अध्यायः 149

भीमेन स्वमार्गादपसरणं चोदितेन हनुमता तंप्रति अपसरणे स्वस्याशक्तिकथनपूर्वकं स्वबालोद्धरणेन गमनचोदना ॥ 1 ॥ प्रयतनेऽपि पुच्छचालनेऽप्यसमर्थेन भीमेन तंप्रति तत्प्रभवादिप्रश्नः ॥ 2 ॥ हनुमता स्वप्रभवादिकथनपूर्वकं रामकथकथनारम्भः ॥ 3 ॥

वैशंपायन उवाच ।
एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः ।
भीमसेनस्तदा वीरः प्रोवाचामितविक्रमः ॥
भीम उवाच ।
को भवान्किंनिमित्तं वा वानरं वपुराश्रितः ।
ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वाऽनुपृच्छति ॥
कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः ।
पाण्डवो वायुतनयो भीमसेन इति श्रुतः ॥
स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् ।
हनुमान्वायुतनयो वायुपुत्रमभाषत ॥
वानरोऽहं न ते मार्गं प्रदास्यामि यथोप्सितम् ।
साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् ॥
भीमसेन उवाच ।
वैशसं वाऽस्तु यद्वान्यन्न त्वां रपृच्चामि वानर ।
प्रयच्छ मार्गमुत्तिष्ठ मा मत्तः प्राप्स्यसे व्यथाम् ॥
हनूमानुवाच ।
नास्ति शक्तिर्ममोत्थातुं जरया क्लेशितो ह्यहम् ।
यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् ॥
भीम उवाच ।
निर्गुणः परमात्मा तु देहं ते व्याप्य तिष्ठते ।
तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये ॥
यद्यागमैर्न विद्यां च तमहं भूतभावनम् ।
क्रमेयं त्वां गिरिं चैव हनीमानिव सागरम् ॥
हनूमानुवाच ।
क एष हनुमान्नाम सागरो येन लङ्घितः ।
पृच्चामि त्वां नरश्रेष्ठ कथ्यतां यदि शक्यते ॥
भीम उवाच ।
भ्राता मम गुणश्लाघ्यो बुद्धिसत्वबलान्वितः ।
रामायणेऽतिविख्यातः श्रीमान्वानरपुङ्गवः ॥
रामपत्नीकृते येन शतयोजनविस्तृतः ।
सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः ॥
स मे भ्राता महावीर्यस्तुल्योऽहं तस् तेजसा ।
बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे ॥
`इमं देशमनुप्राप्तः कारणेनास्मि केनचित् ।' उत्तिष्ठ देहि मे मार्गं पश्य मे चाद्य पौरुषम् ।
मच्छासनमकुर्वाणं त्वां वा नेष्ये यमक्षयम् ॥
वैशंपायन उवाच
विज्ञाय तं बलोन्मत्तं बाहुवीर्येण दर्पितम् ।
हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् ॥
प्रसीद नास्ति मे शक्तिरुत्थातुं जरयाऽनघ ।
ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् ॥
वैशंपायन उवाच ।
[एवमुक्ते हनुमता हीनवीर्यपराक्रमम् ।
मनसाऽचिनतयद्भीमः स्वबाहुबलदर्पितः ॥
पुच्छे प्रगृह्य तरसा हीनवीर्यपराक्रमम् । सालोक्यमन्तकस्यैनं नयाम्यद्येह वानरम् ॥]
सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना ।
न चाशकच्चालयितुं भीमः पुच्छं महाकपेः ॥
उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम् ।
नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः ॥
उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रकुटीमुखः ।
स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुंशशाक तम् ॥
यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणे ततः ।
कपेः पार्श्वगतो भीमस्तस्थौ व्रीडडानताननः ॥
प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत् ।
प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम ॥
सिद्धो वा यदि वा देवो गन्धर्वो वाऽथ गुह्यकः ।
पृष्टः सन्को मया ब्रूहि कस्त्वं वानररूपधृत् ॥
न चेद्गुह्यं महाबाहो श्रोतव्यं चेद्भवेन्मम ।
शिष्यवत्त्वां तु पृच्छामि उपपन्नोऽस्मि तेऽनघ ॥
हनूमानुवाच ।
यत्ते मम परिज्ञाने कौतूहलमरिंदम ।
तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन ॥
अहं केसरिणः क्षेत्रे वायुना जगदायुषा ।
जातः कमलपत्राक्ष हनूमान्नाम वानरः ॥
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ।
सर्ववानरराजानौ सर्ववानरयूथपाः ॥
उपतस्थुर्महावीर्या मम चामित्रकर्शन ।
सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा ॥
निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे ।
ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम् ॥
अथ दाशरथिर्वीरो रामो नाम महाबलः ।
विष्णुर्मानुषरूपेण चचार वसुधातलम् ॥
स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः ।
सधनुर्धन्विनांश्रेष्ठो दण्डकारण्यमाश्रितः ॥
तस्य भार्या जनस्थानाच्छलेनापहृता बलात् ।
राक्षसेन्द्रेण बलिना रावणेन दुरात्मना ॥
सुवर्णरत्नचित्रेण मृगरूपेण रक्षसा । वञ्चयित्वा नरव्याघ्रं मारीचेन तदाऽनघ ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनपञ्चाशदधिकशततमोऽध्यायः ॥ 149 ॥

3-149-5 वैशसं विरोधम् ॥ 3-149-9 भूतभावनं भूतानां वियदादीनां जरायुजादीनां च भावनं रचनं यस्मात्तम् ॥ 3-149-12 क्रमेण पादविक्षेपेन ॥ 3-149-17 एवमुक्ते सति । तमित्यध्याहारः । तं हीनवीर्यपराक्रमं मनसाऽविन्तयन्मेने ॥ 3-149-29 मम च सुग्रीवेण प्रीतिरभवत् ॥ 3-149-30 निकृतः निरस्तः ॥