अध्यायः 016

युधिष्ठिरंप्रति भीमवचनम् ॥ 1 ॥

वैशंपायन उवाच ।
अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः ।
धैर्यमास्थाय तं ज्येष्ठं भ्राता भ्रातरमब्रवीत् ॥
राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि ।
उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः ॥
न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम् ।
अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप ॥
भवतः संप्रमोहेन सर्वं संशयितं कृतम् ।
विक्लबत्वं च नः प्राप्तमबलत्वं तथैव च ॥
कथं हि राजा लोकस्य सर्वशास्त्रविशारदः ।
मोहमापद्यसे दैन्याद्यथा कापुरुषस्तथा ॥
आगतिश्च गतिश्चैव लोकस्य विदिता तव ।
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ॥
एवं गते महाराज राज्यं प्रति जनाधिप ।
हेतुमात्रं तु वक्ष्यामि तमिहैकमनाः श्रृणु ॥
द्विविधो जायते व्याधिः शारीरो मानसस्तथा ।
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपलभ्यते ॥
शारीराज्जायते व्याधिर्मानसो नात्र संशयः ।
मानसाज्जायते व्याधिः शारीर इति निश्चयः ॥
शारीरमानसे दुःखे योऽतीते त्वनुशोचति ।
दुःखेन लभते दुःखं द्वावनर्थौ च विन्दति ॥
शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः ।
तेषां गुणानां साम्यं यत्तदाहुः स्वस्थलक्षणम् ॥
तेषामन्यतमोद्रेके विधानमुपदिश्यते । उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते ।
`उभाभ्यां बाध्यते वायुर्विधानमिदमुच्यते ॥'
सत्वं रजस्तय इति मानसाः स्युस्त्रयो गुणाः ।
तेषां गुणानां साम्यं यत्तदाहुः स्वस्थलक्षणम् ॥
तेषामन्यतमोद्रेके विधानमुपदिश्यते । हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ।
`उभाभ्यां बाध्यते मोहो विधानमिदमुच्यते ॥'
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ।
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ॥
स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च । नादुःखी दुःखभागस्य नासुखी च सुखस्य च ।
स्मर्तुमर्हसि कौरव्य दिष्टं हि बलवत्तरम् ॥
अथवा ते स्वभावोऽयं येन पार्थिव तुष्यसे । दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् ।
मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि ॥
प्रव्राजनं च नगरादजिनैश्च विवासनम् ।
महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि ॥
जटासुरात्परिक्लेशं चित्रसेनेन चाहवम् ।
सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि ॥
पुनरज्ञातचर्यायां कीचकेन पदा वधम् ।
द्रौपद्या राजपुत्र्यांश्च कथं विस्मृतवानसि ॥
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम् ।
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥
यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः ।
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥
तस्मिन्ननिर्जिते युद्धे प्राणान्यदि विमोक्ष्यसे ।
अन्यं देहं समास्थाय ततस्तैरिह योत्स्यसे ॥
`यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं तदल्पकम् । बह्वपथ्यं बलवतो न किंचित्रायते बलम् ॥'
तस्मादद्यैव गन्तव्यं युध्यस्व भरतर्षभ ।
परमव्यक्तरूपस्य व्यक्तं त्यक्त्वा स्वकर्मभिः ॥
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि ।
एतज्जित्वा महाराज कृतकृत्यो भविष्यसि ॥
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् ।
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ॥
दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि ।
द्रौपद्याः केशपक्षस्य दिष्ट्या ते पदवीं गताः ॥
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ।
वयं ते किंकराः पार्थ वासुदेवश्च वीर्यवान् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षोडशोऽध्यायः ॥ 16 ॥

12-16-2 नच शक्नुमः । कर्तुमिति शेषः ॥ 12-16-6 अगतिश्च गतिश्चैवेति झ. पाठः । तत्र आयत्यामुत्तरकाले । तदात्वे वर्तमानकाले अगतिर्दुर्मागः । गतिः सन्मार्ग इत्यर्थः ॥ 12-16-8 निर्द्वन्द्वं शरीरं विना व्याधिर्नास्ति मनोविना आधिर्नास्तीत्यर्थः ॥ 12-16-11 शीतोष्णे कफपित्ते । वायुर्वातः ॥ 12-16-12 विधानं चिकित्सा । उष्णेन द्रव्येण ॥ 12-16-16 न दुःखी सुखजातस्य न सुखी दुःखजस्य वा इति झ. पाठः ॥ 12-16-17 येन पार्थिव क्लिश्यसे इति झ. पाठः ॥ 12-16-18 न तस्य स्मर्तुमर्हसीत्यत्र कथमिति वक्ष्यमाणं पदमपकृष्य योजना ॥ 12-16-22 यत्र नाभिसरैरिति द. पाठः । तत्र न अभिसरैरिति छेदः ॥ 12-16-23 तस्मिन्मनसि ॥ 12-16-25 युध्यस्व । मनोजयार्थं सन्नद्धो भवेत्यर्थः ॥ 12-16-26 तस्मिन्मनसि कामवस्थाम् । अवाच्यामित्यर्थः । एतन्मनः ॥ 12-16-28 दिष्ट्या त्वं पदवीं गत इति झ. पाठः ॥