अध्यायः 086

अथ दानधर्मपर्व ॥ 1 ॥

दाशैश्च्यवनवृत्तान्तं निवेदितेन नहुषेण तंप्रति तदभीष्टकरणप्रतिज्ञानम् ॥ 1 ॥ च्यवनेन नहुषंप्रति दाशेभ्यः स्वोचितमूल्यदानेनात्ममोचनचोदना ॥ 2 ॥ नहुषेण संपूर्णराज्यस्य मूल्यतापरिकल्पनेपि मुनिता तदनङ्गीकरणे गवि जातेन मुनिना गोः प्रतिनिधीकरणम् ॥ 3 ॥ च्यवनेन गोप्रतिग्रहणेन स्वसहवासिभिर्मत्स्यैः सह दाशानां स्वर्गप्रापणम् ॥ 4 ॥

भीष्म उवाच ।

नहुषस्तु ततः श्रुत्वा च्यवनं तं तथाऽऽगतम् ।
त्वरितः प्रययौ तत्रि सहामात्यपुरोहितः ॥
शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः ।
आत्मानमाचचक्षे च च्यवनाय महात्मने ॥
अर्चयामास तं चापि तस्य राज्ञः पुरोहितः ।
सत्यव्रतं महात्मानं देवकल्पं विशाम्पते ॥
नहुष उवाच ।
करवाणि प्रियं किं ते तन्मे ब्रूहि द्विजोत्तम ।
सर्वं कर्ताऽस्मि भगवन्यद्यपि स्यात्सुदुष्करम् ॥
च्यवन उवाच ।
श्रमेणि महता युक्ताः कैवर्ता मत्स्यजीविनः ।
मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह ॥
नहुष उवाच ।
सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित ।
निष्क्रयार्थे भगवतो यथाऽऽह भृगुनन्दनः ॥
च्यवन उवाच ।
आत्ममूल्यं च वक्तव्यं न तल्लोकः प्रशंसति ।
तस्मादहं प्रवक्ष्यामि न चात्मस्तुतिम्मवृतः ॥
सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप ।
सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु ॥
नहुष उवाच ।
सहस्राणां शतं विप्र निषोदेभ्यः प्रदीयताम् ।
स्यादिदं भगवन्मूल्यं किं वाऽन्यन्मन्यते भवान् ॥
च्यवन उवाच ।
नाहं शतसहस्रेण निमेयः पार्थिवर्षभ ।
दीयतां सदृशं मूल्यममात्यैः सह चिन्तय ॥
नहुष उवाच ।
कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित ।
यदेतदपि नो मूल्यमतो भूयः प्रदीयताम् ॥
च्यवन उवाच ।
राजन्नार्हाम्यहं कोटिं भूयो वाऽपि महाद्युते ।
सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय ॥
नहुष उवाच ।
अर्दं राज्यं समग्रं वा निषादेभ्यः प्रदीयताम् ।
एतत्तुल्यमहं मन्ये किं वाऽन्यन्मन्यसे द्विज ॥
च्यवन उवाच ।
अर्धं राज्यं समग्रं च मूल्यं नार्हामि पार्थिव ।
सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम् ॥
भीष्म उवाच ।
महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः ।
स चिन्तयामास तदा सहामात्यपुरोहितः ॥
तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः ।
नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः ॥
स तमाभाष्य राजानमब्रवीद्द्विजसत्तमः ।
तोषयिष्याम्यहं क्षिप्तं यथा तुष्टो भविष्यति ॥
नाहं मिथ्यावचो ब्रूयां खैरेष्वपि कुतोऽन्यथा ।
भवतो यदहं ब्रयां तत्कार्यमविशङ्कया ॥
नहुष उवाच ।
व्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः ।
परित्रायस्व मामस्मद्विषयं च कुलं च मे ॥
हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम् । किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम् ।
अगाधाम्भसि मग्नस्य सामात्यस्य सऋत्विजः ।
प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् ॥
भीष्म उवाच ।
नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् ।
उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम् ॥
`ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतम् । एकत्र मन्त्रास्तिष्ठन्ति हविरन्यत्र तिष्ठति ॥'
अनर्घेया महाराज द्विजा वर्णेषु चोत्तमाः ।
गावश्च पुरुषव्याग्र गौर्मूल्यं परिकल्प्यताम् ॥
नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप ।
हर्षेण महता युक्तः सहामात्यपुरोहितः ॥
अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम् ।
इदं प्रोवाच नृपते वाचा सन्तर्पयन्निव ॥
उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोसि भार्गव ।
एतन्मूल्यमहं मन्ये तव धर्मभृतांवर ॥
च्यवन उवाच ।
उत्तिष्ठाम्येष राजेन्द्र सम्यक् क्रीतोस्मि तेऽनघ ।
गोभिस्तुल्यं न पश्यामि धनं किञ्चिदिहाच्युत ॥
कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव ।
गवां प्रशस्यते वीर सर्वपापहरं शिवम् ॥
गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते ।
अन्नमेव सदा गावो देवानां परमं हविः ॥
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ ।
गावो यज्ञस्य नेत्र्यो वै तथा यज्ञस्य ता मुखम् ॥
अमृतं ह्यव्ययं दिव्यं क्षरन्ति च वहन्ति च ।
अमृतायतनं चैताः सर्वलोकनमस्कृताः ॥
तेजसा वपुषा चैव गावो वह्निसमा भुवि ।
गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः ॥
निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम् ।
विराजयति तं देशं पापं चास्यापकर्षति ॥
गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः ।
गावः कामदुहोदेव्यो नान्यत्किञ्चित्परं स्मृतम् ॥
इत्येतद्गोषु मे प्रोक्तं महात्म्यं भरतर्षभ ।
गुणैकदेशवचनं शक्यं पारायणं न तु ॥
निषादा ऊचुः ।
दर्शनं कथनं चैव सहास्माभिः कृतं मुने ।
सतां साप्तपदं मैत्रं प्रसादं न कुरु प्रभो ॥
हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः ।
एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान् ॥
प्रसादयामहे विद्वन्भवन्तं प्रणता वयम् ।
अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम् ॥
`अत्यन्तापदि शक्तानां परित्राणं हि कुर्वताम् ।
या गतिर्विदिता त्वद्य नरके शरणं भवान् ॥
च्यवन उवाच ।
कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च ।
नरं समूलं दहति कक्षमग्निरिव ज्वलन् ॥
प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः ।
दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैः सह ॥
भीष्म उवाच ।
ततस्तस्य प्रभावात्ते महर्षेर्भावितात्मनः ।
निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः ॥
ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान् ।
आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ ॥
ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः ।
वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम् ॥
ततो राजा महावीर्यो नहुषः पृथिवीपतिः ।
परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम ॥
ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः ।
तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत् ॥
समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम् ।
गविजश्च महातेजाः स्वमाश्रमपदं ययौ ॥
निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप ।
नहुषोपि वरं लब्ध्वा प्रविवेश स्वकं पुरम् ॥
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि ।
दर्शने यादृशः स्नेहः संवासे वा युधिष्ठिर ॥
महाभाग्यं गवां चैव तता धर्मविनिश्चयम् ।
किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षडशीतितमोऽध्यायः ॥ 86 ॥

श्रीः