अध्यायः 106

भीष्मेण युधिष्ठिरंप्रति कालकवृक्षीयनिदेशेन कौसल्यस्य पुना राज्यप्राप्त्यादिकथनम् ॥ 1 ॥

राजोवाच ।
न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम् ।
नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम् ॥
पुरस्तादेव भगवन्मयैतदपवर्जितम् ।
येन पापं न शङ्केत यद्वा कृत्स्नं हितं भवेत् ॥
आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः ।
नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते ॥
मुनिरुवाच ।
उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे ।
प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शनः ॥
उभयोरेव साह्यार्थे यतिष्ये तव तस्य च ।
संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम् ॥
त्वादृशं हि कुले जातभनृशंसं बहुश्रुतम् ।
अमात्यं को न कुर्वीत राज्यप्रणयकोविदम् ॥
यस्त्वं प्रव्राजितो राज्याद्व्यसनं चोत्तमं गतः ।
आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम् ॥
आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः ।
अथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम् ॥
भीष्म उवाच ।
तत आहूय वैदेहं मुनिर्वचनमब्रवीत् ।
अयं राजकुले जातो विदिताभ्यन्तरो मम ॥
आदर्श इव शुद्धात्मा शारदश्चन्द्रमा यथा ।
नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः ॥
तेन ते संधिरेवास्तु विश्वसास्मिन्यथा मयि ।
न राज्यमनमात्येन शक्यं शास्तुममित्रहन् ॥
अमात्य शुद्ध एव स्याद्बुद्धिसंपन्न एव वा ।
तस्माच्चैव भयं राज्ञः पश्य राज्यस्य योजनम् ॥
धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी । तदा राजपुत्रोऽयं सतां मार्गमनुष्ठितः ।
असंगृहीतस्त्वेवैष त्वया धर्मपुरोगमः ॥
संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान् ॥
यद्ययं प्रतियुद्ध्येत स्वकर्म क्षत्रियस्य तत् ।
जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे ॥
त्वं अपि प्रतियुद्ध्येथा विजिगीषुर्व्रते स्थितः ।
अयुद्ध्वैव नियोगान्मे वशे कुरु हिते स्थितः ॥
स त्वं धर्ममवेक्षस्व हित्वा लोभमसांप्रतम् ।
न च कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि ॥
नैव नित्यं जयस्तात नैव नित्यं पराजयः ।
तस्माज्जयश्च भोक्तव्यो भोक्तव्यश्च पराजयः ॥
आत्मन्यपि च संदृश्यावृभौ जयपराजयौ ।
निःशेषकारिणां तात निःशेषकरणाद्भयम् ॥
इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम् ।
प्रतिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च ॥
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महाश्रुतः ।
श्रेयस्कामो यथा ब्रूयादुभयोरेव तत्क्षमम् ॥
यद्यद्वचनमुक्तोऽस्मि करिष्यामि च तत्तथा ।
एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा ॥
ततः कौसल्यमाहूय मैथिलो वाक्यमब्रवीत् ।
धर्मतो बुद्धितश्चैव बलेन च जितं मया ॥
अहं त्वया चात्मगुणैर्जितः पार्थिवसत्तम ।
आत्मानमनवज्ञाय जितवद्वर्ततां भवान् ॥
नावमन्यामि ते बुद्धिं नावमन्ये च पौरुषम् ।
नावमन्ये जयामीति जितवद्वर्ततां भवान् ॥
यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात् ।
ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान् ॥
वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा ।
प्राद्यार्ध्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत् ॥
ददौ दुहितरं चास्मै रत्नानि विविधानि च ।
एष राज्ञां परो धर्मः समौ जयपराजयौ ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि ष़डधिकशततमोऽध्यायः ॥ 106 ॥

12-106-5 तस्य विदेहस्य ॥ 12-106-6 त्वादृशा राजानं लब्ध्वा अमात्यकर्म को न कुर्वीताऽपितु सर्वोऽपि मादृशः कुर्वीतैवेत्यर्थः ॥ 12-106-7 उत्तमं महृत् ॥ 12-106-14 गणाञ्शत्रुसङ्घान् ॥ 12-106-17 असांप्रतमनुचितम् ॥ 12-106-24 जितवत्प्राप्तजयइव ॥