कारिकाव्याख्यानम्–


भेदो विशेषः, अभेदः सामान्यम्, तौ आत्मानौ यस्य तस्मिन् तदात्मके
कथञ्चित्तत्स्वभावे वस्तुनि, न नैयायिकादिपरिकल्पिते, तस्य प्रागेवा6304
पास्तत्वात् । कथम्भूते तस्मिन्नित्याह–ज्ञेये प्रमाणपरिच्छेद्ये । एतच्च
विशेषणमपि साधनं प्रत्येयम् । ततः सर्वं वस्तु भेदाभेदात्मकं ज्ञेयत्वात् इति गम्यते,
यथा सदनित्यम् इत्युक्ते सत्त्वादिति । नचायमनैकान्तिको हेतुर्विरु6305द्धो वा; सर्वथा
भेदे अभेदे वा प्रमाणपरिच्छेद्यत्वस्य विषयपरिच्छेदे प्रतिक्षिप्तत्वात् । तत्र भेदाभेदा
भिसन्धयः
सामान्यविशेषविषयाः पुरुषाभिप्रायाः ये ते6306 लक्ष्यन्ते निश्चीयन्ते
नयाः दुर्नयाश्च6307 काभ्यामित्याह–अपेक्षाऽनपेक्षाभ्याम्, अपेक्षया नयाः
इतरया दुर्नया इति ।


608
  1. द्वितीये विषयपरिच्छेदे ।

  2. –द्धो सर्व– श्र॰

  3. ते निश्ची– ब॰

  4. –श्च आभ्यामि– ब॰