अध्यायः 078

अभिमन्युमनुशोच्य विलपन्त्याः सुभद्रायाः कृष्णेनाश्वासनम् ॥ 1 ॥

सञ्जय उवाच ।
एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः ।
सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता ॥
हा पुत्रा मम मन्दायाः कथमेत्यासि संयुगम् ।
निधनं प्राप्तवांस्तात पितुस्तुल्यपराक्रमः ॥
कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम् ।
मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना ॥
नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम् ।
सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं नतोदरम् ॥
चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम् ।
भूतानि त्वां निरीक्षन्ते भूमौ चन्द्रमिवोदितम् ॥
शयनीयं पुराऽध्युष्य स्पर्ध्यास्तरणसंवृतम् ।
भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः ॥
योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः ।
कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे ॥
योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः ।
सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्येत ॥
पाण्डवेषु च नाथेषु वृष्णिवीरेषु वा विभो ।
पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत् ॥
`यत्र त्वं केशवे नाथे सत्यनाथो यथा हतः' । अतृप्तदर्शना पुत्र दर्शनस्य तवानघ ।
मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम् ॥
विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च ।
तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम् ॥
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् ।
धिग्वीर्यं वृष्णिवीराणां चाञ्चालानां च धिग्बलं ॥
धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान् ।
ये त्वां रणगतं वीरं न शेकुरभिरक्षितुम् ॥
अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम् ।
अभिमन्युमपश्यन्ती शोकव्याकुललोचना ॥
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डवीधन्वनः ।
कथं त्वाऽतिरथं वीरं द्रक्ष्याम्यद्य निपातितम् ॥
एह्येहि तृषितो वत्स स्तनौ पूर्णौ पिबाशु मे ।
अङ्कमारुह्य मन्दाया ह्यतृप्तायाश्च दर्शने ॥
हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे ।
अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम् ॥
इमां ते तरुणीं भार्यां तवाधिभिरभिप्लुताम् ।
`उत्तरामुत्तमां जात्या सुशीलां प्रिय भाषिणीम् ॥
शनकैः परिरभ्यैनां स्नुषां मम यशस्विनीम् ।
सुकुमारीं विशालाक्षीं पूर्णचन्द्रनिभाननाम् ॥
बालपल्लवतन्वङ्गीं मत्तमातङ्गगामिनीम् ।
बिम्बाधरोष्ठीमबलामभिमन्यो प्रहर्षय ॥
त्वया विना कथं पुत्र जीर्णां पतितमानसाम्' ।
इमां सन्धारयिष्यामि वृषभादिव धेनुकाम् ॥
अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक ।
विहाय फलकाले मां सुगृद्धां तव दर्शने ॥
नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा ।
यत्र त्वं केशवे नाथे सङ्ग्रामेऽनाथवद्धतः ॥
यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम् ।
चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् ॥
कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि ।
सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि ॥
या गतिर्युध्यमानानां शूराणामनिवर्तिनाम् ।
हत्वारीन्निहतानां च सङ्ग्रामे तां गति व्रज ॥
गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः ।
नैवेशिकं चाभिमतं ददतां या गतिः शुभा ॥
ब्राह्मणेभ्यः शरण्येभ्यो निधिं निदधतां च या ।
या चापि न्यस्तदण्डानां तां गतिं व्रज पुत्रक ॥
ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः ।
एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक ॥
राज्ञा सुचरितैर्या च गतिर्भवति शाश्वती ।
चरमाश्रमिणां पुण्यैः सेवितानां पुरः स्थितैः ॥
दीनानुकम्पिनां या च सततं संविभागिनाम् ।
पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक ॥
व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि ।
अमोघातिथिनां या च तां गतिं व्रज पुत्रक ॥
कृच्छ्रेषु या धारयतामात्मानं व्यसनेषु च ।
गतिः शोकाग्निदग्धानां तां गतिं व्रज पुत्रक ॥
मातापित्रोश्च शुश्रूषां कल्पयन्तीह ये सदा ।
स्वदारनिरतानां च या गतिस्तामवाप्नुहि ॥
ऋतुकाले स्वकां भार्यां गच्छतां या मनीषिणाम् ।
परस्त्रीभ्यो निवृत्तानां तां गतिं व्रज पुत्रक ॥
साम्ना ये सर्वभूतानि पश्यन्ति गतमत्सराः ।
नारुन्तुदानां क्षमिणां या गतिस्तामवाप्नुहि ॥
मधुमांसान्निवृत्तानां मदाद्दृम्भात्तथाऽनृतात् ।
परोपतापादन्यायात्तां गतिं व्रज पुत्रक ॥
हीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः ।
यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक ॥
सञ्जय उवाच ।
एवं विलपतीं दीनां सुभद्रां शोककर्शिताम् ।
अन्वपद्यत पाञ्चाली वैराटिसहितां तदा ॥
सा प्रकामं रुदित्वा च विलप्य च सुदुःखिता ।
उन्मत्तवत्तदा राजन्विसंज्ञा पतिता क्षितौ ॥
सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः ।
सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः ॥
विसंज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम् ।
भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत् ॥
सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम् ।
गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः ॥
ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने ।
सर्वे न ते गतिं यान्ति याऽभिमन्योर्यशस्विनः ॥
कुर्याम तद्वयं कर्म कुर्युर्युत्सुहृदश्च नः ।
कृतवान्यादृगद्यैकस्तव पुत्रो महारथः ॥
सञ्जय उवाच ।
एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम् ।
पार्थस्यैव महाबाहुः पार्श्वमागादरिन्दमः ॥
ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाऽर्जुनम् ।
विवेशान्तः पुरे राजंस्ते च जग्मुः स्वमालयम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अष्टसप्ततितमोऽध्यायः ॥ 78 ॥

5-78-27 नैवेशिकं सोपकरणं गृहम् । नैवेशिकायेति पाठे गृहाश्रमोन्मुखाय विद्याव्रतस्नाताय । अभिमतं विवाहोपयुक्तम् ॥ 5-78-28 न्यस्तदण्डानां निरस्ताभिमानानाम् । दण्डो स्त्री लगुडे पुमानित्यु पक्रम्य दमे यमेऽबिमानेचेति मेदिनी ॥ 5-78-29 एकपत्न्यः पतिव्रताः ॥ 5-78-78 अष्टसप्ततितमोऽध्यायः ॥

श्रीः