अध्यायः 130

दुःशलाजननप्रकारकथनम् ॥ 1 ॥

जनमेजय उवाच ।
धृतराष्ट्रस्य पुत्राणामादितः कथितं त्वया ।
ऋषेः प्रसादात्तु शतं न च कन्या प्रकीर्तिता ॥
वैश्यापुत्रो युयुत्सुश्च कन्या चैका शताधिका ।
गान्धारराजदुहिता शतपुत्रेति चानघ ॥
उक्ता महर्षिणा तेन व्यासेनामिततेजसा ।
कथं त्विदानीं भगवन्कन्यां त्वं तु ब्रवीषि मे ॥
यदि भागशतं पेशी कृता तेन महर्षिणा ।
न प्रजास्यति चेद्भूयः सौबलेयी कथंचन ॥
कथं तु संभवस्तस्या दुःशलाया वदस्व मे ।
यथावदिह विप्रर्षे परं मेऽत्र कुतूहलम् ॥
वैशंपायन उवाच ।
साध्वयं प्रश्न उद्दिष्टः पाण्डवेय ब्रवीमि ते ।
तां मांसपेशीं भगवान्स्वयमेव महातपाः ॥
शीताभिरद्भिरासिच्य भागं भागमकल्पयत् ।
यो यथा कल्पितो भागस्तंत धात्र्या तथा नृप ॥
घृतपूर्णेषु कुण्डेषु एकैकं प्राक्षिपत्तदा ।
एतस्मिन्नन्तरे साध्वी गान्धारी सुदृढव्रता ॥
दुहितुः स्नेहसंयोगमनुध्याय वराङ्गना । `नाब्रवीत्तमृषिं किंचिद्गौरवाच्च यशस्विनी ।'
मनसा चिन्तयद्देवी एतत्पुत्रशतं मम ॥
भविष्यति न संदेहो न ब्रवीत्यन्यथा मुनिः ।
ममेयं परमा तुष्टिर्दुहिता मे भवेद्यदि ॥
एका शताधिका बाला भविष्यति कनीयसी ।
ततो दौहित्रजाल्लोकादबाह्योऽसौ पतिर्मम ॥
अधिका किल नारीणां प्रीतिर्जामातृजा भवेत् ।
यदि नाम ममापि स्याद्दुहितैका शताधिका ॥
कृतकृत्या भवेयं वै पुत्रदौहित्रसंवृता ।
यदि सत्यं तपस्तप्तं दत्तं वाऽप्यथवा हुतम् ॥
गुरवस्तोषिता वापि तथाऽस्तु दुहिता मम ।
एतस्मिन्नेव काले तु कृष्णद्वैपायनः स्वयम् ॥
व्यभजत्स तदा पेशीं भगवानृषिसत्तमः ।
`गण्यमानेषु कुण्डेषु शते पूर्णे महात्मना ॥
अभवच्चापरं खण्डं वामहस्ते तदा किल ।' गणयित्वा शतं पूर्णमंशानामाह सौबलीम् ॥
व्यास उवाच ।
पूर्णं पुत्रशतं त्वेतन्न मिथ्या वागुदाहृता ।
दैवयोगाच्च भागैकः परिशिष्टः शतात्परः ॥
एषा ते सुभगा कन्या भविष्यति यतेप्सिता ।
वैशंपायन उवाच ।
ततोऽन्यं घृतकुम्भं च समानाय्य महातपाः ॥
तं चापि प्राक्षिपत्तत्र कन्याभागं तपोधनः ।
`संभूता चैव कालेन सर्वेषां च यवीयसी ॥
ऐतत्ते कथितं राजन्दुःशलाजन्म भारत ।
ब्रूहि राजेन्द्र किं भूयो वर्तयिष्यामि तेऽनघ ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिंशदधिकशततमोऽध्यायः ॥ 130 ॥

1-130-4 न प्रजास्यति प्रजामात्मनो नेच्छति ॥ त्रिंशदधिकशततमोऽध्यायः ॥ 130 ॥