अध्यायः 003

द्रौणिना कृपवचनमनादृत्य कृपकृतवर्मणोः पुरतः निशि प्रसुप्तपाण्डुपाञ्चालहननप्रतिज्ञानम् ॥ 1 ॥

सञ्जय उवाच ।
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम् ।
अश्वत्थामा महाराज दुःखशोकसमन्वितः ॥
दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा ।
क्रूरं मनस्ततः कृत्वा तावभौ प्रत्यभाषत ॥
पुरुषेपुरुषे बुद्धिर्याया भवति शोभना ।
तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वयास्वया ॥
सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम् ।
सर्वस्यात्मा बहुमतः सर्वोत्मानं प्रशंसति ॥
सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता ।
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत् ॥
कारणान्तरयोगेन येषां संवदते मतिः ।
तेऽन्योन्येन च तुष्यन्ति बहुमन्यन्ति चासकृत् ॥
तस्यैव तु मनुष्यस्य सासा बुद्धिस्तदातदा ।
कालयोगे विपर्यासं प्राप्यान्योन्यं विपद्यते ॥
अनित्यत्वात्तु चित्तानां मनुष्याणां विशेषतः ।
चित्तवैक्लब्यमासाद्य सासा बुद्धिः प्रजायते ॥
यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि ।
भैषज्यं कुरुते योगात्प्रशमार्थमिति प्रभो ॥
एवं कार्यस्य योगात्प्रशमार्थमिति प्रभो ॥
प्रज्ञया च स्वया युक्त्या तां च गृह्णन्ति वै बुधाः ॥
अन्यया यौवने बाल्ये बुद्ध्या भवति मोहितः ।
मध्येऽन्यया जरायां तु सोन्यां रोचयते मतिम् ॥
व्यसन वा महाघोरं समृद्धिं चापि तादृशीम् ।
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम् ॥
एकस्मिन्नेव पुरुषे सासा बुद्धिस्तदातदा ।
भवत्यनित्या प्रज्ञा हि सा तस्यैव न रोचते ॥
निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति ।
तया प्रकुरुते भावं सा तस्योद्योगकारिका ॥
सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः ।
कर्तुमारभते प्रीतिं मरणादिषु कर्मसु ॥
सर्वे हि युक्तां विज्ञाय प्रज्ञां वापि स्वकां नराः ।
चेष्टन्ते विविधां चेष्टां हितमित्येव जानते ॥
उपजाता व्यसनजा येयमद्य मतिर्मम ।
युवयोस्तां प्रवक्ष्यामि सर्वेषां शोकनाशिनीम् ॥
प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च ।
वर्णेवर्णे समाधत्त ह्येकैकं गुणवत्तरम् ॥
ब्राह्मणे वेदमग्र्यं तु क्षत्रिये तेज उत्तमम् ।
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम् ॥
अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियो मृतः ।
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ॥
सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणैरभिपूजिते ।
मन्दभाग्यतयाऽस्म्येतं क्षत्रधर्ममनुष्ठितः ॥
क्षत्रधर्मं विदित्वाऽहं यदि ब्राह्मण्यमाश्रितः ।
प्रकरिष्ये महत्कर्म न मे तत्साधुसम्मतम् ॥
धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे ।
पितरं निहतं दृष्ट्वा किन्नु वक्ष्यामि संसदि ॥
सोऽहमद्य यथाकामं क्षत्रधर्ममवाप्य च ।
गन्ताऽस्मि पदवीं राज्ञः पितुश्चापि महात्मनः ॥
अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः । विमुक्तयुग्यकवचा हर्षेण च समन्विताः ।
वयं जिता मताश्चैषां श्रान्ता व्यायामकर्शिताः ॥
तेषां निशि प्रसुप्तानां सुस्थानां शिबिरे स्वके ।
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम् ॥
तानवस्कन्द्य शिबिरे प्रेतभूतानचेतसः ।
सूदयिष्यामि विक्रम्य मघवानिव दानवान् ॥
अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान् ।
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः ॥
निहत्य चैव पाञ्चालाञ्शान्तिं लब्धाऽस्मि सत्तम ॥
पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे ।
पिनाकपाणिः सङ्क्रुद्धः स्वयं रुद्रः पशुष्विव ॥
अद्याहं सर्वपाञ्चालान्निकृत्या च निकृष्य च । अर्दयिष्यामि संहृष्टो रणे पाण्डुसुतांस्तथा ।
`सूदयिष्यामि सङ्क्रुद्धः पशूनिव पिनाकधृत्' ॥
अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम् ।
प्रहृत्यैकेन शस्त्रेण भविष्याम्यनृणः पितुः ॥
दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि ।
गमिष्यामि निशावेलां पदवीमद्य दुर्गमाम् ॥
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि ।
विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात् ॥
अद्य पाञ्चालपाण्डूनां शयितानां शिरो निशि ।
खङ्गेन निशितेनाजौ प्रमथिष्यामि गौतम ॥
अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके ।
कृतकृत्यः सुखी चैव भविष्यामि महामते ॥ ॥

इति श्रीमन्महाभारते सौप्तिकपर्वणि तृतीयोऽध्यायः ॥ 3 ॥

10-3-4 सर्वोत्मानमित्यत्र सर्व आत्मानमिति च्छेदः । सन्धिरार्षः ॥ 10-3-6 योगे येषां समा गतिरिति झ.पाठः । तत्र योगे समुदाये इत्यर्थः ॥ 10-3-10 तां च निन्दन्ति मानवा इति झ.पाठः ॥ 10-3-12 हे भोज हे कृतवर्मन् । एकमेव सम्बोधयन् कृपस्य वचसि अनादरं सूचयति ॥ 10-3-13 भवत्यकृतवुद्धित्वादिति झ.पाठः । तत्र अकृतधर्मत्वात् अवसरानुरोधात् । इदानीं मम शान्तिबुद्धिर्न रोचते इत्यर्थः ॥ 10-3-20 क्षत्रियोऽधम इति झ.पाठः ॥ 10-3-22 विदित्वा आश्रित्य ॥ 10-3-24 गन्तास्मि गमिष्यामि । पदवीं आनृण्यम् ॥ 10-3-33 गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमामिति झ.पाठः ॥ 10-3-3 तृतीयोऽध्यायः ॥

श्रीः