऽश्रयः प्रार्थ्यते । तत्र प्रधानं संनिहितं तद्यदि न योग्यं ततो वचनव्यक्त्यन्तरमाश्रयिताम् । न चावतरणं संभवति । न चानेनैव वाक्येनाऽऽश्रयो दीयते । वाक्यभेदप्रसङ्गात् । द्वौ हि संबन्धौ तदा स्यातां गुणफलसंबन्धस्तदाश्रयसबंन्धश्चेति । युगपच्चौदुम्बरताफलयूपौ प्रत्युपादीयमानोद्दिश्यमाना विरूपा स्यात् । अथोभयोद्देशेन विधीयते तथाऽपि फलाननुरक्ता यूपेन संबध्येत यूपाननुरक्ता च फलेन । यत्तु विनैव विधायकात्स्वेच्छयैव प्रवर्तिष्यामह इति स्वच्छन्देन सह नास्ति विधिवादः । पुरुषार्थफलत्वं तु न प्राग्विधेः सिध्यति संनिहिततरौदुम्बरत्वादिसाध्यांशावरोधात् । यत्तु प्रयोगवचनो विधास्यतीति न पुरुषार्थेषु तस्य शक्तिः । असंयुक्तं प्रकरणादिति10 वक्ष्यति । यदि तु तेन विधीयते सिद्धं कर्मार्थत्वम् । पञ्चमलकाररूपं तु वर्तमानापदेशेन संदिग्धम् । तस्माद्वर्तमानफलाभिधायित्वाच्चतुर्थे चैवंकामशब्दरहितस्य फलविधित्वनिराकरणात्प्रधानफलमेवेदं प्ररोचमायै संकीर्त्यत इति युक्तम् । सर्वत्र च स्तुतिपरत्वात्तदुपा येषु सत्यासत्यान्वेषणं व्यर्थम् । ज्ञानमात्रौपयिकत्वात् । गुणवादेन च संवादात् साधनत्वेऽपि च प्रीतिसाधनत्वेन तृप्तिहेतुत्वेन वा संवादः ॥ २२ ॥

137 यदि चैवंजातीयका विधयो भवेयुस्ततः पूर्वोदाहृताः सर्व एव द्रव्यगुणक्रियाविधयो भवेयुः । वायुः क्षेपिष्ठा देवता कर्तव्या, अप्सुयोनिरश्वः कर्तव्यः, अप्सुजो वेतसोऽवकाश्च कर्तव्याः, आपः शान्ताः ऊर्गुदुम्बर इत्यादि । तत्र यद्यपि के चित्क्रियादिविधयः शक्यन्ते कर्तुम् । एते त्वशक्याः स्वभावसिद्धेः प्रयत्नेनापि चानिष्पत्तेः । वायुवेतसावकादिषु स्वभावसिद्धिः । अश्वौदुम्बरादीनामशक्यता । कीदृशी स्तुतिस्तां दर्शयति । शमयित्रीभिरद्भिरित्यादि । तत्रासंगतेरग्रन्थ इति व्याख्यातारः समर्थयन्ते । यस्मादिहावकातत्संबन्धयोः शमयितृत्वस्य च नैवोपन्यासः कृतो वेतस उपन्यस्तः सोऽपि स्तुतिवेलायां न प्रदर्शित इति । तत्र त्वियं गमनिका । वेतसोदाहरणेनैव तुल्यत्वादवकादीन्यप्युदाहृतानि । न चायमश्वावकयोः परस्परेण संबन्धः कथ्यते । केन तर्ह्यद्भिः । तावता तु न स्तुतिः का चिदुन्मीलितेत्यर्थवादान्तरापेक्षाप्रवृत्तां तां दर्शयति—आपो वै शान्ता इति11 । अनेन हि विधित्वात्प्रच्युतेनापां प्राशस्त्यमुच्यते तत्र कस्य चित्प्रसिद्धाप्संबन्धस्य तन्मात्रसंकीर्तनादेव स्तुतिर्भवति । अन्येषां तु संबन्धिसंबन्धात्संबन्धः कीर्त्यते । प्रसिद्धशान्तत्वसंबन्धाभिरद्भिः संबन्धादश्वादिरपि शान्तात्मकस्तत्संवद्धेन च कर्मणा यजमानस्य कष्टं शाम्यतीत्येवंविधप्राशस्त्यज्ञापनार्थम् । एवं क्षिप्रदैवतेन शीघ्रं फलप्राप्तिरन्नमयेन च यूपेनान्नप्राप्तिरिति स्तुतित्वे सिद्धे तत्समानन्यायानामप्येवमात्मकत्वम् ॥ २३ ॥

विधिपक्षे चायमपरो दोषो यदि तावद्यथावस्थितवाक्यग्रहणं ततः प्रकरणगतविदग्धोद्देशेन देवतान्तरविधानादुत्पत्तिवाक्यशिष्टदेवतापकर्षणं स्यात्, इयं वा तामप्यपकर्षतीत्यपकर्षः । तत्र नैमित्तिकत्वादभ्युदितेष्टिवद्बाधोऽपि कल्प्येत यद्यन्यथा न संभवेत्, सति तु संभवे न युक्तमेतत् ।

138 अथैतद्दोषभीतैरर्थलभ्यवचनव्यक्त्यन्तरं व्यवहितकल्पनयाऽऽश्रीयेत यो नैर्ऋतः स विदग्धः कर्तव्य इति । ततः प्रकरणे नैर्ऋताभावाद्यत्रासौ विहितस्तत्र विदग्धता नीयेत । तत्र प्रकरणं बाध्येत । न चाबाधसंभवे तद्युक्तमतोऽर्थवादत्वादनपकर्ष इति ॥ २४ ॥

स्तुतित्वेन विधिविभक्तिमुपजनय्य पुनस्तेनैव फलकल्पनायां वाक्यभेदस्तस्मादर्थवाद एवेति ॥ २५ ॥

इत्यौदुम्बराधिकरणम् ॥ २ ॥

हेतुवन्निगदाधिकरणम्

138 इह ये हेतुवन्निगद्यन्ते हिशब्दादिभिर्न च परमार्थहेतवस्त उदाहरणम् । तत्र यदि तावद्धेतुत्वं विधीयते ततः पूर्वेणैव गतम् । यदिह हेतुत्वं तच्छूर्पहोमसंबन्धं प्रति न चाविहितोऽसावस्तीति कस्य हेतुरुच्यते । अथ भूतानुवादमात्रं तत्तु वायुक्षेपिष्ठत्ववद्गतमित्यनारब्धव्यमेतत् । उच्यते । न तावदनेनैव वाक्येन हेतुत्वं विधीयते । न च भूतानुवादमात्रं किं तर्हि हेतोः प्रसिद्धिपूर्वकत्वात्सिद्धवदुपदिष्टस्य यावत्यसिद्धयाशङ्का तत्रार्थापत्तिलभ्याद्वचनात्सिद्धिः । याऽपि चार्थवादाकाङ्क्षा कस्मादिति साऽप्यनेनैव हेतुना निवर्त्यत इति मन्यते । अथाप्यर्थवादत्वं तथाऽपि तदन्तनिर्णीतहेतुत्वमेवेति सर्वान्नकर139 मेव हेतुत्वं होमस्येति वदति । नन्वप्रसिद्धे कार्यकारणभाव इति । केचिदाहुः । कार्यकारणयोरेवानुमानम् । तथा च दध्नेन्द्रियकामस्येत्यत्रापि वक्ष्यति । तत्त्वयुक्तम् । अकार्यकारणभूतानामपि कृत्तिकादीनामचिरोद्गतरोहिण्यादिप्रतिपत्तिहेतुत्वदर्शनात् । अतो गम्यगमकत्वमेव कार्यकारणभावं मन्यते । ननु सोऽप्यनुमानोत्तरकालीनत्वादनङ्गम् । सत्यम् । अन्यस्मिन्नेव तु संबन्धे सति पश्चात्प्रसिद्धयन्तमेनमनुमानव्यवहारोपलक्षणत्वेनोपन्यस्यति । यद्वा शक्त्यभिप्रायं ययोरेव हि व्याप्तिग्रहणकाले गम्यगमकसामर्थ्यात्मना कार्यकारणभावित्वेन साऽवधृता तत्रैव हेतुता । अथ वोदाहृतविषयहेतुलक्षणमेतत् ।

अविनाभावो ह्यनेककार्यकारणस्वस्वमिसहचरभावादिप्रभेदभिन्नः, तत्रान्नकरणता होमे हेतुत्वेनोच्यमाना संबन्धान्तराभावात्कारणत्वेन स्यात् । तच्चाप्रसिद्धं तस्मान्न हेत्वपदेशः । सत्यं लोके हेतुव्यवहारकालात्प्रथमं प्रमाणान्तरेण संबन्धप्रसिद्धिरपेक्ष्यते वेदे तु हिशब्दप्रतिपादितहेतुत्वान्यथानुपपत्त्या संबन्धाभिधायि दृष्टान्तवचनं कल्प्येत यद्यदन्नकरणं तेन तेन जुहोतीति, तेन चोपपन्नं हेतुत्वम् । किं प्रयोजनमिति । यदि च हेतुरवतिष्ठेतेत्यनेनाभिप्रायेण । अपरस्त्वाह व्याप्तौ सिद्धायां सर्वान्नसाधनसाधनको होमः सिद्धो भवति । कुत इति । स एव सिद्धान्ताभिप्रायः । अथ वा कुतो दर्विपिठरादेः साधकतमत्वम् । इतरस्त्वाहान्नक्रियायां तावत्तस्यार्थवत्ताऽस्ति तावन्मात्रं वाऽऽश्रयिष्यते । शक्यते च तेनापीति । उपपत्तिशब्दस्यार्थः । पूर्वेण तु समानार्थता गम्यते । तेन विवक्षा । शक्त्यभिप्रायमेतत् । यदेव हि तदुपयोगिमात्रं तदेव शक्यते कथं चित्साधकतमत्वेन विवक्षितुम् । अथवाऽर्थवत्त्वं करणविभक्तिर्निर्देशालम्बनमुपपत्त्या पुनर्वर्तमानान्नक्रियस्य हेतुत्वाभिधानात्तादृशस्य होमं प्रत्यनुपपत्त्याशङ्कयोपपत्तिं वदति । शक्यते च तेनेति । तत्र चोदयति । एतद्धि क्रियत इत्युच्यते तत्कथं शक्यत इत्यभिधीयते । वर्तमानक्रियस्यासंभवादित्युत्तरम् । यद्वा स्वयमेवाऽऽशङ्क्य परिहरति । यदि च न दर्विपिठरादीति । उभयोः परामर्शः । साध140 कतमत्ववर्तमानत्वे चेत्तत्र न विद्येते शूर्पेऽपि तथैवेति स्तुतिर्न स्यात् तेन यथा तव स्तुत्यर्थः कथं चिद्विद्यते तथा मम हेत्वर्थ इत्यविशेषः । हेतौ च श्रुतिरित्यादि, असंबद्धवाक्यसंबन्धिदोषादन्ते द्रष्टव्यम् । स्तुतौ लक्षणेति । अन्नकरणत्वेन सर्वजनाभिमतेन प्राशस्त्यं लक्ष्यते । शूर्पेणेति चास्मिन्पक्षे नित्यानुवादोऽन्नकरणसामान्येनैव प्राप्तस्य । इत्थं वा सूत्रगमनिका । तत्रार्थवत्त्वं तावदर्थवादात्प्रयोजनवत्तरत्वमुपपत्तिरित्यप्रसिद्धं, संबन्धोऽपिकाल्पनिकवाक्याश्रयणात् । तस्माद्धेतुः ॥ २६ ॥

शूर्पेणेति तावत्करणविभक्तिश्रुत्यैवावरुद्धो होमो नानुमानिकैर्दर्विपिठरादिभिः सह बाधविकल्पसमुच्चयान्प्रतिपद्यते ।

होमश्च तेन निराकाङ्क्षीभूतो नान्यत्प्रार्थयते । अनुत्थितायामेव च दर्विपिठरादिश्रुतौ शूर्पं प्राप्नुवच्छ्रुत्यनुमानं प्रतिबध्नाति । तेन ब्रवीति—अचोदना च तस्येति । हेत्वपदेशश्च स्तुत्यैवोपपद्यमानः सन्नश्रुतदृष्टान्तकल्पनायै प्रभवति । शूर्पश्रुतिश्च विध्युद्देशपातिन्यनन्यप्रयोजना विस्पष्टा च सती परित्यक्तुं न युज्यते । तस्माद्यद्वाऽन्नकरणत्वादित्येष कर्तव्य इत्यनेनापेक्षितत्वाल्लक्षणयैतत्प्रतिपादयति प्रशस्तत्वादिति । अथ वाऽन्नकरणत्वादिति श्रुतिवृत्तमेव । तत्र यथाश्रुतं विध्युद्देशे हेतुतामप्रतिपद्यमानं तदनन्तराकाङिक्षतार्थोपप्लुतहेत्वपेक्षप्राशस्त्यहेतुरवधार्यते, अन्नकरणत्वात्प्रशस्त इति । कल्पनाद्वयेऽपि च लोकप्रसिद्धदृष्टान्तलाभान्नाश्रुततद्वाक्यानुमानप्रसङ्गो भविष्यति । सिद्धं हि प्रशस्तानां कर्तव्यत्वमन्नकरणानां च प्रशस्तत्वमिति । अचोदना च तस्येति व्याख्यान्तरम् । तव हि यद्यदन्नकरणं तच्चोद्यते न च दर्विपिठरादीनां करणता साधकतमस्य पाकादेः करणत्वात् । एवं चोत्तरसूत्रमापतति ॥ २७ ॥

यत्पुनः शूर्पेऽप्यन्नकरणत्वानुपपत्तेः स्तुतिर्न प्राप्नोतीत्युक्तं किं तत्राभिधीयते ॥ २८ ॥

141 अस्मत्पक्षेऽर्थोऽस्ति स्तुत्यालम्बनकरणत्वं नाम, वाक्यशेषो हि भवन्पारतन्त्र्याद्गौणत्वाद्यपि प्रतिपद्यते तदा च विधेयान्तरवशादवश्यमनुवादेन भवितव्यमनुवादश्च यथाविज्ञातस्य भवति । अतः शब्देनैवाभ्यनुज्ञातं यादृशं वयमन्नकरणत्वं शूर्पे पश्यामस्तादृशमिदं संकीर्त्यत इति । अनेन वर्तमानापदेशो व्याख्यातः । तत्रापि हि कृतं वा करिष्यमाणं वा स्तोतुं क्रियत इत्युच्यते । कथं स्तुतिः, सर्वलोकस्य भूतभविष्यदनादरेण वर्तमानोपकारानुरागाद्वर्तमानालोचनेनैव च कालान्तरेऽपि तत्र प्रीतिरिति क्रियत एवानेनान्नमित्युच्यते । अथ वाऽन्नक्रियाशक्तेर्वर्तमानतामन्नक्रियायामेवोपचर्य स्तौति । तत्रापि जनानां शक्त्यतिक्रमेणाभिव्यक्तिप्रियत्वात्क्रियत इत्युक्ते स्तुतिर्भवति । न शक्त्यभिधानात् । तव तु विधिवादित्वान्मुख्यान्नकरणत्ववर्तमानत्वयोरग्रहणे दोषः । किं कारणम् । विधानं ह्यत्यन्तानवगतार्थविषयम् । तत्र यथाश्रुतादन्यथाग्रहणं निष्प्रमाणकम् । एतदेवाऽऽह—विधौ हि न परशब्दार्थः प्रयोजनमिति । परशब्दार्थो हि लक्षमासु प्रयोजनम् । तदिह भूतभविष्यत्क्रियावाचिनः शक्तिवर्तमानतावाचिनो वा स्वार्थे वर्तमानान्नक्रियावाची शब्दः कल्पनीयः ।

तन्निमित्तमात्रे शब्दार्थे साधकतमत्ववाचिनी तृतीया । नचैवंभूतत्वं कुतश्चित्सिद्धमित्यप्रमाणकम् । अथ मुख्यार्थपरिग्रहः । तत्रोच्यते । न च वर्तमानं साधकतमं वोपदिशन्वेदः शक्यमर्थं विदध्यात् । न हि वर्तमानान्नक्रियेण शूर्पादिना साधकतमेन वा पाकेन होतुं शक्यते तस्मादुभयथाऽपि विप्रतिषिद्धम् । अस्मत्पक्षे त्वनुवादत्वात्परशब्दार्थग्रहणम् । यथा लोके बलवान्देवदत्त इति भूम्न्यतिशायने वा मतुप्प्रवृत्तिर्न च विशेष उपात्तोऽमुष्मात्प्रकृष्टबल इति । तत्र सर्वसत्त्वेभ्यः प्रकर्षे मुख्यः शब्दो न च तथा संभवति सिंहादीनां बलवत्तरत्वादिति देवदत्तान्न्यूनतरबलानपेक्ष्यैवमभिधीयते तथाऽत्र विप्रकृष्ट142 तरान्नसाधनलाङ्गलाद्यपेक्षया शूर्पं साधकतममित्युच्यते । नन्वेवमापेक्षिकप्रवृत्तेर्मुख्यत्वमेव स्यात्, तथा च देवदत्ते बलवच्छब्दप्रवृत्तिं नैव गौणीं मन्यते । सत्यमेवं, यदा तावन्न्यूनमात्रापेक्षयैव प्रयुज्यते यदा त्वविशेषप्रवृत्तेस्तदधिकबलेष्वपि बलवद्बुद्धिर्जाता तदा स एव शब्दः कुतश्चिदपि न्यूनबले वर्तमानो गौणः संपद्यते । तथा यदि विध्युद्देशोपात्ते शूर्पेऽन्नकरणत्वमनूद्यते ततस्तन्न्यूनमात्रापेक्षया वा मुख्यत्वं न्यूनानुपादानाद्वा सामान्यतः प्रवृत्तस्य सर्वप्रकृष्टगामित्वबुद्धौ सत्यां गौणता । भवतस्त्वपूर्वविधानादत्यन्तसाधकतमत्ववर्तमानत्वयोः क्रियां प्रत्युपादानान्न्यूनापेक्षागौणत्वयोर्निमित्तं नास्तीत्यतिक्लेशः स्यादित्यसमानम् ॥ २९ ॥

अभ्युपेत्यवादोऽयम् । यद्यपि हेतुविधानं तथाऽपि न दर्विपिठरादेः प्रसङ्गः । कुतः । शूर्पं हि विधायान्नकरणं हेतुरुच्यते । सोऽपि च न लोके प्रसिद्धः, शब्दमेव दृष्टान्तवाचिनमनुमाय साधयितव्यः । तदनुमाने च श्रुतहेतुत्वान्यथानुपपत्तिः प्रमाणं, सा च यावत्येव हेतुत्वमुपपन्नं ततोऽधिककल्पनायै न प्रभवति । शूर्पे च होमसंबन्धित्वेन प्रतिज्ञातेऽन्यधर्मस्याहेतुत्वादवश्यं तद्गतमेवान्नकरणत्वं वक्तव्यम् । संनिधेश्च तदवच्छिन्नमेव तद्गम्यते । लोकेऽपि च यं धर्मिणं प्रतिज्ञाय यो हेतुरुपदिश्यते स प्रथमं तावत्तद्गतविशेषात्मनैव प्रतीयते । तदात्मकस्य तु साध्यांशानुगमाभावात्सामान्यमात्रं विवक्षितमिति दृष्टान्तप्रयोगवेलायामेवावधार्यते, वेदहेतूनां पुनर्न सामान्यात्मना साध्यसंबन्धोऽवगतो न विशेषात्मना सोऽधुनैवार्थापत्त्या कल्पनीयः ।

तत्र विशेषस्योपादानात्सामान्याप्रसिद्धेश्च तत्परित्यागनिमित्तस्यासंभवादुपात्तविशेषमात्रोपसंहृतान्यथानुपपत्तिस्तद्गतमेव दृष्टान्तवचनं कल्पयति । तदकल्पने हि हेतुनिर्देशः श्रुतो विरुध्यते । यदि तु दर्विपिठरादिगतान्नकरणत्वहोमसंबन्धाविनाभावो न कल्प्यते । न किं चिच्छ्रुतं दृंष्टं वा नावकल्पते । तस्मादीदृशं दृष्टान्तवचनं कल्प्यं 143 यद्यच्छूर्पमन्नकरणं तेन तेन जुहोतीति । तदेतद्विशेषदृष्टमनुमानम् । लोकेऽपि तृणधूमदर्शनात्तृणाग्निरेवानुमीयते नाग्निमात्रम् । यथा च गमनं गोशब्दव्युत्पत्तिनिमित्तत्वेनोपादीयमानं सास्नादिमत्सामान्यप्रत्ययोत्तरकालं तद्गतमेव निमित्तत्वं प्रतिपद्यते न गन्तृमात्रविषयमिति गोशब्दव्यवस्था तथा शूर्पगतान्नकरणहेत्वपदेशान्नान्यगतहेतुत्वप्रसङ्गः । तत्रैतावानर्थः स्यात् । यद्यदन्नकरणसमर्थं शूर्पं तेन तेन होतव्यं न दर्विपिठरादिग्रहणम् । यथा बलवदुपध्मातेऽग्नौ दहनहेतुत्वेनोक्ते स एवानुपध्मातो न दहेन्न तु शङ्खादयो बलवदुपध्माता दहन्ति । तस्माद्व्यवस्था । यदि पुनः शूर्पगतान्नकरणव्यतिरेकेण महासामान्यं विवक्ष्यते ततो यद्यदगृहीतं तस्य तस्य का चिदन्ननिमित्तता विद्यत इत्यव्यवस्थितत्वाद्धोमाक्षिप्तद्रव्यमात्रानुवादः सन्ननर्थकोऽन्नकरणशब्दः । तस्मादन्नहेतुत्वेन स्तुतित्वमेव वरमिति ॥ ३० ॥

इति हेतुवन्निगदाधिकरणम् ॥ ३ ॥

मन्त्राधिकरणम्

इहाऽऽनर्थक्यश्रवणात्केचिदेवं संदेहमुपन्यस्यन्ति किमर्थवन्तो मन्त्रा उतानर्थका इति । तत्त्वयुक्तम् । स्पष्टे शब्दात्प्रतीतेऽर्थे नानर्थक्यं हि शङ्क्यते । अग्नौ दहति दृष्टे वा दग्धृत्वं किं विचार्यते ॥ सर्वत्र हि कार्यदर्शनाच्छब्दानां शक्तयः कल्प्यन्ते । तच्चार्थप्रत्यायनं मन्त्रेष्वप्युच्चार्यमाणेषूपलभ्यते । न चाविशिष्टस्तु वाक्यार्थ इत्येवमादिप्रतिज्ञामात्रसाध्योत्तराः पूर्वपक्षा भवन्ति । तस्मादयुक्तोऽयमुपन्यास इति मत्वाऽऽह—किं विवक्षितवचना मन्त्रा उताविवक्षितवचना इति । नन्वनेनैव हेतुनेदमपि न विचारणीयम् । नैष दोषः । अर्थवतामपि वाक्यानां द्वैविध्यदर्शनात् । उच्चारणार्थप्रत्यायने ह्यविनाभूते तन्नान्यतरविवक्षया प्रयुज्यमानेऽपि किंचिन्नान्तरीयकं भवति । यद्यर्थप्रत्यायनं 144 विवक्ष्यते तदोच्चारणमर्थात्, अथोच्चारणविवक्षां ततोऽर्थप्रत्यायनमनुषङ्गात् । यथा जपेषु विषविद्यासु चेत्यस्ति विचारावसरः । कथं पुनरस्य प्रमाणलक्षणेन संबन्धः । पूर्वमेवोक्तमेतत् । यथाऽऽम्नायस्य क्रियार्थत्वादित्ययमेवात्र पूर्वपक्ष इति तदुत्तरेणैव च निराकाङ्क्षत्वान्न पुनरभिहितम् । एवं हि मन्यते यत्र सोऽरोदीदित्येवमादेः कथं चित्संबन्धापादनं, तत्र मन्त्रेषु कः संदेहस्तस्मादुपयोगविशेष एव चिन्तनीय इति । तत्र विधिस्तुतित्वे तावत्स्वयमेव निराकरिष्यति, अविधिसरूपत्वात् । प्रदेशान्तरविहितस्तुत्यसंभवाच्च । परिशेषात्स्वरूपप्रयोगे सत्यर्थोच्चारणयोः किं विवक्षितमिति विचार्यते । सामसु तु वाचकत्वाभावादात्मप्रयोगमात्राक्षराभिव्यक्तिपरत्वगतसंदेहः । कथं पुनः पूर्वपक्षवादिनः श्रुत्यसंयुक्तानां केषां चिन्मन्त्राणां प्रयोगसिद्धिः । केचिदाहुः । अप्रयोगार्थमेवासावविवक्षितार्थत्वे यतते । न ह्यनाश्रितार्थान्मन्त्रान्कश्चिदपि प्रयुङ्क्ते । अतो यच्च किमुच्चारणमात्रेणोपकुर्वन्तीति सिद्धवत्प्रयोगाभिधानं नैतदञ्जसैव द्रष्टव्यम् । अयं हि तत्र दुष्टोऽभिप्रायः । यदि नामोच्चारणमात्रोपकारं वक्ष्यति । तत्र शक्ष्याम्यस्याप्रयोगं वक्तुमिति । यदपि प्रयोजनकथने बर्हिर्देवसदनं दामीत्ययं बर्हिर्लवनात्प्रच्यव्यिते तदनेन प्रकारेण प्रयोगप्रच्यावनमेव द्रष्टव्यम् । अथ वा याज्ञिकदर्शनेनाविगानात्प्रयोगसिद्धिमविचार्येतरो विचारः । किमर्थं तु याज्ञिकप्रसिद्धिरुपेक्षिता यतः सैव तावद्युक्तायुक्तत्वेन न विचार्यते । तत्रायमभिप्रायः । सर्वथा तावद्दृढमेषां स्मृतिन्यायेन प्रयोगित्वमवस्थितं तत्र शक्यं बाधितुं तस्यैव त्विदं मूलं निरूप्यते । तद्यदि पूर्वपक्षो भविष्यति ततोऽन्यप्रमाणाभावाद्विनियोजकश्रुत्यनुमानेन मूलं कल्पयिष्यामः । सिद्धान्ते तु लिङ्गप्रकरणयोरेव मूलत्वाध्यवसानम् । अथ वैवं पूर्वपक्षेऽपि प्रयोगः । स्वाध्यायाध्ययनविधिनैव मन्त्राः पुरुषर्थाय नीयन्ते । तथा हि । दर्शपूर्णमासादिभिः क्रमप्रकरणाभ्यां यावत्संस्पृश्यते तत्सर्वमुपकारकत्वेन स्वीक्रियते । प्रयाजादिवाक्यानि मन्त्ररूपमपि च ।

तत्र प्रयाजादिवाक्यार्न्यंथ समर्प्य चरितार्थानि स्वरूपसंस्पर्शे सत्यपि प्रयोज्यतां न प्रतिपद्यन्ते । मन्त्राः पुनः कर्मानौपयिकार्थाभिधायित्वात्तेनांशेनानपेक्षिताः । स्तुतिविधिस्मृतीनां तु प्रकारान्तरेण सिद्धिरिति प्रयोगवचनेनैषां रूपमेवाङ्गीक्रियते । स्वाध्यायाध्ययनचोदनाऽपि प्रत्यासन्नतरमन्त्रस्वरूपमेव समर्प्य चरितार्थत्वान्न विप्रकृष्टमर्थाभिधानं यावद्गच्छति । प्रयाजादिबाक्येष्वपि तावद्रूपग्रहणमेव प्रसक्तमासीत्, तत्त्वभिप्रेतार्थदानेन 145 युक्तं न त्विह तथा किंचित् । शब्दे च कार्यस्यासंभवादर्थे कार्यं विज्ञायते । मन्त्राणां तु शब्द एव संभवति । अवश्यं ह्यर्थप्राधान्यपक्षेऽपि पुरुषः शब्दे नियोक्तव्यः । तद्वयापारोत्तरकालत्वादर्थाभिधानस्य । तस्माद्रूपमेवाङ्गम् । तथा च तदर्थशास्त्रादीन्युच्यन्ते । परिहारसूत्रक्रमानुरोधेन विपर्यस्तान्युदाहरणान्यभ्र्यादानात्प्रभृति दातव्यानि । भाष्यकारस्तु यथातथोदाहृतैरपि कार्यसिद्धिं मत्वैवमुपन्यस्तवानुरुप्रथा उरुप्रथस्वेत्यादि । यथासाक्ष इति । नीलीरोगाद्युपहतेन्द्रियस्य चक्षुरस्त्येवेति परैर्दृश्यते, परेण तु नीयमानमुपलभ्य न पश्यतीति ज्ञायते, तथा मन्त्ररूपमालोचयतामर्थप्रकाशनशक्तिबुद्धिर्यद्यपि भवति तथाऽपि परेण विनियोगं दृष्टवा स्वयं विनियोजकशक्तिर्नास्तीति गम्यते । ततश्चार्थातन्त्रत्वम् । अन्यथा स्वयमेव विनियुज्येत । नन्वर्थवादार्थमिति । लिङ्गप्रकरणानुमितमन्त्रविधिस्तुत्यभिप्रायम् । न हीतिच्छेदः । विधिनैकवाक्यतयाऽर्थवादाः स्तुत्यर्था, कल्पिताः । प्रदेशान्तरस्थस्य तु प्रत्यक्षस्याऽऽनुमानिकस्य वा विधेरात्मनः समीपेऽर्थवादमपश्यतः स्वयं प्ररोचनाशक्त्याविर्भावेन व्यावृत्तापेक्षत्वान्न दूरस्थया स्तुत्या कार्यम् । तथाऽभ्र्यादाने रूपादेव प्राप्तत्वान्मन्त्राणां तां चतुर्भिरादत्त इत्यनर्थकं वचनम् । चतुःसंख्यामपि ब्रुवदेतन्मन्त्रगतामेव ब्रूयान्न क्रियागताम् । न ह्यन्यगुणोऽन्यगामी भवति । न च निष्क्रियत्वात्कर्माङ्गत्वेनोपदेष्टुं शक्यते । तेनैवं वाक्यं भदेद्य एते चत्वारस्तैरभ्र्यादानं कुर्यात्ते च प्रागेव वचनाच्चत्वार इत्यानर्थक्यम् । क्रियानङ्गत्वादेव च संख्यायाः समुच्चयशब्दाभावाच्च प्रत्येकं च सामर्थ्याद्विकल्पः प्रसज्यमानो न शक्यो वारयितुम् । अस्मत्पक्षे पुनर्वचनगम्यत्वाददृष्टस्य न चतुर्भ्यः प्रागस्तित्वे प्रमाणमिति युक्तः समुच्चयः । 146 उभयोरपि तावद्रशनयोरश्वगर्दभबन्धनार्थमादानमर्थप्राप्तत्वान्न विधीयते । यदि मन्त्रोऽपि रूपात्प्राप्तोऽनर्थकं वचनम् । परिसंख्येति परेर्वर्जनार्थत्वात्तद्विषया बुद्धिरभिधीयते । साऽपि गर्दभरशनाया आदाने वा स्यान्मन्त्रे वा । उभयथा च त्रिदोषी । विधिपरः सन्न गृह्यत इति स्वार्थं जह्यात् । परस्य च वाक्यस्य गर्दभरशनां नेत्यस्यार्थे कल्पेत । प्राप्तं च रूपादर्थाद्वा मन्त्रमादानं वा बाधेत । अदृष्टार्थत्वे त्वन्धन्यायेन यत्रैव नीयते तत्रैव वर्तिष्यते । यदि चाश्वाभिधानीमिति संबन्धः स्यात्ततः परिसंचक्षीतापि न त्वसावस्ति । कारकाणां क्रियापरिहारेणान्योन्यसंबन्धाभावात् । तेन वाक्यमपि क्रिययैव संबध्नीयात् । एका च सा । प्रकरणापूर्वसंयोगश्चाविशिष्टस्तस्मान्न परिसंख्याप्रयोजनं कथयति । अतो न प्रमाणं बर्हिरित्यादि । तदा हि महाप्रयोगवचनेन सर्वे मन्त्राः केवलप्रधानार्थास्तत्प्रयोगाबहिर्भाववृत्तयो नाङ्गैः संबध्येरन् । पाठक्रमानुरोधात्तु तदाऽपि नैव व्युत्क्रमेण प्रयोगः कर्माण्यनादृत्य सकृदेवानुवाकमध्यायं वा पठित्वाऽनुष्ठीयते ।

अग्निर्मूर्धेति योऽर्थः प्रतीयते स मूर्धाग्निरित्यनेनापीत्यनर्थको नियमः । यस्य त्वदृष्टार्थता तस्य क्रमान्यत्वे तदुच्चारणजन्यादृष्टप्रमाणाभावात्क्रमान्यत्वं न युक्तमिति नियमार्थवत्ता । अय नियतप्रत्यायनाददृष्टं कल्प्येत तदुच्चारणादेवोपपद्यते तदधीनत्वान्नियतप्रतीतेः । यस्तु दृष्टार्थेषु प्रकृतिप्रत्ययसमासेषु नियमो दृश्यते यथेन्द्राग्नी नीलोत्पलं राजपुरुषश्चित्रगुर्निष्कौशाम्ब्रिरिति । युक्तं तत्र विपर्ययेऽपशब्दार्थान्यत्वानर्थक्यप्रसङ्गात् । अजाद्यदन्तविशेषणत्वादिनिमित्तो हि तत्र नियतः पूर्वनिपातः स्मर्यते तेनाग्नी147 न्द्रावित्यसाधुत्वं पुरुषराज इत्यर्थान्यत्वं कौशाम्बिनिरित्यनर्थकत्वम् । यस्त्वग्नीन्द्राविति क्वचित्प्रयोगः स च्छान्दसोऽग्नेर्वाऽभ्यर्हितत्वस्य विवक्षयेति मन्तव्यम् । तुल्यकक्षार्थप्रतीताविन्द्राग्नीपदमेव व्यवस्थितम् । नन्विहापि क्रमान्यत्वादमन्त्रत्वं स्यात् । तदेवार्थपरत्वे सति तदविनाशे तु किं निमित्तमिति न विद्मः । तेन मन्त्रप्रसिद्धौ वाक्यनियमादित्यपि सूत्रम् । अथ वाऽस्त्वप्रकरणाधीतवाक्यनियमात् । न ह्यर्थाभिधाने ऽन्यदीयस्याऽऽत्मीयस्य च विशेषः ।

अथ वा मन्त्रपौरुषेयवाक्ययोस्तुल्येऽर्थाभिधानसामर्थ्ये मन्त्रवाक्यनियमोऽदृष्टार्थः । अथ वाऽनेकध्यानादिस्मरणोपायप्रसङ्गे वाक्यनियमात् । न हि दृष्टेऽर्थे मन्त्रस्य ध्यानादेर्वा कश्चिद्विशेष इत्यदृष्टार्थता ।

12ह्यविद्वान्विहितोऽस्तीत्यवश्यं तावदग्नीधाऽऽत्मीयाः पदार्थाः प्रागेव कर्मप्रक्रमादवगन्तव्याः । तत्र प्रैषः पिष्टपेषणन्यायेनार्थं ज्ञापयितुमशक्नुवन्नदृष्टार्थो भवति । अथ स्मारको मन्त्र इत्युच्यते । तदपि नास्ति । ब्राह्मणज्ञानाम्यासपाटवनिमित्तसंस्कारादेव तत्सिद्धेः । संस्काराभिव्यक्तिहेतुरपि पूर्वपदार्थसमाप्तिर्ब्राह्मणमेव वा भविष्यति नार्थो मन्त्रैः । तत्र यदुच्यते संस्कारविशेषो भविष्यतीति नासावदृष्टादन्यः संभवत्यतः पूर्वपक्षापत्तिः । यदि हि प्रतीतोऽप्यर्थो नैव दृष्टं साधयति ततो यत्तद्दूरमपि गत्वाऽवश्यं कल्पनीयं तदुच्चारणादेव वरमिति ।

न चतुःशृङ्गादि किंचित्कर्म तत्संबन्धि वा प्रकृतौ विकृतौ वा विद्यते । यद्यपि च गुणवादेन किंचित्स्यात्तथाऽपि तदनुष्ठानाभावान्न तत्स्मृत्या कार्यम् । न च ज्ञायते 148 क्व प्रदेशे प्रयुज्यतामिति । तत्र मन्त्रपाठक्रमानुरोधेनोच्चारणमापततीति सिद्धः पूर्वः पक्षः । मा मा हिंसीर्मा मा संताप्तमित्यादीनि वेदिहविर्धानादिविषयत्वादचेतनेऽर्थबन्धनादित्यत्राप्युदाहरणम् । इह त्वप्रसक्तायां हिंसायां प्रतिषेधानर्थक्यम् ।

ओषधे त्रायस्व, शृणोत ग्रावाण इति च संबोधनं कार्यनियोगाभिमुख्यकरणार्थम् । न चाचेतनस्याऽऽभिमुख्यं संभवति । न च पशुत्राणे प्रातरनुवाकश्रवणे वा प्रैषेण प्रवृत्तिरुपपद्यत इत्यानर्थक्यमर्थविवक्षायाम् ।

द्युत्वमन्तरिक्षत्वं चादितेरेकानेकत्वं च रुद्रस्य विप्रतिषिद्धम् । न चैष विप्रतिषिद्धोऽर्थः कर्मौपयिकः । कथं वाऽदितिर्देवताऽन्तरिक्षं द्यौर्वा भवेत् । न च स्तुत्यर्थतयाऽपि हेतुद्वयं परिहर्तुं शक्यं ब्राह्मणे हि विधिशेषभूताः स्तुतयोऽर्थवन्त्यो भवन्ति । मन्त्रस्तुतिस्त्वप्रयोजनत्वान्नाऽऽदर्तव्या ।

स्वाध्यायाध्ययनस्य कर्मार्थत्वाद्यत्कर्मण्युपयोक्ष्यते तदभ्यसितव्यं तच्चैवं विद्वांसः सन्तो वृद्धाः शिष्यानक्षरावधारण एव प्रवर्तयन्ति संनिहितेऽप्यर्थे न तद्वचनाभ्यासे । 149 तेनावश्यं तेषामुच्चारणमेवाङ्गत्वेनाभिप्रेतमिति ।

केचित्पदार्था ज्ञानेनाविज्ञेयाः । केषां चित्तु वाक्यार्थ एव न ज्ञायते । न च मन्त्रार्थः सत्तामात्रेणोपकरोति क्रियावेलायामस्मर्यमाण इति यदेकान्तेन शक्ये कर्तुमुच्चारणं तदेव कार्यमित्यवधार्यते ।

अर्थप्रकाशनपक्षे यस्य योऽर्थः स एव तेन प्रकाशयितव्यः । केचिच्चानित्यैरकर्माङ्गभूतैश्चार्थैरर्थवन्तो मन्त्रा लक्ष्यन्ते यथा किं ते कृण्वन्ति कीकटेषु गाव इति । अयं हि दृढेनाध्येतॄणां स्मरणेन विश्वामित्रस्याऽऽर्षं गम्यते । तेन किल कर्मार्थं धनं प्रार्थयमानेनेन्द्रोऽभिहितः । त्रैलोक्याधिपते याः कीकटेषु जनपदेषु गावस्तास्तव किं कुर्वन्ति । ते हि नास्तिकाः किं क्रतुनेति वदन्तो न किंचित्कर्मानुतिष्ठन्ति । अतश्च ता नाऽऽशिरं सोमसंस्कारार्थं दुहते न धर्मं तपन्ति । न धर्मतपने पयोदानेन साधनीभवन्ति । तस्मात्प्रमगन्दस्य कीकटाधिपतेर्यद्वेदो—धनं तदस्माकं नैचाशाखं नगरमाभर । हग्रहोर्भश्छन्दसीति भकारः । अथ वाऽस्मान्प्रति तद्बिभृहि धारय पोषय चेत्येतन्नो मघवन्रन्धया—साधयास्माकमिति । छान्दसं दीर्घत्वम् । यद्येतद्विवक्षितं तथा सत्यादिमदर्थाभिधानाद्वेदस्य कृत्रिमत्वेनाप्रामाण्यं प्रसज्यते । न चान्यो मन्त्रार्थः शक्यते वक्तुमप्रतीतेः । अतोऽर्थसदसद्भावावनादृत्याक्षरोच्चारणं फलवदाश्रयणीयमिति ॥ ३१ ॥

150 मन्त्रोच्चारणं तावदक्षरग्रहणेन निराकाङ्क्षीकृतं न साक्षात्क्रत्वङ्गत्वं प्रतिपद्यते । अक्षराणां च द्रव्यवदनितिकर्तव्यतात्मकत्वात्प्रकरणेनाग्रहणम् । एवं पदार्थज्ञानस्य वाक्यार्थप्रत्ययेन नैराकाङ्क्ष्यादग्रहणम् । वाक्यार्थप्रत्ययस्त्वकृतार्थः प्रकरणे विपरिवर्तमानः क्रियात्मकत्वात्प्रयोगवचनाकाङ्क्षितः कर्मसमवेतानुष्ठास्यमानार्थरमृतिफलत्वेनेतिकर्तव्यता भवति । तत्रादृष्टकल्पनानिमित्ताभावः । समाम्नानान्यथानुपपत्त्या हि तत्कल्प्येत नोपपन्नेऽर्थवत्त्वे । यद्यपि च तत्कल्पनावसरो भवेत्तथाऽपि कामं वाक्यार्थप्रत्ययादेव न त्वौपयिऽकार्थप्रतीतिनिराकाङ्क्षाद्वाक्यात । अवश्यं च दृष्टादृष्टयोर्विनियुज्यमानस्य प्रमाणमुपन्यसितव्यम् । इह च प्रकरणाददृष्टार्थता लिङ्गाच्च दृष्टार्थता । न च प्रकरणमशक्येऽर्थे विनियोक्तुमर्हतीत्येकान्तेनैतदापतति यच्छक्नुयात्तन्मन्त्रेण कुर्यादिति । न चासावदृष्टं शक्नोतीति लौकिकं वैदिकं वा प्रमाणं विद्यते । तस्मादुभयोर्लिङ्गप्रकरणयोर्दृष्टार्थप्रयोगेणैकवाक्यता । एवं च सति याज्ञिकप्रयोगप्रसिद्धेर्न मूलान्तरकल्पनाक्लेशो भविष्यति । अतः स्वाभाविकमेवार्थप्राधान्यवास्थितम् । नैवमिति । न दृष्टोऽर्थो निर्वृत्त इत्येतावतैव तादर्थ्यमवसीयते । पुरुषार्थानुपयोगेन स्वाध्यायाध्यनविधेरानर्थक्यात् । न च बुद्धशास्त्राविद्यमानवचनाचेतनार्थबन्धनान्मन्त्रार्थोपयोगः । तत्र यदि दूरेऽप्यदृष्टकल्पनातो न मुच्यामहे ततोऽतिक्रमकारणाभावादुच्चारणादेव कल्पनीयम् ।

उभयवादिसिद्धत्वादुच्चारणकर्तव्यतायास्तत्प्रभवत्वाच्चादृष्टकल्पनस्य । तत्रोच्यते यज्ञे यज्ञाङ्गप्रकाशनमेव प्रयोजनमिति । यद्यपि लोकवत्तैर्न संव्यवहारस्तथाऽपि तत्स्व151 रूपप्रकाशनमात्रमेवानुष्ठातॄणामुपकरिष्यति । अतश्च यावन्मात्रमेवानौपयिकं संबोधनादि कामं तन्न विवक्ष्येत न तु तद्वशेन सर्वमेव त्यक्तव्यं न ह्यैकरूप्यं नाम केनचिन्नियतम् । तस्माद्यथादर्शनाभ्युपगमाद्बर्हिर्देवसदनं दामीत्येवमादीनां तावदविहतमर्थप्राधान्यम् । तां चतुर्भिरादत्त इत्यत्रापि वदामः ॥ ३२ ॥

यद्यपि मन्त्राः प्राप्ताः सामर्थ्येन तथाऽपि चतुःसंख्यामादाने विधास्यति । तत्रारुणैकहायनीन्यायेन परस्परनियमे सति मन्त्रगतचतुःसंख्याविशिष्टमादानं चोदितं समुच्चयादृते कर्तुं न शक्यत इत्यर्थात्समुच्चयफलम् । अथ वा यावल्लिङ्गानुमिताः श्रुतयः प्रतिमन्त्रं कल्पयितुमारभ्यन्ते तावदनेन प्रत्यक्षवचनेन चतुःसंख्याविशिष्टास्ते विहितास्तेनाप्राप्तविधिरेव वचनम् । तत्र तु विनाऽप्येतेन मन्त्रेष्वर्थात्प्राप्तवत्सु तत्परत्वे मन्दं फलमित्यनन्यलभ्यचतुःसंख्यार्थं तस्योपदेशः ॥ ३३ ॥

यावद्धि मन्त्राम्नानमनवगतप्रयोजनं प्रकरणी चाकृतार्थस्तावद्यत्तत्सिद्धयर्थं कल्प्यते तत्सर्वं वैदिकं भवति । नैराकाङ्क्ष्योत्तरकालं तु कल्पितमपि पौरुषेयत्वादप्रमाणं स्यात् ।

न च श्रुतिमकल्पयित्वा लिङ्गादेः स्वातन्त्र्येण प्रामाण्यमिति वक्ष्यते । तदेतदाह । सति च वाक्ये लिङ्गं विनियोजकं तच्चास्य नास्तीति । यदैव हि प्रकरणादनेन यजेत रशनां वा गृह्णीयादिति कल्पयितुमिष्यते तदैवाश्वाभिधानीमित्यनेनापहारो मन्त्रस्य । यदपि नैवं संबन्ध इत्यादत्त इति कथं तर्हीत्यश्वाभिधानामिति । तत्कारकसंबन्धासंभवात्क्रिययैव 152 सह सामान्याभिप्रायेण द्रष्टव्यम् । तस्मान्नाऽऽदानमात्रे विधीयते किं तर्ह्यश्वाभिधानीविशिष्टे । अथ वा फलतः पश्चात्तनकारकसंबन्ध उपन्यस्यते । सर्वथा दर्शशास्त्रता नास्ति । यदि हि यदेव मन्त्रवचनात्प्राप्नुयात्तदेव प्रत्यक्षवचनेनोच्यते ततो वयमुपालभ्येमहि । नन्वेवमप्राप्तविधिरेवायं संजात इति न वक्तव्यं परिसंख्येति । फलेनैवमभिधानाददोषः । सर्वत्र हि परिसंख्याशब्दादेवकाराद्वा विना न श्रुत्या परिसंख्या नियमो वोच्यते विधिरेव त्वेवंजातीयकस्य फलेनैवं व्यपदेशः । कस्तर्हि विधिनियमपरिसंख्यानां भेदः । उच्यते । विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्ते परिसंख्येति कीर्त्यते ॥ विधिरेव हि केनचिद्विशेषेणैवं भिद्यते । तत्र योऽत्यन्तमप्राप्तो न च प्राप्स्यति प्राग्वचनादित्यवगम्यते तत्र नियोगः शुद्ध एव विधिर्यथा व्रीहीन्प्रोक्षतीति । यत्र तु प्राग्वचनात्पाक्षिकी प्राप्तिः संभाव्यते तत्राप्राप्तिपक्षं पूरयन्यो विधिः प्रवर्तते स नियन्तृत्वान्नियम इत्युच्यते यथा व्रीहीनवहन्तीति । तण्डुलनिष्पत्त्यर्थाक्षेपादेव तत्सिद्धेर्न तत्प्राप्तिमात्रं विधेः फलं किं तर्ह्यप्राप्तांशपूरणम् । तदप्राप्तिपक्षे च तण्डुलैरुपायान्तराण्याक्षिप्येरन्, पूरणे तु सति या तेषां निवृत्तिरसावर्थान्न वाक्यात् । न च तद्वारणं नियमः । परिसंख्या हि तथा स्यात् । प्रत्यासन्नां वाऽवहन्तिनियततामुत्सृज्य नान्यनिवृत्तिफलकल्पनावसरः । तत्प्रसक्तिद्वारा त्ववहन्तेरनियतिरासीदिति नियमान्तर्गतैवार्थान्निवृत्तिर्गम्यते । न च प्राप्ते सति विधिरयं प्रवृत्तो येनास्यान्यनिवृत्त्यर्थता कल्प्येत । प्रागेव तु प्रवर्तमानेनार्थस्य प्रापकशक्तिनिरोधादन्याप्राप्तिः कृता सा चार्थलभ्येति न तयैव व्यपदिश्यते । यः पुनः प्राङ्नियोगात्तत्र चान्यत्र च प्राप्नुयादिति संभाव्यते यत्र वा यच्चान्यच्च सा परिसंख्या यथाऽत्रैवोदाहृते यथा च गृहमेधीये पञ्चमे पक्षे । अत्रापि च न प्राप्ते सत्येषा प्रवर्तते प्रापकस्य शास्त्रस्याननुमितत्वात् । कथं तर्हि । यद्येतद्वाक्यं नाभविष्यत्तत एनं प्राप्स्यदिति । सर्वस्य प्रत्यक्षस्य वाक्यस्य नानुमानिकवाक्यप्रतिबन्धमात्रं फलमिष्यते । किं हि तेन पठितेन यस्यान्यतोऽप्यर्थः सिध्यति तदर्थं गर्दभरशनानिवृत्तिः फलं कल्प्यते । तेनैवं कल्प्यते कृत्वाचिन्तान्यायेन यदि नामैवं वाक्यं न भवेत्ततः कीदृशमनुष्ठानं स्यात् । तत्र मन्त्रप्राप्तिस्तावदेकान्तेन सिध्येदश्वाभिधान्यां तद्वदेव तु गर्दभरशनायामपि प्रसज्येत ।

153 यदा त्वनेन वाक्येन प्रत्यक्षेण नैराकाङ्क्ष्यादविशेषविनियोगसमर्थवाक्यानुमानं निषिद्धं तदा केवलाश्वाभिधानीविषयत्वसिद्धिरित्यपौनरुक्त्यादर्थवद्वाक्यम् ॥ ३४ ॥

यद्यपि प्रदेशान्तरस्थत्वान्मन्त्रविधानं न स्तूयते तथाऽपि प्रथनविधानात्तत्प्ररोचनया च सकलं वाक्यमर्थवत् । तस्य ह्येतदेवोत्पत्तिवाक्यम् । ननु च पुरोडाशान्यथानुपपत्तिप्राप्तत्वात्प्रथनं न विधातव्यम् । नैतन्नियोगतः प्राप्नोति । द्रुततरं हि पिष्टमप्रथितमपि प्रथेत । विधाने तु सति तादृशं कर्तव्यं येन प्रथयितव्यं भवति । एवं चाध्वर्युकर्तृकताऽपि सिध्यति । पठ्यमानं ह्याध्वर्यवसमाख्यां लब्ध्वा कर्तृविशेषं नियच्छति । अर्थप्राप्तं त्वसमाख्यातत्वान्न नियामकं स्यात् । एवमर्थं च यद्यप्येकान्ततोऽर्थात्प्राप्नुयात्तथाऽपि वाक्येनैव प्रापयितव्यम् । तस्मादुपपन्ना प्रथनस्तुतिः । एवमपि यज्ञपतिमेव तत्प्रथयतीत्यनेन स्तुतौ सिद्धायां मन्त्रग्रहणमनर्थकम् । न । मन्त्रस्यैव स्तुत्यर्थमुपादानात्, प्रथनं कर्तव्यं तस्य हि क्रियमाणस्यायं मन्त्रः साधनं भवति । तत्र चोरु ते यज्ञपतिः प्रथतामित्येतान्यक्षराणि प्रयुज्यन्ते तथा सति यज्ञपतिः प्रथितो भवतीति गुणो लभ्यते । किमेतदेवास्य फलमिति नेत्याह । स्तुत्यर्थमेव तद्द्रव्यसंस्कारकर्मस्विति न्यायात् । यद्यप्यत्र करणमन्त्राभिहितत्वात्फलं कल्प्यते तथाऽपि ब्राह्मणे तावत्तत्संकीर्तनमेकान्तेन स्तावकम् । मन्त्रोऽपि तु लिङ्गविनियोज्यो न फलकल्पनायै प्रभवति । करणविभक्तिविनियुक्तानां हि सकलोपयोगान्यथानुपपत्त्या फलसाधनता युक्ता लिङ्गानुमिता पुनः श्रुतिराकाङ्क्षावशेन क्रियाप्रकाशनमात्रविनियोगायैव ज्ञायते । तेनैवंजातीयको 154 मन्त्रोऽपि प्रधानफलसंकीर्तनात्मिका स्तुतिरेवाभ्युपगन्तव्या । कथमसति प्रथन इति कस्यायं प्रश्नः किं विध्युद्देशवर्तिनः पुरोडाशप्रथनस्याथार्थवादगतस्य यज्ञपतिप्रथनस्येति । द्विधाऽपि चायुक्तं पुरोडाशप्रथनं तावद्विधीयमानत्वादेव न प्रष्टव्यम् । न च मन्त्राभिधानात्तस्यास्तित्वं किं तर्हि स्वरूपसद्भावादित्युत्तरमप्यसंबद्धम् । अथ पुनरितरार्थवादन्यायेन कथमरुदतीतिवत्प्रश्नः । तथाऽप्युत्तरमसंबद्धम् । मन्त्रेणाध्वर्युः पुरोडाशमिति पुरोडाशेन संबध्यते न यजमानेन । तस्मादग्रन्थ इति केचित् । उभयथाऽपि त्विदमदुष्टम् । अस्तु तावत्पुरोडाशप्रथने । तत्र हि याज्ञिकानां केषांचिदयं मन्त्रः कृत्वा प्रथनमभिमर्शने प्रयुज्यते सोऽयं स्वसिद्धान्तेन पृच्छति कथमसति—वृत्ते प्रथने प्रयुज्यमानेनानेन प्रथयतीति ।

तत्राभ्युपेत्यवादेनोत्तरं मन्त्राभिधानादिति । यद्यपि प्रथनं प्रथमकृतत्वान्नास्ति मन्त्रेण नु सत्तयोच्यत इत्युपपन्नः शब्दार्थः । अथ वा सर्वप्रयोजकव्यापाराणां प्रयोज्यव्यापारपूर्वकत्वमर्थरूपेण स्थितमिति शब्दैरपि तथैव प्रवर्तितव्यम् । इह च स्तुतिविषयसिद्धयर्थं प्रथयतीत्येतद्विधीयत इत्युक्तम् । तत्राऽऽह नायं विधिः संभवति विषयानुपपत्तेः । प्रयोजकव्यापारो हि प्रतीयमानस्तद्गोचरः स्यात् । स चानुपात्तप्रयोज्यव्यापारत्वान्न प्रतीयते तेन यथा यजेतेत्यनुक्ते याजयतीति नोच्यते तथेह प्रथेतेत्यनुक्ते प्रथयतीति न वाच्यम् । न चेह पुरोडाशः प्रथेत तेन वा प्रथितव्यमित्युपादानमस्ति । तस्मिन्नसति प्रथयतीत्यनुपपन्नम् । तदुपपादयति मन्त्राभिधानादिति प्रतीकगृहीतमन्त्रोपात्तप्रयोज्यव्यापारं हि ब्राह्मणं प्रथयतीति विधत्ते । यश्च प्रथस्वेति ब्रूत इत्यनेन पुरोडाशकर्तृकां क्रियामध्वर्युः प्रेष्यतीत्येतद्दर्शयति । यद्यपि च संभाव्यमानक्रियाणां प्रयोज्यानामनुपादायापि व्यापारं शब्देन प्रयोजकव्यापारः सिध्यतीत्येतदप्युत्तरं संभवति तथाऽपि तूत्तरविभवादुपादानपूर्वकतैवोक्ता । अथ वाऽस्तु यजमानप्रथने कथमसतीति सर्वस्तुतीनां किंचिच्छब्दगतमर्थगतं वाऽऽलम्बनमुक्तम् । तदत्र किंनिबन्धना स्तुतिरिति । तदभिधीयते । मन्त्रोक्तमर्थमाश्रित्य स्तुतिः प्रवर्तिष्यते । मन्त्रेणाध्वर्युः पुरोडाशं ब्रूत इति न पुरोडाशप्रथनोपादानाभिप्रायं किं तर्हि पुरोडाशं ब्रवीति, उरु ते यज्ञपतिः प्रथतामिति । प्रथस्वेत्यपीतिकरणः प्रभृत्यर्थो न शब्दः पदार्थतायै । यश्च प्रथस्वेति ब्रूत इत्यपि तदाद्यर्थ एव । प्रथतामिति ब्रूत इत्यर्थः । यश्चैवं ब्रूते स प्रथयत्यनेनैव । गुणवादात् । अथ वा तदाचष्ट इत्येवं मुख्यमेव प्रथयतीत्यर्थमाश्रित्य प्रथमबुद्धया सिद्धा स्तुतिः ॥ ३५ ॥

155 अदृष्टार्थोच्चारणवादिनोऽपि तन्नियमादपरमवश्यं कल्पनीयमदृष्टं तन्ममापि प्रत्यायननियमाद्भविष्यतीत्यविरोधः । एतेन मन्त्रत्वादिनियमः प्रत्युक्तः । सत्स्वप्युपायान्तरेषु विशिष्टानुपूर्वीकमन्त्रविशेषाम्नानादुपायान्तरनिवृत्तौ नियमादृष्टमात्रकल्पनया सिद्धमर्थाभिधानम् ॥ ३६ ॥

येयं संप्रैषे अग्नीदग्नीनित्यत्र बुद्धबोधनासंभवादभिधानकर्मगर्हाऽभिहिता साऽप्यनुपालम्भः । स्मरणसंस्कारार्थत्वात् । बुद्धीनां हि क्षणिकत्वात्स्वाध्यायकालोत्पन्नानां न प्रयोगकालं यावदवस्थानं तत्रावश्यं केन चिद्धयानादिनाऽनुसंधाने कर्तव्ये मन्त्रो नियम्यते ।

अथ वा संस्कारत्वादिति । यदि हि बोध एवावतिष्ठते ततोऽनवकाशत्वं भवेदिह तु तदीयसंस्कारमात्रावस्थानात्तदभिव्यक्तिद्वारेणास्ति ज्ञानोत्पत्त्यवसर इति न मन्त्रानर्थक्यम् ॥ ३७ ॥

चत्वारि शृङ्गेति रूपकद्वारेण यागस्तुतिः कर्मकाल उत्साहं करोति । हौत्रे त्वयं विषु13वति होतुराज्ये विनियुक्तः । तस्य चाऽऽग्नेयत्वादह्नश्चाऽऽदित्यदेवतत्वसंस्तवादादित्यरू 156 पेणाग्निस्तुतिरुपवर्ण्यते । तत्र चत्वारि शृङ्गेति दिवसयामानां ग्रहणम् । त्रयो अस्य पादा इति शीतोष्णवर्षाकालाः । द्वे शीर्षे इत्ययनाभिप्रायम् । सप्त हस्ता इत्यश्वस्तुतिः । त्रिधा बद्ध इति सवनाभिप्रायेण । वृषभ इति वृष्टिहेतुत्वेन स्तुतिः । रोरवीति स्तनयित्नुना । सर्वलोकप्रसिद्धेर्महान्देवो मर्त्यानाविवेशेत्युत्साहकरणोपकारेण सर्वपुरुषहृदयानुप्रवेशात् । एवमनेन मार्गेणास्ति तावद्धर्मसाधनस्मृतिः ॥ ३८ ॥

अदितिर्द्यौरदितिरिति । नात्र द्युत्वादीनि विवक्षितानि किं तर्ह्यदितौ प्रकाशयियितव्यायामविद्यमानविप्रतिषिद्धधर्मोपादानं स्तुत्यर्थम् । गुणवादेन त्वौदुम्बराधिकरणवत्संवादो योजयितव्यः ॥ ३९ ॥

यद्यपि पूर्वपक्षेऽयमभिप्रायो नोपन्यस्तस्तथाऽपि संभवादुपन्यस्यते । यदि हि स्वाध्यायकालेऽर्थवचनमुपयुज्येत ततस्तदाश्रीयेत न त्वेवमस्ति कर्मभिरसंयोगात् । तदनभ्यासस्तु प्रोक्षणादिवत्सौकर्यात् ॥ ४० ॥

यत्तु परं कारणमविज्ञेयत्वमुक्तं तदयुक्तम् । सत एवार्थस्य पुरुषापराधेनाविज्ञानात् । तत्र चार्थप्रकरणसूक्तदेवतार्षनिगमनिरुक्तव्याकरणज्ञानान्यधिगमोपायाः । तेषां ह्येवमर्थमेव परिपालनम् । यथैव च व्याकरणेन नित्यपदान्वाख्याने क्रियमाणे लोपविकारादीनामुपायत्वेनोपादानमव्युत्पन्नाश्च तैरेव पदोत्पादनमिव मन्यन्ते । तथाऽत्र नित्यवाक्यार्थ157 प्रतिपत्तावार्षोपाख्यानमनित्यवदाभासमानमुपायत्वं प्रतिपद्यते । तत्र यथा कश्चिद्व्याचक्षाणः पदतदवयवादीनां चेतनत्वमिवाध्यस्य विशेषबाधादिव्यापारं निरूपयत्येतेनैवमुक्तोऽयमेवं प्रत्याहेति । यथा च पूर्वपक्षोत्तरपक्षवादिनौ व्यवहारार्थं कल्पितावेवमृष्यार्षेयविविषया कल्पना । अथ वा परमार्थेनैवेदमृषिभिस्तथोक्तं न तु स मन्त्रस्तैरेव कृतस्तदानीं वा पुरुषान्तरेष्वसन्नेव तेषामाविर्भूतः । किं तर्हि यथाऽद्यत्वेऽपि कश्चित्प्रकृतार्थविवक्षायां तदर्थं वाक्यमुपादित्समानस्तदर्थसरूपं मन्त्रं श्लोकं वाऽन्यदीयं स्मृत्वा स्ववाक्यस्थाने प्रयुङ्क्ते तत्प्रत्ययेन चान्ये तदर्थमवधारयन्त्येवमिहापि वेदार्थविद्भिस्तद्वासितान्तःकरणैर्मृग्वादिभिरात्मीयव्यवहारेषु श्रुतिसामान्यरूपेण विशिष्टार्थप्रत्यायनार्थं मन्त्राः प्रयुक्तास्तद्बलेन चास्मदादीनां तदनुरूपाऽनित्यार्थप्रतिपत्तिर्मवति । प्रत्ययदृढत्वार्थमेव चाऽऽर्षस्मरणम् । तत्रैवमुपाख्यानं स्मरन्ति । यथा किल भूतांशो नाम कश्चिदृषिर्जरामरणनिराकरणार्थी सृण्येवेत्येवमादिना सूक्तेनाश्चिनौ स्तुतवान् । भूतांशो अश्विनोः काममप्राइति चान्ते संकीर्तनात्तस्याऽऽर्षमाश्विनं सूक्तमिति च द्योतितम् । तत्र सृणिरङ्कुशः सरणसाधनत्वात्तमर्हन्तौ तत्र वा साधू इति सृण्यावर्थात्कुञ्जरौ । आकारश्छन्दसि द्विवचनादेशः । ताविवात्यर्थं जृम्भमाणावष्टाङ्गप्रहरणव्यापृतौ जर्भरी । तुर्फरीतू हिंसन्तौ । नितोशतिर्वधकर्मा तत्कारिणौ नैतोशौ—योद्धारौ ताविव तुर्फरी—त्वरमाणा हिंसकाविति वा । पर्फरीकाशोभायुक्तौ । उदन्यतिः पिपासार्थः, तत्र जातौ, उदन्यजौ प्रावृषिजौ चातकौ जेमना—उदकवन्तौ जेमशब्दात्पामादिविहितो मत्वर्थीयो नप्रत्ययः । तौ यथोदकलाभेन मत्तौ भवतस्तथा यौ मदेरू तौ मे जरायुमरायु जरामरणधर्मकमर्थाच्छरीरमजरममरं च कुरुतमिति वाक्यशेषः । तेनैवं वाक्यार्थो यावङ्कुशचोदिताविव कुञ्जरौ सर्वतो जृम्ममाणौ शत्रूणां निहन्तारौ भवतो हिंस्राविव च हिंसनव्यापृतौ दाक्ष्येण च शोभेते चातकाविव चोदकलाभेन मदात्प्रीयेते तावुभावपि जरामरणयोः कुपिताविवाजरत्वस्यामरत्वस्य वा प्रीतावजरममरं मे शरीरं विधत्तामिति । “अम्यक्सा त” इत्यगस्त्यार्षं तेन किलेन्द्रोऽमरत्वं धनं प्रार्थितस्तथा चोपरितन्यामृचि “त्वं तू न इन्द्र तं रयिं दा” इति श्रूयते । तदेवास्यामृच्यनुषङ्गेण द्रष्टव्यम् । इयं च च्छन्दोमद्वितीयेऽहनि मरुत्वतीये शस्त्रे विनियुक्ता । तत्राम्यगित्यमाशब्दोऽव्ययं साहित्यवाची यतोऽमात्य इति भवति सहाञ्चतीत्यम्यक्सा त इन्द्र, ऋष्टिरायुधविशेषः पाणिक्षेप्यः, अस्मे इति—अस्माकं सनेमि—पुराणम् । अम्वं—तोयं मरुतो जुनन्ति—क्षिपन्ति । अग्निश्चिदित्युपमार्थो हि स्म, अतसे—शुष्कतृणे शुशुक्वान्—दीप्त158 वान् आप इव द्वीपं दधति प्रयांसि—अन्नाद्यानि । वाक्यार्थे तु प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च पदानां संबन्धः । तत्र सेत्येतदाक्षिप्तो यच्छब्दस्तृतीयपादे कल्प्यते । शुष्कतृणे दीप्तोऽग्निरिव या लक्ष्यते तव सहचारिणी नित्यमृष्टिस्तव वल्लभा सा तावत्त्वत्प्रसादेनास्माकमेव । येऽप्यमी पुराणं जलं वृष्टिरूपेण विक्षिपन्त आप इव द्वीपमन्नाद्यानि धारयन्ति तव प्रियसखास्तेऽप्यस्माकमेव स त्वमेवं साधारणद्रव्यः सन्नमरत्वं न केवलं देहि । एकया प्रतिधाऽपिवदितीन्द्रस्यैव स्तुतिः । एकेन प्रयत्नेनापिबत्साकं—यौगपद्येन, सरांसि—पात्राणि सोमस्य पूर्णानि इन्द्रः काणुका—कामयमानःकामुकशब्दस्य च्छान्दसो वर्णव्यत्ययः । आकारस्तु विभक्त्यादेशः । अथ वा कान्तकानीत्यादयो निरुक्तोक्ताः काणुकाशब्दविकल्पा योजनीयाः । तदेवं सर्वत्र केनचित्प्रकारेणाभियुक्तानामर्थोत्प्रेक्षोपपत्तेः प्रसिद्धतरार्थाभावेऽपि वेदस्य तदभ्युपगमात्सिद्धमर्थवत्त्वम् ॥ ४१ ॥

परं तु श्रुतिसामान्यमात्रमिति । यजमानस्तावत्प्रार्थयिता इन्द्रश्च प्रार्थ्यमानः सर्वदाऽस्ति । कीकटा नाम यद्यपि जनपदास्तथाऽपि नित्याः । अथ वा सर्वलोकस्थाः कृषणाः कीकटाः । प्रमगन्दः—कुसीदवृत्तिः स हि प्रभूततरमागमिष्यतीत्येवं ददाति । नीचाशाखः—षण्ढस्तदीयं धनं नैचाशाखम् । तच्च सर्वमयज्ञाङ्गभूतं तेषां कर्मण्यप्रवृत्तेस्तदस्माकमाहरेति । शेषं गतार्थम् ॥ ४२ ॥

आग्नेय्येत्यग्निना देवतया लिङ्गेन तदभिधानसामर्थ्येन वा य उपदेशः स तदर्थार्हतां मन्त्रस्य द्योतयति । देवतातद्धितो ह्येष स्मर्यते यं चार्थप्राधान्येन मन्त्रः प्रकाशयति सा तस्य देवता नाभिधानमात्रेण । एकदेवत्येऽपि मन्त्रेऽनेकदेवतान्तरपदप्रयोगे सति तद्देवत्यव्यपदेशाभावात् । प्राधान्याभिधानं च नार्थपरत्वेन विनोपपद्यते ॥ ४३ ॥

ऊहदर्शनं न माता वर्घत इति । अर्थे च पुष्ट्यादिवृद्धेः प्रत्यक्षत्वात्प्रतिषेधासंभवा159 दानर्थक्यात्तदङ्गेष्विति शब्दे विज्ञायते । तत्रापि स्थौल्यादिवृद्धयसंभवादधिकार्थवाचित्वेन द्विवचनबहुवचनयोः प्रतिषेधः । स चार्थपरत्वे सर्वपशुविशेषणमात्राद्युपादित्सायां सत्यामवकल्पते । या चान्यपदवृद्धिसद्भावप्रतीतिरियं च14 । यद्यपि मातृप्रभृतीनां पारार्थ्यात्संबन्धिभेदादेव च भेदसिद्धेरनूह्यत्वं सदेवानुवदति तथाऽपि न्यायावगतानूहसंकीर्तनान्न्यायरहितेषूहसंप्रत्ययात्प्रकृतौ विवक्षितार्थता विज्ञायते । अन्यथा तु तददृष्टमविकृतैरेव साध्येत । तथा यद्यप्यन्यदेवत्यः पशुराग्नेय्येवमनोता कार्येत्यूहप्राप्तिदर्शनं, एवमुस्राणां वपानामित्येवमादीनां यथार्थमूहितानामेवाऽऽम्नानमपि विवक्षितार्थं भविष्यति । इतरथा प्राकृतपदत्यागेऽन्यकल्पने चादृष्टद्वयं कल्प्येत ॥ ४४ ॥

विधिरेव च ब्राह्मणाभिधस्तत्र तत्र पर्यायैरवयवान्वाख्याननिर्वचनादिभिश्चार्थप्रकाशनपरत्वं दर्शयति । अर्थानाश्रयणे हि सर्वं तदनर्थकं स्यात् । तस्माद्विवक्षितवचना मन्त्रा इति सिद्धम् ॥ ४५ ॥

इति मन्त्राधिकरणम् ॥ ४ ॥
  1. ( अ॰ १॰ पा॰ ८ अं॰ १ )
  2. धर्मादीनां साध्यानां साधनप्रतिपत्तिरिति विग्रहः । धर्मादिचतुष्टयसाधनप्रतिपत्तिरुपादानाङ्गभूता । अधर्मादिचतुष्टयसाधनप्रतिपत्तिः परित्यागाङ्गभूतेत्यर्थः ।

  3. नायमभिसंबन्धो विवक्षित इत्यादि, भिद्येतेत्यन्तभाष्यस्यायमर्थः—भूतिकाम आलंभेत कस्माद्यतो वायुः क्षेपिष्ठेत्यनेन यः सार्थवादकस्य विध्युद्देशस्य विधिस्तुतिसंबन्धरूपो विशिष्टोऽर्थो दर्शितः, नायं विध्युद्देशमात्रेण विवक्षितः किं तु सार्थवादकेनेति । तर्हीत्ययं भिद्येतेत्यनेनान्वेति । आलभेतेति मध्यप्रतीकेन विध्युदेशोपलक्षणम् । यतस्ततो भूतिरित्यर्थवादस्योपलक्षणम् । तथाच विशेष्यविशेषणरूपभिन्नाविभावर्थौ विध्युद्देशार्थवादाभ्यां प्रतिपाद्यमानौ यद्येकेन विध्युद्देशेन प्रतिपिपादयिषितौ तर्हि गौरवलक्षणो वाक्यभेद इति ।

  4. यतो वाक्यशेषोऽतो विधेः—विधिसंबन्धिनोऽस्माद्वाक्यशेषाद्विधेयस्य स्तुतिमवगच्छाम इत्यर्थः । नत्वनेन भाष्येण विधिरेव स्तुतिप्रतिपादक इत्युपसंह्रियते । पूर्वग्रन्थविरोधापत्तेरिति ।

  5. णैवैतैरिति ‘ग.’ पुस्तके ।

  6. जै. (१० । ८ । ४)
  7. जै॰ (१ । ४ । २०)
  8. जै॰ ४ । ३ । १
  9. जै. ३-१-८ ।
  10. जै. ३-३-४ ।
  11. तै॰ सं॰ ५-४-४ ।
  12. जै॰ सू॰ ( ३-८-८ ) ।
  13. गवामयनान्तर्गत एकाहो विषुवानिति ।

  14. अर्थपरत्वेऽवकल्पत इत्यनुषङ्गः ।