स्मृत्याचारप्रामाण्याधिकरणम्

एवं तावद्विध्यर्थवादमन्त्रनामधेयात्मकस्य वेदस्य धर्मं प्रत्युपयोगः साधित इदानीं पौरुषेयीषु स्मर्यमाणार्थावधिषु मन्वादिप्रणीतनिबन्धनासु स्मृतिष्वनिबद्धेषु चाऽऽचारेषु चिन्ता । तत्र किंचिदुदाहृत्य विचारः कर्तव्य इत्यष्टकादिस्मरणानि मन्वादिस्थानि 160 तद्ग्रन्थसमर्पितानि प्रमाणाप्रमाणविचारविषयत्वेनोदाह्रियन्ते । संदेहहेतुश्चाभिधीयते ।

पारतन्त्र्यात्स्वतो नैषां प्रमाणत्वावधारणा ।
अप्रामाण्यविकल्पस्तु द्रढिम्नैव विहन्यते ॥

मन्वादिवचनं स्मृत्यपेक्षं स्मृतिश्च मूलप्रमाणापेक्षिणीति नैकस्यापि वेदवन्निरपेक्षप्रामाण्यनिश्चयः । यतस्तु वेदवादिनामेवाविभागेनाविच्छिन्नपारम्पर्यपरिग्रहादार्ढ्यमतो नाप्रामाण्याध्यवसानमिति युक्तः संदेहः । तत्र पूर्वपक्षवादी वदति नैषां प्रामाण्यमेवापेक्षितव्यमिति । कुतः ।

पूर्वविज्ञानविषयं विज्ञानं स्मृतिरुच्यते ।
पूर्वज्ञानाद्विना तस्याः प्रामाण्यं नावधार्यते ।

सर्वस्मरणानि हि प्रत्यक्षाद्यवगतेऽर्थे तदानुरूप्येणोपजायमानान्यर्थं समर्थयन्ति । तदिहाष्टकादीनां स्वर्गादिसाध्यसाधनभावं प्रत्यक्षादीनि तावन्न गृह्णन्तीति साधितम् । शब्दोऽपि यथाऽग्निहोत्रादिषु प्रत्यक्षेणोपलभ्यते नैवं मन्त्राः ।

प्रत्यक्षानुपलब्धे न शब्दे सद्भावकल्पना ।
धर्मास्तित्वप्रमाणाद्धि विप्रकृष्टतरा भवेत् ॥

शब्दस्य तावदेकमेव प्रत्यक्षं प्रमाणम् । स चेत्तेनानवगम्यमानोऽप्यम्तीत्युच्यते ततो वरं धर्मास्तित्वमेव निष्प्रमाणकमभ्युपगतमिति ।

न वाऽऽनुमानमप्यस्मिन्नष्टकाश्रुतिकल्पने ।
न हि स्मृतिस्तया व्याप्ता दृष्टाऽन्यद्वाऽनुमापकम् ॥

यथैव धर्मे संबन्धादर्शनान्न किंचिल्लिङ्गं क्रमते तथाऽष्टकादिश्रुतावपि ।

न वाऽऽगमेन तद्बोधो नित्येन कृतकेन वा ।
विस्रम्भः कृतके नास्ति नित्यो नैवोपपद्यते ॥

यद्यप्यैन्द्रियकत्वादष्टकादिस्मृतीनां पौरुषेयागमगम्यत्वं संभवति । तथाऽपि विप्रलम्भभूयिष्ठत्वादश्रद्धेयवचनेषु पुरुषेष्वनध्यवसानम् । दृश्यन्ते ह्यनागमिकानप्यर्थानागमिकत्वाध्यारोपेण केचिदद्यत्वेऽप्यभिदधानाः । तेन मन्वादिभिरपि किमष्टकाश्रुतीरुपलभ्य वेदमूलत्वं स्वनिबन्धनानां प्रतिज्ञातमुतानुपलभ्यैव श्रद्धेयवाक्यत्वार्थमिति दुष्टपुरुषाकुलितचेतसां भवति संदेहः । तावता च प्रामाण्यविघातः । नित्यस्य वचनस्याऽऽदिमत्स्मरणमूलप्रतिपादने व्यापार एव नास्ति । न च मन्त्रलिङ्गानि स्वयं मूलत्वं प्रतिपद्यन्ते । 161 विधिशून्यत्वात् । न च मूलान्तरं न्यायागतं सूचयन्ति । अन्यपरत्वात् । न च सर्वेषां स्मृतिप्रणयिनामविगानम्15 । येन पौरुषेयागमबलादुपलब्धपूर्वश्रुतिमूलत्वं स्यात् ।

न च विज्ञायते वाक्यं कीदृशं तैर्निरूपितम् ।
अर्थवादादिरूपाद्धि पश्यामो भ्राम्यतो बहून् ।

यदि ह्येतदेकान्तेन गम्येत यथाविधि वाक्यान्येव मन्वादिभिरुपलब्धानीति । ततः काऽपि कल्पना स्यादद्यत्वेऽप्यन्यपरार्थवादादिवचनेभ्योऽपि भ्राम्यन्तः पुरुषा दृश्यन्ते । तेन तेष्वप्याशङ्का भवति । मृतसाक्षिकव्यवहारवच्च प्रलीनशाखामूलत्वकल्पनायां यस्मै यद्रोचते स तत्प्रमाणीकुर्यात् । तस्मान्नाऽऽगमेनापि मूलोपलब्धिः ॥

उपमानं त्वदृष्टेऽर्थे सदृशे चानिरुपिते ।
नैवेष्टमिति तेनापि न मूलश्रुतिसाधनम् ॥
अर्थापत्त्याऽपि यत्किं चिन्मूलमित्यवगम्यते ।
तच्चाप्रमाणपक्षेऽपि भ्रान्त्यादि न विरुध्यते ॥

यदि हि श्रुतिकल्पनेन विना स्मृतिर्नोपपद्यते ततः सम्यङ्मूला स्यात् । संभवति तु स्वप्नमूलत्वेन तेनानैकान्त्यादर्थापत्तेः सामान्यतो दृष्टस्य वाऽनवकाशः । तस्मादनुपलब्धिगोचरापन्नायां श्रुतौ सत्स्वपि मूलान्तरेष्वभिप्रेतमूलाभावान्निर्मूलत्वाभिधानम् । ननु ये विदुरेवमितिकर्तव्यताक एवंफलकश्चासौ पदार्थः कर्तव्य इति । अथ वा ये कर्तव्योऽसावितीत्थं विदुस्ते तथा विजानन्तस्तादृशाः कथमिवास्मान्विप्रलब्धुं न कर्तव्योऽसाविति वदेयुः । नन्वन्य एवं वदन्ति कर्तव्य इत्यन्ये न वा कर्तव्य इत्याहुः । कथमन्यत्वं यदा तेषामप्येवमयं स्मर्यत इति कथिते भवत्येवं प्रतिपत्तिः । अथ वा ये मन्वादयो विदुरकर्तव्योऽयं पदार्थ इति कथमिव ते विनाऽपराधेन लोकं वञ्चयितुं वदिष्यन्ति कर्तव्य एवायमिति । स्मरणानुपपत्त्येति । ये तावन्मन्वादिभ्योऽर्वाञ्चः पुरुषास्तेषां यज्ज्ञानं तत्तावदनवगतपूर्वार्थत्वान्न स्मृतिः । मन्वादीनामपि यदि प्रथमं किं चित्प्रमाणं संभाव्यते ततः स्मरणं भवेन्नान्यथा । कस्मात्पुनः पुत्रं दुहितरं वाऽतिक्रम्य वन्ध्यादौहित्रोदाहरणं कृतम् । स्थानतुल्यत्वात् । पुत्रादिस्थानीयं हि मन्वादेः पूर्वविज्ञानं 162 दौहित्रस्थानीयं स्मरणमतश्च यथा दुहितुरभावं परामृश्य दौहित्रस्मृतिं भ्रान्तिं मन्यते तथा मन्वादिभिः प्रत्यक्षाद्यसंभवपरामर्शादष्टकादिस्मरणं मिथ्येति मन्तव्यम् । यथैव पारम्पर्येणाविच्छेदादयं वेद इति—वाक्यानुमानाभिप्रायेणोक्तम् ।

इतरस्त्वर्थस्यैवाविच्छेदस्मरणमयमाहेति मत्वा पुनर्निर्मूलत्वमाह । वेदः पुनः सविशेषः प्रत्यक्षगम्यस्तत्र घटादिवदेव पुरुषान्तरस्थमुपलभ्य स्मरन्ति । तैरपि स्मृतमुपलभ्यान्येऽपि स्मरन्तोऽन्येभ्यस्तथैव समर्पयन्तीत्यनादिता । सर्वस्य चाऽऽत्मीयस्मरणात्पूर्वमुपलब्धिः संभवतीति न निर्म्मूलता । शब्दसंबन्धव्युप्तत्तिमात्रमेव चेह वृद्धव्यवहाराधीनम् । प्रागपि हि वेदशब्दादन्यवस्तु विलक्षणं वेदान्तरविलक्षणं वाऽध्येतृस्थमृग्वेदादिरूपं मन्त्रब्राह्मणादिरूपाणि चान्यविलक्षणान्युपलभ्यन्ते । सर्वेषां चानादयः संज्ञा इति तद्द्वारेणोत्तरकालमपि गम्यमानानां प्रत्यक्षत्वं साधितम् । नन्वष्टकादिषु पुरुषान्तरस्थेष्वपि कुम्भकारक्रियास्विव किं चिद्विज्ञानमूलमस्ति । यदि हि कर्मस्वरूपमात्रं स्मर्येत ततः पाकादि तदिन्द्रियैरन्याननुष्ठतो दृष्टवा परे स्मरेयुः । यतस्त्विह स्वर्गादिसाध्यसाधनसंबन्धःस्मर्यते । नासौ पुरुषान्तरेषूत्पद्यमानः कश्चिद्दृश्यत इत्यन्धपरम्परान्यायेनाप्रमाणता । सर्वस्यानादिव्यवहारोपन्यासेन वेदवत्प्रसिद्ध्यभिमानो भवत्यतोऽन्धपरम्परानिदर्शनम् । वेदे हि प्रामाण्यस्यानादित्वमिहाप्रामाण्यस्य । कथम्—

यो यो ग्रहीता जात्यन्धः स स्वयं नोपलब्धवान् ।
स्वातन्त्र्येणागृहीते च प्रामाण्यं नावतिष्ठते ॥

तादृशं वाऽष्टकादिस्मरणम् । न च चोदना मूलभूतोपलभ्यते । न चाननुभूतसंबन्धाऽनुमांतु शक्यते । यदि च वेदादुपलभ्य स्मृतयः प्रवर्तिताः स्युस्ततोऽर्थस्मरणवदित उपलभ्यायं मन्वादिभिः प्रणीत इत्यपि पारम्पर्येण स्मर्येत । स्यादेतद् । अर्थस्मरणेन कृतार्थानां निष्प्रयोजनं मूलस्मरणमनादराद्भ्रष्टमिति । तदयुक्तम् । न हि यत्कृतं प्रामाण्यं तदेव विस्मर्तुं युज्यते । अर्थस्भृतेः स्वतः प्रामाण्याभावात् । सर्वे पुरुषास्तावदेतज्जानन्ति यथा वेदमूलज्ञानाद्विना प्रामाण्यं न निश्चीयत इति ते कथमिव तत्रानादरं कुर्युः । अपि च—

163
येन यत्नेन मन्वाद्यैरात्मवाक्यं प्रपाठितम् ।
कस्मात्तेनैव तन्मूलं न समर्पिता ॥

यदि हि तैरप्यर्थमात्रमेवान्येभ्योऽधिगतं न वेदो दृष्ट इति ततस्तत्पूर्वकेष्वप्ययमेव पर्यनुयोग इति निर्मूलसंप्रदायत्वप्रसङ्गान्निर्मूलत्वान्न मुच्यसे । यदि तु प्रलीनशाखामूलता कल्प्येत ततः सर्वासां बुद्धादिस्सृतीनामपि तद्द्वारं प्रामाण्यं प्रसज्यते । यस्यैव च यदभिप्रेतं स एव तत्प्रलीनशाखामस्तके निक्षिप्य प्रमाणीकुर्यात् । अथ विद्यमानशारवागता एवैतेऽर्थास्तथाऽपि मन्वादय इति सर्वे पुरुषास्तत एवोपलप्स्यन्ते । युक्ततरा च स्वाध्यायाध्ययनविधेः साक्षाद्वेदादेव प्रतीतिरिति स्मृतिप्रणयनवैयर्थ्यं स्यात् । न च तद्विज्ञायते । कीदृशाद्वाक्यादिदं मन्वादिभिः प्रतिपन्नं किं विधिपरादुतार्थवादरूपादिति । पश्य—

महताऽपि प्रयत्नेन तमिस्रायां परामृशन् ।
कृष्णशुक्लविवेकं हि न कश्चिदधिगच्छति ॥

न च मन्वादिवचनाद्वेदमूलत्वं निश्चिनुमः । ते हि निर्मूलमपि विप्रलम्भादिहेतोरुक्त्या लोकं वञ्चयितुमेवं वदेयुः । तस्मादप्रमाणम् ॥ १ ॥

सर्वथा तावन्मन्वादिप्रणीताः सन्निबन्धनाः स्मृतयः शेषाणि च विद्यास्थानानि स्वार्थं प्रतिपादयन्त्युपलभ्यन्ते । मन्वादीनां चाप्रत्यक्षत्वात्तद्विज्ञानमूलमदृष्टं किं चिदवश्यं कल्पनीयम् । तत्र च—

भ्रान्तेरनुभवाद्वाऽपि पुंवाक्याद्विप्रलम्भनात् ।
दृष्टानुगुण्यसाध्यत्वाच्चोदनैव लघीयसी ॥

सर्वत्रैव चादृष्टकल्पनायां तादृशं कल्पयितव्यं यद्दृष्टं न विरुणाद्वि न वाऽदृष्टान्तरमासञ्जयति । तत्र भ्रान्तौ तावत्सम्यङ्निबद्धशास्त्रदर्शनविरोधापत्तिः सर्वलोकाभ्युपगतदृढप्रामाण्यबाधश्च । इदानींतनैश्च पुरुषैरपि भ्रान्तिर्मन्वादीनामनुवर्तिता । तत्परिहारोपन्यासश्च मन्वादीनामित्यनेकादृष्टकल्पना । अनुभवेऽपि स एव तावदनुभवः कल्पयितव्यः । पुनश्चेदानींतनसर्वपुरुषजातिविपरीतसामर्थ्यकल्पना, मन्वादेस्तच्चैतंत्सर्वज्ञवादे निराकृतम् । पुरुषवाक्यपराऽप्यन्धपरम्परया निराकृता । न हि निष्प्रतिष्ठप्रमाणात्मलाभो दृश्यते । तथा विप्रलम्भेऽपि तत्कल्पना । विप्रलिप्सा प्रयोजनं लोकस्य च तत्र भ्रान्तिस्तस्याश्चेयन्तं कालमनुवृत्तिरित्याद्याश्रयणीयम् । उत्पन्नस्य च दृढस्य प्रत्ययस्यप्रामाण्य 164 निराकरणाद्दृष्टविरोधः । तस्मात्सर्वेभ्यश्चोदनाकल्पनैव ज्यायसी । तत्र हि तन्मात्रादृष्टाभ्युपगमः । शेषास्तु महाजनपरिग्रहादयः सर्वेऽनुविधीयन्ते । संभाव्यते च मन्वादीनां चोदंनापूर्वविज्ञानकारणत्वेन । तदर्थमेवाऽऽह—तेनोपपन्नो वेदसंयोगस्त्रैवर्णिकानामिति । यानि पुनरनुपपन्नवेदसंभावनानां म्लेच्छादीनामतीन्द्रियार्थस्मरणानि तेषां मूलकल्पनावेलायामेव चोदना संभावनापदं नाऽऽरूढेति मिथ्यात्वहेतुभूतचतुष्टयपारिशेष्यादप्रमाणत्वम् । संभावितायां पुनश्चोदनायां कारणान्तंरनिषेधे कृते निर्मूलत्वासंभवात्परिशेषसिद्धं चोदनामूलत्वम् । यत्तु किमर्थं चोदना नोपलभ्यन्त इति । तत्र के चिदाहुः । नित्यानुमेयास्ता न कदा चिदुच्चार्यन्ते । यथालिङ्गादिकल्पिताः । कथमनुच्चारितानां मूलत्वोपपत्तिरिति चेत् । नैष दोषः । पाठाविच्छेदवत्पारम्पर्येण स्मरणात्तत्सिद्धेः । यथैव हि ग्रन्थः संप्रदायादविच्छिन्नोऽस्तित्वं भजते तथैव प्रतिज्ञया नित्यानुमेयश्रुतिसंप्रदायाविच्छेदसिद्धिः । तत्त्वयुक्तम् । अन्धपरम्परान्यायादेव । या हि चोदना न कदाचिदुच्चार्यते तस्याः सर्वपुरुषप्रत्यक्षादिप्रसराभावाद्दुर्लभतरमस्तित्वम् । तथा च स्मृतेरपि सैव वन्ध्यादौहित्रतुल्यता । लिङ्गादीनां तु नित्यत्वान्नित्यमनुच्चरितश्रुत्यनुमानकारणत्वमविरुद्धम् । तेन वरं प्रलीनश्रुत्यनुमानमेव । न च प्रलयो न संभाव्यते । दृश्यते हि प्रमादालस्यादिभिः पुरुषक्षयाच्चाल्पविषयत्वम् । न चैवं सति यत्किं चित्प्रमाणमापत्स्यते । शिष्टत्रैवर्णिकदृढस्मरणान्यथानुपपत्तिलभ्यत्वाच्छ्रुत्यनुमानस्य । यद्वा विद्यमानशाखागतश्रुतिमूलत्वमेवास्तु । कथमनुपलब्धिरिति चेदुच्यते—

शाखानां विप्रकीर्णत्वात्पुरुषाणां प्रमादतः ।
नानाप्रकरणस्थत्वात्स्मृतेर्मूलं न दृश्यते ॥

यत्तु किमर्थं वेदवाक्यान्येव नोपसंगृहीतानीति । संप्रदायविनाशभीतेः । विशिष्टानुपूर्व्या व्यवस्थितो हि स्वाध्यायोऽध्येतव्यः श्रूयते । स्मार्ताश्चाऽऽचाराः के चित्क्वचित्कस्यां चिच्छाखायाम् । तत्रापि तु केचित्पुरुषमेवाधिकृत्याऽऽम्नायन्ते । ये तु क्रतुप्रकरणाम्नाताः केनचिन्निमित्तेनोत्कृष्यमाणाः पुरुषधर्मतां भजन्ते । यथा ‘मलवद्वाससा सह न संव देत्16’ ‘तस्मान्न ब्राह्मणायावगुरेत्17इत्येवमादयः । तत्र यदि तावत्तान्येव वाक्यान्युद्धृत्याध्यापयेयुस्ततः क्रमान्यत्वात्स्वाध्यायविधिविरोधः स्यात् । अनेन च निर्देशेनान्येऽप्यर्थवादोद्धारेण विधिमात्रमधीयीरन्कर्मौपयिकमात्रं वा । तत्र वेदप्रलयः प्रसज्येत । न चावश्यं मन्वादयः सर्वशाखाध्यायिनः ।

ते हि प्रयत्नेन शाखान्तराध्यायिभ्यः श्रुत्वाऽर्थमात्रं स्ववाक्यैरविस्मरणार्थं निबध्नीयुः । न च वाक्यविशेषो ज्ञायते । यथैव हि स्मृतेर्दृढत्वाद्भ्रान्तिमूलत्वं नास्त्येवमर्थवादमूलत्वमपि । शक्नुवन्ति हि ते विध्यर्थवादौ विवेक्तुम् । तत्र स्मृतेर्विध्यात्मकत्वात्प्रकृतिता165 दात्म्यानुमानलब्धास्पदेऽर्थवादपूर्वकत्वं निष्प्रमाणकम् । अपि च वेदोऽखिलो धर्ममूलं ससर्वोऽभिहितो वेद इति च स्वयमेव स्मृर्तृभिरात्मा बध्वा समर्पितस्तच्चैतन्नियोगतस्तत्कालैः कर्तृभिर्बुद्धिकारित्वादुपलब्धमतः सिद्धं वेदद्वारं प्रामाण्यम् । यस्तु कर्तृसामान्यात्स्वतन्त्रमेव प्रामाण्यं वेदमूलत्वं वाऽनुमानेन साधयति तस्यार्थकामानुसारिभिर्दृष्टार्थैराचारैरनेकान्तः । श्रूयमाणश्रुत्यधीनप्रामाण्यापत्तेश्च विरुद्धता तस्मादर्थापत्तिरेवात्राव्यभिचारादुपचारात्पश्चान्मानादनुमानत्वेनोक्ता । अस्या एव स्मृतेर्द्रढिम्न इति । दृढत्वात्कारणानुमानमथ वा दृढत्वस्य । न हि मनुष्या इहैवेति । निःशेषसंस्कारच्छिदा मरणेनान्तरित्वात्कर्मफलसंबन्धानुसंधानासंभवेनोच्यते । स्मृतिवैदिकपदार्थयोः कर्तृसामान्यादुपपन्नो वेदसंयोगस्त्रैवर्णिकानामिति । चोदनामूलसंभावनापदलाभार्थम् । विस्मरणमप्युपपद्यत इति । दृश्यते ह्यद्यत्वेऽप्यर्थस्मरणं ग्रन्थनाशश्च । यदा तु शाखान्तरेषु विद्यन्त एव ताः श्रुतयस्तदाऽपि कस्यां शाखायां काः पठयन्तइत्यस्यांशस्य विस्मरणम् । वैदिकत्वमात्रं तु प्रामाण्यसिद्धये परिपालयन्ति । तद्विशेषज्ञानं पुनरनौपयिकत्वादनादर्तव्यमेव । तथा प्रत्युपस्थितनियमानामिति । आगतमागतं निमित्तं प्रति ये नियम्यन्ते वृद्धवयःप्रत्युत्थानादयस्तेषाम् । दृष्टार्थत्वादेव प्रामाण्यमिति । एतदयुक्तम् । कुतः—

धर्मं प्रति यतोऽत्रेदं प्रामाण्यं प्रस्तुतं स्मृतेः ।
तस्मात्कृष्यादिवत्तेषामुपन्यासो न युज्यते ।

न हि यावत्किं चिदाचरणं तस्य सर्वस्य मूलमिह प्रमाणी क्रियते । धर्मजिज्ञासाधिकारात् । यदि च गुर्वनुगमादीनां केवलं दृष्टार्थत्वमेव स्यात्ततः कृष्यादिवद्धर्मं प्रत्य166 प्रामाण्यमेवेति नोपन्यसितव्याः । स्यादेतदप्रमाणत्वेनैषामुपन्यास इति । न । तथा सति “हेतुदर्शनाच्च” इत्यत्रोदाहर्तव्या भवेयुः । तस्माच्छ्रेयांप्तमिति च दर्शनं निष्फलम् । न च नियोगतः शास्त्रादृते प्राप्तिः । शक्यते ह्युपायान्तरेणापि सामदानादिना गुरुरध्यापनादीनि कारयितुम् । तत्रास्ति नियमविधेरवकाशः । सर्वत्र च यथा कथं चिल्लोकपङ्क्तिसहायोपादानात्मरक्षणप्रीत्युत्पादादिका दृष्टार्थता भाष्यकारोक्ता शक्या वक्तुम् । न चावघातादीनां वृष्टिकामयागादीनां च दृष्टार्थानामवैदिकत्वम् । तस्मात्सत्यपि दृष्टार्थत्वे संभाव्यते वेदमूलत्वं नियमादृष्टसिद्धेरनन्यप्रमाणकत्वात् । अतश्च गुर्वनुगमनादेर्नैमित्तिकत्वादक्रियायां प्रत्यवायः करणे च न भवति । दृष्टं च प्रीतो गुरुरध्याययिष्यतीत्येवमादि निष्पद्यते । नियमाच्चाविघ्नसमाप्त्यर्थापूर्वसिद्धिः । एवं च “आचाराद्गृह्यमाणेषु तथा 18स्यादित्यत्र सकृदसकृद्वाऽनुष्ठानमिति विचारो युक्तः । इतरथा तु दृष्टार्थत्ववशेनैवोदकपानादिवदवधारणं स्यात् । यत्तु भाष्यकारेण दृष्टार्थत्वादेव प्रामाण्यमित्युक्तं तत्पूर्वपक्षवाद्यतिशयार्थम् । एतदुक्तं भवति । यास्तावददृष्टार्थाः स्मृतयस्ताः कथं चिदप्रमाणी कुर्याद्भवान्, इमाः पुनर्गुर्वनुगमनादिविषयाः कथमिवाप्रमाणं भविष्यन्तीति । सभाप्रपादीनां यद्यपि विशेषश्रुतिर्नैव कल्प्यते तथाऽपि परोपकारश्रुत्यैव समस्तानामुपादानात्प्रामाण्यम् । तस्माच्छ्रेयांसमित्यश्वे गर्दभेनानुगन्तव्ये सिद्धवच्छ्रेयसामूनैरनुगमनं दर्शयति । यथा धन्वनि—निरुदके कृताः प्रपाः परेषामुपकुर्वन्त्येवं त्वमिति देवतास्तुतिपरे वाक्ये सिद्धवत्प्रपासद्भावस्तस्याश्च पारार्थ्यं दृश्यते । गोत्रचिह्नं शिखाकर्म तत्राप्याचारनियमस्यादृष्टार्थत्वान्नैव तावन्मात्रमेव प्रयोजनम् । शक्यं ह्युपायान्तरेणापि गोत्रं स्मर्तुं तेनान्य एवाभिप्रायः । कर्माङ्गभूतं तावच्चतुरवत्तपञ्चावत्तादिविभागसिद्धयर्थमवश्यं स्मर्तव्यं गोत्रम् । अतश्च तच्चिह्नार्थमपि तावच्छिखाकल्पस्मृतेः प्रामाण्यमस्तु । तन्नियमादृष्टस्य त्वेकान्तेनैवानन्यगतित्वात्पुरुषार्थता सेत्स्यतीति । तेन सर्वस्मृतीनां प्रयोजनवती प्रामाण्यसिद्धिः । तत्र यावद्धर्ममोक्षसंबन्धि तद्वेदप्रभवम् । यत्त्वर्थसुखविषयं तल्लोकव्यवहारपूर्वकमिति विवेक्तव्यम् । एषैवेतिहासपुराणयोरप्युपदेशवाक्यानां गतिः । उपाख्यानानि त्वर्थवादेषु व्याख्यातानि । यत्तु पृथिवीविभागकथनं तद्धर्माधर्मसाधनफलोपभोगप्रदेशविवेकाय किंचिद्दर्शनपूर्वकं किंचिद्वेदमूलम् । 167 वंशानुक्रमणमपि ब्राह्मणक्षंत्रियजातिगोत्रज्ञानार्थं दर्शनस्मरणमूलम् । देशकालपरिमाणमपि लोकज्योतिःशास्त्रव्यवहारसिद्धयर्थं दर्शनगणितसंप्रदायानुमानपूर्वकम् । भाविकथनमपि त्वनादिकालप्रवृत्तयुगस्वभावधर्माधर्मानुष्ठानफलविपाकवैचित्र्यज्ञानद्वारेण वेदमूलम् । अङ्गविद्यानामपि क्रत्वर्थपुरुषार्थप्रतिपादनं लोकवेदपूर्वकत्वेन विवेक्तव्यम् । तत्र शिक्षायां तावद्यद्वर्णकरणस्वरकालादिप्रविभागकथनं तत्प्रत्यक्षपूर्वकम् । यत्तु तथाविज्ञानात्प्रयोगे फलविशेषस्मरणम् । मन्त्रो हीनः स्वरतो वर्णतो वेति च प्रत्यवायस्मृतिस्तद्वेदमूलम् । एवं कल्पसूत्रेष्वर्थवादादिमिश्रशाखान्तरविप्रकीर्णन्यायलभ्यविध्युपसंहारफलमर्थनिरूपणं तत्तत्प्रमाणमङ्गीकृतम् । लोकव्यवहारपूर्वकाश्च केचिदृत्विगादिव्यवहाराः सुखार्थहेतुत्वेनाऽऽश्रिताः । व्याकरणेऽपि शब्दापशब्दविभागज्ञानं साक्षाद्वृक्षादिविभागवत्प्रत्यक्षनिमित्तम् । साधुशब्दप्रयोगात्फलसिद्धिरपशब्देन तु फलवैगुण्यं भवतीति वैदिकम् । छन्दोविचित्यामपि गायत्र्यादिविवेको लोकवेदयोः पूर्ववदेव प्रत्यक्षः । तज्ज्ञानपूर्वकप्रयोगात्तु फलमिति श्रौतम् । तथा चानिष्टं श्रूयते । यो ह वाऽविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण यजति याजयति वेत्यादि । ज्योतिःशास्त्रेऽपि युगपरिवर्तपरिमाणद्वारेण चन्द्रादित्यादिगतिविभागेन तिथिनक्षत्रज्ञानमविच्छिन्नसंप्रदायगणितानुमानगूलं ग्रहसौस्थ्यदौस्थ्यनिमित्तपूर्वकृतशुभाशुभकर्मफलविपाकसूचनं तद्गतशान्त्यादिविधानद्वारेण वेदमूलम् । एतेन सामुद्रवास्तु विद्यादि व्याख्यातम् । ईदृशा वा विधयः सर्वत्रानुमातव्याः । ईदृशे गृहशरीरादिसंनिवेशे सत्येतदेतच्च प्रतिपत्तव्यमिति । मीमांसा तु लोकादेव प्रत्याक्षानुमानादिभिरविच्छिन्नसंप्रदायपण्डितव्यवहारैः प्रवृत्ता । न हि कश्चिदपि प्रथममेतावन्तं युक्तिकलापमुपसंहर्तुं क्षमः । एतेन न्यायविस्तरं व्याचक्षीत ॥

विषयो वेदवाक्यानां पदार्थैः प्रतिपाद्यते ।
ते च जात्यादिभेदेन संकीर्णौ लोकवर्त्मनि ॥
स्वलक्षणविविक्तैस्तैः प्रत्यक्षादिभिरञ्जसा ।
परीक्षकार्पितैः शक्याः प्रविवेक्तुं न तु स्वतः ॥
वेदोऽपि विप्रकीर्णात्मा प्रत्यक्षाद्यवधारितः ।
स्वार्थं साधयतीत्येवं ज्ञेयास्ते न्यायविस्तरात् ॥

तथा च मानवेऽप्यभिहितम—

प्रत्यक्षमनुमानं च शाब्दं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥

तथा—यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥

इत्यादिभिस्तर्कविशुद्धिराश्रिता । प्रायेण च मनुष्याणामधर्मभूयिष्ठत्वात्तज्ज्ञानप्रतिबद्धाः प्रतिभास्तेषु तेषु कुमार्गेषु प्रवर्तन्ते । तत्र लोकार्थवादोपनिषत्प्रसूतैस्तर्कशास्त्रैः सर्वविप्र168 तिपत्तिमुखप्रदर्शनम् । तदुपपत्तयस्तद्बलाबलपूर्वकं च निश्चयद्वारं कथ्यते । अन्यथा पुनः—

प्रतिमान्त्यः स्वयं पुंसामपूर्वा ह्युपपत्तयः ।
भ्रान्तिं बहुमताः सत्यः कुर्युरज्ञानबोधनात् ॥

सर्वासु तु प्रदर्शितासु स्वातन्त्र्येण विशोधयन्तः काश्चिदुत्सृज्यान्याः प्रमाणी करिष्यन्ति । यदपि च नित्यानित्यपृथक्त्वैकत्वसामान्यविशेषव्यतिरेकाद्येकान्तप्रतिपादनं तदपि पक्षपातादृतेऽन्यतरांशनिरूपणाशक्तेः । अवश्यं च सर्वात्मकवस्तुयुगपद्ग्रहणासम्भवात्तद्भागोपनिपातिपदविषयविवेकार्थमेकैकनिरूपणमादरेण कर्तव्यम् । अन्यथा येऽनवाप्तसामान्यविशेषाद्युपपतयः पुरुषास्ते पदप्रतिपाद्यं निष्कृष्टं वस्तुभागं लोकमात्रालोचनेन नैवाध्यवस्येयुः । मन्त्रार्थवादोपात्ताश्च स्तुतिनिन्दास्तत्तन्नित्यानित्यैकपृथक्त्वैकान्तमाश्रित्य तत्र तत्र विधिप्रतिषेधाङ्गत्वेन प्रवर्तमानाः पक्षपातप्रतिपादितवस्तुधर्मवैचित्र्यादृते निरालम्बना स्युः । याश्चैताः प्रधानपुरुषेश्वरपरमाणुकारणादिप्रक्रियाः सृष्टिप्रलयादिरूपेण प्रतीतास्ताः सर्वा मन्त्रार्थवादज्ञानादेव दृश्यमानसूक्ष्मस्थूलद्रव्यप्रकृतिविकारभावदर्शनेन च द्रष्टव्याः । प्रयोजनं च स्वर्गयागाद्युत्पाद्योत्पादकविभागज्ञानम् । सर्गप्रलयोपवर्णनमपि दैवपुरुषकारप्रभावप्रविभागदर्शनार्थम् । सर्वत्र हि तद्बलेन प्रवर्तते तदुपरमे चोपरमतीति । विज्ञानमात्रक्षणभङ्गनैरात्म्यादिवादानामप्युपनिषदर्थवादप्रभवत्वं विषयेष्वात्यन्तिकं रागं निवर्तयितुमित्युपपन्नं सर्वेषां प्रामाण्यम् । सर्वत्र च यत्र कालान्तरफलत्वादिदानीमनुभवासंभवस्तत्र श्रुतिमूलता । सांदृष्टिकफले तु वृश्चिकविद्यादौ पुरुषान्तरे व्यवहारदर्शनादेव प्रामाण्यमिति विवेकसिद्धिः ॥ २ ॥

इति स्मृत्याचारप्रामाण्याधिकरणम् ॥ १ ॥
  1. यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः । न तन्मम मतं यस्मात्तत्राऽऽत्मा जायते स्वयम् ॥ इत्यादिना विगानदर्शनादिति भावः ।

  2. तै॰ सं॰ ( २-५-१ ) ।
  3. तै॰ सं ( २-६-१० ) ।
  4. जै. सू. ( ६-२-१० )