अध्यायः 031

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति शूद्रोपदेशस्यानर्थहेतुतायां दृष्टान्ततया मुनिशूद्रयोः कथाकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

मित्रसौहार्दयोगेन उपदेशं करोति यः ।
जात्याऽधरस्य राजर्षे दोषस्तस्य भवेन्न वा ॥
एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह ।
सूक्ष्मा गतिर्हि धर्मस्यि यत्र मुह्यन्ति मानवाः ॥
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि शृणु राजन्यथाक्रमम् । `मदुक्तं वचनं राजन्यथान्यायं यथागमम् ।'
ऋषीणां वदतां पूर्वं श्रुतमासीद्यथा पुरा ॥
उपदेशो न कर्तव्यो जातिहीनस्य कस्य चित् ।
उपदेशे महान्दोष उपाध्यायस्य भाष्यते ॥
`नाध्यापयेच्छूद्रमिह तथा नैव च याजयेत् ।' निदर्शनमिदं राजञ्शृणु मे भरतर्षभ ॥
दुरुक्तवचने राजन्यथापूर्वं युधिष्ठिर ।
ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे ॥
तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् । नानागुल्मलताकीर्णं मृगद्विजनिषेवितम् ।
सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम् ॥
व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम् ।
ब्राह्मणैश्च महाभागैः सूर्यज्वलनसन्निभैः ॥
नियमव्रतसम्पन्नैः समाकीर्णं तपस्विभिः ।
दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः ॥
वेदाध्ययनघोषैश्च नादितं भरतर्षभ ।
वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम् ॥
तत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः ।
आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥
तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः ।
विविधां वहतो दीक्षां सम्प्राहृष्यत भारत ॥
अथास्य बुद्धिरभावत्तापस्ये भरतर्षभ ।
ततोऽब्रवीत्कुलपतिं पादौ सङ्गृह्य भारत ॥
भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ ।
तस्मादभिगतं त्वं मां प्रव्राजयितुमर्हसि ॥
वर्णावरोऽहं भगवञ्शूद्रो जात्याऽस्मि सत्तम ।
शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ॥
कुलपतिरुवाच ।
न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम् ।
आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव ॥
शुश्रूषया पराँल्लोकानवाप्स्यसि न संशयः ॥
भीष्म उवाच ।
एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप ।
कथमत्र मया कार्यं श्रुद्धा धर्मपरा च मे ॥
विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः ।
गत्वाऽऽश्रमपदाद्दूरमुटजं कृतवांस्तु सः ॥
तत्र वेदीं च भूमिं च देवतायतनानि च ।
निवेश्य भरतश्रेष्ठ नियमस्थोऽभवन्मुनिः ॥
अभिषेकांश्च नियमान्देवतायतनेषु च ।
बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत् ॥
सङ्कल्पनियमोपेतः फलाहारो जितेन्द्रियः ।
नित्यं सन्निहिताभिस्तु ओषधीभिः फलैस्तथा ॥
अतिथीन्पूजयामास यथावत्समुपागतान् ।
एवं हि सुमहान्कालो व्यत्यक्रामत तस्य वै ॥
अथास्य मुनिरागच्चत्सङ्गत्या वै तमाश्रमम् ।
सम्पूज्य स्वागतेनर्षिं विधिवत्समतोषयत् ॥
अनूकूलाः कथाः कृत्वा यथागतमपृच्छत ।
ऋषिः परमतेजस्वी धर्मात्मा संशितव्रतः ॥
एवं सुबहुशस्तस्य शूद्रस्य भरतर्षभ ।
सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभः ॥
अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ ।
पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु ॥
बाढमित्येव तं विप्र उवाच भरतर्षभ ।
शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत् ॥
अथ दर्भाश्च वन्यांश्च ओषधीर्भरतर्षभ ।
पवित्रमासनं चैव बृसीं चि समुपानयत् ॥
अथ दक्षिणमावृत्य बृसीं चरमशैर्षिकीम् ।
कृतामन्यायतो दृष्ट्वा तं शूद्रमृषिरब्रवीत् ॥
कुरुष्वैतां पूर्वशीर्षां भवांश्चोदङ्मुखः शुचिः ।
स च तत्कृतवाञ्शूद्रः सर्वं यदृषिरब्रवीत् ॥
यथोपदिष्टं मेधावी दर्भार्घादि यथातथम् ।
हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना ॥
ऋषिणा पितृकार्येषु सदा धर्मपथे स्थितः ।
पितृकार्ये कृते चापि विसृष्टः स जगाम ह ॥
अथ दीर्घस्य कालस्य स तप्यञ्शूद्रतापसः । वने पञ्चत्वमगमत्सुकृतेन च तेन वै ।
अजायत महाराज वंशे स च महाद्युतिः ॥
तथैव स ऋषिस्तात कालधर्ममवाप ह ।
पुरोहितकुले विप्रः स जातोऽस्य वशानुगः ॥
एवं तौ तत्र सम्भूतावुभौ शूद्रमुनी तदा ।
क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ ॥
अथर्ववेदे वेदे च बभूवर्षिः सुनिष्ठितः । कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः ।
साङ्ख्ये चैव परा प्रीतिस्तस्य चैवं व्यवर्धत ॥
पितर्युपरते चापि कृतशौचस्तु पार्थिवः ।
अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः ॥
अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः ॥
स तं पुरोधाय सुखमवसद्भरतर्षभः ।
राज्यं शशास धर्मेण प्रजाश्च परिपालयन् ॥
पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत् । उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम् ।
एवं स बहुशो राजन्पुरोधसमुपाहसत् ॥
लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् ।
उत्स्मयन्तं च सततं दृष्ट्वा तं मन्युमानभूत् ॥
अथ शून्ये पुरोधास्तु सह राज्ञा समागतः ।
कथाभिरनुकूलाभी राजानं चाभ्योरचयत् ॥
ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ ।
वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते ॥
राजोवाच ।
वराणां ते शतं दद्यां किं बतैकं द्विजोत्तम ।
स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव ॥
पुरोहित उवाच ।
एकं वै वरमिच्छामि यदि तुष्टिसि पार्थिव ।
प्रतिजानीहि तावत्त्वं सत्यं यद्वद नानृतम् ॥
भीष्म उवाचि ।
बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर ।
यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे ॥
पुरोहित उवाच ।
पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत् ।
शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य मां ॥
सव्रीडं वै भवति हि मनो मे हसता त्वया ।
कामया शापितो राजन्नान्यथावक्तुमर्हसि ॥
भाव्यं हि कारणेनात्र न ते हास्यमकारणम् ।
कौतूहलं मे सुभृशं तत्त्वेन कथमस्व मे ॥
राजोवाच ।
एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि ।
अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज ॥
पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम ।
जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु ॥
शुद्रोऽहमभवं पूर्वं तपसे कृतनिश्चयः ।
ऋषिरुग्रतपास्त्वं च तदाऽभूर्द्विजसत्तम ॥
प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना ।
पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ ॥
वृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम ।
एतेन कर्मदोषेण पुरोधास्त्वमजायथाः ॥
अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम् ।
मत्कृतस्योपदेशस्य त्वयाऽवाप्तमिदं फलम् ॥
एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम ।
न त्वां परिभवन्ब्रह्मनप्रहसामि गुरुर्भवान् ॥
विपर्ययेण मे मन्युस्तेन सन्तप्यते मनः ।
जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै ॥
एवं तवोग्रं हि तप उपदेशेन नाशितम् ।
पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे ॥
इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज ।
गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम ॥
भीष्म उवाच ।
ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः ।
ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः ॥
कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमैः ।
तीर्थानि चापि गत्वा वै दानानि विविधानि च ॥
दत्त्वा गाश्चैव विप्रेभ्यः पूतात्माऽभवदात्मवान् ।
तमेव चाश्रमं गत्वा चचार विपुलं तपः ॥
ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम ।
सम्मतस्चाभवत्तेषामाश्रमे तन्निवासिनाम् ॥
एवं प्राप्तो महत्कृच्छ्रमृषिः सन्नृपसत्तम ।
ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने ॥
`वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप ।
उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात् ॥
नेषितव्यं सदा वाचा द्विजेन नृपसत्तम । न च प्रवक्तव्यमिह किञ्चिद्वर्णावरे नरे ॥'
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः ।
एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति ॥
तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किंचिदग्रतः ।
सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः ॥
तस्मान्मौनेन मुनयो दीक्षां कुर्वन्ति चादृताः ।
दुरुक्तस्य भयाद्राजन्नाभाषन्ते च किञ्चन ॥
धार्मिका गुणसम्पन्नाः सत्यार्जवसमन्विताः ।
दुरुक्तवाचाभिहितैः प्राप्नुवन्तीह दुष्कृतम् ॥
उपदेशो न कर्तव्यो ह्यज्ञात्वा यस्यकस्य चित् ।
उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात् ॥
विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता ।
सत्यानृतेन हि कृत उपदेशो हिनस्ति हि ॥
वक्तव्यमिह पृष्टेन विनिश्चयविपर्ययम् ।
स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात् ॥
एतत्ते सर्वमाख्यातमुपदेशकृते मया ।
महान्क्लेशो हि भवति तस्मान्नोपदिशेदिह ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकविंशोऽध्यायः ॥ 31 ॥

7-31-1 मित्रमुपकारमपेक्ष्योपकर्ता । सुहृदुपकारमनपेक्ष्योपकर्ता । लोभात् कृपया वेत्यर्थः ॥ 7-31-4 उपाध्यायस्योपदेशकर्तुः ॥ 7-31-6 दुरुक्तं दुःखस्थं नीचं प्रति उक्तं वचनम् ॥ 7-31-8 व्रतिभिर्ब्रह्मचारिभिः । तापसैर्वानप्रस्थैः ॥ 7-31-10 यतिभिः संन्यासिभिः ॥ 7-31-11 दयान्वितः सर्वभूताभयदानेन प्रव्रज्यां कृतवानित्यर्थः ॥ 7-31-12 दीक्षां नियमम् ॥ 7-31-13 प्रव्राजयितुं विधिवत् स्वोचितं कर्म त्याजयितुम् ॥ 7-31-14 प्रव्रजायितुं विधिवत् स्वोचितं कर्म त्याजयितुम् ॥ 7-31-16 लिङ्गं संन्यासिचिह्नम् ॥ 7-31-19 आत्मनः प्रियं विक्षेपकस्य शुश्रूषाख्यस्य स्वधर्मस्य त्यागम् । लिङ्गधारणानधिकारेऽपि त्यागमात्रे सर्वस्याधिकारात् । उटजं पर्णसालाम् ॥ 7-31-20 वेदीं पूजार्थम् । भूमिं शयनाद्यर्थम् ॥ 7-31-21 अभिषेकान् त्रिसन्ध्यं स्रानानि ॥ 7-31-22 सङ्कल्पस्य नियमो निग्रहः । चित्तवृत्तिनिरोध इति यावत् । तेन उपेतः ॥ 7-31-30 बृसीं चरमशैर्षिकीं आसनकूर्चं पश्चिमाग्रम् ॥ 7-31-37 वेदे ऋग्वेदादित्रये । कल्पप्रयोगे सूत्रोक्तयज्ञप्रयोगे ॥ 7-31-43 मत्कृतस्य मह्यं कृतस्य ॥ 7-31-58 विपर्ययेण वैपरीत्येन मन्युर्दैन्यम् ॥ 7-31-59 भवे भवनिमित्तम् ॥ 7-31-63 सत्यानृतेन वाणिज्येन धनलोभेनेत्यर्थः ॥

श्रीः