अध्यायः 015

अश्वमेधपर्व ॥ 1 ॥

वैशंपायेन जनमेजयंप्रति युधिष्ठिरस्य प्रजापालनकाले प्रजादीनामभ्युदयप्रकारवर्णनम् ॥ 1 ॥

`वैशम्पायन उवाच ।

स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम् ।
अन्वशासत धर्मात्मा पृथिवीं भ्रातृभिः सह ॥
यथा मनुर्महाराजो रामो दाशरथिर्यथा ।
तथा भरतसिंहोऽपि पालयामास मेदिनीम् ॥
नाधर्म्यमभवत्तत्र सर्वो धर्मरुचिर्जनः ।
बभूव नरशार्दूल यथा कृतयुगे तथा ॥
कलिमासन्नमाविष्टं निवार्य नृपनन्दनः ।
भ्रातृभिः सहितो धीमान्बभौ धर्मबलोद्धतः ॥
ववर्ष भगवान्देवः काले देशे यथेप्सितम् ।
निरामयं जगदभूत्क्षुत्पिपासे न किञ्चन ॥
आधिर्नास्ति मनुष्याणां व्यसने नाभवन्मतिः ।
ब्राह्म्णप्रमुखा वर्णास्ते स्वधर्मोत्तराः शुभाः ॥
धर्मसत्यप्रधानाश्च सत्यं सद्विषयान्वितम् । धर्मासनस्थः सद्भिः स स्त्रीबालातुरवृद्धकान् ।
वर्णक्रमान्पूर्णभृतान्साकल्याद्रक्षणोद्यतः ॥
अवृत्तिवृत्तिदानाद्यैर्यज्ञाद्यैर्व्याधितैरपि ।
आमुष्मिकं भयं नास्ति लौकिकं कृतमेव ॥
स्वर्गलोकोपमो लोकस्तदा तस्मिन्प्रशासति ।
बभूव सुखमेवाग्रं तद्विशिष्टतरं परम् ॥
नार्यः पतिव्रताः सर्वा रूपवत्यः स्वलंकृताः ।
यथोक्तवृत्ताः स्वगुणैर्बभूवुः प्रीतिहेतवः ॥
पुमांसः पुण्यशीलाढ्याः स्वंस्वं धर्ममनुव्रताः ।
सुखिनः सूक्ष्ममप्येनो न कुर्वन्ति कदाचन ॥
सर्वे नरांश्च नार्यश्च सततं प्रियवादिनः ।
अजिह्ममनसः शुक्ला बभूवुः श्रमवर्जिताः ॥
भूषिताः कुण्डलैर्हारैः कटकैः कटिसूत्रकैः ।
सुवाससः सुगन्धाढ्याः प्रायशः पृथिवीतले ॥
सर्वे ब्रह्मविदो विप्राः सर्वत्र परिनिष्ठिताः ।
वलीपलितहीनास्तु सुखिनो दीर्घदर्शिनः ॥
इच्छा न जायतेऽन्यत्र वर्णेषु न च सङ्करः ।
मनुष्याणां महाराज मर्यादा सुव्यवस्थिता ॥
तस्मिञ्शासति राजेन्द्रे मृगव्यालसरीसृपाः ।
अन्योन्यमपि चान्येषु न बाधन्ते कदाचन ॥
गावः सुक्षीरभूयिष्ठाः सुस्ववालमुखोदराः ।
अपीडिताः कर्षकाद्यैर्हृतव्याधिकवत्सकाः ॥
अवन्ध्यकाला मनुजाः पुरुषार्थेषु च क्रमात् ।
विषयेष्वनिषिद्धेषु वेदशास्त्रेषु चोद्यताः ॥
सुवृत्ता वृषभाः पुष्टा रसनाभाः सुखोदयाः ॥
अतीव मधुरः शब्दः स्पर्शश्चातिसुखं रसम् ।
करूपं दृष्टिक्षमं रम्यं मनोज्ञं गन्धवद्बभौ ॥
धर्मार्थकामसंयुक्तं मोक्षाभ्युदयसाधनम् ।
प्रह्लादजननं पुण्यं सम्बभूवाथ मानसम् ॥
स्थावरा बहुपुष्पाढ्याः फलच्छायावहास्तथा ।
सुस्पर्शा विषहीनाश्च सुपत्रत्वक्प्ररोहिणः ॥
मनोनुकूलाः सर्वेषां चेष्टाभूतापवर्जिताः ।
तथा बभूव राजर्षिस्तद्वृत्तमभवद्भुवि ॥
सर्वलक्षणसम्पन्नाः पाण्डवा धर्मचारिणः ।
ज्येष्ठानुवर्तिनः सर्वे बभूवुः प्रियदर्शनाः ॥
सिंहोरस्का जितक्रोधास्तेजोबलसमन्विताः ।
आजानुबाहवः सर्वे दानशीला जितेन्द्रियाः ॥
तेषु शासत्सु धरणीमृतवः स्वगुणैर्बभुः ।
सुखोदयाय वर्तन्ते ग्रहास्तारागणैः सह ॥
मही च सस्यबहुला सर्वरत्नगुणोदया ।
कामधुग्धेनुवद्भोगान्फलन्ति स्म सहस्रधा ॥
मन्वादिभिः कृताः पूर्वं मर्यादा मानवेषु याः । अनतिक्रम्य ताः सर्वाः कुलेषु समयानि च ।
अन्वशासत राजानो धर्मपुत्रप्रियंकराः ॥
महाकुलानि धर्मिष्ठा वर्धयन्तो विशेषतः ।
मनुप्रणीतया वृत्त्या तेऽन्वशासनसुन्धराम् ॥
राजवृत्तिर्हि सा शश्वद्धर्मिष्ठाऽभून्महीतले ।
प्रायो लोकमतिस्तान राजवृत्तानुगामिनी ॥
एवं भारतवर्षं स्वं राजा स्वर्गं सुरेन्द्रवत् ।
शशास जिष्णुना सार्धं गोत्रां गाण्डीवधन्वन' ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥

7-15-31 शशास विष्णुना सार्धं गुप्तो गाण्डीवधन्वनेति थ.पाठः ॥

श्रीः