अध्यायः 146

कपोतस्य वह्निप्रवेशदर्शिना व्याधेन आत्मोपालम्भपूर्वकं स्वप्राणविमोक्षणायानशनादिना शरीरशोषणाध्यवसायः ॥ 1 ॥

भीष्म उवाच ।
ततः स लुब्धकः पश्यन्क्षुधयाऽपि परिप्लुतः ।
कपोतमग्निपतितं वाक्यं पुनरुवाच ह ॥
किमीदृशं नृशंसेन मया कृतमबुद्धिना । भविष्यति हि मे नित्यं पातकं भुवि जीवतः ।
स विनिन्दंस्तथाऽऽत्मानं पुनः पुनरुवाच ह ॥
धिङ्भामस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम् ।
शुभं कर्म परित्यज्य सोऽहं शकुनिलुब्धकः ॥
नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः ।
दत्तः स्वमांसं दहता कपोतेन महात्मना ॥
सोहं त्यक्ष्ये प्रियान्प्राणान्पुत्रान्दारान्विसृज्य च ।
उपदिष्टो हि मे धर्मः कपोतेनात्र धर्मिणा ॥
अद्यप्रभुति देहं स्वं सर्वभोगैर्विवर्जितम् ।
यथा स्वल्पं सरो ग्रीष्मे शोषयिष्याम्महं तथा ॥
क्षुत्पिपासातपसहः कृशो ध्रमनिसन्ततः ।
उपवासैर्बहुविधैश्चरिष्ये पारलौकिकम् ॥
अहो देहप्रदानेन दर्शिताऽतिथिपूजना ।
तस्माद्धर्मं चरिष्यामि धर्मो हि परमा गतिः ॥
दृष्टो धर्मो हि धर्मिष्ठे यादृशो विहगोत्तमे ।
एवमुक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः ॥
महाप्रस्थानमाश्रित्य प्रययौ संशितव्रतः ॥
ततो यष्टिं शलाकां च धारकं पञ्जरं तथा ।
तां च बद्धां कपोतीं स प्रमुच्य विससर्ज ह ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षट््चत्वारिंशदधिकशततमोऽध्यायः ॥ 146 ॥

12-146-4 प्रत्यादेशः धिक्कारपूर्वक उपदेशः ॥