II.584

एकादशमाह्निकम्—तर्कादिपरीक्षा


तर्कलक्षणम्


अवयवानन्तरं प्रथमसूत्रे तर्कस्योद्देशात उद्देशानुक्रमेण तस्य
लक्षणमाह—


अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितः तत्त्वज्ञानार्थमूहस्तर्कः
॥ १-१-४० ॥


विज्ञाततत्त्वेऽथ इति सामानाधिकरण्यनिर्देशात् अर्थ एव अन्य
पदार्थः, न पुरुषः । पुरुषां हि षष्ठ्या निरदेक्ष्यत अविर्ज्ञातं तत्त्वं अस्य
इति । तत्त्वपदोपादानेन धर्मिणः सामान्यधर्ममान्नविशिष्टस्य1583 विज्ञातत्वं
सूचयति । कारणोपपत्तितः इति संशयज्ञानोल्लिख्यमानपक्षद्वयान्यतर
पक्षोत्थापनानुकूलकारणावलोकनं तर्कस्योत्थापकमाह । अत एव
अविज्ञाततत्त्वेऽर्थे भवन्तावपि बुभुत्साविमशौन तर्कतां प्राप्नुतः । तत्त्व
ज्ञानार्थम्
इति साक्षात्प्रमाणतामस्य निरस्यति । प्रमाणानुग्रहं तु वि
षयपरिशोधनद्वारेण विदधत् तत्त्वज्ञानाय कल्पते । तर्कः, ऊहः इति
पर्यायपदोपादानस्य प्रयोजनं वक्ष्यामः ॥


नि कृष्टसूत्रार्थः


तेनायं सूत्रार्थः—अविज्ञाततत्त्वे—सामान्यतो ज्ञाते धर्मिणि एकपक्षा
नुकूलकारणदर्शनात् तस्मिन् संभावनाप्रत्ययः भवितव्यतावभासः तदितर
पक्षशैथिल्यापादनेन तद्ग्राहकं प्रमाणं अनुगृह्णत्—सुखं प्रवर्तयन् तत्त्व
II.585 ज्ञानार्थं ऊहस्तर्क इति । यथा वाहकेलिप्रदेशादौ ऊर्ध्वत्वविशिष्टधर्मि
दर्शनात् पुरुषेणानेन भवितव्यमिति प्रत्ययः ॥


तत्त्वज्ञानार्थदलप्रयोजनम्


ननु ! तत्त्वज्ञानार्थम् इत्युक्ते सति सामार्थ्यादविज्ञाततत्त्वता—
लभ्यत एवेति किमर्थं कण्ठेन पुनरनूद्यते—बाढम्—किन्तु क्वचिद्विषये
ज्ञाततत्त्वेऽपि पूर्वतर्केणावसृष्टे सति, उत्तरकालं तर्कितो मयाऽयमर्थ इति
स्मर्यमाणतर्कविशेषणतया गृह्यमाणः विशेषणीभूतस्तर्कः तत्त्वज्ञानार्थो1584
भवतीति तद्युदासाय पुनरविज्ञाततत्त्वग्रहणम् । मार्गशोधनद्वारेण तर्कस्य
तत्त्वज्ञानार्थत्वमिह विवक्षितम् । तच्च अविज्ञाततत्त्वेऽर्थे संभवतीति ॥


तर्कस्यातिरिक्तत्वाक्षेपः


ननु ! नैव संशयनिर्णयान्तरालवर्ती1585तर्कप्रत्ययः कश्चिदस्ति ।
तथा हि—यदि तावादनवगतविशेषस्य । संभवत्यसौ प्रत्ययः, तर्हि संशय
एव भवेत् । अवगतविशेषस्य भवन् निर्णयतामेव स्पृशेत् । पुरुष एव
इति एवकारार्थासमुन्मेषरहितोऽपि प्रत्ययः नानिर्णयो भवितुमर्हति ।
तुरगपरिसरणसमुचितदेशदर्शनमपि यदि स्थाणुपक्षं स्थगयितुमलमिति
मन्यते, तत् करचरणादिनरविशेषदर्शनवत् तन्निर्णयकारणमेव स्यात् ।
अथ तस्यामपि तुरगविहरणभुवि निशि निखनति कश्चन स्थाणुमिति
शङ्कसे, यद्येवं स्थाणुपक्षानपायात् पुनः संशय एव स्यात्—इति न तृतीयः
पक्षः समस्तीति—लक्ष्याभावात् कस्येदं लक्षणमिति ॥


II.586

तर्कस्यातिरिक्तत्वनिरूपणम्


उच्यते—न खलु स्वमतिपरिकल्पितविकल्पवितानेन प्रत्यात्मवेद
नीयाः प्रतीतयोऽपनेतुं शक्याः । तथा हि—स्थाणुर्वा, पुरुषो वा इति
प्रतीतिरेका, पुरुष एवायं इत्यन्या ? अन्या च पुरुषेणानेन भवितव्यं इति
मध्यवर्तिनी तृतीया संभावनाप्रतीतिः, स्वहृदयसाक्षिकैव ॥


साम्येन हि समुल्लेखः संशये पक्षयोर्द्वयोः ।

निर्णये त्वितरः पक्षः स्पृश्यते न मनागपि ॥

तर्कस्त्वेकतरं पक्षं विभात्युत्थापयन्निव ।

नरसंभावनाबीजवाजिवाहनदर्शनात् ॥

वाहकेलिप्रदेशविशेषदर्शनं हि पुंसि संभावनामात्रमुपजनयितुमलं, न
तु शिरःपाण्यादिविशेषदर्शनवत् सर्वात्मना स्थाणुपक्षापसारणेन पुरुषस्य
निर्णयाय प्रभवति । अतोऽयमगृहीतविशेषस्यैव भवति प्रत्ययः, न तु
संशयः; एकतरपक्षानुकूलकारणोपपत्त्यत् जायमानत्वात् ॥


तर्कस्यानिर्णयरूपत्वम्


कथं पुनः पाणिपादादिपुरुषविशेषवत् अश्ववाहनदेशविशेषः
विशेषकार्यं न कुर्यात् । करणे वा स्थाणुपक्षोत्सारणात् निर्णय एवायमिति
—कस्यैष पर्यनुयोगः—यथा हि शिरःपाण्यादिदर्शने सति पुरुषनिर्णयो
भवति, न तथा तुरगवहनदर्शने सति । अननुयोज्याश्च पदार्थाः एवं
भवत
एवं मा भूत इति । यथा च 1586देशान्तरे स्पर्धमान एव स्थाणु
पक्ष आस्ते, न तथा वाहकेळिभूमौ, अपि तु शिथिलीभवति । संभव
त्प्रमादत्वाच्च न सर्वात्मना निवर्तते ॥


II.587

तर्कः न संशयरूपः


ननु ! यदि न निवर्तते, तर्हि स्पर्धताम् । मा वा स्पर्धिष्ट । स्थित
स्तावत् स्थाणुपक्ष इति संशय एवायमिति—मैवम्—न स्थाणुपक्षः सर्वा
त्मना निवर्तते, नाप्यास्ते । एवमेवायं त्रिशङ्कुरिव लम्बमानः 1587प्रत्या
यान्तरनिर्वृत्तये प्रभवतीति तथा विधप्रत्ययानुभवादेव परिकल्प्यते ।
वाहकेलिप्रदेशदर्शने हि यथा पुरुषविशेषाः स्मरणपथमवतरन्ति, न तथा
स्थाणुविशेषाः । उभयविशेषस्मरणजन्मा च संशय इति सोऽयं वाहकेलि
प्रदेशविशेषः शिथिलयति स्थाणुपक्षं, न सर्वात्मनोच्छिनत्तीति । तत्
दर्शनात् भवति प्रत्ययान्तरमूहरूपं पुरुषेणानेन भवितव्यम्, इतीत्यल
मतिविस्तरेण ॥


भाष्योक्तोदाहरणविमर्शः


यत्तु भाष्यकारेण तर्कोदाहरणमभ्यधायि—जन्मोच्छेददर्शनात्
1588कृतकतत्कारणप्रत्यय इति—न तद्धृदयङ्गमम्—तेन क्रमेण निर्णय
एवासौ तत्कारणतथात्वं न तर्क इति ॥


अथवा कार्योदाहरणत्वादस्य तत्रापि संशयनिर्णयान्तरालवर्ती तर्क
प्रत्ययो द्रष्टव्यः । स उदाहरणं भविष्यति ॥


ऊहादिपदप्रयोजनम्


ऊह इति पर्यायाभिधाने किं प्रयोजनम् ? लक्षणप्रतिपादनमेव—
तर्कस्य लक्षणम्, यत् ऊहरूपत्वम् । इतरस्तु सूत्रे कारणविशेषा
II.588 फलनिर्देशः । कारणोपपत्तितः इति कारणनिर्देशः । अविज्ञात
तत्त्वेऽर्थे
इति विषयनिर्दोशः । तत्त्वज्ञानार्थः इति फलनिर्देशः ॥


अपि च तर्कशब्दं केचित् अनुमाने प्रयुंजते । यथा स्मृतिकाराः
पठन्ति1589


आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।

यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः इति ॥

तदिहापि तर्कोऽनुमानं मा विज्ञायीत्यूहग्रहणम् । ऊहोऽत्र तर्क उच्यते
नानुमानम् । तत्त्वज्ञानार्थताऽप्यस्य प्रमाणानुग्राहकत्वेन, न साक्षात् ।
तथैव चार्थं साधयितुमेष वादे प्रयुज्यते, हृदयशुद्धिप्रकाशनार्थम् ॥


सांख्यपक्षनिराकरणम्


कापिलास्तु बुद्धिधर्ममूहमाहुः । सः तत्सिद्धान्तप्रसिद्धसत्त्व
रजस्तमोरूपप्रकृतिप्रभवभुवनसर्गादिव्यवहारनिराकरणवर्त्मना पूर्वमेव
निरस्तः ॥


मीमांससंमतोहप्रदर्शना


जैनिनीयास्तु ब्रुवते—युक्त्या प्रयोगनिरूपणमूह इति । इह हि
किंचिदुपदिष्टदृष्टादृष्टस्वभावसकलेतिकर्तव्यताकलापं कर्म भवति ।
यथा आग्नेयोऽष्टाकपालः इति दर्शपूर्णमासकाण्डे पठितम् । क्वचित्
पुनः प्रधानकर्ममात्रमुपदिश्यते, इतिकर्तव्यता तु काचन नाम्नायते ।
यथा सौर्यं चरुं निर्वपेदब्रह्मवर्चसकामः इति ॥


II.589

तत्र विचार्यते—किमितिकर्तव्यताविरहितयथाश्रुतप्रधानमात्रसंपा
दनेन तत्र शास्त्रार्थप्रयोगः परिसमाप्यते, उत तदपि सेतिकर्तव्यताकं
प्रधानमनुष्ठे यमिति ॥


तत्र अपूर्वप्रयुक्तत्वेन धर्माणां 1590प्रतिकरणं भेदे स्थिते निरङ्गस्य
प्रधानस्याननुष्ठेयत्वात् विध्यन्ताधिकरणसिद्धान्तन्यायेन प्राकृतवत्
वैकृतकर्म कर्तव्यमिति सेतिकर्तव्यताकं तदनुष्ठीयते । एवं सामान्याति
देशे स्थिते सति कस्य वैकृतस्य कर्मणः कुतः प्रकृतेः धर्मा अधिगन्तव्या
इति चिन्तायां, द्रयदेवतादिचोदनासारूप्यपर्यालोचनोपनतहृदयसन्निधान
प्राकृतकर्मविशेषसंबन्धिन एव तत्र धर्मा भवितुमर्हन्तीति स्थापिते, युगप
दुपनिपतदनर्गलचोदकव्यापारोपनीतनिखिलाखडमण्डलविध्यन्तकाण्डाधि—
गम्यधर्मप्रबन्धप्राप्तौ1591 सत्यां ते धर्माः कथं प्रयोक्तव्या इति युक्त्या
प्रयोगनिरूपणं ऊह उच्यते, येन इत्थं प्रयोक्तव्या इति धर्मा व्यव
स्थाप्यन्ते ॥


मीमांसकमते तर्कत्रैविध्यम्


स च त्रिविधः मन्त्रसामसंस्कारविषयः । मन्त्रविषयस्तावत् यथा
ऽत्रैव सौर्ये चरौ प्रकृतिवद्भावेन अग्न्नेयात्, अग्नये त्वा जुष्टं निर्वपामि
इति निर्वापमन्त्रः प्राप्तः कथं प्रयोक्तव्य इति विचारणायां—उच्चारण
मात्रेण मन्त्राणामनुपयोगात् प्रयोगसमवेतद्रव्यदेवतादिप्रकाशनद्वारेण तदुप
योगस्य व्यवस्थितत्वात्, इह व प्राकृत एवायं अग्नये जुष्टं इति प्रयु
ज्यमानो मन्त्रः प्रयोगसमवेतस्यार्थस्याप्रकाशनात् असङ्गतो भवेत् ।
II.590 सर्वात्मना चोत्सृज्यमाने मन्त्रे मन्त्रप्रकाशितकर्माननुष्ठानात् न प्रकृति
वत् कृतं भवेदित्यग्निपदोद्धारेण सूर्यपदप्रक्षेपेण मन्त्रः ऊहेनेत्थं प्रयोक्तव्य
इति गम्यते सूर्याय त्वा जुष्टं निर्वपामि इति ॥


ननु ! 1592ऊहप्रवरनामधेयानाममन्त्रत्वादित्थमपि न मन्त्रेण स्मृतं
कर्म कृतं स्यात्—नैतत्—एकदेशविकृतमनन्यवद्भवति इति न्यायात् ॥


सामरूपोहः


सामविषयस्तु गीतयस्सामानि इति स्थिते क्वचित्कर्मणि रथन्तर
मुत्तरयोर्गायति
बृहदुत्तरयोर्गायति इति श्रुतेः सा बृहद्रथन्तरगीतिः
यस्यामृचि योनिभूतायामुत्थिता, ततोऽन्यस्यामपि प्रयुज्यते । तादृगक्ष
रापायेऽपि सा गीतिः ॠगन्तराक्षरेण्वपि प्रत्यभिज्ञायते रथन्तरमनेन
श्लोकेन गीतम्
इति व्यवहारदर्शनात् ॥


संस्काररूपोहः


संस्काः खल्वपि प्राकृतौ प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ति
इति संस्कारश्चोदितः क्वचिच्च विकृतौ श्रूयते नखनिर्भिन्नश्चरुर्भवति
इति । तत्रोलूखलमुसलयोः प्रकृतौ पुरोडाशापेक्षिततुषकणविप्रमोकपूर्वक
तण्डुलीभावसंपादनद्वारेणोपयोगात् विकृतावपि तत्कार्यापन्नानां नखानां
प्रोक्षणाख्यः संस्कारः क्रियत इति । सोऽयं त्रिविध ऊहः ॥


तन्मते ऊहस्य पञ्चविधत्वपक्षः


केचित्तु1593 पंचविधमूहमाचक्षते । धर्मस्यार्थकृतत्वात्, 'द्रव्यगुणसंस्का
रव्यतिरिक्तक्रमप्रतिषेधे चोदनानुबन्धः समवायात् जै-सू-9-2-12, 40
II.591 इति सूत्रमनुसरन्तः । एतत्तु प्रतन्यमानमतिप्रसङ्गमावहति । त्रिवि
धमेव चोहं याज्ञिका अनुमन्यन्त इति ॥


मीमांसकोक्तोहनिराकरणम्


अत्र वदन्ति—सोऽयमूहशब्दः श्रोत्रियैरनुमाने प्रयुक्तः । यथा
स्मृतिकारैः तत्र तर्कशब्दः यस्तर्केणानुसग्धत्तै इति । तथाहि—वैकृतं
कर्मं धर्मित—त्समवेतार्थप्रकाशकमन्त्रप्रयोगनिर्वर्त्यम्—इति—साध्यो धर्मः,
कर्मत्वात्—प्राकृतकर्मवत् इति । प्राकृतेषु च कर्मसु तथा तथा व्याप्ति
ग्रहणत् सर्वोऽयमनुमानमार्ग एव । नखाः प्रोक्षणीयाः, प्रयोगोपयोगि
तण्डुलनिर्वर्तकत्वादिति ॥


सामसु तु स्पष्टमेव वचनमस्ति रथन्तरमुत्तरयोर्गायति इति ।
तदभावेऽपि मन्त्रसंस्कारसमानयोगक्षेमत्वमेव ॥


मीमांसकोक्तोहः शब्द एव वा


अपि च शब्दपृष्ठस्थितन्यायसहस्रव्युत्पादनात्मके मीमांसाशास
त्तन्न्यायलभ्योऽर्थः चोदनार्थ एवेति स्थापितम् । अतश्च यथोक्तोहलभ्य
स्यार्थस्य चोदनार्थता मातिवतिष्टेति सोऽयमूहः शब्द एवान्तर्भावणीयः ।
प्रमाणान्तरगोचरो1594 वा धर्मः स्यात् । न्यायविशेषात्मकस्तूहः नानुमाना
दर्थान्तरं स्यात् । अग्नये—इत्यस्य स्थाने सूर्याय इति पदस्य प्रयोग
ऊहस्य फलम्; नोहः । तस्मान्न याज्ञिकैः प्रमाणादर्थान्तरमूह उक्तः


इह तु पूर्वोक्तया नीत्या प्रमाणव्यतिरिक्त ऊहः उपपादितः । श्रोत्रि
यास्तु तदनभिज्ञतया न्याये न्यायफले च ऊहशब्दमुपचरितवन्त इत्यलं
शास्त्रन्तरोद्गारगहनाभिः कथाभिः ॥


II.592
तदेष मीमांसककल्प्यमानः

नोहः प्रमाणव्यतिरेकमेति ।

प्रमाणसन्देहदशान्तराळ-

वर्ती तु तर्कः कथितोऽत्र शास्त्रे ।

—इति तर्कपरीक्षा—


निर्णयपरीक्षा


तर्कानन्तरं निर्णयो भवति, पठितश्चेति स लक्ष्यते—


विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥ १-१-४१ ॥


अवधारणं निर्णय इत्युच्यमाने मिथ्यावधारणमपि तथा स्यादित्यर्थ
ग्रहणम् । इन्द्रियादिजनितमपि तत्त्वावधारणमस्त्येव । न्यायोपरम
हेतोस्तु निर्णयस्योद्देशात् स एवानुमानजन्यो लक्षणीय इहेति पक्षप्रतिपक्षा
भ्यामित्युक्तम् ॥


पक्षप्रतिपक्षशब्दार्थः


एकाधिकरणौ धर्मौ तुल्यकालौ विरोधिनौ ।

पृथक्परिग्रहौ पक्षप्रतिपक्षावुदाहृतौ ॥

न तर्हि ताभ्यां निर्णयः, तयोरन्यतरविषयो हि भवति निर्णयः,
न तत्करणक एवेति—सत्यम्—इह तु पक्षप्रतिपक्षशब्दाभ्यां तद्विषयौ
साधनतदुपालम्भौ लक्ष्येते । तौ च तस्मिन् करणमेव । किमर्थ पुनः
लक्षणाऽऽश्रीयते साधनोपालम्भाभ्यां इत्येव कथं न सूत्रितम् ? एव
II.593 मभिधीयमाने पुनस्तयोर्विषयो मृग्यः । लक्षणाप्रयोगे तु सोऽप्यवगतो
भवेत् । मुख्यमभिधाय तदितरो लक्ष्यते ॥


पक्षप्रतिपक्षयोः निर्णयाङ्गत्वम्


भवत्वेवम् ! द्वाभ्यां तु कथं निर्णयः, एकमेव हि साधनं निर्णयाय
कल्पते—एवमेतत्—न द्वितीयमपि साधनं निर्णयनिमित्तमाचक्ष्महे, किन्तु
तदुपालम्भस धनं च, साधनोपालम्भश्च—साधनोपालम्भौ, ताभ्यां
निर्णयः ॥


एतदुक्तं भवति—स्वपक्षे साधनमधिगच्छन्, परपक्षसाधने च
दूषणमुत्प्रेक्षमाणः स्वपक्षं प्रमाता निर्णयतीति ॥


न खल्वेवं न जाने । किन्तु उपालम्भस्य क इव निर्णयजन्मनि
व्यापारः । स हि परपक्षसाधनमेवोच्छिन्द्यादिति—अस्त्येतत्—तदुच्छे
दद्वारेणापि तु स्वपक्षसाधनाभिमानमाविष्कुर्वन् कल्पत एव निर्णयायेति
युक्तः द्वयोरपि कारणभावः ॥


अर्थपदप्रयोजनम्


ननु ! इदानीमर्थग्रहणमनर्थकमिव । न ह्येवंविधसाधनाधीनजन्मा
निर्णयाभासः संभवति1595 । साधनोपालम्भलक्षणार्थावपि पक्षप्रतिपक्ष
शब्दौ विषयमदितुं न शक्नुत इत्युक्तमेवेति कोऽर्थोऽर्थग्रहणेन ?
उच्यते—पक्षप्रतिपक्षयोस्तु द्वयोः अन्यतरार्थेऽवधारणं भवति, नोभयत्र ।
स एव च परमार्थतोऽर्थः, इतरस्तु भ्रान्तिकल्पित इति प्रदर्शनायार्थपदो
पादानम् ॥


II.594

लक्ष्यमाणसाधनोपालम्भनिष्ठत्वात्तु पक्षप्रतिपक्षशब्दयोः विषय
निर्देशार्थं अर्थपदमित्येके ॥


विमृश्येतिपदप्रयोजनम्


विमृश्य इति किमर्थम् ? वस्तुस्वरूपकथनार्थमेव । अनुमान
कारणको हि निर्णयः इह लक्ष्यत इत्युक्तम् । अनुमानं च संशयविषये
प्रवर्तत इति तर्कानन्तरमपि । अनेनैवाशयेन अस्योपादानम् । संशया
दनन्तरं तर्कः, तर्कादूर्ध्वं च 1596निर्णयो दृष्टः प्रवर्तमानः । अतस्स
तत्पूर्वक इष्यते ॥


निर्णये तु समुत्पन्ने बुभुत्सा विनिवर्तते ।

अत एव हि मन्यन्ते तदन्तं न्यायचिन्तनम् ॥

सूत्रे नियमत्रयविवक्षा


भवत्वेवम्, इदन्तु चिन्त्यताम्—क्व नियमः, किं विमर्शे ? किं पक्षप्रति
पक्षयोः ? किं निर्णये ? इति । त्रयेऽपि च नोपपद्यत इति । न विमृश्यैव
निर्णयः, अविमृश्यापि भावात् । न पक्षप्रतिपक्षाभ्यामेव, इन्द्रियादेरपि
तदुत्पादात् । न निर्णय एव, तर्कस्यापि क्वचिदनिवृत्तेः—उक्तमत्र, उद्देशसूत्रे
तत्त्वज्ञानपदोपादानात् प्रमाणपदेन च तत्फलाक्षेपात् न निर्णयमात्रेणो
द्दिष्टेन किमपि प्रयोजनम् । विशिष्टस्तु निर्णयः लक्ष्यत्वेन विवक्षितः ॥


परीक्षाविषयो यो हि निर्णयो न्यायनिर्मितः ।

नियमत्रयमप्येतत् तस्मिन्न हि युज्यते ॥

II.595

संशयाभावेऽपि विचारप्रवृत्तिः


स हि विमृश्यैव भवति, विमर्शपूर्वकत्वात् परीक्षायाः । अनुमानं च
संदिग्धे विषये प्रवर्तत इति प्रायेण तद्व्यवहारः ॥


यद्यपि क्वचिदसंदिग्धेऽपि विषये दृष्टं प्रवर्तमानमनुमानमनलार्थिता
यामतर्कितोपनतपर्वतनितम्बनिर्गतधूमदर्शनेन कृशानुकल्पमिव; तथापि
वस्तुयोग्यतावशेन संदिग्धविषयमेवानुमानमिच्छन्ति न्यायविदः । प्रकृ
तश्च निर्णयः पक्षप्रतिपक्षाभ्यामेव निर्णय एवेति न शक्यते नियन्तुम्,
अन्यथा न्यायानुपरमादिति । शास्त्रे तु विनापि संशयादस्ति निर्णयः1597


यद्यपि च तत्रापि सूत्रकृता सर्वपरीक्षाणां संशयपूर्वकत्वमुपदेशाति
देशाभ्यामभ्यधायि, तथापि नासौ शास्त्रीयो निर्णयः, परीक्षाकार्यत्वात् ॥


शास्त्रीयनिर्णयेषु विशेषः


यस्तु शास्त्रत एव क्वचिद्विषयनिर्णयः, स विमर्शवर्जमुत्पद्यते ।
वादेऽपि विमर्शरहितो भवति निर्णयः । उभौ निश्चितौ वादं कुरुतः,
संदिग्धस्य तत्रानधिकारात् । कथं तर्ह्येष प्रवादः संशयच्छेदो वादस्य
फलम्
इति ? प्रथममुभयोरपि निश्चितयोर्वादप्रवृत्तौ अन्तराले बलादा
पतति युक्तिद्वयोपनिपातकृतः संशय इति वस्तुनिर्णयावसानत्वाद्वादस्य
संशयच्छेदफलत्वमाचक्षते ॥


निर्णयपरीक्षोपसंहारः


यद्यप्यनिश्चितमतिः कुरुते न वादं

श्रुत्वा तथापि परकीयनयप्रयोगम् ।

II.596
अन्तर्मतद्वयबलाबलचिन्तनेन

संशय्य निर्णयति नूनमसौ स्वपक्षम् ॥

—इति निर्णयपरीक्षा—


वादपरीक्षा


न्यायपरीक्षाद्वारकवस्तुविचारयोग्याः कथा वादिनां भवन्ति—वादः,
जल्पः, वितण्डेति । तत्र वादस्तावदुच्यते—


प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः
पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥ १-२-१ ॥


पक्षप्रतिपक्षौ व्याख्यातौ । तयोः परिग्रहः—अभ्युपगमनियमः ।
एको वक्ति नित्यः शब्दः इति । अपरस्तु अनित्यः शब्दः इत्याह ।
सोऽयं पक्षप्रतिपक्षपरिग्रहो वादः । एतच्च रूपं कथात्रयेऽपि साधारण
मिति विशेषमाह—प्रमाणतर्कसाधनोपालम्भ इति । प्रमाणैः तर्केण च
साधनम्, पालम्भश्चास्मिन् क्रियते इति प्रमाणतर्कसाधनोपालम्भः ।
न त्वीदृशी वितण्डा, तस्याः 1598प्रतिपक्षसाधनोपन्यासशून्यस्वभावत्वात् ॥


कथासु परार्थानुमानमेव प्रमाणम्


ननु ! प्रत्यक्षादेः प्रमाणस्य परप्रतीत्यनुपायत्वात् न तेन वादे
साधनोपालम्भौ शक्यक्रियौ । तर्कस्य तु प्रतीतिसाधनत्वमपि तावत् न
II.597 संभवति, संभवनाप्रत्ययस्वभावत्वात् । किमुत परप्रत्यायनाङ्गतेति न
तरां तस्य साधनोपालम्भहेतुत्वम् । सत्यमेवम्—इह तु न प्रमाणशब्देन
प्रत्यक्षादेरभिधानम्; अपि तु प्रमाणमूला अवयवाः उच्यन्ते । तैश्च
सिद्ध्युपालब्धी क्रियेते । एवं तर्कस्य तु स्वतः साधनोपालम्भकरण
कौशलशून्यात्मनोऽपि प्रमाणानुग्राहकत्वात् पारम्पर्येण तद्धेतोराशयशुद्धि
प्रदर्शनार्थमुपादानम् ॥


पञ्चावयवोपपन्नदलप्रयोजनम्


यद्येवं प्रमाणपदेनैव तन्मूलावयवप्रतिपादनात् पंचावयवोपपन्नग्रहण
मतिरिच्यते ॥


तत्र के चिदाचक्षे—प्रमाणतर्कसाधनोपालम्भ इति वादलक्षणे, छल
जातिनिग्रहस्थानसाधनोपालम्भ इति च जल्पलक्षणे श्रवणात्, वादे सर्वा
त्मना छलादिनिषेधप्रसक्तौ कतिपयनिग्रहस्थानोद्भावनाभ्यनुज्ञानार्थं पंचा
वयवोपपन्नग्रहणम् ॥


अनेन च हीनं—अन्यतमेनाप्यवयवेन न्यूनम्, हेतूदाहरणाभ्याम
धिकं—अधिकमिति न्यूनाधिकयोरुद्भावनमनुज्ञायते । सिद्धान्ताविरुद्ध
ग्रहणेनापि—सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः इति विरुद्धाख्यहेत्वा
भासोद्भावनमनुज्ञातम्—इत्येवं वादे त्रीणि निग्रहस्थानान्युद्भावनी
यानि ॥


वादे चोदनीयनिग्रहस्थानानि


अन्ये वदन्ति—विरुद्ध एव हेत्वाभासो वादे चोद्यते, नानैकान्तिकादि
रिति । कथमेतत् युज्यते ? निग्रहस्थानेभ्यः पृथगुपदिष्टा हेत्वभासा
वादे चोदनीया भविष्यन्ति
इति—भाष्यकारवचनात् प्रमाणपदेन च
II.598 तन्मूलावयवाक्षेपात् प्रमाणाभासमूलनिरासे सति सकलहेत्वाभासोद्भावन
मपि तत्र सिद्धमिति ॥


सिद्धान्ताविरुद्धग्रहणेन सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गः
अपसिद्धान्तः
इत्यपसिद्धान्ताख्यनिग्रहस्थानाभ्यनुज्ञानमित्येवमष्टौ निग्र
हस्थानानि वादे उद्भाव्यन्त इति—तदनुपपन्नम्—न हि त्रीणि वा अष्टौ
वा वादे निग्रहस्थानानि चोदनीयानीति चोदनार्वैदिकी, राजशासनं वा ।
वस्तुपरिशुद्धिसाधनं सर्वमेव तत्र प्रयोगार्हम् । अयं तु विशेषः—जल्पे
कस्यांचिदवस्थायां बुद्धिपूर्वकमपि छलादिप्रयोगः क्रियते । वादे तु न
था तेषां प्रयोगः । भ्रान्त्या तु कथंचित्प्रयुक्तानामवश्यमुद्भावनम्;
अनुद्भावने वस्तुपरिशुद्धेरभावात् ॥


स्वमतेन दलप्रयोजनम्


कथं तर्हीदं पदद्वयं—सिद्धान्ताविरुद्धः, पंचावयवोपपन्न इति ।
अपसिद्धान्तादिसम्यग्दूषणदिक्प्रदर्शनेन एवंप्रकारवस्तुशुद्ध्यनुगुणनिग्रह
स्थानजाताभ्यनुज्ञानार्थमेवेत्यभियुक्ताः । अप्रतिभाविक्षेपादयो हि न
वादे पराजयहेतवः, क्षणान्तरेणाप्यागत्य अनुस्मृत्य च साधनमुपालम्भं
वा तत्र प्रवदन्न पराजीयते । प्रतिज्ञाहान्यादि तु सम्यक्पराजयकारण
मखिलमाभ्यां पदाभ्यामभ्यनुज्ञातमत्रेति ॥


प्रमाणतर्कदलप्रयोजनम्


ननु ! इदानीं प्रमाणतर्कग्रहणमपार्थकम्, पंचावयवोपपन्नपदेनैव
प्रमाणमूलावयवोपदेशात्, वस्तुपरिशुद्ध्यनुगुणनिग्रहस्थानाभ्यनुज्ञानाच्च
किमिव नोक्तम्—न—अभिप्रायनैर्मल्यनिवेदनद्वारकवादजल्पविवेकप्रतिपाद
नार्थत्वात् । स्वप्रतिपत्तिसाधनमपि प्रत्यक्षादि वादे प्रयोक्तुमुचितं,
II.599 आशयशुद्धिमुपदर्शयितुम् । अत्र वस्तुनि मम प्रथमं तर्कः इत्थं प्रवृत्त
आसीत्, ततः प्रमाणमिदं प्रवृत्तम्
इत्येवमाद्यपि तत्र वक्तव्यम् । अत
एव चान्यतरपक्षनिर्णयावसान एव भवति वादः । न जल्पवत् अलीक
दूषणाडम्बरविरचितपरपरिभवपर्यवसानोऽपीति तथा बुद्धिपूर्वमाभासा
नामप्रयोग इति निर्मत्सरकथात्वमस्योक्तमिति अकलुषाकूतकथनाय प्रमाण
तर्कपदम् ॥


प्रमाणतर्कदलप्रयोजनान्तरम्


अपि च साधनोपालम्भव्यतिषङ्गप्रतिपादनमपि तस्य फलम् ।
उभावपि परस्परमनुबन्धेन वादिभ्यां परीक्ष्यमाणौ पक्षप्रतिपक्षौ वादतां
प्रयोजयतः, न तु स्वगुहे शास्त्रे वा विविच्यमानौ । प्रमाणैरेव वादे, छला
दिभिरेव जल्पे व्यवहार इति नियमशङ्कानिरसनमपि तत्पदोपादानप्रयो
जनमुक्तमन्यैरिति कृतमतिविस्तरेण । सर्वथा वादलक्षणं सुस्थम् ॥


वादं तु निर्णयफलार्थिभिरेव शिष्य-

सब्रह्मचारिगुरुभिः सहवीतरागैः ।

न ख्यातिलाभरभसप्रतिवर्धमान-

स्पर्धानुबन्धविधुरात्मभिरारभेत ॥

—इति वादपरीक्षा—


जल्पपरीक्षा


यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनो
पालम्भः जल्पः ॥ १-२-२ ॥


II.600

यथोक्तोपपन्नग्रहणेन सर्वातिदेशे वादजल्पयोरविशेष इति शङ्क
मानाः केचन पक्षप्रतिपक्षपरिग्रहमात्रातिदेशमेव व्याचक्षते । इयतस्तु
पूर्वसूत्रानुवृत्त्यापि सिद्धेः मन्दफलमेव यथोक्तोपपन्नवचनं भवेदिति
समस्तादितिदेश एव वरम् । न च तत्रापि वादजल्पयोः साम्यम्, गम्य
मानार्थानतिदेशात् । श्रौत एवार्थः अतिदिश्यते, न गम्यमानः ।
तत्कृत एव च तयोर्भेदः ॥


तथा च प्रमाणतर्कसाधनोपालम्भ इत्यत्र गम्यमानोऽर्थः अभिप्राय
नियमः । स नातिदिश्यते । सिद्धान्ताविरुद्धः पंचावयवोपपन्नः इत्य
त्रापि बुद्धिपूर्वकजात्यादिप्रयोगप्रतिषेधतदुद्भावननियमरूपः गम्यमानोऽर्थः ।
सोऽपि नातिदिश्यत इति कुतस्तयोरविवेकः । अत एव च बुद्धिपूर्वक
प्रयोगानुज्ञानाय छलजातिनिग्रहस्थानसाधनोपालम्भ इत्युक्तम् ॥


जल्पे छलादेरभ्यनुज्ञानम्


भवत्वेवम् ! छलादीनां त्वसदुत्तरत्वात् कथमिव साधनोपासम्भ
हेतुत्वम् । परपक्षप्रतिक्षेपद्वारकमिति चेत्—न—असदुत्तरत्वेन प्रतिक्षेपे
ऽपि तेषामसामर्थ्यात् । एवमपि च साधनग्रहणमनर्थकमेवेति—सत्य
मेवेदम्—किन्तु कस्यांचिदवस्थायां स्वप्रतिपत्तिसाधनोपहिततत्त्वज्ञान
रक्षायै तान्यपि व्याप्रियन्ते । यदा जानन्नपि परपक्षकशिमानम्,
स्वपक्षेद्रढिमानं च क्वचिदवसरे1599 परप्रयुक्ते साधने दूषणं सपदि न पश्यति,
स्वपक्षसाधनं च झटिति न स्मरति, तदा छलादिभिरप्युपक्रम्य परमभि
भवति, आत्मानं च रक्षतीति ॥


II.601

छलादिप्रयोगफलम्


ननु ! यदि परोऽपि छलादीनि जानीयात्, तेषु चानुरूपमुत्तर
मभिदधीत, कथं जीयेत ? प्रत्युत जयत्येव—सत्यम्—तथाप्येकान्तपराज
यात् वरं संदेह इति युक्तमेव तत्प्रयोगेण 1600स्फुटाटोपकरणम् ॥


ननु ! ईदृंशि प्रयोजनानि जिगीषतो जनस्य जानपदसदसि भवन्ति ।
तस्यापि न निपुणमतिपरिषदि । मुमुक्षोस्तु दूरापेतैव कथेयमिति कथ
मिह मोक्षशास्त्रे जल्पाद्युपदेशः ?—नैतेदेवम्—मुमुक्षोरपि क्वचित्प्रसङ्गे
तदुपयोगात् । तथोक्तं तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे, बीज
प्ररोहसंरक्षणार्थं कण्टकशाखावरणवत्
न्या-सू-४-५- इति ॥


वितण्डादिप्रयोगकालः


यदि हि क्वचिदाश्रमे सुखमासीनं अनेकशिष्यगणोपास्यमानं रहस्य
तत्त्वमुपदिशन्तं शान्तमानसमाचार्य अनार्यः कश्चिद्विपश्चिदागत्य दुरधिगत
कतिपयाक्षरचयजनितगुरुतरगर्वगद्गदया गिरा 'भोस्तपस्विन् ! किं
व्याख्यायते ? हुं ! आन्वीक्षकी ! सरलमतिप्रियेयं विद्या । क्व वेदाः !
क्ववेदप्रामाण्यम् ! क्वात्मज्ञानम् ? क्वापवर्गः ? इत्यादि मन्दं मन्दं
विहस्य सहसा दुष्टमेध इव प्रकटिताकाण्डदण्डकाशडम्बरवित्रासिता
श्रममृगवर्गमुद्ग्राहयन् आकुलयति, तदा जगज्जालमिन्द्रजालपण्डितविल
सितमिति जानन्नप्याचार्यः यदि तमुपेक्षते, तिरस्करोति, सद्यः सम्यक्
साधनाप्रतिभासेऽपि यदि छलादिभिरेनं न शमयति; तदा तस्मिन् गते
तत उत्थाय शिष्यगणा ब्रूयुः कष्टमस्थाने क्लिष्टाः स्मः ॥


II.602
योऽसावस्माकमाचार्यः प्रख्यातो न्यायवित्तमः ।

अद्य त्वागत्य सोऽन्येन पण्डितेन पराजितः ॥

तच्छ्रुत्वा जन इतरोऽपि सत्पथास्था-

शैथिल्यात्सपदि तमेव माऽनुयासीत् ।

तन्नूनं परिभवभूमिकामसभ्यो

नेतव्यः सदसि स 1601वावदूकपाशः ॥

तद्विधानघटने निरर्गलं

जल्पमस्त्रमुपदिष्टवान् मुनिः ।

आनुषङ्गिकमपि प्रयोजनं1602

तस्य रागिजनतासु वर्णितम् ॥

—इति जल्पपरीक्षा—


वितण्डापरीक्षा


स प्रतिपक्षस्थापनाहीनो वितण्डा ॥ १-२-३ ॥


स एव यथोक्तलक्षणकः जल्पः वितण्डा भवति । को विशेष इति
चेत्—आह—प्रतिपक्षस्थापनाहीन इति । उत्तरपक्षवादी वैतण्डिकः ।
प्रथमवादी प्रथमसाध्यमानपक्षापेक्षया । तत्पक्षः हस्तिप्रतिहस्तिन्यायेन
प्रतिपक्ष इत्युच्यते । तमसावभ्युपगच्छत्येव, न तत्र साधनमुपदिशति,
II.603 परपक्षमेवाक्षिपन्नास्ते । तर्हि साधनाद्विना पक्षोऽपि सोऽस्य नास्त्ये
वेति ॥


स्थापनापदप्रयोजनम्


प्रतिपक्षहीनो वितण्डेत्युच्यताम्, किं स्थापनाग्रहणेन ?—न—अभ्यु
पगममात्रेण तद्भावात् । तमनभ्मुपगम्य प्रलपतः कस्तस्य शृणुयात् ।
औपचारिको वा परमतपराकरणरूप एवास्य पक्षः1603 । तस्मिन् हि सति
स्वपक्षो हि तस्य सिद्ध्येदिति । परमताक्षेपप्रवणप्रवृत्तेश्च बलात् द्वितीय
पक्षवाद्येव वैतण्डिक इति । तदेवं पक्षोऽस्यास्तीति, साधनं तु नास्तीति
सम्यक्सूत्रितं स प्रतिपक्षस्थापनाहीनो वितण्डा इति ॥


इत्युदाहृतमिदं कथात्रयं

यत्परस्परविविक्तलक्षणम् ।

स्थूलमप्यनवलोक्य कथ्यते

वाद एक इति शाक्यशिष्यकैः ॥

—इति वितण्डापरीक्षा—


हेत्वाभासपरीक्षा


पक्षधर्मत्वादीनि पंच लक्षणानि हेतोरुक्तानि । तेषामेकैकापायात्
पंच हेत्वाभासा भवन्तीति तान् दर्शयितुमाह—


II.604

सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला
हेत्वाभासाः ॥ २-२-४ ॥


अत्र हेत्वाभास1604श्रुतिरेव निर्वचनसहिता सामान्यलक्षणं बोधयति—
अहेतवः हेतुवदाभासन्त इति हेत्वाभासाः इति । लक्षणैकदेशयोगाच्च
हेतुवदाभासनं, अहेतोरप्युपपद्यते । सकललक्षणापायेऽपि पंचमीनिर्देशादिः
भ्रमहेतुरित्येके ॥


सव्यभिचारादिपदपर्यन्तवर्तिनी तु सैव श्रुतिः विभागमवगमयति,
प्रमाणश्रुतिवदित्युक्तम् । पक्षधर्मतादिलक्षणानां च1605 क्रमनियमाभावात्
साध्यसमविरुद्धसव्यभिचारातीतकालप्रकरणसमा हेत्वाभासा इति पाठो
नाश्रितः ॥


हेत्वाभाससंख्याविमर्शः


ननु ! त्रय1606 एव हेत्वाभासा इति शाक्याः—न—प्रत्यक्षागमबाधि
तस्य च हेतोः पूर्वं प्रदर्शितत्वात् ॥


ननु ! एकस्यैव रूपद्वयवैकल्यात् कथं न षष्ठादयः1607 तत्प्रभेदाः स्युः
यथा अनित्यः शब्दः चाक्षुषत्वात् इति । एष हि पक्षे वृत्त्यभावादसिद्ध
उच्यताम्, उत सामान्यादेः विपक्षादप्रच्युतः सव्यभिचारः, उत जात्यन्त
रमेव ताभ्यामिति—नैतदेवम्-एकैकरूपापायनिमित्तभेदपंचकप्रतिपादने कृते
द्वित्रिरूपापायात् न रूपान्तरमवतरति, किन्तु तेषामेव समावेशःस्यात्1608


II.605

अपि च प्रथमगृहीतान्यतमरूपवैकल्यलब्धैकहेत्वाभासरूपेऽस्मिन्1609
किं रूपान्तरनिरूपणेनेत्यास्तामेतत् ॥


अप्रयोजकहेतोरसिद्धावन्तर्भावः


ननु ! अप्रयोजको नाम षष्ठो हेत्वाभासः समस्तीति न पुनरपि
पंचत्वम्—न—तस्यान्यथासिद्धत्वेन असिद्ध एवान्तर्भावं वक्ष्यामः ।
अवान्तरभेदविवक्षायां तु हेत्वाभासानामियत्तानिश्चयः न शक्यक्रियः, न च
सप्रयोजन इति पंचैव हेत्वाभासा इति सिद्धम् ॥


सव्यभिचारलक्षणम्


तेषां सव्यभिचारस्तावदुच्यते—


अनैकान्तिकः सव्यभिचारः ॥ १-२-५ ॥


व्यभिचारः एकत्र व्यवस्थाऽनियमः । तेन सह वर्तत इति सव्यभिचारः
—विपक्षादप्रच्युत इत्यर्थः । एकस्मिन् अन्ते भवन् ऐकान्तिकः । तद्वि
पर्यायादनैकान्तिक इति स एवार्थः । एवमिह लक्ष्यलक्षणपदयोः यथाकाम
मभ्युपगमः, न प्रत्यक्षादिवत् व्यवस्थया ॥


सव्यभिचारपदे लक्ष्याभिधायिनि लक्षणवचनमनैकान्तिकपदम्,
अनैकान्तिकपदे तु लक्ष्यवाचिनि सव्यभिचारपदं—लक्षणप्रतिपादकं प्रसि
द्ध्यप्रसिद्धिविभागापेक्षया पिककोकिलवत् द्रष्टव्यम् । पिकः कोकिलः
इत्युक्ते यस्य पिकशब्दार्थः प्रसिद्धः, स ततः कोकिलशब्दार्थमवभोत्स्यते ।
प्रसिद्धकोकिलशब्दार्थस्तु पिकशब्दार्थमिति ॥


II.606

अनैकान्तिकपदार्थः


आह, भवत्वेवम् ! इदं तु चिन्त्यताम् । अनैकान्तिकः इति
किमयं पर्युदासः, प्रसज्यप्रतिषेधो वा ? किंचातः ? पर्युदासपक्षे स्वपक्ष
नियतादैकान्तिकादन्यः यः, स एवानैकान्तिक इति स एवैको हेत्वाभासः
स्यात् । प्रसज्यप्रतिषेधे त्वैकान्तिकाभावस्य निवृत्तिरूपस्य हेत्वाभासता
भवेत्, न लक्ष्यत्वेनाभिमतस्य विपक्षवृत्तेः हेत्वन्तरस्य प्रमेयत्वादेरिति—
उच्यते—प्रश्न एवायमनुपपन्नः । संशयानो हिपरं पृच्छति । संशय
श्चोभयथा दर्शनाद्भवति । न च नामपद संबद्धस्य नञः द्वयी वृत्ति
र्दृष्टा । अश्राद्धभोजी इत्यादौ हि भुजिना नञ् संबध्यते, श्राद्ध
न भुङ्क्ते
इति; न तु नाम्ना श्राद्धेनेति ॥


नामपदसंबद्धनञः पर्युदास एवार्थः


आख्यातेनापि प्रयोज्यमानः क्वचित् प्रकरणसामर्थ्यानुरोधात्
प्रत्ययार्थसंबन्धमवधूय धात्वर्थमेव केवलमालिङ्गन् पर्युदासवृत्तिर्भवति
नेक्षेतोद्यन्तमादित्यम् इति । न तु नाम्ना संबध्यमानः क्वचिदपि
र्युदासवृत्तिमुल्लङ्घ्य प्रसज्यप्रतिषेधमात्रपरतामबलम्बमानो दृश्यते ।
अब्राह्मणादौ सर्वत्र तदन्यावगतिदर्शनात् इति कुतस्त्यः संशयः ॥


पर्युदासपक्षोक्तदोषपरिहारः


अथवा किमनयाऽवान्तरचिन्तया ! यथा पृष्टं कृत एवोत्तरमुच्यते ।
एकस्मिन्ननित्यपक्षे नित्यपक्षे वा नियतः एकान्तिकः एकपक्षवृत्तिरुच्यते ।
ततोऽन्यः 1610पक्षद्वयवृत्तिः अनेकान्तिको भवति । एवं न सर्वे हेत्वाभासाः
पक्षद्वयवृत्तय इति न संख्याहानिः अतः पर्युदासपक्षे तावन्न दोषः ॥


II.607

प्रतिपेधार्थकत्वेऽपि न दोषः


प्रसज्यप्रतिषेधेऽपि—ऐकान्तिको न भवति यः, स एवाहेतुरिति न
निवृत्तिमात्रपरत्वम् । अश्राद्धभोजीति 1611कृता पुरुष उच्यते, न श्राद्ध
भोजनाभावमात्रम् । एवमिहापि तद्धितेनैकान्तनियतताप्रतिषेधविशिष्टः
हेतुरेवोच्यते, नाभावमात्रम्—इत्येवमुभयथाऽपि न दोषः ॥


तस्योदाहरणं—नित्यः शब्दः प्रमेयत्वात्—इति । एष हि नित्या
नित्यपक्षयोरन्यतरस्मिन्नपि न नियत इति विपक्षवृत्तित्वादनैकान्तिक
उक्तो भवति ॥


परोक्तानैकान्तिकविभागविमर्शः


ननु ! षट्प्रकारः परैरनैकान्तिक इष्यते । सपक्षैकदेशवृत्तिः विपक्ष
व्यापी, विपक्षैकदेशवृत्तिः सपक्षव्यापी, उभयपक्षैकदेशवृत्तिः, उभयपक्ष
व्यापीति साधारणः चतुष्प्रकारः । असाधारणः विरुद्धाव्यभिचारी
चेति । स कथमिह न निर्दिश्यते—उच्यते—सपक्षव्याप्त्यादिभेददर्शनं
तावत् अप्रयोजनकम्, अशक्यं च; हेत्वाभासानामवान्तरभेदानन्त्यात् ।
विपक्षाद्व्यावृत्तिर्यस्य नास्ति, स सव्यभिचारः—इत्यन्यतमहेतुरूपरहितत्व
मनैकान्तिकलक्षणमिह विवक्षितम् । तच्चोक्तमेव । किमवान्तरभेदपरि
गणनेन ॥


असाधारणविरुद्धाव्यभिचारिणौ तु न संस्त एव हेत्वाभासाविति न
व्याख्यायेते ॥


1612 II.608

असाधारणानैकन्तिको नातिरिक्तः


ननु ! साधारणवदसाधारणस्यापि गन्धवत्त्वादेः संशयहेतुत्वदर्शनात्
कथमसंभवः ? अनेकधर्मोपपत्तेश्च संशयः भवद्भिरपि व्याख्यात एव—नैत
देवम्—उभयविशेषसहचरितधर्मदर्शनं हि तदनुस्मरणयुक्तेन संशयमुप
जनयति । असाधारणस्तु असाधारणत्वादेव न तत्सहचरः कदाचिदुपलब्ध
इति कथं संशयहेतुः ?


कथं तर्ह्यनेकधर्नोपपत्तेरिति वर्ण्यते ? वर्णितमेतत् । वस्तुनो हि
विशेषधर्मः कश्चिदसाधारणः केनापि धर्मान्तरेण सहचरितो दृष्टः, सोऽय
शब्दे विभामगजत्वाख्यो धर्मः केनचिद्धर्मान्तरेण द्रव्यत्वेन गुणत्वेन वा सह
चरितो भवेदितीत्थमनेकधर्मोपपत्तेः संशयो वर्णितः ॥


तदिहापि गन्धवत्त्वमसाधारणमेव यदि संशयहेतुतया वर्ण्यते, तर्हि
साधारणात् वस्तुधर्मत्वादेव संशयो भवेत्, नासाधारणात् गन्धवत्त्वात् ।
न हि तन्नित्यानित्ययोरन्यतरेणापि सहचरितमुपलब्धम् । वस्तुधर्मस्तु
धर्मान्तरानुयायी दृश्यत इति वस्तुधर्मत्वमेव तत्कारणम् । अतः नित्या
भूः, गन्धवत्त्वात्
इत्यसाधारणानैकान्तिकः न वक्तव्यः ॥


विरुद्धाव्यभिचारोऽपि नातिरिक्तः


विरुद्धाव्यभिचर्यपि न वाच्य एव, एकत्र धर्मिणि परस्परविरुद्धद्वय
प्रयोजकहेतुद्वयोपनिपातस्यानुपपत्तेः ॥


ननु ! प्रत्यक्षो वायुः, स्पर्शवत्त्वात्, घटवत् अप्रत्यक्षो वायुः,
अरूपत्वात्, आकाशवत्
इत्यस्ति हेतुद्वयसन्निपातः । त एव च विरुद्धा
व्यभिचार्युच्यत इति—अत्र तावत् एतदेव वक्तव्यम्—कोऽयमपूर्वः प्रामा
णिकव्यवहारः ईदृशः, यत् अनुमानेन प्रत्यक्षत्वमप्रत्यक्षत्वं वा साध्यत
II.609 इति । इन्द्रियजप्रमितिविषयो ह्यर्थः प्रत्यक्षो भवति । स एष वायुः
यदीन्द्रियजे प्रत्यये प्रतिभात्येव, किमनुमानेन । अथ तत्र न प्रतिभाति
तथापि किमनुमानेनेति ॥


विरुद्धाव्यभिचारिणोऽप्रयोजकत्वम्


किंच अनयोरन्यतरो हेतुः अवश्यमप्रयोजकः, वस्तुनः द्वैरूप्यानुपपत्तेः ।
हेतौ च प्रयुक्ते तद्गुणदोषपरीक्षणमेव प्रतिवादी विधत्ताम्, कोऽवसरः
प्रतिहेतूपन्यासस्य । विडम्बनार्थस्तटुपन्यास इति चेत्—न—विडम्बनोपन्या
सस्य जात्युत्तरप्रकारत्वात् । इह च हेत्वाभासाः 1613वास्तवा एवानुमान
दोषाः । एकत्र प्रयोजकवृद्धहेतुद्वयसमावेशासंभवस्योक्तत्वात् । कथं
तर्हि प्रकरणसम इति चेत्, तत्रैव विशेषं वक्ष्यामः ॥


विरुद्धाव्यभिचारिणः विप्रतिपत्तिरूपत्वं वा


अथ हेतुप्रयोगरहितोभयवादिपरिगृहीतपक्षप्रतिपक्षोपन्यास1614मात्रं
विरुद्धाव्यभिचारिणो रूपमुच्यते, सोऽयं विप्रतिपत्तेः सशयो भवति, न
हेत्वाभासादस्मादिति ॥


अपि च, यदि संशयजनकत्वं अनैकान्तिकलक्षणमुच्येत—काम
मसाधारणस्य वा विरुद्धाव्यभिचारिणो वा यथा तथा संशयहेतुतामधि
रोप्य कथ्यतामनैकान्तिकता, न तु संशयजनकत्वं तल्लक्षणम्, इन्द्रिया
देरपि तज्जनकत्वेन तथाभावप्रसक्तेः । अपि तु पक्षद्वयवृत्तित्वमनैकान्ति
कलक्षणम् । स तु पक्षद्वयवृत्तित्वात् संशयमपि जनयतीति वस्तुस्वभावो
II.610 ऽयम् । अतः असाधारणविरुद्धाव्यभिचारिणोः कथंचित्संशयहेतुत्वेऽपि
पक्षद्वयवृत्त्यभावत् नानैकान्तिकवर्गेऽन्तर्भावः । क्व तर्हि तावन्तर्भविष्यतः ?
जात्युत्तराणामानन्त्यात् तेष्विति वक्ष्यामः ॥


तस्मादसाधारणसंज्ञकस्य

हेतोर्विरुद्धाव्यभिचारिणो वा ।

विपक्षवृत्तित्वमतर्कयन्तः

वदन्त्यनैकान्तिकतां न तद्ज्ञाः ॥

विरुद्धलक्षणम्


सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥ १-२-६ ॥


सपक्षविपक्षयोः वृत्त्यवृत्ती हेतोर्लक्षणम् । ते यस्य विपर्यस्ते दृश्येते,
यः सपक्षे न वर्तते, विपक्षे च वर्तते, सः साध्यविपर्ययसाधनात् विरुद्धो
भवति; सोऽयमुच्यते—सिद्धान्तमभ्युपेत्येति ॥


सिद्धान्तशब्दः यद्यपि धर्मविशिष्टे धर्मिणि व्याख्यातः, अयमित्थ
मित्यभ्युपगमविषयीकृतोऽर्थः सिद्धान्त इति—तथापीह तदेकदेशसाध्यधर्म
विषयो लक्ष्यते1615 । तं सिद्धान्तं साध्यधर्ममभ्युपगम्य यो विरुणद्धि—
व्याहन्ति—तद्विपर्ययं साधयति स विरुद्ध इत्यर्थः ॥


सूत्रार्थवर्णनम्


ननु समानकर्तृकयोः क्त्वाप्रत्ययः स्मर्यते । इह च हेतोर1616चेतनस्याभ्यु
पगमेन कर्तृत्वासंभवात् पुरुषस्तत्कर्ता भवेत् । सिद्धान्तं च विरुणद्धि
II.611 हेतुः
इति भिन्नककतृत्वमुच्यते—उच्यते समानकर्तृकत्वसिद्धये हेतोरेवा
भ्युपगमे कर्तृत्वमुपचाराद्वर्णयिष्यते । हेतुबलात् पुरुषेणाभ्युपगमः क्रिय
माणः हेतुनव कृतो भवति । एवं च स एवाभ्युपगन्ता, स एव विरुण
द्धीति न भिन्नकर्तृकत्वम् ॥


ननु ! उपचारपरिग्रहश्चेदभिमतः, तदत्र त्रितयं वक्तव्यम्—मुख्ये
ऽर्थे प्रमाणबाधः, निमित्तम्, प्रयोजनं चेति । मुख्येऽर्थे प्रमाणबाधः,
उक्त एव हेतोरचेतनत्वम् । निमित्तमप्यस्ति हेतुसाधनको ह्यभ्युपगम1617
इति । प्रयोजनं तु 1618विशेषविरुद्धानां हेत्वाभासत्वनिवारणम् ॥


सिद्धान्तशब्दस्यापि समुदायवाचिनः यदेकदेशेऽवस्थापनं, तस्यापि
विशेषविरुद्धव्यवच्छेद एव फलम् ॥


विशेषविरुद्धस्य न हेत्वाभासता


विशेषविरुद्धानां हि हेत्वाभासत्वाभ्युपगमे सर्वानुमानोच्छेदप्रसङ्गः
न हि तथाविधो हेतुरिह जगति कश्चिदवाप्यते, यः साध्यसिद्धयेऽभिधी
यमानः धर्मस्य वा धर्मिणो वा1619 विशेषं न कंचन बाधते । तथाहि—
अनित्यः शब्दः, कृतकत्वात् इति सकलताकिकगृहप्रसिद्ध ए हेतुः
अनित्यतां साधयन्नपि यद्यत्कृतकम्, तत्तदश्रावणं दृष्टम् । यो यः कृतकः
स स व्योमविशेषगुणो न भवति इति धर्मिणो विशेषं बाधत एवेत्यहेतुः
स्यात् । न चैवं युक्तमिति न विशेषविरुद्धो नाम हेत्वाभासः अभ्युपग
न्तव्यः; किन्तु साध्यस्वरूपविपर्ययसाधन एवेति ॥


II.612

परोक्तविरुद्धविभागस्यायुक्तता


अत एव यथा तीर्थान्तरे वर्ण्यते—विरुद्धश्चतुष्प्रकारः—1620धर्मस्वरू
पविपरीतसाधनः, धर्मिस्वरूपविपरीतसाधनः, धर्मविशेषविपरीतसाधनः,
धर्मिविशेषविपरीतसाधन इति । तथेह नेष्यते, अतिप्रसङ्गस्य दर्शित
त्वात् इति । अस्योदाहरणं—नित्यः शब्दः, कृतकत्वात् इत्यादि1621


विरुद्धस्य व्यभिचारिवैलक्षण्यम्


ननु ! एकैकलक्षणापायात् पंच हेत्वाभासा इत्युक्तम् । अस्य च
हेतोरुभे लक्षणे न स्तः । यथा ह्यस्य सपक्षे वृत्तिर्नास्ति, तथा विपक्षादपि
व्यावत्तिः । यदि हि सपक्षादिव विपक्षादपि व्यावृत्त ए भवेत् गन्ध
वत्त्ववदसाधारण एव स्यादिति—सत्यमेवम्—विपक्षादव्यावृत्तिः व्यभिचारं
प्रति प्रयोजकतां प्रतिपद्यते । प्रतिपक्षगामी हि व्यभिचरित इत्युच्यते ।
सपक्षे वृत्तिविच्छेदस्तु विपर्ययसिद्धौ प्रयोजक इति सत्यामपि विपक्षवृत्तौ
सपक्षवृत्तिविच्छेदनिबन्धनमेवास्य विरुद्धत्वमुच्यते । विपक्षादप्रच्युतः
स्वसाध्यमेव न साधयेत् । सपक्षे त्ववर्तमानोऽसौ विपरीतमपि साधयतीति
तल्लक्षणापायकृतमेवास्य विरुद्धत्वमाचक्षत1622 इत्यलं सूक्ष्मेक्षिकया ।
तदिमुक्तं सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः इति ॥


अपसिद्धान्तादीनां विरुद्धरूपत्वपक्षः


अन्ये त्वन्यथा व्याचक्षते—किल साध्यधर्मविपर्ययसाधकवत् अप
सिद्धान्तप्रतिज्ञाविरोधादयोऽपि सिद्धान्तविरोधिनः संगृहीतुं युक्ता एव ।
II.613 ते चैवं व्याख्यायमाने न संगृहीताः स्युः । क्त्वाप्रत्ययसिद्धान्तशब्दौ
च न समन्वितौ स्याताम् । तस्मादभ्युपगतसिद्धान्तविरोधी इति सूत्रार्थे
वर्णिते, अभ्युपगतं सिद्धान्तं यो विरुणद्धि, स विरुद्धः । तत्कालोपात्त
प्रतिज्ञाविषयीकृतं वाऽवसरान्तरव्यवस्थापितं वेत्येत्संग्रहश्च कृतो भवि
ष्यति । सिद्धान्तशब्दश्च न सङ्कोचितो भविष्यति । क्त्वाप्रत्ययस्तु
असङ्गतत्वादुपेक्ष्यत एव, भिन्नकर्तृकत्वात् आनन्तर्यस्य गम्यमानस्य
चानुपयुक्तत्वादिति ॥


एतत्पक्षस्य भाष्यानुगुणत्वम्


तथा च भाष्यकारेण अविशेषेण पूर्वाभ्युपगतसिद्धान्तविरुद्ध
मेवोदाहरणमुक्तं सोऽयं विकारो व्यक्तेरपैति, नित्यत्वप्रतिषेधात्1623
अपेतोऽप्यस्ति विनाशप्रतिषेधात्
इति । अत्र हि प्रतिषिद्धनित्यधर्म
त्वादित्ययं हेतुः व्यक्तेरपेतोऽपि विकारोऽप्यस्तीत्यमुं सिद्धान्तं विरुणदि
अनेन वा विरुद्ध्यत इति ॥


उक्तपक्षेऽस्वारस्यम्


एतत्त्वहृदयङ्गममिव व्याख्यानम् । अपसिद्धान्तप्रतिज्ञाविरोधादेः
निग्रहस्थानसूत्रे हेत्वाभासेभ्यः पृथगुपदेशात् किमिह तत्सङ्ग्रहेण ।
प्रत्युत, सङ्ग्रह एव दोषः । यो हि मीमांसकोऽहम् इत्यभ्युपगम्य
अनित्यः शब्दः, कृतकत्वात्, घटवत् इति ब्रूयात्, न तस्यायं हेतुः
विरुद्धो भवेत्, अपि तु अपसिद्धान्तनैवासौ निगृह्येत । तस्मात्
II.614 साध्यविपर्ययसाधन एव विरुद्ध उच्यते, न तु पूर्वाभ्युपगतस्वसिद्धान्त
विरुद्धः1624


उक्तपक्षस्य सूत्राननुगुणत्वम्


न च निरभिप्राय एव सूत्रकृता क्त्वानिर्देशः कृतः, किन्तु ततः प्रतीय
मानमानन्तर्यमप्यपेक्षमाणेन । यो हि सिद्धान्तमभ्युपेत्य प्रतिज्ञाय
तत्सिध्यर्थतयोपादीयमानः तमेव विरुणद्धि, स विरुद्धो हेत्वाभास
इति प्राक्तनमेव व्याख्यानमनवद्यम् ॥


तः प्रतिज्ञाविपरीतसाधनात्

विरुद्धतामेति न हेतुरन्यथा ।

विशेषबाधादिनिबन्धनं पुनः

चहुप्रकारत्वमसुष्य नेष्यते ॥

सप्रतिपक्षलक्षणम्


यस्मात् प्रकरणचिन्ता स निर्णयार्थमुपदिष्टः प्रकरणसमः
॥ १-२-७ ॥


एकैकलक्षणापायनिमित्तहेत्वाभासपंचकप्रतिज्ञानात्, असत्प्रतिपक्ष
त्वलक्षणवैकल्यात् किल प्रकरणसमो नाम हेत्वाभासो वक्तव्यः । स च
न संभवति, सप्रतिपक्षस्य हेतोरभावात् । अद्व्यात्मकत्वाद्धि वस्तूनामे
कत्र परस्परविरोधिधर्मद्वयप्रयोजकहेतुसमावेशो नास्तीत्यसकृदुक्तम् । अतं
II.615 एव हि विरुद्धाव्यभिचारी निरस्तः । अनुमानविरुद्धमनुमानं च नेष्यत एव1625
तत्कुतः सप्रतिपक्षो हेत्वाभासः ? अतश्च लक्ष्याभावात् कस्येदं लक्षण
मित्यत्राह—यस्मादित्यादि ॥


सूत्रव्याख्यानम्


विचार्यमाणौ प्रागुक्तलक्षणकौ पक्षपतिपक्षौ प्रकरणम् । तस्य
चिन्ता संशयात् प्रभृत्यानिर्णयात् यद्यपि भवति, तथापीह विमर्शात्मिकैव
गृह्यते । सा यस्मात् भवति ॥


कस्माच्च सा भवति ? विशेषानुपलम्भात् । स एव विशेषानु
पलम्भः यदि निर्णयार्थमुपदिश्यते, तत्प्रकरणमनतिवर्तमानत्वात् प्रकरण
समो भवति । नित्यः शब्दः, अनित्यधर्मानुपलब्धेः, आकाशवत् । अनित्यः
शब्दः, नित्यधर्मानुपलब्धेः, घटवत्—इति । सोऽयं सप्रतिपक्षो हेतुरिह लक्ष्यो
विद्यते ॥


विरुद्धहेतुद्वयासमावेशेऽपि तथा प्रयोगः


न च द्रव्यात्मकानि वस्तूनि, प्रमातारस्तु रूपमेषां नियतमवधारयितु
मशक्नुवन्त एवं भ्राम्यन्तीति1626


तथा हि—एकस्तद्विशेषानुपलब्धेः पक्षधर्मान्वयव्यतिरेकात्प
श्यंस्तथेति साध्यं बुध्येत, तथैव परं प्रत्याययेदिति । इतरोऽपि द्वितीय
II.616 विशेषानुपलब्धेः साधनतां बुद्ध्वा प्रत्यवस्थानं च करोतीति स्वप्रति
त्तिसाक्षिक एवैष प्रकरणसमो हेत्वाभासः ॥


सप्रतिपक्षस्य इतरवैलक्षण्यम्


तथा च न तावदयं सम्यग्घेतुः, प्रतिपक्षोपहतत्वेन स्वसाध्योपस्थान
सामर्थ्यशून्यत्वात् । हेत्वाभासोऽपि भवन् न तावदसिद्धः, साध्ये धर्मिणि
शब्देऽनुपलभ्यमाननित्यधर्मत्वस्य हेतोः सद्भावात् । नापि विरुद्धः, साध्य,
विपर्ययसाधननिमित्तभूतसपक्षवृत्त्यवियोगानुपपत्तेः । नाप्यनैकान्तिकः
पक्षद्वयसाधारणत्वानवधारणात् । संशयजनकत्वं तु न तस्य लक्षण
मित्युक्तमेव ॥


सप्रतिपक्षस्यानतिरिक्तत्वाक्षेपः


ननु ! एकस्मिन् पक्षे नियतः ऐकान्तिक, तद्विपर्ययादनैकातिकः ।
स चायं नित्यानित्यपक्षयोरन्यतरत्रापि न नियत इति अनैकान्तिक
स्यात् । अपि चाहुः—


अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः

श्लो. वा. 1-1-2 श्लो 54


इति । तत्र यथा इन्दियादेरबोधकत्वाद्वा संशयविपर्ययस्वभावावभा
ससमुत्पादनदौरात्म्याद्वा भवत्यप्रामाण्यव्यवहारः, एवमनुमानमपि तेनै
वर्त्मना प्रमाणाभासतामबलम्बते ॥


हेत्वाभासत्रैविध्याक्षेपः


तत्रासिद्धस्तावदलभमानो धर्मिणि वृत्तिं तत्र साध्यधर्मधियमाधातु
मनधिकृत इत्यज्ञानफलत्वादप्रामाण्यफलमनुभवति ॥


II.617

विरुद्धस्तु विपर्ययसाधन इति भवन्त एव प्रतिपन्नाः ॥


संशयजनकस्त्वनैकान्तिको भवितुमर्हति । न तु पारिभाषिकविपक्ष
वृत्तित्वमेव तस्य लक्षणमुचितम् । उभयमपि चान्यतरपक्षनियमविर
हिततनुरिति किमिति न भवति विमर्शमुपदधदनैकान्तिक इति त्रय एव
हेत्वाभासाः ॥


सप्रतिपक्षस्यातिरिक्तत्वसाधनम्


उच्यते—न फलनियमेन लक्षणनियमः कर्तुं शक्यते । यद्यपि द्विविधं त्रिविधं
भवत्यप्रमाणफलम्, तथापि न त्रिलक्षणके लिङ्गेऽविनाभावः परिसमा
प्यते,1627 अपि तु पंचलक्षणक इति प्रसाधितोऽयमर्थः । तद्वैकल्याच्च
हेत्वाभासानामपि पंचत्वमेव । फलं तु द्विविधमस्तु, त्रिविधं वा । न ह्य
प्रतिपत्तिजनकं किंचिल्लिङ्गमुपलभामहे । न चाप्रतिपत्तिः प्रयत्नजन्या,
प्रागभावस्य निसर्गसिद्धत्वात्—इत्यलमवान्तरचिन्तनेन ॥


सप्रतिपक्षस्यानेकान्तिकवैलक्षण्यसू


न फलापेक्षः लिङ्गलक्षणनियमः । तत्र यथा पक्षधर्मरहितत्वम
सिद्धलक्षणम्, एवं व्यतिरेकवैकल्यं अनैकान्तिकलक्षणम् । एष च
हेतुः पक्षधर्मान्वयव्यतिरेकाणामन्यतमेनापि रूपेण न विकल इति कथमनै
कान्तिकतां प्रतिपद्येत । व्यस्ततायां हि सर्वाण्येतानि सन्ति लक्षणानि ।
समस्तस्तु नोपन्यस्त एव हेतुत्वेन नित्यानित्यधर्मानुपलब्धेरिति ॥


सप्रतिपक्षस्य संशयजनकत्वम्


ननु ! यद्यस्य पक्षधर्मान्वयव्यतिरेका निरपवादाः सन्ति, कथं तर्हि
न हेतुरेवायम् । इतरस्यपि पक्षधर्मान्वयव्यतिरेकाणां निरपवादाना
II.618 मसंभवात् सोऽपि न कथं हेतुः ? अस्त्विति चेत्—न—वस्तुनः द्वैरूप्यानुपपत्तेः ।
एवमिमौ हेतू पक्षद्वयेऽपि बुद्धिं जनयन्तौ संशयमावहतः, नानैकान्तिकवत्
विपक्षवृत्तित्वेनेति हेत्वाभासान्तरत्वम् ॥


एवंविधस्य चास्य प्रकरणसमस्य विरुद्धाव्यभिचारीति नाम यदि
क्रियते—तदपि भवतु । न पुनरनैकान्तिकप्रभेदतामबलम्बते, तल्लक्ष
णासंस्पर्शात् । उभयप्रतीतिजनकौ हीमौ हेतू भवतः, नोभयपक्ष
वृत्तीति ॥


सप्रतिपक्षस्य बाधाद्वैलक्षण्यम्


नाप्ययं कालात्ययापदिष्टः, प्रत्यक्षागमयोरन्यतरस्यापि बाधकस्यानु
पलम्भात् । अनुमानं तु नानुमानस्य बाधकं भवितुं क्षममित्युक्तम् । न
चेतरेतरवाद्यपेक्षयाऽनयोरसिद्धत्वमभिधेयम्, संशयजनकत्वेऽनुभवसिद्धे
सति विशेषानुपलब्धेरप्रत्याख्येयत्वात् ॥


सप्रतिपक्षस्थले परस्परप्रतिघातासंभवः


ननु ! निश्चितस्य साधनप्रयोगाधिकारात् कथंचित्तावत् साधनं
प्रयुंजीत । निश्चितत्वे च 1628तद्धर्मानुपलब्ध्योः परस्परमसिद्धत्वं स्थित
मेव—नैतदेवम्—अन्यतरधर्मानुपलब्धेरेव पक्षधर्मत्वान्वयव्यतिरेकात्
पश्यन्नसौ निश्चिततां प्राप्तः, न द्वितीयधर्मानुपलब्धेः असिद्धतां बुद्ध्य
मानः । अत एव भ्रान्तिमूल एष हेत्वाभासः । द्वितीयधर्मानुपलब्धि
सिद्धत्वनिश्चये तु सम्यग्घेतुरेव स्यात् । तदसिद्धत्वानवधारणेऽप्यसौ
स्वस्य हेतोस्त्रैरूप्यदर्शनात् निश्चितमतिर्भूत्वा साधनं प्रयुंजान इतरेण तथैव
II.619 निश्चितमतिना प्रतिप्रयोगे कृते, तस्यापि त्रैरूप्यमुपलभमानः संशयमधि
गच्छतीत्यलं प्रसङ्गेन ॥


तदेवं असिद्धादिलक्षणवैपरीत्यात् प्रतीत्यनुगुणः प्रकरणसमो नामा
सद्धो हेत्वाभासः ॥


सप्रतिपक्षविषये पक्षान्तरम्


अपरे पुनः उदाहरणान्तरमस्य व्याहरन्ति—नित्यः शब्दः, पक्षसपक्ष
योरन्यतरत्वात्, आकाशवत् । अनित्यः शब्दः, पक्षसपक्षयोरन्यतरत्वा
देव, घटवदिति ॥


ननु ! पक्षसपक्षयोरन्यतरः पक्षो वा स्यात्, सपक्षो वा स्यात्, न
तृतीयः । न हि मित्रावरुपयोरन्यतरः सोमो भवतुमर्हति । तत्र पक्षेन्यतर
शब्दवाच्येऽनन्वयः । न हि शब्दाख्यः पक्षः धर्मी धर्म्यन्तरे वर्तते । सपक्षे
त्वन्यतमाभिधेये पक्षधर्मता नास्ति । न ह्याकाशादिः सपक्षः शब्दाख्ये
धर्मिणि वर्तते ॥


अन्यतरत्वं न प्रत्येकमात्रम्


उच्यते—न पक्षत्वादिति हेतुः प्रयुक्तः, सपक्षत्वादिति वा; येनैवं
स्यात्; पक्षसपक्षयोरन्यतरत्वादिति । तच्च द्वयोरपि किमपि साधा
रणं रूपम्1629 । न हि वरुणो यष्टव्यः' इति यादृशी बुद्धिः, तादृश्येव
मित्रावरुणयोरन्यतरो यष्टव्यः इति । विशेषनिष्ठतायां तु बलादापाद्य
मानायां सकलानुमानोच्छेदः । न चान्यतरत्वं शब्दमात्रारोपितं रूपम
वास्तवमिति वदितुमुचितं 1630अर्थासंस्पर्शितायाः प्रतिक्षिप्तत्वात् ॥


II.620

अन्यतरत्वादित्यसिद्धो हेतुरिति चेत्, किल पक्ष एवायं, न पक्षसपक्ष
योरन्यतर इति—तदयुक्तं—यत एवायं पक्षः, तत एवायं पक्षसपक्षयोरन्य
तरः । न ह्यपक्षः पक्षसपक्षयोरन्यतरः स्यात् । न ह्यवरुणो मित्रा
वरुणयोरन्यतर इत्युक्तमेव ॥


पक्षोऽपि च भवन्नेषः न पक्षत्वादित्यनेन रूपेण—हेतूक्रियते, किन्तु
अन्यतरत्वादिति । इत्थं च हेतूकरणे नैकोऽपि दोष इति ॥


सप्रतिपक्षोदाहरणान्तरम्


अपरमुदाहरणम्—1631सन् सर्वज्ञः, इतरतद्विपरीतविनिर्मुक्तत्वात्
घटवत् असन् सर्वज्ञः, इतरतद्विपरीतविनिर्मुक्तत्वात्, खरविषाणवत्
इति अत्राप्याक्षेपप्रतिसमाधानप्रकारः पूर्ववदनुसरणीयः ॥


धर्म्यसिद्धतादि च यत्नतः परिचिन्तनीयम् ॥


एवंजातीयकं तूदाहरणं नानुमोदन्ते मतिमन्तः । यत्र हि हेतुना
स्वयमर्थं सम्यगसम्यग्वाऽनुमाय प्रमाता परप्रत्यायनाय तमेव हेतुं
प्रयुंजीत, स प्रयुज्यमानः वस्तुबलप्रवृत्ततया हेतूभवति, हेत्वाभासी
भवति वा ॥


उक्तानुमानयोः अनुदाहरणत्वम्


तथा हि—आरोहपरिणाहवति पुरोऽवऽस्थिते धर्मिणि स्थाणुगत
विशेषानुपलम्भात् एकस्य पुरुष इति भवति प्रतीतिः, इतरस्य तु पुरुषगत
विशेषानुपलब्धेः स्थाणुरिति भवति मतिः । एवं च यदाऽसावेकः पुरुषत्व
II.621 सिद्धये परं प्रति स्थाणुधर्माग्रहणं हेतुत्वेन ब्रूयात्, इतरोऽपि पुरुषधर्मा
ग्रहणेन स्थाणुतां प्रतिष्ठापयन् प्रत्यवतिष्ठेत, तदा स्वप्रतीत्यनुसरणपुर
स्मरसाधनाभिधानात् भ्रान्तिसंभवाच्च युक्तं तथाविधोदाहरणकीर्तनम् ।
एवं नित्यः, शब्दः अनित्यधर्मानुपलब्धेः आकाशवत्; अनित्यः शब्दः,
नित्यधर्मानुपलब्धेः, घटवत्
इत्यपि द्रष्टव्यम् ॥


सप्रतिपक्षहेत्वोर्वस्तिवत्वावश्यकता


यस्तु न वस्तुमूलः केवलोत्प्रेक्षामात्राबलम्बनः स्वप्रतीतिषु न दृष्ट
पूर्वः, किं तदुपन्यासेन ?


एतेन सद्वितीयप्रयोगा अपि प्रत्युक्ताः । यथा क्वचित् साधनप्रयोग
कृते सति तत्रैवं परः प्रत्यवतिष्ठते—प्रस्तुतसाध्यधर्माधिकरणत्वशून्यधर्मि
घटान्यतरसद्वितीयो घटः, अनुत्पन्नत्वात्, कुड्यवदिति । यथा प्रस्तुतेन
सिषाधयिषितेन धर्मेण शून्यः यः प्रकृतो धर्मी घटश्च, तयोरन्यतरेण
सद्वितीयोऽयं घटाख्यो धर्मी, तत्र हेतुः अनुत्पन्नत्वम्, तस्य कुड्यादौ
व्याप्तिरिति ॥


केवलस्वबुद्धिकल्पितत्वस्यासप्रतिपक्षता


सत्यं वदत, यद्यस्ति लोके क्वचिदीदृशः प्रतीतिक्रमः—घटश्च धर्मी,
धर्मिघटयोरन्यतरेण सद्वितीय इत्यत्र अन्यतरशब्दः सामान्यवचनोऽपि
धर्मिणि व्याख्येयः । न हि घट एव घटेन सद्वितीयो भवितुमर्हति इत्यल
मलीककल्पनाकौशलप्रत्याख्यानेन ॥


सम्यग्वा यदि वा ऽन्यथा विदधते ये हेतवः संविदं

दृष्टाः स्वात्मनि ते प्रयोक्तुमुचिताः कामं परज्ञप्तये ।

ये तु स्वप्रतिपत्तिमेव न तथा कर्तुं क्षमाः कल्पना-

सामर्थ्योत्थितवस्तुशून्यघटनाः किं तत्प्रयोगे फलम् ॥

II.622

अनुभवासिद्धहेतोः न सप्रतिपक्षत्वम्


ये तु सूक्ष्मोत्प्रेक्षणक्षमप्रज्ञातिशयाभिमानदुर्विदग्धाः तथाविधानपि
प्रयुंजते—


कृतकचनाचातुर्यं तैः प्रदर्शितमात्मनः

भवति न पुनश्शुद्धिः काचित्प्रमेयदिशः कृता ।

क्वचिदवसरे एवंप्रायाः परभ्रमकारिणः

किल सफलतां दध्युः जल्पे1632 यथा कथितं पुरा ॥

तत्र त्वेतान् कथयति परः प्राज्ञमानी यदा वा

तस्याख्येयो निपुणमतिना पूर्वनीत्या समाधिः ।

द्राधीयस्या तदलमनया तार्किकम्मन्यगोष्ठ्या

हेत्वाभासः प्रकरणसमस्त्वेष निर्णीत एव ॥

असिद्धलक्षणम्


साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ १-२-८ ॥


अन्यतरवादिप्रसिद्धंअन्यतरं प्रति यत् साधयितुमुपादीयते, तत्
साध्यम् । तदविशिष्टो हेतुः साध्यसमः ॥


कथं साध्येन तुल्यता हेतोरिति चेत्, आह—साध्यत्वादिति । यथा
साध्यमसिद्धत्वात् साध्यम्, तथा तत्सिध्यर्थमुपात्तो हेतुरपियः असिद्धत्वात्
साध्यः, सः साध्याविशिष्टत्वात् साध्यसम उच्यते ॥


II.623

एतच्चान्यतरासिद्धस्यैव लक्षणम् । यथा मीमांसकं प्रति अनित्यः शब्दः
कृतकत्वात्, घटवत्
इति । 1633न चाक्षुषत्वादेरुभयासिद्धस्य साध्यत्वं संभव
तीत्यः सकलासिद्धभदसङ्ग्रहाय साध्यत्वात् इत्येतत्पदरहितं साध्या
विशिष्टः
इत्येवासिद्धलक्षणमुपवर्णनीयम् ॥


साध्यस्य रूपद्वयम्


साध्यस्य च रूपद्वयमस्ति, असिद्धत्वं साध्यत्वं च । तत्रासिद्धत्व
मेव भवति तवविशिष्टत्वकारणं इहाश्रीयते सर्वासिद्धभेदसाधारणम्
न तु साध्यत्वमन्यतरासिद्ध्येकलग्नमिति । एवंचासिद्धत्वमेवासिद्धस्य
लक्षणमुक्तं भवति । पक्षधर्मत्वं यस्य नास्ति, साध्ये धर्मिणि यो न
वर्तते—हेतुः सोऽसिद्ध इति ॥


असिद्धा अनेकविधाः


तस्य तु भूयांसो भेदा भवन्ति—हेतुस्वरूपे तावत् अन्यतरस्य
वादिनोः, द्वयोर्वा अज्ञानम् संदेहः, विपर्यय इति । तथा तदाश्रयेऽपि
धर्मिणि एकस्य वा, द्वयोर्वा तथैवाज्ञानसन्देहविपर्यया इति । भूयसि च
पक्षीकृतेऽर्थे तदेकदेशे क्वचिद्वृत्तिः,—तदितरत्रावृत्तिरिति । एकदेशवृत्ता
वपि द्वयोरेकस्य वा तथैवाज्ञानसंशयविपर्यया इत्येवं प्रकारभेदोदाहरण—
वर्णनमल्पप्रयोजनमिति न प्रस्तूयते ॥


अन्यतरासिद्धेः सर्वसंप्रतिपन्नत्वम्


अन्यतरासिद्धे तु न विवदन्ते, प्रमाणस्यापक्षपातित्वात् । यदि तावत्
कृतकत्वं शब्दे प्रमाणतो निश्चितं, तर्हि मीमांसकस्यापि तार्किकस्येव
II.624 तत्सिद्धमेव । अथ तत्रकृतकत्वनिश्चयनिपुणं नास्त्येव प्रमाणम्, तदा
तार्किकोऽपि तूष्णीमास्ताम् । द्वयोरप्यसौ चाक्षुषत्वादिवत् न सिद्धो
हेतुः । वाङ्मात्रेण त्वसिद्धिकथनमसांप्रतम्, अतिप्रसङ्गादिति ॥


असिद्धस्यानित्यदोषत्वम्


सत्यमेवं—न सर्वदाऽन्यतरासिद्धस्य हेत्वाभासत्वं समभिदध्महे ।
किन्तु किंचित्कालमिति । यदैकेन वादिना हेतौ प्रयुक्ते द्वितीयो वदति,
मां प्रति न सिद्ध एष हेतुः इति । तदा हेतोः प्रयोक्त्रा तत्साधनमभि
धेयम् । अनभिधानात्स पराजीयते । साधने तु तेनोक्ते तदसिद्धतोद्भा
वनवादी पराजीयत इति यावत्तत्सिद्धौ नोपन्यस्तं साधनं, तावदेवासौ
अन्यतरासिद्धः । अनन्तरं तु सम्यग्घेतुः उभयासिद्धो वा भविष्य
तीति ॥


व्यधिकरणासिद्धिस्वरूपम्


व्यधिकरणासिद्धिस्तु यथोक्तभेदान्तर्गत एव । यथा नित्यः शब्दः
काकस्य कार्ष्ण्यात्
इति ॥


क्वचित्पुनश्च व्यधिकरणासिद्धोऽपि भवति गमक इत्येके । तद्यथा
बहलबहलः प्रचलजलधरश्यामलवपुः अम्बरतलमाक्रामन् धूमप्रबन्धः क्षोणी
ध्रकन्दरादिप्रदेशधर्मत्वानवधारणेऽपि तत्र गमयितुमलमनलमिति
दा वा अग्निमानेषु देशः, धूमोपलब्धेः इति प्रयुज्येत, तदा उपलब्धे,
रात्मधर्मतया वैयधिकरण्येऽपि गमकताऽस्तीति1634


II.625

अन्यथासिद्धस्य नातिरिक्तत्वम्


अन्ये तु अन्यथासिद्धत्वं नाम तद्भेदमुदाहरन्ति । यस्य हेतोः
धर्मिणि वृत्तिर्भवन्त्यपि साध्यधर्मप्रवृत्ता न भवति, सोऽन्यथासिद्धः ।
यथा—अनित्याः मनःपरमाणवः, मूर्तत्वात्, घटवत् इति ॥


ननु ! कथमयमन्यथासिद्ध उच्यते ? किमिति सद्धेतुरेव न भवति ?
किं परमाणुषु मूर्तत्वं न वर्तते ? किं घटादावनित्यतया व्याप्तं न दृश्यते ?
किमाकाशादेः खपुष्पादेर्वा विपक्षान्न प्रच्यवते ? किं प्रत्यक्षेणागमेन वा
बाध्यते ? किं प्रतिपक्षेण प्रबाध्यते ? येनाभासतां भजते—न—प्रति
बन्धाभावात् ॥


अन्यथासिद्धस्याप्रयोजकत्वम्


ननु ! पंचानां प्रतिबन्धलक्षणानां कतमदस्य श्लथीभूतम् ? नान्य
तमस्यापि शैथिल्यं ब्रूमः । तत्किं पंचस्वपि लक्षणेषु न परिसमाप्तः
प्रतिबन्धः ? न न परिसमाप्तः । का तर्हीयं विडम्बना—पंचसु लक्षणेषु
प्रतिबन्धः परिसमाप्यते, तानि चास्य सन्त्येव । न चैष प्रतिबन्धः इति
कैतवम्—उच्यते—प्रयोज्यप्रयोजकभावेन साध्यसाधनधर्मयोः धूमाग्नि
वत् प्रतिबन्धोऽवधार्यते । स चात्र प्रयोज्यप्रयोजकभावो नास्तीति । अत
एवायमन्यथासिद्धः अप्रयोजक इति कथ्यते ॥


अप्रयोजकत्वनिर्णयक्रमः


कथं पुनरस्याप्रयोजकत्वमवगतम्—उच्यते—मूर्तत्वं हि 1635सर्वगतेतर
द्रव्यपरिमाणविशेषादिधर्मः वस्तुस्वभावमात्रनिबन्धनः न कृतकत्वादि
II.626 वदनित्यतां प्रयोक्तुमुत्सहते1636 । तथा हि परमाणुषु सिद्धेषु सत्सु तत्र वर्त
मानं मूर्तत्वं अनित्यतां साधयेत्, अन्यथात्वाश्रयासिद्धतामुपेयात् ।
सिध्यन्त एव च सावयवकार्यानुमानमार्गेण, लोष्टप्रविभंगावभासमान
भागपरम्परापरिकल्पनक्रमेण वा परमाणवो निरवयवाः सिद्ध्यन्ति ।
सावयवत्वे हि तदवयवाः परमाणवो भवेयु, न ते । तेषामप्यवयवान्तर
परिकल्पनायामपि अवयवानामानन्त्याविशेषत् सर्षपस्य मेरोश्च साम्य
मापद्यते । न च तदस्ति । तदेवं निरवयवेषु परमाणुषु निसर्गसिद्ध
मनाश्रितत्वम् । अतश्च 1637आश्रयविनाशावयवविभागादिविनाशकारणा
भावात्, स्वाभाविकविनाशवादनिराकरणाच्च कथं परमाणूनित्यता
स्पृशेत् । मूर्तत्वं तु वस्तुधर्मत्वाद्भवदपि प्रमेयत्वात् न प्रयोजकम् ॥


इयांस्तु विशेषः—प्रमेयर्त्व उभयपक्षस्पर्शादनैकान्तिकं भवदप्रयो
जकम् । इदं तु मूर्तत्वं अनित्यव्यतिरिक्तस्त्वन्तरपरिचयविरहितमपि न
प्रयोजकमिति ॥


मूर्तत्वहेतोरनैकान्कित्वाक्षेपः


ननु ! इदमपि प्रमेयत्ववत् विपक्षवृत्त्येव मूर्तत्वम् । क्व विपक्षे
वर्तते ?—परमाणुष्वेव । ननु तेषां पक्षीकृतत्वात् कथं विपक्षता—न
षेच्छानुरोधेन वस्तु विपरिवर्तते । विपक्षो हि नाम स उच्यते, यः
सिषाधयिषितधर्मविपरीतधर्माध्यासितया दृढप्रमाणसिद्धः । पर
माणवश्चैतेऽनन्तरनिर्दिष्टनीतिक्रमेण निर्णीतनित्यत्वाः परमार्थतो विपक्षा
II.627 एवानित्यत्ववादिनः । स तु रागद्वेषकलुषितहृदयतया यदि तावत् पक्ष
तया ब्रवीति, ब्रवीतु नाम । न तु सुस्पष्टासिद्धनित्यतानां विपक्षभावो
निवर्तत इति ॥


तस्यानैकान्तिकत्वासंभवः


तदिदमनुपपन्नम्—अनेन क्रमेण धूमानुमानस्याप्यनैकान्तिकत्वप्रस
ङ्गात् । धूमो हि महीभृति हुतवहविरहितवपुषि विपक्षे वर्तत एव । न
तत्र चित्रभानोरभावो निश्चित इति चेत्—किन्नु खलु सद्भावोऽस्य तत्र
गृहीतः, तथा सति वा कृतमनुमानेन ॥


अथ सत्त्वमसत्त्वं वा नावधारितमेव धराधरे, धूमकेतोस्तर्हि सन्दि
ग्धा तत्र विपक्षता । निश्चितविपक्षवृत्तिवत् संशयितविपक्षवृत्तिरपि नानै
कान्तिकतामतिवर्तत इति सर्वानुमानानामेव निवापांजलिर्दत्तः स्यात् ॥


पक्षस्यापि सपक्षविपक्षत्वाक्षेपपरिहारौ


न च वादिहृदयपरिकल्पनोपारूढस्थितिरपि पक्षो नाम नास्ति ।
तदभावे किमपेक्षः सपक्षविपक्षव्यवहारः । बुद्ध्यारूढत्वपक्षेऽपि न सपक्ष
विपक्षयोः पक्षत्वम् । न च वस्तूनामुभयात्मकता भवेत् । किन्तु
कंचिकालमत्यतरासिद्धिवत् विमतिपथापतितस्य वस्तुनः—पक्षत्वमुपेयते ।
निर्णयजन्मा तु विमतिविरतौ नूनमन्यतरवर्गपतितोऽसौ भविष्यतीति
सर्वथा न तस्यां दशायां तेनानैकान्तिकत्वोद्भावनं युक्तम् ॥


पक्षे साध्यसिद्ध्यसंभवाक्षेपपरिहारौ


ननु ! अनेन पथा पृथक्कृते सपक्षविपक्षाभ्यां पक्षेन तत्रान्वयव्यति
रेकयोः अन्यतरस्यापि ग्रहणं भवेत् । सपक्षे ह्यन्वयो गृह्यते, विपक्षे च
II.628 व्यतिरेकः । एष तु ताभ्यामर्थान्तरमिति तत्रागृहीतान्वयव्यतिरेकात्म
नियमे हेतुः षण्ढ इव सुतजन्मनि न समर्थ एव साध्योपस्थापने
भवेत् ॥


अलमनया डिम्भबिभीषिकया । न हि सकलसपक्षविपक्षसाक्षा
त्करणकारणकेकोल्लेखपुरस्सरं व्यप्तिग्रहणमिति पूर्वमेव निर्णोतोऽयमर्थः ।
न चतद्वर्जमिति व्याप्तिग्रहणं भवति, येन षण्ढसुतसाम्यचोदनावकाशः
स्यात् । सामान्येन हि व्याप्तिर्गृह्यमाणा तत्रापि गृहीता भवत्येव । तेनापि
च कालान्तरे सपक्षविपक्षान्यतरवर्गानुप्रवेशिना भवितव्यमेव । विमत्यव
स्थायां तु पृथगेव ताभ्यामसाविति न तत्र वर्तमानो हेतुरनैकान्तिको
भवति ॥


एतेन ईश्वराद्यनुमानानामप्यनैकान्तिकत्वमपाकृतं वेदितव्यम्
तस्मान्नानैकान्तिकत्वेनागमकं मूर्तत्वम्, अपि त्वन्यथासिद्धत्वेनैवेति ॥


उक्तहेतोर्बाधितत्वमपि न


ननु ! एवमपि परमाणुप्रसाधनानुमानमहिमहतशक्तितया मूर्तत्व
मनित्यत्वसिद्धावक्षमं जातमिति1638 ततश्च कालात्ययापदिष्टत्वात् नान्यथा
सिद्धतामधिगच्छेत्—नैतदेवम्—कालात्ययापदिष्टो हि प्रत्यक्षागमा
पहृतविषय उच्यते, अनुष्णः कृष्णदर्त्मा मदिरा द्विजैः पातव्या इत्यादौ ।
दर्शितः यत्पुनरनुनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः सः न्याभा-1-1-1
इति । न च परमाणुषु परमाणुतयैव सततपरोक्षेषु प्रत्यक्षमनित्यता
विपर्ययग्राहि प्रवर्तितुं शक्तम् । आगमस्तु नास्त्येवेति कुतः कालात्यया
पदिष्टता ॥


II.629

अनुमानेनानुमानबाधाक्षेपः


ननु ! किमिदमनिपतिवचनम्, उत वैदिकी चोदना, यत् प्रत्यक्षा
गमयोरेव बाधकत्वम् अनुमानं प्रति, नानुमानान्तरस्येति । परमाणु
प्रसाधनानुमानं हि दृढं, अदृढस्य तदनित्यतानुमानस्य मूर्तत्वादेर्यदि बाधकं
स्यात् को दोषः स्यादिति ॥


अथ मनुषे—नियम एवैषः, प्रत्यक्षानुमानयोर्विरोधे प्रत्यक्षमेव बलीय
इति तदेवानुमानस्य बाधकमुचितम्, नानुमानान्तरमिति—तदसत्—अलात
चक्रादौ प्रत्यक्षमप्यनुमानेनानन्यथासिद्धेन बाध्यत एव ॥


अनुमानेन प्रत्यक्षस्यापि बाधः


ननु ! भ्रमणविरतौ परिमितपरिमाणोल्मुकग्राहि प्रत्यक्षमेव तत्र
प्रत्यक्षस्य बाधकम्, नानुमानमिति—नैवम्—अनवरतपरिभ्रमणसमुद्भूत
चक्रावभाससमय एव अनुमानेन तत्र भ्रान्ततानिश्चयात् ॥


पूर्वप्रवृत्तं अचक्राकारतदलातपरिछेदि प्रत्यक्षं बाधकमिति चेत्—न—
पूर्वप्रवृत्तत्वेनैवातिक्रान्तत्वात्1639 । तस्मादनुमानमेव चक्रज्ञानबाधकम् ।
एवंच अनन्यथासिद्धमनुमानमपि प्रत्यक्षस्य बाधकं भवति ॥


यच्चानन्यथासिद्धतया मूलस्तम्भभूतमखिलानुमानप्रतिष्ठायतनं प्रत्यक्ष
मपि बाधते, तत् अनुमानस्य तपस्विनः कथं न बाधकम् ? अतश्च
प्रत्यक्षागमग्रहणस्योपलक्षणार्थत्वात् अनुमानबाधितमपि कालात्ययापदि
ष्टमेवेति ॥


II.630

अनुमानेनानुमानबाधासंभवसिद्धान्तः


तदेतदसमीचीनम्—अनुमानादेर्बाध्यबाधकभावानुपपत्तेः । सर्वत्र
खलु प्रमाण भासरूपं बाध्यते, न तु प्रमाणं नाम शक्यते बाधितुम् ।
अलातचक्रादावपि प्रत्यक्षाभासस्य बाधकमनुमानं, न प्रत्यक्षस्य । एव
मत्रापि अनुमानाभासस्य बाध्यता, नानुमानस्य ॥


तदिदानीमनुमानाभासत्वमस्य किंकृतमिति चिन्त्यताम् । स्वल
क्षणवैधुर्यादिति चेत्, किमनुमानांतरेण बाधकेन । तद्वाध्यतया तु तदा
भासत्वकथनमितरस्यापि तादृशमेव । परमाणुप्रसाधनानुमानमनन्यथा
सिद्धम् । इदं तु मूर्तत्वमन्यथासिद्धमिति चेत्, आगतोऽसि मदीयं पन्था
नम् । अन्यथासिद्धत्वादेव तदप्रामाण्ये सिद्धे किं तद्बाधया ॥


अन्यथासिद्धत्वमेव कथमिति चेत्—न घटादौ मूर्तत्वप्रयुक्तमनि
त्यत्वम्, अपि तु कार्यत्वप्रयुक्तम् । कार्यस्य हि कारणविभागाद्वा,
तद्विनाशाद्वा विनाशोपपत्तेः कार्यत्वमेवानित्यत्वप्रयोजर्क युक्तम्, न
मूर्तत्वम् । मूर्तत्पे त्वनित्यताक्षेपिणि परमाणुतैव हीयेतेत्युक्तम् ।
तस्मान्न मूर्तत्वमनित्यतायां कारकं ज्ञापकं वेति भवत्यन्यथासिद्धम् ॥


अप्रयोजकस्यासिद्धावन्तर्भावहेतुः


भवत्वेवम्; असिद्धवर्गे तु कथमेष हेतुर्गण्यते ? 1640साध्यधर्मयुक्ता
धर्मिणि वृत्तिरस्य नास्तीति चेत्—यद्येवं पंचानामपि तत्प्रयुक्तवृत्तिरहित
त्वात् असिद्ध एवैको हेत्वाभासः स्यात् ॥


अथ सत्यपि प्रयोजकत्वे विपक्षवृत्त्याद्यवांतररूपभेदनिबन्धनानैका
न्तित्वादिव्यपदेशपंचकभाज इमे हेत्वाभासा इष्यन्ते; हन्त तर्हि प्रकृ
II.631 तोऽयं हेतुः मूर्तत्वात् इति किमनैकान्तिक उच्यताम्, अथ कालात्यया
पदिष्टः,—आहोस्विद्विरुद्धः, उत प्रकरणसमः ? इति । नैषामन्यत
मोऽपि वक्तुं शक्यते, एतल्लक्षणानुपपत्तेरिनि चेत्; काममसिद्धोऽपि मा
वादि, पक्षे वर्तमानत्वेन तल्लक्षणस्याप्यनुपपत्तेरिति ॥


अप्रयोजकस्यातिरिक्तत्वमेवास्तु


अस्तु तर्हि षष्ठ एवायं हेत्वाभासः । सम्यग्घेतुतां तावद्यथोक्तनयेन
नाश्नुत एव । न चैतेष्वन्तर्भवति इति बलात् षष्ठ एवावतिष्ठते । कथं
विभागसूत्रमिति चेत्, अतिक्रमिष्याम इदं सूत्रम् । तिक्रामन्तः—
सुस्पष्टदृष्टमपीमं अप्रयोजकं हेत्वाभासमपह्नुवीमहि ? न चैवं युक्तम् ।
अतो वरं सूत्रातिक्रमः, न वस्त्वतिक्रम इति ॥


अथ वा न सूत्रकारनियमोल्लङ्घनं श्रेयः । प्रमाद्यन् खलु परिमित
दर्शी मादृशः अन्यथा ब्रूयात् । न न्यायमहोदधेः पारदृश्वा भगवान
क्षपादः । तदेनं हेत्वाभासं असिद्धवर्ग एव निक्षिपामः ॥


अप्रयोजकस्यासिद्धत्वमेव


ननु ! पक्षे वर्तमानः कथं तत्र निक्षेप्तुं शक्यते ? यथा साध्यधर्म
प्रयोजकतया पक्षेऽपि वर्तितुं युक्तम्, 1641तथा न वर्तत एवायं तत्रेत्यदूर
विप्रकर्षेण भवत्येवायमसिद्धः । अत एवायमन्यथासिद्ध इत्युच्यते । यथा
ऽसिद्धः सिद्धो भवति, तथा न सिद्धः; अन्यथा तु सिद्ध इत्यनया
नीत्योत्तानवृत्तिमात्रलाभेऽप्ययमसिद्धः । एवं अन्येषु तु हेत्वाभासेषु
भङ्ग्यापि नान्तर्भवतीत्युक्तमेतत् ॥


II.632

अप्रयोजकत्वं सर्वानुगतं वा


अथवा सर्वहेत्वाभासानुवृत्तमिदं अन्यथासिद्धत्वं नाम रूपमिति न
न षठोऽयं हेत्वाभासः । तत्तु क्वचित् केवलमेव दृश्यते । क्वचिदव्यभि
चारादिरुपान्तरसहचारितम् । अतश्च व्यभिचारादिरूपापेक्षमेव पंचत्व
सुपदिष्टवान् मुनिरिति न विभागसूत्रविरोधैत्यलमतिविस्तरेण ॥


युक्तस्तस्मादन्यथासिद्धनामा

हेत्वाभासः सोऽयमेकप्रकारः ।

यस्योत्ताना1642 विद्यमानाऽपि पक्षे

वृत्तिर्न स्यात्साध्यधर्मप्रयुक्ता ॥

हेत्वाभासकुदुम्बकस्य तदिदं सर्वस्य साधारणं

रूपं यद्यपि लक्षणान्तरकृतः भेदस्तथा नान्यतः ।

सामान्यं तु विशेषरूपरहितं नास्ति प्रमाणं यथा

मा भूदत्र तथेति नास्य विषयश्चोद्यस्य वस्तुस्थितिः ॥

—इति असिद्धपरीक्षा—


बाधितलक्षणम्


कालात्ययापदिष्टः कालातीतः ॥ १-२-९ ॥


यथाप्राप्तं हेतुप्रयोगकालमतीत्य यो हेतुरपदिश्यते, स कालात्यया
पदिष्टः—कालातीत उच्यते ॥


II.633

व्याख्यान्तरम्


तत्र केचिदाचक्षते । प्रतिज्ञानन्तरं हि हेतुः प्रयोक्तुं युक्तः । तत्र
यः प्रतिज्ञायाः पूर्वमेव, दृष्टान्तवचनादेरप्यूर्ध्वं वा प्रयुज्यते स कालात्यया
पदिष्ट इति—तदनुपपन्नम्—


क्षतप्रतिबन्धस्य साध्यावगतिकारिणः ।

क्रमातिक्रममात्रेण न हेत्वाभासता भवेत् ॥

कियांश्चैषदोषः, पदान्तरव्यवहितोच्चारणं नाम । व्यवहितमपि
येन सह समुचितसमयमन्वेतुधिकृतं इतरदतिनिकटपठितमपि पराणुद्य
दवीयसाऽपि तेनैव संबन्धमनुभवति । यथा—


1643अथसा पथि गच्छन्तीं औषधीं दीर्घलोचनाम् ।

दृष्टसि ? केदारे यो लुनासि मम प्रियाम् इति ॥

अपि च तकालमेतत् कथितं पृथगेव निग्रहस्थानम् । तच्चे
पुनरुच्यमानं न त्वार्थमावहति तस्मादपव्याख्यानमेतत् ॥


व्याख्यानान्तरम्


अपर आह—शेषणस्य हेतोः प्रयुज्यमानस्य यस्य विशेषणं कार्य
कालमत्येति, न तमवतिष्ठते, स कालात्ययापदिष्ट इति । यथा
कालान्तरस्थायी ः, संयोगव्यङ्ग्यत्वात्, रूपवत् इति । अत्र न
व्यङ्ग्यत्वमात्रं विवक्षितम्, अपि तु सविशेषणं संयोगव्यङ्य
त्वम् । स चा व्यंजकः, दृष्टान्तधर्मिणि रूपे तदवगतिपर्यन्त
II.634 स्थितिरुपलभ्यते दीपादिसंयोगः । साध्यधर्मिणि तु शब्दे न तथाऽवस्थान
मिति दूरतो हि दारुपरशुसंयोगविच्छिन्ने छेत्रा पुनरुद्यम्यमाने परश्वथे
श्रूयते शब्दः इति तदुपलब्धिकाले तदत्ययात् कालात्ययापदिष्टोऽयं हेतु
रिति ॥


व्याख्यानान्तरनिरासः, स्वपक्षश्च


एतदपि न सङ्गतम्—असिद्धत्वेनास्य हेत्वाभासान्तरत्वानुपपत्तेः ।
तस्मादयमर्थ—हेतोः प्रयोगकालः प्रत्यक्षागमानुपहतपक्षपरिग्रहसमय एव ।
तमतीत्य प्रयुज्यमानः—प्रत्वक्षागमबाधिते विषये वर्तमानः कालात्यया
पदिष्टो भवति । तस्योदाहरणं पूर्वमेव प्रदर्शितम् ॥


उष्णो न तेजोऽवयवी कृतकत्वाद्घटादिवत् ।

ब्राह्मणेन सुरा पेया द्रव्यत्वात् क्षीरनीरवत् ॥

यच्च किंचिदभिधेयवत्र तत्

सर्वमुक्तमनुमानलक्षणे ।

अप्रयोजकनिरूपणे पुनः

किंचनोदितमतो विरम्यते ॥

हेत्वाभासपरीक्षोपसंहारः


हेत्वाभासास्त एतेऽवगतिनियमितानन्यसंकीर्णरूपाः

निर्णीताः पंचयेऽर्थे विदधति महतीं शुद्धिमभ्यस्यमानाः ।

पक्षादौ वृत्तिभेदाकलनगुरुतरक्लेशनिष्पाद्यमानैः

तैन यत्ता दीया क्वचन फलवती नादतास्तेन तद्ज्ञैः ॥

—इति हेत्वाभासाः—


II.635

छलपरोक्षा


तत्त्वाध्यवसायसंरक्षणं जल्पवितण्डयोः प्रयोजनमुक्तम् । तदङ्ग
भूतानि छलजातिनिग्रहस्थानानि । यद्यपि च वादे केषांचदभ्यनुज्ञान
मस्ति । तथापि जल्पवितण्डे एव तेषां प्राचुर्येण क्षेत्रमिति तदौपयिकतया
तत्स्वरूपनिरूपणं युक्तमित्युद्देशक्रमेण छलस्य तावल्लक्षणमाह—


वचनविघातोऽर्थविकल्पोपपत्त्या च्छलम् ॥ १-२-१० ॥


छलस्य भेदवत्त्वात् सामान्यलक्षणं, विभागः, विशेषलक्षणानि च
वक्तव्यानि । तानीह सर्वाणि स्वकण्ठेन किल तत्पूर्वकमनुमानम् इत्यत्र
त्रिचतुराक्षरसमर्पितापरिमितविषयविततानुमानलक्षणलब्धनिरति शय
सूत्रकरणकौशल्यस्य मे किमधुना शिष्यजनमनःक्लेशकारिणा संक्षिप्ता
भिधानदोहदेनेति मन्यमानः सूत्रकृदुक्तवान्1644


छलसूत्रव्याख्यानम्


तत्र वचनविघातः इति सूत्रं सामान्यलक्षणप्रतिपादकम् । परस्य
वदतः वचनविघातः—अभिधाननिरोधः छलम् । किमास्यपिधानादिना ?
नेत्याह—अर्थविकल्पोपपत्त्येति । वक्तुः अनभिप्रेतमर्थात्तदुक्ते वचसि
समारोप्य तन्निषेधं छलवादी करोति । कथमर्थान्तरारोपणमिति चेत्—
अर्थविकल्पोपत्त्या । विकल्पमानार्थघटनयेत्यर्थः ॥


निर्विशेषं न सामान्यम्


किमुदाहरणम् ? विशेषलक्षणेषु वक्ष्यामः । इहैव कस्मान्नोच्यते ?
असंभवादिति ब्रूमः । न हि निर्विशेषं सामान्यमुपपद्यत इति । तदुदा
ह्रियमाणं बलाद्विशेषनिष्ठमेवावतिष्ठते ॥


II.636

अन्येष्वपि गौर्न पदा स्प्रष्टव्या इति सामान्योपदेशेषु नामूर्तायां
आकाशनिर्विशेषवपुषि जातौ स्पर्शप्रसक्तिः, तन्निषेधो वाऽवकल्पते ।
किन्तु व्यक्तिष्वेवेति विशेषविषय एव सर्वत्र क्रियायोग इति तत्रैवोदा
हरणवर्णनं युक्तम् ॥


विशेषस्यैव सामान्यदृष्टान्ततापि


कथं तर्हि सकलहेत्वाभाससार्थसामान्यलक्षणम्, अप्रयोजकत्वम् अन
पेक्षितसव्यभिचारविरुद्धादिविशेषमप्युदाहरणद्वारेण दर्शितम्—अनित्याः
परमाणवः, मूर्तत्वात्, घटवत्
इति—उच्यते—प्रमाणे तर्हि प्रत्यक्षादि
विशेषनिरपेक्षं प्रमाणसामान्यं नोदाहृतम्1645 ? ननु ! अयमपरो दोषो
ऽस्तु । तदप्ययुक्तमेवानुष्ठितम् । किमिति नोदाहृतम् अनपेक्षितप्रत्यक्षा
दिविशेषं प्रमाणसामान्यम्—अत्रोच्यते—न शक्यमुदाहर्तुम्, असंभवादिति
तन्नोदाहृतम्; न पुनरालस्यात् प्रमादाद्वा । हेत्वाभाससमूहत्वाधारण
रूपं त्वप्रयोजकत्वं तथा संभवादुदाहृतम् । न च तत्सामान्यात् अत्रापि
तथाऽस्त्विति वक्तव्यम् । न हि चाक्षुषेण पंचाशद्भवितुमर्हति । तस्मा
नैवं वक्तुं शक्यम् ॥


सर्वत्र नैको न्यायः संभवति


यथा विरुद्धादिविशेषरूपहितमप्रयोजकत्वं हेत्वाभासेषु सामान्य
रूपं दृश्यते, तथा प्रमाणेष्वपि प्रत्यक्षादिविशेषरूपरहितं तद्दृश्यताम् ।
यथा वा प्रमाणेषु तन्न दृश्यते, तथा हेत्वाभासेष्वपि मा दर्शीति वस्तु
स्वभावानामनुयोगक्षेत्रताऽनुपपत्तेः ॥


II.637

अपि च अप्रयोजकत्वं सामान्यं विरुद्धादिविशेषेष्विव तद्रूपरहितेषु
तद्विशेषेष्वपि संभवद्दृश्यते । अत एव तदपि स्वविशेषनिष्ठमेवोदाहृतं—
अनित्याः परमाणवः, मूर्तत्वात् इति । न चाकाशवदनालम्बनमेव
किंचिदप्रयोजकत्वसामान्यमिति । तस्मात् सुष्ठूक्तं—न सामान्यलक्षणे
शक्यमुदाहर्तुम्
इति ॥


छलविभागः


एवं सामान्यलक्षणमभिधाय छलस्य विभागमाह—


तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च—
॥ १-२-११ ॥


1646निगदव्याख्यातं सूत्रम् । विभागसामान्यलक्षणयोश्च उपदेशपौर्वा
पर्यनियमो नास्तीति पूर्वमेवोक्तम् ॥


वाक्च्छललक्षणम्


अथ विभागक्रमेण लक्षणान्याह । तत्र—


अविशेषाभिहितेऽर्थे वक्तुरभिप्राथादर्थान्तरकल्पना वाक्छलम्
॥ १-२-१२ ॥


संभवद्विशेषेऽप्यविशेषसाधारणार्थसमर्पणकौशलशालिनि श्लेषा
लङ्कारवति शब्दे प्रयुक्ते सति, वक्तुरभिप्रेतमर्थमपह्नुत्य ततोऽर्थान्तरं
परिकल्प्य, तन्निषेधवचनम्, वाचि निमित्तभूतायां छलं वाक्छलम् ॥


II.638

नवकम्बलोऽयं माणवकः इति नवः कम्बलोऽस्य नव कम्बला
अस्य
इति विग्रह शादृश्यमानविशेषमपि समासपदमिदं अर्थद्वयेऽप्यवि
शिष्टम् । तत्र अभिनवकम्बलयोगं वक्तुरभिप्रेतं प्रमाणोपपन्नं च निह्नुत्य
नवसंख्यासंबन्धमध्यारोप्य तत्प्रतिषेधेन परः प्रत्यवतिष्ठते—कुतोऽस्य
नवकम्बलाः ?
इति । तदेतत् साधारणशब्दे वाचि छलं वाक्छलमिति ॥


वाक्छलप्रतिसमाधानम्


यथा च कस्यांचिदवस्थायां जल्पादौ छलादिप्रयोगो युक्त इति
तद्व्युत्पादनम्, एवं परप्रयुक्तस्यापि सतः छलादेः प्रतिसमाधानमभि
धेयमिति तदपि व्युत्पाद्यते । नव कम्बला अस्येति मम विवक्षितमिति
कुतः प्रतिपन्नमायुष्मता ? किमयमभिनवकम्बलयोगप्रतिपादको न भव
त्येव बहुव्रीहिः । पक्षद्वयेऽपि च संभवति । यदि तावदर्थप्रकरणादि
सामर्थ्यपर्यालोचनावसितनियताभिधेयवृत्तिशब्दव्यवहाराभिज्ञोऽसि, तद
र्थसिद्धमर्थमभिनवकम्बलसम्बन्धमेव बुद्ध्वा तूष्णीमास्व । अथ शुष्क
तार्किककुटुम्बकगर्भदास इव शब्दवृत्तानभिज्ञ एव त्वम्, तर्हि पक्षद्वयसंभ
वेन संशयानो मामेव पृच्छ किं ते विवक्षितम् इति । 1647निषेधकस्सन्
वक्तुमुपक्रमसे ॥


अर्थद्वयसाधारणपदप्रयोगो न दोषाय


ननु ! त्वमप्यर्थप्रात्प्यादिफलपर्यन्तशब्दप्रयोगप्रवृत्तः किमिति
साधारणमिदमन्धपदप्रायं वचः प्रयुङ्क्षे ? अयि बालिश ! तवैवेहे
दमन्धपदम् ॥


II.639
अर्थप्रकरणाधीननियतस्वार्थवृत्तिताम् ।

यो न जनाति शब्दानां स एवमपभाषते ॥

इदमर्थद्वये तावत् साधारणपदं भवेत् ।

जातिशब्दाः पुनर्व्यक्तिसहस्राक्षेपकारिणः ॥

स्पृशन्ति नियतं वाच्यं तेऽपि प्रकरणादिना ।

ब्राह्मणान् भोजयेत्यादौ तद्वालेन न शिक्षितम् ? ॥

तस्माच्छब्दार्थसन्देहे प्रयोक्ता वा स पृच्छ्यते ।

न त्वर्थान्तरमारोप्य तन्निषेधो विधीयते ॥

सामान्यच्छललक्षणम्


संभवतोऽर्थस्यातिसामान्ययोगादसद्भूतार्थकल्पना
सामान्यच्छलम् ॥ १-३-१३ ॥


अनिव्यापकं सामान्यम्—अतिसामान्यम् । तद्योगात्—तत्संभवात्
क्वचिद्व्यक्तार्थस्य कस्य चित्संभवतः संभाव्यमाननिष्पत्तेः वक्त्राऽभिहि
तस्य सतः या असद्भूतार्थकल्पना—वक्तुरनभिप्रेतातिसामान्यहेतुत्वकल्पना
तया च प्रत्यवस्थानं तत्सामान्यनिमित्तं छलं सामान्यच्छलम् ॥


यथा—क्वचिदुचितोपचारवचनाराध्यमानप्रगुणब्राह्मणकुले तत्कथा
बहुले राजकुले कश्चित्सुजन्मा कंचिदग्रजन्मानं स्तौति—अहो नु खल्वसौ
ब्राह्मणः विद्या 1648चरणसंपन्नः
इति । तस्मिन् प्रसङ्गे तथाविध एवा
परः तमुत्साहयन् कथयति—संभवति ब्राह्मणे विद्याचरणसंपत् इति ।
II.640 तत्र पिशुनश्छलवाद्याह—यदि ब्राह्मणे विद्यावचरणसंपत् संभवति, तर्हि
ब्रात्येऽपि ब्राह्मणत्वजात्यनपायात् सा भवेत्
इति ॥


तत्रेदमतिव्यापकं ब्राह्मणत्वसामान्यं यतो विद्याचरणसंपदमत्येति,
स्पृशति च तद्योगात् ब्राह्मणव्यक्तौ । संभवतः विद्याचरणसंपद्रूपस्यार्थस्य
वक्त्राऽभिहितस्य सतः, तत्र वक्त्रनभिमतामेवातिसामान्यहेतुतामारोप्य
च्छलवादी प्रत्यवतिष्ठत इति ॥


सामान्यच्छलप्रतिसमाधानम्


अत्रोत्तरं—केन ब्राह्मणत्वस्यात्र हेतुत्वमभिहितम्, यदनैकान्तिकी
कुर्वन् प्रत्यवस्थितोऽसि । संभावनावचनमिदं स्तुत्यर्थमुपन्यस्तम् । विद्या
चरणसंपदां पात्रं हि ब्राह्मणः । सति ब्राह्मणत्वे1649 पूर्वजन्मोपचितसुकृत
परिणामात् भवति विद्याचरणसंपत् । न च तदेव तस्या हेतुरिति ॥
यथा 'संभवन्त्यस्मिन् क्षेत्रे शालयः इति क्षेत्रप्रशंसापरे वाक्ये प्रयुक्ते, नैवं
वक्तुमापद्यते यदि क्षेत्रमेव शालिसंभवहेतुः, तर्हि विनाऽपि हलबलीवर्दा
दिसामग्रीं महत्यवग्रहेऽपि शालयोऽस्मिन् भवेयुः
इति । तदिदमर्थ
वादगत्यनभिज्ञस्य भवतः भाषितमित्यास्तामेतत् । इदं तु भवन्तं पृच्छामि
भो महात्मन् !


1650स्वभावशुद्धा परिनिश्चितार्थ—

संस्पर्शिनी पुण्यसहस्रलभ्या ।

केनेदृशी सर्वजनानुकूला

कल्याणिनी ते निरमायि वाणी ॥

II.641

उपचारच्छललक्षणम्


धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेधः उपचारच्छलम्
॥ १-२-१४ ॥


1651अभिधानस्य धर्मः अनेकप्रकारः । मुख्यया वृत्त्या, गौण्या वा,
लाक्षणिकया वा यत् अर्थे प्रत्यायनं, तदनेन विकल्पमानेन धर्मेण गौणेन,
लाक्षणिकेन वा निर्देशे—प्रयोगे कृते, यः अर्थसद्भावप्रतिषेधः—मुख्यार्थ
निषेधः, स उपचारनिमित्तं छलं उपाचारच्छलम् ॥


यथा मंचाः क्रोशन्ति इत्युक्ते, छलवाद्याह—कथमचेतनाः काष्ठ
रचनात्मानः मंचाः क्रोशन्ति ? मंचस्थाः पुरुषा एते क्रोशन्ति, न मंचाः

इति ॥


उपचारच्छलप्रतिसमाधातम् ॥


अत्र समाधिः—वृद्धव्यवहाराच्छब्दार्थव्युत्पत्तिः । तत्र न केवल
यैव मुख्यया वृत्त्या शब्दाः प्रवर्तवानाः दृश्यन्ते, वृत्त्यन्तरव्यवहारस्यापि
सुप्रसिद्धत्वात् । न च निर्निमित्तमेव परशब्दं परत्र प्रयुक्तवन्तो वयम्,
1652सहचारणादिसूत्रनिवेदितनिमित्तनिकुरुम्बान्यतमनिमित्तपूर्वकत्वात् अस्य
प्रयोगस्य । स्थानादयं तद्वदुपचारः । स त्वं गौणलाक्षणिकादिशब्दप्रयोगा
वगतिबाह्य एव, य एवं प्रत्यवतिष्ठते ॥


II.642

गौणलक्षिणकयोर्भेदः


गौणलाक्षिणकयोः कथं विशेषः ? इति चेत्—उच्यते—सत्यं
गौणेऽपि लक्षणा विद्यते । एवं सति गोशब्दः स्वार्थमभिधाय सास्नादि
मन्तं, तदीयान् गुणानेव जाड्यमौढ्यतिष्ठन्मूत्रणादीन् लक्षयति । न तु
तावत्येत्व विरमति । स तु सामानाधिकरण्येन वाहीकेऽपि प्रवर्तते ।
गौर्वाहीकः इत्येवं प्रयुज्यमानः स गौणो भवति ॥


यस्तु स्वार्थाभिधानानन्तरं तदितरमर्थं गुणमगुणं वा लक्षयत्येव, न
सामानाधिकरण्येन परत्र प्रयुज्यते शब्दः, स लाक्षणिको भवति गङ्गायां
घोषः प्रतिवसति
इति । तथा चोक्तं गौणे हि 1653प्रयोगः, न लक्षणा
याम्
इत्यलं शास्त्रान्तरोद्गारगहनाभिः कथाभिः ॥


मुख्यमर्थमथ लाक्षणिकं वा

गौणमप्यवगमय्य च शब्दः ।

लोकवेदविहितं व्यवहारं

सन्तनोति तदभिज्ञमतीनाम् ॥

कुर्यादाक्षेपं यश्च भाक्ते प्रयोगे

मुख्यं मत्वार्थं तत्र वक्तुर्न दोषः ।

तेन त्वात्मीयं शब्दवृत्तानभिज्ञं

रूपं व्यक्तं स्यादत्र वृद्धाः प्रमाणम् ॥

छलभेदाक्षेपपरिहारौ


एवं छलस्य विशेषलक्षणान्यभिधाय तत्परीक्षार्थमाक्षेपं करोति—


II.643

वाक्च्छलमेवोपचारच्छलं तदविशेषात् ॥ १-२-१५ ॥


न खलु वागुपचारच्छलयोः कश्चिद्विशेषः । अनेकधा शब्दार्थे संभवति
वक्त्रभिमतादर्थादन्यस्य कल्पनं, तत्प्रतिषेधनं चोभयत्रापि समानम् ।
अवान्तरविशेषकृतनानात्वाभ्युपगमे च तदानन्त्यप्रसङ्गः ॥


अत्र समाधिमाह—


न तदर्थान्तरभावात् ॥ १-२-१६ ॥


नैतदेवम्—वाक्छलमेवोपचारच्छलमिति, ततोऽर्थान्तरत्वात् । वाक्छले
हि नवकम्बलः इति नवसु कम्बलेषु, नवे च कम्बले मुख्यार्थ एव शब्दः
1654सरामः इत्यादिवत् । ततस्त्वेकतरं वक्तुरनभिप्रेतं छलवादिनाऽऽरोप्य
निषिध्यते । उपचारच्छले तु काष्ठसन्निवेशे मुख्यार्थे मंचशब्दः पुरुष
भक्त्या प्रवृत्तः । मुख्यमभिधाय च गौणः प्रत्याय्यो भवति । न त्वेष
क्रमः साधारणशब्देष्विति महान् भेदः ॥


वाक्च्छले चार्थसत्तैव निषिध्यते कुतोऽस्य नव कम्बलाः इति ।
इह तु सतो मंचस्य क्रोशनशक्तिर्निषिध्यते ॥


समाधिरपि साधारणशब्दानभिज्ञतां परस्य प्रदर्शयता वाक्छले
वाच्यः । उपचारच्छले तु गौशब्दवृत्त्यनभिज्ञतामिति महान् विशेषः ॥


छलत्रैविध्यसमर्थनम्


अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः ॥ १-२-१७ ॥


II.644

छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं भवता प्रतिषिध्यते, यतः सामान्य
च्छलं पार्श्वे कृत्वा वागुपचारच्छलयोरभेदमभिहितवानसि । यथा चायं
तदविशेषादिति त्रित्वप्रतिषेधः, तथा द्वित्वस्यापि, किंचित्साधर्म्यस्य
सामान्यच्छलेऽपि भावात् ॥


तथा हि—यदि तावद्वाचि निमित्तभूतायां इदं प्रवृत्तं छलम्, इदं चेति
तदभेदं मन्यसे, तर्हि सामान्यच्छलमपि मा पृथग्वोचः । तदपि हि न
शरीरे मनसि बुद्धौ वा प्रवृत्तम्, अपि तु वाच्येवेतिः वाक्छलमेवैक
स्यात् ॥


अथैवं सत्यपि तद्विशेषो दृश्यमानः न पराणुद्यते, सामान्यच्छलेपि न
शब्दार्थोऽन्यथाकृतः, किन्तु सामान्यस्य हेतुत्वमनुक्तमारोपितमिति पृथ
गिष्यते; तर्हि वागुपचारच्छले अपि भिद्येते एवेति दर्शितम् । अतो युक्तं
छलत्रित्वम् ॥


न चानन्त्यम्, इयत्तानियमकारिणः निमित्तत्रयस्य दर्शितत्वात् ।
अवान्तरभेदकृतं तु तदानन्त्यमिष्यते एव जातिवदित्यलं प्रसङ्गेन ॥


तस्मात् परस्परविविक्तनिजस्वरूपं

ईदृक् छलत्रितयमेतदिहोपदिष्टम् ।

तस्य क्वचित्स्वयमपि क्रियते प्रयोगः

वाच्यः परैरभिहितस्य तथा समाधिः1655

॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्या एकादशमाह्निकम् ॥

  1. सर्वथा अज्ञातत्त्वे विचाराप्रवृत्तेः ॥

  2. तत्त्वज्ञानदाढ्यार्थतर्कचिन्तनरूपः खलु सः, न तर्कः ॥

  3. तर्कप्रत्ययः—तर्करूपं ज्ञानम् ॥

  4. देशान्तरे—अरण्यादौ । निवर्तते—स्थाणुपक्षः ॥

  5. प्रत्ययान्तरं—विलक्षणप्रत्ययम् ॥

  6. तत्करणं—जन्मकारणं कृतकमिति प्रत्ययः । तर्क इतिशेषः । अत्मनः जन्मनः-शरीरसंबन्धस्य कारणं यदि नित्यं, तर्हि शरीरसंबन्धोऽपि नित्यः । यद्यनित्यः तर्ह्यनित्यः कदाचिन्निवर्तेत । अयं विचारः प्रथमसूत्रस्थः ॥

  7. वस्तुतस्तु तस्मिन् श्लोके तर्कः ऊह एव, न त्वनुमानम् । तर्कानुगृहीतः आगमः सुदृढं प्रमाणं भवतीति । तर्कः खलु प्रमाणानुग्राहकः ॥

  8. प्रतिकरणं—प्रत्यनुष्ठानम् ॥
  9. विनिगमकाभावात्—प्राप्तिः ॥
  10. ऊहः उक्तः । यागे अध्यर्युणा यजमानस्य गोत्रप्रप्रवरणामधेयानि श्रावयितव्यानि ॥

  11. उक्तत्रयेण साकं द्रव्योहः, गुणोहः इति द्वयम् ॥

  12. सिद्धान्ते धर्मस्यानुमानगम्यत्वाङ्गीकारात् ॥

  13. किन्तु, अर्थवानेव भविष्यति ॥

  14. तर्कात् पूर्वं जातस्तु न क्षोदक्षमो भवेदित्याशयः ॥

  15. अन्यथा श्रोतव्यो मन्तव्यः इति श्रवणानन्तरमननं न स्यात् ॥

  16. वादिदृष्ट्या प्रतिपक्ष इत्युच्यते । वैतण्डिकदृष्ट्या तु स्वपक्षः ॥

  17. दौर्भाग्यवशादिति शेषः ॥

  18. स्फुटाटोपः—फटाटोपः ॥

  19. वावदूकपाशः—नीचवावदूकः ॥

  20. प्रयोजनं—जयादि ॥

  21. यथा खण्डनकारस्य, शून्यवादिनो माध्यमिकस्य वा ॥

  22. श्रुतिः—शब्दः ॥

  23. पक्षसत्त्व-सपक्षसत्त्व-विपक्षासत्त्व-अवाधितत्त्व-असत्प्रतिपक्षितत्वक्रमः ॥

  24. बाधसत्प्रतिपक्षौ विना त्रयः ॥

  25. पक्षसत्त्वाद्येकैकवैकल्ये यथा एकैको हेत्वाभासः, तथा द्वयवैकल्ये अन्यः अतिरिक्तः कश्चित् षष्ठो हेत्वाभास इत्येवं त्रयादिवैकल्येऽपि अस्तु ॥

  26. दुष्टसंकरेऽपि दोषासंकर इति न्यायात् ॥

  27. तावतैव वादिनो निग्रहादिति भावः ॥

  28. पक्षद्वयं—सपक्षविपक्षौ ॥

  29. कृता—कृत्प्रत्ययेन ॥

  30. व्यतिरेकः—विपक्षावृत्तित्वम् ॥

  31. वास्तवाः—वस्तुगताः,—हेतुगताः ॥

  32. प्रतिज्ञामात्रमिति यावत् । प्रकरणसमे तु हेतुप्रयोग आवश्यकः ॥

  33. वस्तुस्वरूपदृष्ठया अन्तत्वं सिद्धं विवाक्षितमिति भावः ॥
  34. वस्तुस्वरूपदृष्ठया अन्तत्वं सिद्धं विवाक्षितमिति भावः ॥
  35. हेतुबलाद्धि पुरुषेणाभ्यपगमः इत्यनुपदमेवोक्तम् ॥

  36. विशेषविरुद्धाः—अनुपदं प्रदर्श्यन्ते ॥

  37. कंचन विशेषम्—इत्यन्वयः ॥

  38. धर्म—साध्यः । धर्मी—पक्षः ॥

  39. द्वितीयस्य शब्दः । गुणः, चाक्षुषत्वादित्यादि ॥

  40. व्यभिचारी तु न सपक्षान्नियमेन व्यावृत्तः । साधारणः खलु सः । एवं च विरुद्धप्रयोगे अज्ञानातिशयः सूच्यते ॥

  41. नित्यत्वप्रतिषेधे हि विकार आवश्यकः । अतः परस्परविरुद्धं तत् ॥

  42. भाष्यं तु एतद्विषये तटस्थमिति भावः ॥

  43. उभयोस्तुल्यबलत्वात् । अन्यतरस्याधिकबलत्वे तु, यत्प्रयुक्ता तस्याधिकबलताः तेनैवानुमानबाधो युक्तः ॥

  44. नन्वेवं सद्धेतावपि सप्रतिपक्षप्रसङ्ग इति चेत्—सत्यम्—तत्र भ्रममूलकत्वोद्भा वनेनैव वादिनो जयः ॥
  45. तदा हि हेत्वाभासानामैक्यमपि स्यात्, विजयरूपैककार्यकारित्वात् ॥

  46. नित्यधर्मानुपलब्ध्यनित्यधर्मानुपलब्ध्योरित्यर्थः ॥

  47. उभयानुगतं खल्वन्यतरत्वम्, न प्रत्येकमात्रस्वरूपम् ॥

  48. अस्य शब्दानाम् इत्यादिः ॥

  49. सर्वज्ञे सत्त्वं साध्यम् । घटादीनामिव सर्वज्ञास्यापि सत्वमावश्यकम्, स्वभिन्नस्वविलक्षणविलक्षणत्वादिति हेतुः ॥

  50. जल्पे—इति वितण्डाया अप्युपलक्षकम् ॥

  51. न संभवति—इत्यन्वयः ॥

  52. यदि अत्र धूमोपलब्धेः इत्येवात्र हेतुः, तदा चोपलब्धिविषयधूमस्य सामानाधिकरण्यं संभवति ॥

  53. सर्वगतद्रव्यं—आकाशादि अमूर्तमुच्यते ॥

  54. सावयवत्वमेवानित्य प्रयोजकम् ।

  55. अश्रयनाशान्नाशः रूपादीताम् । स्वाभाविकविनाश वादः बौद्धानाम् ॥

  56. धर्मिग्राहकप्रमाणबाधितत्वादनित्यत्वस्य ॥

  57. स्मृतेस्तु प्रामाणकोटावपरिगणितत्वान्न बाधकत्वसंभवः ॥

  58. मूर्तत्वसत्वेऽपि अनित्यत्वव्याप्यमूर्तत्वव्य परमाणावभावात् ॥

  59. साध्यसाधनसमर्थत्वं हि हेतुस्वरूपम् । तस्यासिद्धिः ॥

  60. उत्ताना वृत्तिः—इत्यन्वयः ॥

  61. यः केदा लुनासि—इत्यन्वयः ॥

  62. विस्तरेणेति शेषः ॥

  63. स न्यायः अत्रापि भवत्वित्याशयः । तत्राप्याक्षिपति नन्विति ॥ प्रमाणलक्षणेऽप्ययमस्तु दोष इत्यर्थः ॥

  64. निगदः—स्पष्टवचनम् । तेनैव व्याख्यातम् । स्पष्टार्थकमिति यावत् ॥

  65. मामपृष्ट्वेत्यादिः ॥

  66. चरणम्, आचरणमिति वा पदम् । आचार इत्यर्थः ॥

  67. गुणदोपयोरुभयोरपि वंशः सहकारीति उत्सर्गसिद्धमिदम् । कदाचित् ब्राह्मणपदं केवलव्यक्तिवाच्यपि ॥

  68. स्वभावेत्यादि—परिहासवचनम् ॥

  69. अभिधानं—शब्दव्यापारः ॥

  70. सहचरणस्थानतादर्थ्य—न्या. सू. 2-2-64 इत्यादिसूत्रपठितानि उपचार निमित्तानि । प्रकृते स्थानं निमित्तम् ॥

  71. समानाधिकरणेत्यादिः । इदं वाक्यं प्राभाकरस्येति चक्रधरः ॥

  72. सः समः इति, समेण, रामया सह वा वर्तत इत्यर्थभेदास्संभवन्ति । परन्तु सर्वेऽपि मुख्याः ॥

  73. वादिनोः परस्परं स्फूर्तिप्रतिभादिपरीक्षणाय, सदस्यानां स्वचातुर्यप्रदर्शनेना, वर्जनाय वा छलस्य प्रयोगः ॥