II.645

द्वादशमाह्निकम्—जाति-निग्रहस्थानपरीक्षा


जातिसामान्यलक्षणम्


छलानन्तरं जातेरुद्देशात् तस्यास्सामान्यलक्षणं तावदाह—


साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥ १-२-१८ ॥


व्यख्यानान्तरम्, तन्निरासश्च


अत्र त्रैकाल्यसमादिसकलविशेषसंग्रहाय साधर्म्यवैधर्म्यादिपदनि
रपेक्षमेव प्रत्यवस्थानपदं जातिसामान्यलक्षणप्रतिपादकमाहु; ॥


प्रतीपं अवस्थानं प्रत्यवस्थानम् । तावन्मात्रमेव च यत्किंचिदुत्तरं
परप्रयुक्ते हेतौ जायमानत्वाज्जातिरित्यभिधीयते—तदनुपपन्नम्—प्रत्यवव
स्थानमात्रस्य साधर्म्यादिनिरपेक्षस्य जातित्वे हेत्वाभासोद्भावनमपि जाति
तामश्नुवीत् ॥


अथ तस्य सम्यगुत्तरत्वात् इह च निर्विशेषणप्रत्यवस्थानमात्रोपपाद
नात् फल्गुप्रायमसदुत्तरं जातित्वेन विवक्षितमित्युच्यते—तथापि छलस्य
जातित्वप्रसक्तिरपरिहार्यैव । तद्व्युदासाय तु तदन्यत्वे सति इत्यादिक
यदि किंचिदध्याह्रियते—तदमुष्य श्रूयमाणस्य साधर्म्यवैधर्म्यग्रहणस्यै
को दोषः ?


सौत्रलक्षणस्यादुष्टत्वम्


ननु ! त्रैकाल्यसमादीनामसंग्रहः किं न दोषः ? न हि त्रैकाल्य
समादिषु साधर्म्येण वैधर्म्येण वा प्रत्यवस्थानमस्तीति—नैष दोषः—
II.646 साधर्म्यवैधर्म्याभ्यामित्यसमासकरणेन1656 दिक्प्रदर्शनस्य सूचनात् । साध
र्म्येण वैधम्यैण वा, कथमेष हेतुः हेतुर्भवतीति वा, किमनेन क्रियते इति
वा यदेवंप्रकारं प्रत्यवस्थानं हेतुप्रतिबिम्बवर्त्मना क्रियते, सा जातिः
इत्युच्यमाने भविष्यति सकलविशेषसङ्ग्रहः । त्रैकाल्यसमादिष्वपि वा
यादृशस्य तादृशस्य साधर्म्यवैधर्म्यप्रकारस्यः योजयितुं शक्यत्वात् । न
ह्युदाहरणसाधर्म्यं साध्यसाधनमिह विवक्षितम्, तद्वैधर्म्यं वा; साधर्म्या
दिमात्रं तु । तत्रापि नात्यन्ताय दुरवगममिति यथाश्रुतमेव साधर्म्यवै
धर्म्याभ्यां प्रत्यवस्थानं जातिरिति सामान्यलक्षणं युक्तम् ॥


जातिविभागः, लक्षणानि च


अथ भेदवत्त्वाज्जातेः चतुर्विशतिधा विभागमाह—


साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्ति
प्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषो
पपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः ॥ ५-१-१ ॥


अत्र समा इति स्त्रियां पुंसि च तुल्यत्वान्निदर्शस्य, जात्यपेक्षया स्त्री
निर्देशो वा प्रतिषेधापेक्षया पुंन्निर्देशो वा वर्णनीयः । विशेषलक्षणसूत्रेषु पुनः
प्रायेण पुल्लिङ्गनिर्देशो दृश्यते । स तु प्रतिषेधापेक्षया तेषु व्याख्येय इति
तद्व्याख्यानावसर एव वक्ष्यामः ॥


जात्युपदेशाक्षेपः


ननु ! आस्तां तावद्विशेषलक्षणवर्णनम् । इदमेव त्वादौ चिन्त्यताम् ।
किमर्थमेवंविधमसदुत्तरजातं शास्त्रे व्युत्पाद्यते । एवंप्रकाराणां च धूलि
II.647 प्रक्षेपसदृशानां सारेतरपरीक्षणक्षमविचक्षणोपेक्षणीयानामसदुत्तराणां आन
न्त्यात् चतुर्विंशतिसंख्यापि कथमिति महान् विस्मयोऽस्माकम् ॥


तत्त्वसंरक्षणार्थमुपदेशोऽपि न घटते


यदपि च तत्त्वाध्यवसायसंरक्षणं तत्प्रयोजनमभिधीयते—तदपि न
हृदयङ्गमम्—असदुत्तरोपन्यासेन तत्त्वाध्यवसायस्य संरक्षितुमशक्य
त्वात् ॥


अथ विकटाटोपप्रकटनपाटवोपहितापरसंमोहनद्वारेण तद्रक्षणमास्थी
यते, तर्हि निष्ठीवनहसिततर्जनांसमर्दनकौपीनावरणविदारणचरणाव
स्फोटनाद्यपि व्युत्पाद्यतामिह मोक्षविद्यायाम् ॥


जात्युत्तरस्यावसराभावश्च


अपि चेदं विचार्यताम्—क्व जातिप्रयोगैः प्रत्यवस्थेयम्, सम्यक्सा
धने परेण प्रयुक्ते, तदाभासे वा ? न तावत्साधनाभासे, तस्य हि येन
निमित्तेनासिद्धत्वादिना साधनाभासत्वमुपनतं, तदेव तत्रप्रयोक्तुमुचितम्,
जातयः । तेनैव च परः पराजीयते । नापि सम्यक्साधने, तत्र प्रयुक्ता
नामपि तासामकिंचित्करत्वात् । न हि जातिप्रयोगकलुषितमपि सम्य
क्साधनमसाधनीभवितुमर्हति ॥


परपक्षे संचशयाधानमपि न फलम्


अथैकान्तपराजयाद्वरं संदेह इति ताभिरुपक्रम्यते—तत्रापि न
तथोपक्रममाणः कमिव प्रत्याययेत् ? न नीतिविदः, नीतिविदस्ताव
ज्जानन्त्येव, 'सोऽयं यथोचितमभिवदितुमपारयन् किमप्यालजालमालपितुं
प्रवृत्तः, इति । शाकटिकादिप्रत्यायनं तु प्रत्यन्तगह्वरजनपदेषु ग्राम्य
II.648 सदसि लाभादिकामस्य कस्यचित् प्रयोजनवद्भवेदपि कदाचित्, न तु
मोक्षशास्त्रे तथाविधोपदेशः पेशल इति ॥


जात्युत्तरस्य जल्पाद्यङ्गतया सार्थक्यम्


अत्राभिधीयते—समाहितमेतद्भगवता सूत्रकारेणैव तत्त्वाध्यवसाय
संरक्षणार्थं, कण्टकशाखापरिवरणवत्
इति वदता । जल्पवितण्डाङ्ग
भूतानि छलजातिनिग्रहस्थानानि । तदुक्तं छलजातिनिग्रहस्थानसाधनो
पालम्भो जल्पः
इति । भास्यकृदप्याह—छलजातिनिग्रहस्थानानां पृथ
गुपदेश उपलक्षणार्थः । उपलक्षितानां स्ववाक्ये परिवर्जनं, परवाक्ये च
पर्यनुयोगः । जातेस्तु परेण प्रयुज्यमानायाः सुवचः समाधिः, स्वयं च
सुकरः प्रयोगः
इति ॥


जात्युत्तरप्रयोगकालः


यदा हि मुमुक्षोः 1657आगमाद्वा युक्तितो वा तत्त्वज्ञानमुत्पन्नं, न चाद्यापि
भावनाभ्यासप्रसादसमासादिततद्द्रढिमातिशयः वर्तते, तस्यामवस्थायां
यदि केनचित् किमप्यनुमानप्रायमभिधाय तदाकुलीक्रियेत, तदत्ऽसौ
विदितयुक्त्यागमगौरवोऽपि सपदि तदुत्पादिते तत्त्वज्ञाने मनागसंभावना
लेशमिवाधिगच्छेत् । तस्मिन् वा दृढप्रत्ययेऽपि तत्पार्श्ववर्तिनः शिष्याः
शिथिलितास्था भवेयुः । अतो झटिति स दूषणमपश्यन् प्रतिपक्षं
जातिप्रयोगैरप्यसौ शमयेदेव, नोदासीतेत्युक्तं जल्पलक्षणे ॥


जात्युत्तरस्य तत्त्वसंरक्षकत्वम्


परोदिता वा जातीः प्रत्यभिज्ञाय तत्क्षणमेव परिहरेदिति सफ
जातिव्युत्पादनम् । यथा क्वचिदचिरव्युप्तसस्ये संप्रत्युद्भिद्यमानकोमला
II.649 ङ्कुरनिकरदन्तुरितसीमनि केदारे तदुपद्रवः द्रुततरगामिनो यतः कुतश्चन
चतुष्पदाद्द्विपादाद्वाऽभिशङ्क्यत इति तत्परिहाराय समन्ततो निरन्तर
कण्टकशाखासन्ततिपरिचरणमाधीयते, एवमिहापि जात्यादिप्रयोगतदु
द्धारद्वारकं तत्त्वाध्यवसायसंरक्षणं कर्तव्यमिति ॥


जात्युत्तरप्रयोगावकाशः


यत्तु विकल्पितं—क्व जातेः प्रयोगः, सम्यक्साधने, तदाभासेवेति—
तदुच्यते—सम्यग्दूषणमपश्यत्ता किल जात्यादि प्रयोक्तव्यम् । तच्च
सद्दूषणादर्शनं सम्यक्साधने तदभावादेव भवतु, साधनाभासे वा, प्रमादा
दिनेवेति कोऽत्र विशेषः ?


मुमुक्षोस्तु ज्ञाततत्त्वस्य तत्प्रतिकूलवादिना केन चिदाक्षिप्तस्य तत्प्र
युक्ते तत्त्वप्रतिक्षेप बलात् साधनाभासविषय एव सम्यग्दूषणमपश्यतः
जातिप्रयोगावसरः । ज्ञात्वाऽपि साधनानामाभासतां यथा तथा सत्वरमेव
निर्भर्त्स्यतामयं दुराचारः' इति पार्श्वस्थितसुकुमारमतिशिष्यजनोत्साहजन
नाय जात्याद्याडम्बरविरचमुचितमेव मुमुक्षोः । मुमुक्षुं प्रति च शास्त्रा
रम्भात् आंजस्येन तदपेक्षया साधनाभासविषय एव जातिप्रयोगः ।
अत एव च भाष्यकृता प्रथमं साधनाभासा एव जात्युदाहरणं दर्शितम् ॥


लाभादिकामानां तु सम्यक्साधनेऽपि प्रयुक्ते युक्त एव जात्याद्युप
क्रमः । इतरथा हि निस्संशय एव पराजयः स्यादित्येतच्च आनुषङ्गिकं
प्रयोजनमित्युक्तम् ॥


चपेटादिवर्जने हेतुः


यत्पुनरभिहितं—असदुत्तरकथने कथं न चपेटादिकं प्रयुज्यत इति—
तदप्यसत्—तस्यात्यन्तमलौकिकत्वात् । लोको हि तदैवं मन्येत—


II.650
नूनमेष न जानाति वक्तुं सदृशमुत्तरम् ।

अन्यथा वाचमुत्सृज्य पाणिना प्रहरेत् कथम् ॥

खेदयेद्वादिनं यस्तु हस्तपादादिचापलैः ।

स संसद्युच्यते सद्भिः भण्ड एव न पण्डितः ॥

जात्योपक्रममाणस्तु न तथैष विहस्यते ।

न हि संदूषणच्छाया तत्रात्यन्तमसङ्गता ॥

तन्न कौपीनवसनापनयादिसाम्यं जात्युत्तराणामिति ॥


जातिप्रयोगलाभः कस्य ?


यत्तु कस्तैः प्रत्याय्यत इति—तन्न—न सर्वः सर्वज्ञकल्पो भवति, न
च शाकटिकतुल्यः । सन्ति हि मध्यमदशावर्तिनः जनाः; त आराध
यिष्यन्त इत्यलं प्रसङ्गेन ॥


यत्पुनः असदुत्तराणामानन्त्यात् कथं चतुर्विशतिसंख्येति—तत्राप्यु
च्यते—सत्यप्यानन्त्ये जातीनामसंकीर्णोदाहरणविवक्षया चतुर्विंशतिप्रकार
त्वमुपवर्णितं, न तु तत्संख्यानियमः कृत इति ॥


सूत्रपदयोजनाक्रमः


तदत्र साधर्म्येण प्रत्यवस्थानं अविशिष्यमाणं स्थापनाहेतोः तत्सा
धर्म्यसमा जातिः । सा च साधर्म्यहेतौ वैधर्म्यहेतौ च प्रयुज्यते वैधर्म्येण
प्रवर्तमानं तथैव वैधर्म्यसमा जातिः । उत्कर्षापकर्षाभ्यां प्रत्यवस्थानं
उत्कर्षापकषंसमे जाती इत्येवं सर्वत्र योज्यम् ॥


स्थापनाहेतुतश्चाविशेष्यमाणत्वं जातिवाद्यभिप्रायेण तासां द्रष्टव्यम् ।
जातिवादी ह्येवं वदति—यथा भवत्प्रयुक्तं साधनं तथेदमपि किमिति
II.651 न भवतीति । अत एव हेतुप्रतिबिम्बनद्वारक एव जात्युपन्यास
इत्युक्तम् ॥


साधर्म्यवैधर्म्यसमौ


अथ विशेषलक्षणान्याह । तत्र—


साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः
साधर्म्यवैधर्म्यसमौ ॥ ५. १. २ ॥


प्रतिषेधापेक्षया पुंलिङ्गनिर्देश इति तत्र तत्र द्रष्टव्यम् । तत्र च
साधर्म्येण वैधर्म्येण वा साधनमभिधाय सिषाधयिषितपक्षोपसंहारे साधन
वादिना कृते, साध्यधर्मविपर्ययोपपादनाय साधर्म्येण प्रत्यवस्थानमवि
शिष्यमाणं स्थापनाहेतुतः—साधर्म्यसमः प्रतिषेधः ॥


साधर्म्यसमोदाहरणम्


उदाहरणं तु—अनित्यः शब्दः, प्रयत्नानन्तरीयकत्वात्, यत् प्रयत्ना
नन्तरीयकं, तत् अनित्यं दृष्टम्, यथा घटः—इति साधर्म्येण हेतौ प्रयुक्ते,
जातिवादी साधर्म्येणैव प्रत्यवतिष्ठते—नित्यः शब्दः, निरवयवत्वात्,
निरवयवं द्रव्यं आकाशादि नित्यं दृष्टमिति । न चात्र विशेषहेतुरस्ति,
घटसाधर्म्यात् प्रयत्नानन्तरीयकत्वादनित्यः शब्दः, न पुनः आकाशसाध
र्म्यान्निरवयवत्वान्नित्यः शब्द इति ॥


वैधर्म्यसमोदाहरणम्


1तथाऽत्रैव वैधर्म्येण । त्यवस्थानं—नित्यः शब्दः, निरवयवत्वात्,
यत् पुनरनित्यं तत् सावयवं दृष्टम्, यथा घटादि द्रव्यमिति । न चास्ति
II.652 विशेषहेतुः, घटसाधर्म्यात् प्रत्यत्नानन्तरीयकत्वात् अनित्यः शब्दः, न पुनः
घटवैधर्म्यात् निरवयवत्वात् नित्य इति ॥


वैधर्म्यहेतावपि साधनादिना प्रयुक्ते, अनित्यः शब्दः, प्रयत्नानन्त
रीयकत्वात्, यदनित्यं न भवति, तत् प्रयत्नानन्तरीयकमपि न भवति,
आकाशादिवत्—इत्यत्र एतदेव पूर्वोक्तं साधर्म्यवैधर्म्यप्रत्यवस्थानद्वयमुदा
हर्तव्यमिति ॥


यथा क्वचिदवसरे स्वयं प्रयोगो जातीनामुपयुज्यत इति तत्स्वरूप
व्युत्पादनमुपक्रान्तम् एवं परप्रयुक्तानां तासां 1658उत्तरमपि वक्तव्यम् ।
अतस्तद्व्युत्पादनार्थमाह—


गोत्वाद्गोसिद्धिवत्तत्सिद्धिः ॥ ५. १. ३ ॥


साधर्म्यवैधर्म्यसमयोरिदमुत्तरम् । यदि साधर्म्यमात्रं वैध र्म्यमात्र
वा साध्यसाधनं प्रतिज्ञायेत, स्यादियमनवस्था । भवेच्च भवत्प्रयुक्ताना
मीदृशामपि स्थापनाहेतोरविशेषः । विशिष्टं तु साधर्म्यं वैधर्म्य वा प्रयोजकं
मुच्यमानं नैवंविधैः प्रत्यवस्थानैः उपहन्यते । यथा सत्यपि सत्तादि
सामान्यसंबन्धे, सत्यपि शुक्लादिगुणसंबन्धे, सत्यपि चलनादिकर्मयोगे न
गौः तथात्वेन तत्साधर्म्यात् 1659सिद्ध्यति, अश्वादिवैधर्म्याद्वा, किन्तु अव्य
भिचारिणः गोत्वादिसंबन्धादेव । तथेहाप्यस्खलितनियमं साधर्म्यं,
वैधर्म्यं वा साध्यसिद्धिनिबन्धनम्, न साधर्म्यादिमात्रमिति1660


II.653

उत्कर्षादिसमाः


साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षा
पकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः ॥ ५. १. ४ ॥


दृष्टान्तधर्मं साध्ये धर्मिणि योजयन्—असन्तमध्यारोपयन् उत्कर्षेण
प्रत्यवस्थानं यत् करोति, स उत्कर्षसमः प्रतिषेधः । यथा—अनित्यः शब्दः
प्रयत्नानन्तरीयकत्वात्, घटवत्—इत्युक्ते, अपर आह—यदि प्रयत्ना
नन्तरीयकत्वात्, घटवदनित्यः शब्दः, घटवदेव मूर्तोऽपि भवति । न
चेन्मूर्तः, घटवदनित्योऽपि मा भूदिति मूर्तत्वस्य धर्मान्तरस्य प्रसंजन
मुत्कर्षसमः ॥


अपकर्षसमः


दृष्टान्तधर्मविकल्पनेनैव साध्यधर्मिणि सिद्धस्यापि धर्मस्यापकषण
प्रत्यवस्थानमपकर्षसमः । पूर्वस्मिन्नेव प्रयोगे, घटः खलु प्रयत्नानन्तरीय
कस्सन् अश्रावणो दृष्टः, एवं शब्दोऽपि प्रयत्नानन्तरीयकत्वादश्रावणो
ऽस्तु । न चेदश्रावणः, घटवदनित्योऽपि मा भूदिति सतः श्रावणत्वस्या
पसारणमपकर्षसमः ॥


वर्ण्यसमः, अवर्ण्यसमः


ख्यापनीयः—वर्ण्यः1661—प्रतिपिपादयिषितः साध्यधर्मः । तद्विपर्य
यात् अवर्ण्यः—सिद्धः दृष्टान्तधर्मः । तावेतौ 'वर्ण्यावण्यौ विपर्यस्यन्—
इतरमितरेण समीकुर्वन् प्रत्यवस्थानं यत् करोति, तौ वर्ण्यावर्ण्यसमौ
1662 II.654 प्रतिषेघौ भवतः । यदि शब्दः नित्यत्वेन वर्ण्यते—साध्यते, घटोऽपि वर्ण्य
तामिति वर्ण्यसमः । घटश्चेन्न वर्ण्यते, शब्दोऽपि मा वर्णीत्यवर्ण्यसमः ॥


विकल्पसमः


धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमः प्रतिषेधः । तत्रैव
प्रयोगे—प्रयत्नानन्तरीयकं किंचिन्मृदु दृष्टं, दुकूलराङ्कवशय्यादि;
किंचित् कठिनं, कर्परपरश्वधादि । एवं प्रयत्नानन्तरीयकं किंचिदनित्यं
भविष्यति घटादि, किंचिन्नित्यं शब्दादीति1663


साध्यसमः


उभयोरपि साध्यदृष्टान्तयोः साध्यत्वापादनेन प्रत्यवस्थानं साध्य
समः प्रतिषेधः । यदि यथा घटास्तथा शब्दः, प्राप्तं तर्हि यथा शब्दः,
तथा घट इति । शब्दश्च अनित्यतया साध्य इति घटोऽपि साध्य एव
स्यात् । अन्यथा हि न तेन तुल्यो भवेदिति ॥


अत्र पंचानामुत्तरम्—


किञ्चित्साधर्म्यादुपसंहारिसेर्द्धैवधर्म्यादप्रतिषेधः ॥ ५-१-५ ॥


किंचित्साधर्म्यादुपसंहारः सिद्ध्यति—यथा गौः, एवमयं गवयः
इति । न तु सर्वथा रूपाभेदः तयोः आपादयितुं शक्यः । प्रमाणा
वगतस्वभावभेदानां भावानामितरेतररूपसंकरस्य कर्तुमशक्यत्वात् ।
एवंच स्वप्रतिबन्धसाधर्म्ये सुस्थिते स्वसाध्यमुपस्थापयति स्थापनाहेतौ
साध्यदृष्टान्तयोर्धर्मविकल्पमापादयता वैधर्म्यं च किंचिदभिदधता प्रतिषेधः
कर्तुं न लभ्यत इति1664


II.655

अथ षष्ठस्योत्तरम्—


साध्यतिदेशाच्च दृष्टान्तोपपत्तेः ॥ ५-१-६ ॥


यदुच्यते घटोऽपि शब्दवत् साध्यो भवत्विति—तन्नैवम्—लौकिकपरी
क्षकाणां यस्मिन्नर्थे बुद्धिसाम्यम्, स दृष्टान्तः । तेनाविपरीततया शब्दे
ऽतिदिश्यते । यथा घटः प्रयत्नानन्तरीयकः सन् अनित्यः, एवं शब्दोऽ
पीति । एवं साध्यातिदेशात् दृष्टान्त उपपद्यमाने न तस्य साध्यत्वाभि
धानमुपपद्यते1665


प्राप्तिसमाप्राप्तसमौ


प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्या
साधकत्वाच्च प्राप्त्यप्राप्तिसमौ ॥ ५. १. ७ ॥


प्राप्त्यप्राप्तिविकल्पनपूर्वकमुभयत्रापि दोषापादनं प्राप्त्यप्राप्तिसमौ
प्रतिषेधौ भवतः । हेतौ साधनवादिना प्रयुक्ते, पर आह—सोऽयं हेतुः
प्राप्य वा साध्यं साधयेत्, अप्राप्य वा ?
प्राप्य चेत्, द्वयोर्लब्धस्वरूपयो
रेव प्राप्तिर्भवतीति । किं कस्य साध्यम्, साधनं वेत्यविशेषः ।
अप्राप्य तु साधकत्वमनुपपन्नं, अतिप्रसङ्गात् । न ह्यप्राप्य प्रदीपः प्रकाश्य
प्रकाशयेदिति ॥


अनयोरुत्तरम्—


घटादिनिष्पत्तेः पीडने चाभिचारादप्रतिषेधः ॥ ५. १. ८ ॥


II.656

नायं प्रतिषेध उपपद्यते, उभयथाऽपि कारणभावस्य दर्शनात् ।
दण्डचक्रमूत्रादिकारकानि प्राप्य मृदं घटादिकार्यं निष्पादयन्ति दृश्यन्ते ।
अभिचारकर्मणा च श्येनादिना दूरस्थस्यापि शत्रोः पाटनं संपाद्यते
इति1666


प्रसङ्ग-समप्रतिदृष्टान्तसमौ


दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन
प्रसंगप्रतिदृष्टान्तसमौ ॥ ५. १. ९ ॥


अतिप्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः । पूर्वोदा
हृत एव हेतौ—यद्यप्यनित्यत्वे प्रयत्नानन्तरीयकत्वं साधनम् । प्रयत्ना
नन्तरीयकत्वे इदानीं किं साधनम् ? तत्साधने किम् ? इति दृष्टान्तस्य
घटादेरनित्यतायां कारणं 'न किंचिदपदिश्यते । तेन तत्कारणान्वेषणा
तिप्रसङ्गात् प्रसङ्गसमोऽयं प्रतिषेधः ॥


प्रतिदृष्टान्तसमः


प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः प्रतिषेधः । यथा—
घटः प्रयत्नानन्तरीयकस्सन् अनित्यो दृष्टः, एवमाकाशं प्रयत्नानन्तरीयक
नित्यं दृश्यते, तद्वच्छब्दोऽपि नित्यः स्यादिति । कः पुणराकाशस्य प्रयत्ना
नन्तरीयकत्वं वदेत् ? कूपखननादिनाऽऽक्राशकरणं मन्वान एवं ब्रूयादपि
कश्चित् ॥


II.657

ननु ! एवमपि व्यभिचारोद्भावनमेतत् सम्यगुत्तरम्, नासदुत्तर
प्रकारो जातिप्रयोगः—नैतदेवम्—न हि हेतोरनैकान्तिकत्वमुद्भावयन्नसौ
साधुरिव जातिवादी प्रत्यवतिष्ठते । अपि तु प्रतिदृष्टान्तबलेन नित्यत्व
मेव साधयन्नुत्थित इति जातिप्रयोग एवायम् । हेत्वाभासा अपि
स्वरूपनिगूहनपुरस्सरमपरहेतुप्रतिबिम्बवर्त्मना प्रदर्श्यमाना जातितां
प्रतिपद्यन्त एव ॥


अत्र प्रसङ्गसमस्य तावदुत्तरमाह—


प्रदीपोपादानप्रसङ्गविनिवृत्तिवत्तद्विनिवृत्तिः ॥ ५-१-१० ॥


असिद्धं हि नाम साध्यते, न सिद्धम्; तत्र प्रयत्नवैफल्यात् । सान्ध
कारे हि सद्मनि पिठरादिपदार्थदर्शनाय प्रदीपमुपाददते लौकिकाः, न दीप
दर्शनाय दीपान्तरमाहरन्तीति । अन्तरेणापि हि दीपान्तराणि दृश्यत
एव प्रदीपः । एवं लौकिकपरीक्षकाणां घटादौ प्रयत्नानन्तरीयकत्वस्य
सिद्धत्वात् तत्र कारणापदेशो निष्प्रयोजन इति । तस्मान्नायमपितप्रसङ्गा
पादनस्य विषयः ॥


अथ प्रतिदृष्टान्तसमस्योत्तरम्—


प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥ ५-१-११ ॥


प्रतिदृष्टान्त एव साधकबुद्धया यदि त्वयोपन्यस्तः तर्हि विशेषहेतु
र्वक्तव्यः, अनेन हेतुना प्रतिदृष्टान्त एव साधकः, न दृष्टान्त इति । न
चासौ विशेषे हेतुरुच्यते । तस्मान्न प्रतिदृष्टान्तः 1667सिद्धिहेतुरिति
दृष्टान्त एव—साधको भवति । प्रतिदृष्टान्तहेतुत्वेऽपि स्थिते सति अहेतु
II.658 र्दृष्टान्तः न हि साधकः स्यात् । न च तदस्तीत्युक्तम् । अतो नाहेतु
र्दृष्टान्तः ॥


अथ यथा प्रतिदृष्टान्तो न साधकः, एवं दृष्टान्तोऽपि मा भूदित्यनया
नीत्या प्रत्यवतिष्ठते, स हन्त तर्हि प्रतिदृष्टान्तस्य तावदहेतुत्वं स्वकण्ठेन
कथितमिति तस्मिन्नसाधके सति दृष्टान्त एव साधक इति ॥


अनुत्पत्तिसमः


प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥ ५. १. १२ ॥


अनुत्पत्त्या प्रत्यवस्थानम्—अनुत्पत्तिसमः प्रतिषेधः । प्राक्तन एव
प्रयोगे जातिवाद्याह—अनित्य इत्युत्पत्तिधर्मक उच्यते । यश्चोत्पत्ति
धर्मकः, तस्योत्पत्तेः पूर्वमनुत्पत्त्या भवितव्यम्1668 । अनुत्पन्ने च शब्दाख्य
धर्मिणि प्रयत्नानन्तरीयकत्वं धर्मः क्व वर्तताम् ? अलब्धपक्षवृत्तिश्च कथ
मनित्यत्वं साधयतु । असिद्धे चानित्यत्वे शब्दस्य बलान्नित्यत्वमेव भवति
कारणाभावादिति । अनित्यत्वसिद्धिकारणस्य प्रयत्नानन्तरीयकत्वस्या
भावादित्यर्थः । अथवा शब्दोत्पादककारणाभावादनुत्पन्ने शब्दे निरा
श्रयो हेतुरिति ॥


अस्योत्तरम्—


तथाभावादुत्पन्नस्य कारणोपपत्तेः न कारणप्रतिषेधः
॥ ५-१-१३ ॥


शब्दाख्यधर्मिणः सिद्धस्य सतः नित्यत्वमनित्यत्वं वा विचार्यते ।
तदसिद्धौ हि नित्यत्वमपि कस्य भवानभिदधीत् ? उत्पन्नस्य चास्य तथा
II.659 भावो भवति, नानुत्पन्नस्य । उत्पन्नः खल्वयं शब्द इति भवति नानुत्पन्नः ।
प्रागुत्पत्तेरलब्धात्मनः किमुच्यते ? लब्धस्वरूपस्य पुनः अनित्यत्वकारण
प्रयत्नानन्तरीयकत्वस्य सद्भावादयुक्त एवायं प्रतिषेधः ॥


संशयसमः


नित्यानित्यत्वसाधर्म्यात्संशथः ॥ ५. १. १४ ॥


नित्य नित्यसाधर्म्योपन्यासेन संशयापादनप्रवणं प्रत्यवस्थानं संशय
समः प्रतिषेधः । अनित्यः शब्दः, प्रयत्नानन्तरीयकत्वात् इत्यस्मिन्नेव
हेतौ अस्ति शब्दस्यानित्यसाधर्म्यं प्रयत्नानन्तरीयकत्वम्, अस्ति च
नित्येन सामान्येन साधर्म्यं ऐन्द्रियकत्वम् । अतः क्रिमनित्यसाधर्म्यात्
प्रयत्नानन्तरीयकत्वात् अनित्यः शब्दः, उत नित्यसाधर्म्यात् ऐन्द्रियकत्वा
न्नित्यः
इति संशयः—एवं परः प्रत्यवतिष्ठते । न च साधर्म्यसमप्रयोग
एवायमाशङ्कनीयः, संशयापादनप्रवणत्वादस्येति ॥


अस्योत्तरम्—


साधर्म्यात्संशये न संशयः वैधर्म्यादुभयथा वा संशयेऽत्यन्त
संशयो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः
॥ ५. १. १५ ॥


स्थाणुर्वा पुरुषो वेति स्थाणुपुरुषयोस्साधर्म्यादूर्ध्वत्वादेः संशयो
भवति, न तु शिरःपाण्यादिवैधर्भ्यात् । प्रत्युत ततोऽसौ निवर्तते । यदि
पुनरुभयथाऽपि साधर्म्यादिव वैधर्भ्यदिपि संशयः स्यात् तथा सत्यत्यन्त
संशयः1669 प्राप्नोति । इह चनि विशेषदर्शनस्थानीयमनित्यत्वसाधनं शब्दे
प्रयत्नानन्तरीयकत्वमस्तीति नित्यत्वं सामान्यगतं संशयकारणमिति
II.660 नाभ्युपगभ्यते । तस्मादप्रतिषेधोऽयं नित्यसामान्यसाधर्म्यनिबन्धनसंशया
पादनरूपः ॥


प्रकरणसमः


उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः ॥ ५. १. १६ ॥


पक्षप्रतिपक्षौ निर्णयलक्षणे व्याख्यातौ । तावेव प्रकरणम् । प्रक
रणमनतिवर्तमानः प्रकरणसमः प्रतिषेधो भवति । पूर्वस्मिन्नेव प्रयोगे
नित्यः शब्दः, निरवयवत्वात्, आकाशवत् इत्येवंजातीयकं प्रतिप्रयोग
मुपन्यस्य स्वपक्षमुत्थापयति जातिवादी । साधर्म्यग्रहणं चोपलक्षणम् ।
वैधर्भ्येणापि प्रतिप्रयोगोपन्यासे प्रकरणसम एव प्रतिषेधो भवति ।
उभयवैधर्म्यात् प्रक्रियासिद्धेः प्रकरणसम इति । मूलहेतावपि साधर्म्येण
वैधर्भ्येण वा प्रयुक्ते प्रयोगद्वयमेतद्वेदितव्यम् ॥


प्रकरणसमस्य साधर्म्यवैधर्म्यसमाभ्यां विशेषः


ननु च ! ते एवैते साधर्म्यवैधर्म्यसमे जाती साधर्म्यहेतौ वैधर्म्यहेतौ वा
प्रयुज्यमानत्वाच्चतुर्धा स्थितेइति ताभ्यामेव गतत्वात् नाभिनवोऽयं जाति
प्रयोगः । चतस्रश्चैता जातय इत्येकत्वमपि न सङ्गतम्—उच्यते—तत्र पर
पक्षप्रतिषेधप्रवणतयैव प्रत्यवस्थानमुदाहृतम्, इह तु पक्षसाधनच्छाय
येति । अत एव प्रकरणसमोऽयमुच्यते जातिः । अनित्यपक्षवन्नित्य
पक्षेऽपि प्रतिक्रियतेऽस्यामिति । उद्भावनभङ्गिभेदाच्च जातिनानात्वम् ।
असङ्कीर्णोदाहरणविवक्षया चतुर्विशतिभेदत्वम् । वस्तुतस्तु तासामान
न्त्यमित्युक्तम् ॥1670


II.661

अत्रोत्तरम्—


प्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः
॥ ५. १. १७ ॥


निर्णयोत्पत्त्या प्रकरणं पर्यवसितं भवति । प्राङ्निर्णयात् तदवस्थ
मेव । तदिह प्रकरणमुत्थापयता भवता उभयसाधर्म्यं तदुत्थापनकारण
मभिहितम्, उभयसाधर्म्यात् प्रक्रियासिद्धेरिति ब्रुवता । उभयसाधर्म्ये
च—मदुक्तमपि साधर्म्यमस्त्येव, अन्यथा उभयशब्दार्थः कः ? एवं च
तदभ्यनुज्ञातं भवतीति तत्प्रतिषेधो नोपपद्यते । प्रतिषेधोपपत्तौ वा
नोभयसाधर्म्यं प्रकरणकारणं सिध्यतीति । निर्णयोत्पत्तिनिमित्तं च प्रकर
णोपरमाय न किंचिदुक्तम्,1672 उभयसाधर्म्याभिधानादिति ॥


अहेतुसमः


त्रैकाल्यानुपपत्तेर्हेतोरहेतुसमः ॥ ५. १. १८ ॥


कालत्रयानुपपत्त्या हेतुमाक्षिप्य क्रियमाणः प्रतिषेधः अहेतुसमो
भवति । हेतुः साधनम् । साधनं च साध्यात् पूर्वं पश्चाद्वा सह वा
भवेत् ? यदि पूर्वम्, असति साध्ये तत् कस्य साधनम् ? अथ पश्चात्
साधनं, पूर्वं साध्यम्; तदसति साधने कस्येदं साध्यं भवेत् । पूर्वसिद्धे
वा साध्ये किं साधनेन ? अथ युगपत् साध्यसाधने भवतः, न तर्हि तयोः
सव्येतरगोविषाणयोरिव साध्यसाधनभावो भवेत्—इत्येवमयं हेतुः
अहेतोर्न विशिष्यते ॥


II.662

अस्योत्तरम्—


न हेतुतस्साध्यसिद्धेस्त्रैकाल्यासिद्धिः ॥ ५. १. २० ॥


न त्रैकाल्यासिद्धिः । कस्मात् ? हेतुतः साध्यसिद्धेः । उत्पत्तौ
तावदयं पर्यनुयोगः, पूर्वसिद्धेन हेतुना तन्त्वादिना पश्चाद्भाविनोऽसत एव
कार्यस्य पटादेः सिद्धिरित्युक्तत्वात् । बुद्धिसिद्धं तु तदसत् न्या. सू.
4-1-50
इति । ज्ञप्तावपि परिहृत एष दोषः, उपलब्धिहेतोः उपलब्धि
विषयस्य चार्थस्य पूर्वापरसहभावानियमात् । यथादर्शनं व्यवस्थेति
प्रमाणपरीक्षयामभिधानात् । दृश्यते च निर्वर्तनहेतुना निर्वर्तनीयनिर्वृत्तिः,
उपलब्धिहेतुना च उपलभ्यस्योपलम्भः इति । प्रमाणसिद्धे च वस्तुनि
कोऽयमाक्षेपः ?


प्रतिषेधे च तुल्योऽयमनुयोग इत्याह1673


प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥ ५-१-२० ॥


प्रतिषेधोऽपि प्रतिषेध्यात् पूर्वं, पश्चात्, सह वा भवेत् ? इति
विकल्प्यमाने न प्रतिषेद्धव्यं प्रतिषेद्धुमुत्सहत इति ॥


अर्थापत्तिसमः


अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः ॥ ५-१-२१ ॥


अर्थादापद्यते प्रतिपक्षसिद्धिः—इत्येवं क्रियमाणः प्रतिषेधः अर्थापत्ति
समो भवति । पूर्वस्मिन्नेव प्रयोगे—यदि घटसाधर्म्यात् प्रयत्नानन्तरीय
II.663 कत्वात् अनित्यः शब्दः, अर्थादापद्यते आकाशसाधर्म्यान्नित्य इति । अस्ति
चास्य नित्येन साधर्म्यमाकाशादिना द्रव्येण निरवयवत्वमिति । उद्भावन
प्रकारभेदाच्च जातिभेद इत्युक्तम् ॥


अस्योत्तरम्—


अनुक्तस्यार्थादापत्तेः पक्षहानेरुपपत्तिः ॥ ५. १. २२ ॥


अनुपपादितसाधनमनुक्तमप्यर्थादापद्यत इति वदतः पक्षहानिरप्यु
पपद्यते । मामकानित्यपक्षसिद्धौ हि सत्याम्, अर्थादापद्यते तावकस्य
नित्यपक्षस्य हानि1674रिति ॥


दोषान्तरमाह—


अनैकान्तिकत्वाच्चार्थापत्तेः ॥ ५-१-२३ ॥


उभयपक्षतनानेयमर्थापत्तिः, विपर्ययेणापि प्रयोक्तुं शक्यत्वात् ।
नित्यः शब्दः, निरवयवत्वात् इत्येवमप्युक्ते शक्यं वक्तुम्, यदि नित्या
काशसाधर्म्यात् निरवयवत्वात् नित्यः शब्दः अर्थादापद्यते, अनित्यघटादि
साधर्म्यात् प्रयत्नानन्तरीयकत्वादनित्य इति । न चैवमपि काचिदर्थसिद्धिः ।
न खलु वै 1675घनस्य ग्रावणः पतनमित्युक्ते अर्थादापद्यते द्रवस्य वारिणः
पतनाभाव इति ॥


अविशेषसमः


एकधर्मोपपत्तेः क्वचिदनुपपत्तेः प्रतिषेधाभावः ॥ ५-१-२५ ॥


II.664

अविशेषोपपादनेन प्रत्यवस्थानं—अविशेषसमः प्रतिषेधः । यदि
शब्दघटयोरेकधर्मः प्रयत्नानन्तरीयकत्वमस्तीति तयोरनित्यत्वाविशेष
उच्यते—तर्हि सर्वभावानामविशेषप्रसङ्गः । कथम् ? सद्भावोपपत्तेः—
सत्तासंबन्धादित्यर्थः । सोऽयमविशेषसमः प्रतिषेधः ॥


एतस्योत्तरम्—


क्वचित्तद्धर्मोपपत्तेः क्वचिदनुपपत्तेः प्रतिषेधाभावः
॥ ५-१-२५ ॥


क्वचिदविशेषापादनहेतुरुपपद्यते धर्मः, क्वचित्तु नोपपद्यत इत्येवमयम
प्रतिषेधः । शब्दघटयोरेको धर्मः प्रयत्नानन्ततरीयकत्वमस्ति, येन तयो
र्धर्मान्तरमनित्यत्वमविशेषरूपमुपपाद्यते । न तु सर्वभावानामीदृशम
विशेषकारणं धर्मजातमस्ति ॥


यत्तु सद्भावोपपत्तेरिति, तेन किं धर्मान्तरमविशेषरूपं साध्येत ?
अनित्यत्वमेवेति चेत्, तर्ह्ययं प्रतिज्ञार्थो व्यवतिष्ठेत अनित्याः सर्वे
भावाः, सत्त्वात्
इति । चायमनुपपन्नः दृष्टान्तानुपपत्तेः । सर्व
भावानां पक्षीकृतत्वात् दृष्टान्तो न कश्चिदवशिष्यते । न च प्रतिज्ञातै
कदेश एव दृष्टान्तीकर्तुं शक्यः, सिद्धसाध्यभेदात् । साध्यः प्रतिज्ञातोऽर्थो
भवति, सिद्धश्च दृष्टान्तः । न च दृष्टान्तरहितो हेतुः स्वसाध्योपस्थाप
नसामर्थ्यमश्नुते ॥


न च सौगतोक्तनीत्या नित्येभ्यो व्यापकानुपलब्ध्या सत्त्वं व्यावर्तित
मनित्येष्वेव प्रतिष्ठां लभते । यैव विपक्षाद्व्यावृत्तिः स एव साध्येनानु
गम इति वक्तव्यम्—तन्नीतेः प्रागेव प्रतिक्षेपात् । प्रत्युक्तं हि विस्तरतः
क्षणभङ्गसाधनमिति ॥


II.665

किंचिद्धि सत्त्वयोगि भावजातमनित्यं भवति, किंचिन्नित्यमिति
नायमेकान्तः—सत्त्वादनित्याः सर्वे भावा इति ॥


अपि च सर्वभावानामनित्यत्वे साध्यमाने तदन्तर्गतत्वाच्छब्दस्याप्य
नित्यत्वमभ्युपगतं भवेदित्येवमप्ययमप्रतिषेधः ॥


उपपत्तिसमः


उभयकारणोपपत्तेरुपपत्तिसमः ॥ ५. १. २६ ॥


उभयकारणोपपत्त्या पक्षद्वयोपपत्तिवर्णनम्—उपपत्तिसमः प्रतिषेधः ॥


यद्यनित्यत्वकारणं प्रयत्नानन्तरीयकत्वमुपपद्यते शब्दस्येति अनित्यः
शब्दः, नित्यत्वकारणमपि निरवयवत्वमस्योपपद्यत इति नित्यः स्यात् ।
उभयत्रापि कारणोपपत्तेः ॥


ननु सैवेयं साधर्म्यादिसमा प्रकरणसमा वा जातिः, न भेदान्तरम्—
मैवम्—उद्भावनाप्रकारेण भेदात् । परपक्षोपमर्दबुद्ध्या साधर्म्यादिसमा
जातिः प्रयुज्यते । पक्षान्तरोत्थापनास्थया प्रकरणसमा । अप्रतिपत्ति
पर्यवसायित्वाशयेनेयमुपपत्तिसमेति ॥


अत्रोत्तरम्—


उपपत्तिकारणानुज्ञानादप्रतिषेधः ॥ ५-१-२७ ॥


उभयकारणोपपत्त्या प्रतिषेधमभिदधता पक्षद्वयकारणोपपत्तिः अनु
ज्ञाता भवति । सा चेदनुज्ञाता कथमेकतरपक्षप्रतिषेधः । एकतरपक्ष
प्रतिषेधश्चेत् कथमुभयकारणोपपत्तिः । उभयपक्षकारणोपपत्तिः एकतर
पक्षप्रतिषधश्चेति विप्रतिषिद्धम् । व्याघातादेव ततपक्षप्रतिषेधोऽवकल्प
II.666 इति चेत्—समानो व्याघातः । तेन हि परपक्षवत् स्वपक्षोऽपि प्रतिहन्यत
1676इति । न हि व्याघात एकं पक्षं साधयति, एकं बाधत इति ॥


उपलब्धिसमः


निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमःप्रतिषेधः ॥


निर्दिष्टस्य साध्यधर्मसिद्धिकारणस्याभावेऽपि साध्यधर्मोपलब्ध्या
प्रत्यवस्थानं—उपलब्धिसमः प्रतिषेधः । यदेतदनित्यतायां शब्दस्य प्रयत्ना
नन्तरीयकत्वं कारणमुपदिष्टम्, तस्याभावेऽपि प्रबलप्रभंजनजवभज्य
मानजरत्पादपपातप्रभवेऽपि शब्दे दृश्यत एवानित्यत्वम् । अन्यत्रापि
विद्युदादौ विनाऽपि प्रयत्नानन्तरीयकत्वमुपलभ्यत एवानित्यतेति ॥


अस्योत्तरम्—


कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ॥ ५-१-२९ ॥


अत्रैतदेव तावद्वक्तव्यं सपक्षैकदेशवृत्तित्वमिदमस्य हेतोरुद्भावितम् ।
न च सपक्षैकदेशवृत्तिरगमकः । प्रयत्नानन्तरीयकत्वमनित्यत्वे प्रतिबद्धम्,
न पुनरनित्यं प्रयत्नानन्तरीयकत्वे । यत्प्रयत्नानन्तरोयकम्, तदनित्यम्
इति हि व्याप्तिः, न तु यदनित्यम्, तत्प्रयत्नानन्तरीयकम् इति । यथा
यत्राग्निस्तत्र धूमः इति न । यत्र धूमस्तत्राग्निः इति ॥


एवं प्रयत्नानन्तरीयकत्वमन्तरेण समीरणरयपात्यमानवनस्पत्यादि
शब्दे विद्युदादौ वा येयमनित्यतोपलब्धिः, न सा तस्य हेतुतामप
हन्तीति ॥


II.667

शब्दस्य प्रयत्नाधीनत्वम्


अपि च प्रयत्नानन्तरीयकत्वमिति कारणादुत्पत्तिरियमभिधीयते,
न तु कारणं नियम्यते प्रयत्न एवेति । तत्र पवननोदनजनिततरुशब्दवत्
असत्यपि प्रयत्ने, कारणान्तरं तदुत्पादकं भविष्यति । कारणान्तरजन्ये
ऽप्यनित्यत्वं शब्दे विद्युदादौ वा न विरुद्धमिति ॥


कथं पुनरिदमेव गम्यते—प्रयत्नादिभिरसन्नुत्पाद्यते शब्दः, न पुन
स्सन्नभिव्यज्यत इति—सतोऽनुपलब्धौ निमित्ताभावात् । आवरणं निमित्त
मिति चेत्—न—1677मूलोदकादिषु मृद इव शब्दे कस्यचिदावरणस्याग्रहणात् ।
तस्मान्न मूलोवकादिना तुल्यः शब्दः इत्यसन्नेव प्रयत्नादिना क्रियत
इति ॥


अनुपलब्धिसमः


तदनुपलब्धेरनुपलम्भादभावासिद्धौ तद्विपरीतोपपत्तेः
अनुपलब्धिसमः ॥ ५-१-३० ॥


अनुपलब्धेरनुपलम्भोपन्यासेन प्रत्यवस्थानम्—अनुपलब्धिसमः
प्रतिषेधः । यदुक्तम्—आवरणानुपलम्भादसत्यावरणे प्रागुच्चारणाद
ग्रहणादसन्नेव शब्दः प्रयत्नेनाभिनिर्वर्यत्त इति—तदयुक्तम्—आवरणा
नुपब्धेरप्यनुपलम्भात् तस्याश्चानुपलम्भादभावः, अनुपलब्धेरभावात् उप
लब्धिर्भवति, प्रतिषेधद्वयेन विधेरेव प्रतीतेः । आवरणोपलब्धेश्चावरण
सत्ता सिद्ध्यतीति तत्कृतमेव शब्दस्याग्रहणम्, नासत्त्वकृतमित्यभि
व्यंजकमेवास्य प्रयत्नादि कारणमिति ॥


II.668

अस्योत्तरम्—


अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ ५. १. ३१ ॥


आवरणानुपलब्धिर्नास्ति, अनुपलब्धेः इति योऽयं हेतुरुक्तः, स न
हेतुः । कुतः ? अनुपलम्भस्वभावत्वादनुपलब्धेः—उपलम्भप्रतिषेधा
त्मकत्वादित्यर्थः । अस्तित्वनास्तित्वे हि भावानां उपलम्भानुपलम्भा
भ्यामवस्थाप्येते—यदुपलभ्यते तदस्ति, शशवत्; यन्नोपलभ्यते तन्नास्ति,
तद्विषाणवत् । नोपलभ्यते च शब्दस्यावरणं, मूलोदकादेरिव मृत्तिका—
इत्यनुपलम्भान्नास्तीति गम्यते । अनुपलम्भो ह्ययमावरणविषयः, नानु
पलब्धिविषयः स आवरणस्यैव नास्तितामवगमयति, नानुपलब्धेरिति
अनुपलब्धेर्भावादावरणमेव नास्तीति ॥


अनुपलब्धेरनुपलंभासंभवः


ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम्
॥ १-१-३२ ॥


ज्ञानविकल्पाः—प्रतीतिप्रकाराः । तेषां भावाभावौ प्रतिप्राणि
संवेद्यौ भवतः । अस्ति मे ज्ञानम् इत्येवं सर्वः प्रत्यक्षानुमानागमज्ञानानि
प्रमाणफलानि स्मरणसंशयादिज्ञानानि प्रमाणफलान्यनुभवतीति । सा
चेयमावरणानुपलब्धिः उपलब्धिवदध्यात्मं1678 संवेद्यते, नोपलभे शब्दस्या
वरणं, मृदमिव मूलोदकादेः
इति । तदेवं बाह्यपदार्थभावाभाववत् आन्त
II.669 रज्ञानभावाभावयोरपि प्रत्यक्षत्वादपर्यनुयोगोऽयं अनुपलब्धेरनुपलम्भा
दावरणमस्ति शब्दस्य
इति । तस्मात् प्रागुच्चारणादसन्नेव शब्द इति
सिद्धम् ॥


अनित्यसमः


साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः
॥ ५. १. ३३ ॥


सर्वभावानित्यत्वप्रसङ्गेन प्रत्यवस्थानम्—अनित्यसमः प्रतिषेधः ।
अनित्येन घटेन साधर्म्यमस्ति शब्दस्येति यदि तस्यानित्यत्वमुच्यते, तर्हि
सर्वभावानामपि घटेन किमपि साधर्म्यमस्तीति सर्व एवानित्याः स्युः ॥


अविशेषसनैवेयं जातिरिति चेत्—न—तत्र हि सत्ताभियोगात्
सर्वभावानामविशेष आपादितः, इह तु घटसाधर्म्यादेवानित्यत्वमापाद्यत
इति । उद्भावनभङ्गिभेदाच्च जातिनानात्वमित्यसकृदुक्तम् ॥


अत्रोत्तरम्—


साधर्म्यादप्यसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात्
॥ ५. १. ३४ ॥


अतिप्रसङ्गमापादयतो ह्येतद्विवक्षितं भवति—घटसाधर्म्याद
सिद्धिरनित्यत्वस्येति । यदि च घटसाधर्म्यादनित्यत्वस्यासिद्धिः, तर्हि
तावकस्यास्य प्रतिषेधवाक्यस्याप्यसिद्धिः, प्रतिषेध्यवाक्यसाधर्म्यात्1679
अस्ति हि प्रतिषेधवाक्यस्य प्रतिषेध्यवाक्येन साधर्म्यं प्रतिज्ञाद्यवयव
योगित्वमिति ॥


II.670

किंच—


दृष्टान्ते साध्यसाधनभावेन प्रतिज्ञातस्य धर्मस्य हेतुत्वात्तस्य
चोभयथा भावान्नविशेषः ॥ ५. १. ३५ ॥


न हि साधर्म्यमात्रं साधनं भवति, अपि तु दृष्टान्तधर्मिण्यवधृत
सामर्भ्यं साधर्म्यं वैधर्म्यं वा । तथाविधं चेत् सर्वभावानामस्ति, भवतु
तेषामप्यनित्यत्वम्, को द्वेषः ? नास्ति चेत्, कोऽयमतिप्रसङ्गः ।
न हि दृष्टान्तधर्मिणि प्रज्ञातसामर्थ्यं साधर्म्यमुभयथा भवति—पक्षान्तरं
स्पृशति । तेन साधर्म्यविशेषस्य हेतुत्वात् तस्य च सर्वत्रासंभवात् न
र्वानित्यत्वम् । 1680अविशेषसमायां च जातौ यत्समाधानमुक्तं, तदि
हापि वक्तव्यमिति ॥


नित्यसमः


नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्निस्यसमः ॥ ५-१-३६ ॥


अनित्यवाख्यसाध्यधर्मस्वरूपविकल्पनेन शब्दनित्यवापादनं
नित्यसमः प्रतिषेधः । अनित्यः शब्दः इति प्रतिज्ञाते हि जातिवादी
विकल्पयति—किमिदमनित्यत्वं शब्दस्य नित्यम्, अथानित्यम् इति ।
यदि तावदनित्यम्, तथ कदाचित् प्रच्यवेत । तत्प्रच्युतेः नित्यः शब्दः ।
अथ नित्यमनित्यत्वम् 'तर्हि धर्मस्य नित्यत्वात्, तस्य च निराधारस्यानु
पपत्तेः तदाश्रयस्य शब्दस्यापि नित्यत्वम् । अनित्यत्वे हि, शब्दे विनाष्टे
तदाधारो धर्मः क्व वर्तेतेति ॥


II.671

अस्योत्तरम्—


प्रतिषेध्ये नित्यमनित्यभावात् अनित्यत्वोपपत्तेः
प्रतिषेधाभावः ॥ ५-१-३७ ॥


प्रतिषेध्ये शब्दे नित्यमनित्यत्वस्य भावश्चेदुच्यते, तदनित्य एवा
सावुक्तो भवति1681 । अनित्यत्वोपपत्तेश्च तत्प्रतिषेधो नोपपद्यते ।
नित्यमनित्यत्वं शब्दस्य इति च ब्रवीषि, नित्यतां च तद्योगादस्योपपादय
सीति महानयमायुष्मतो भ्रमः ॥


अथ निरधिकरणो धर्मः कथं स्यादिति—तदुच्यते—अनित्यत्वं हि
नाम निरोधः, प्रध्वंसः, अभावः इत्यनर्थान्तरम् । अनित्यत्वादभाव इति
तु व्यवहारमात्रम् । सा चेयमनित्यता शब्दावच्छिन्ना न, शब्दाधिकरणा । न
घटाभावः घटाश्रितो भवितुमर्हति । भावस्वभावा हि धर्माः धर्माश्रिता
भवन्ति, नाभावः । अभावस्त्वाश्रितोऽपि न प्रतियोग्याश्रितो भवति
किन्त्वर्थान्तरवृत्तिः भूप्रदेश इव घटाभाव इति ॥


नित्यानित्यत्वविरोधाच्च—नित्यत्वमनित्यत्वं चैकत्र धर्मिणि विरु
ध्येते । तत् कथमभिधीयते नित्यमनित्यत्वस्य भावान्नित्यः शब्द
इति ॥


कार्यसमः


प्रयत्नकार्यानेकत्वात्कार्यसमः ॥ ५-१-३८ ॥


प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमः प्रतिषेधः ।
अनित्यः शब्दः, प्रयत्नानन्तरीयकत्वात् इत्युक्ते, अपर आह—
प्रयत्नस्य हि कार्यद्वैधमुपलब्धम्, किंचिदसदेव प्रयत्नेन निर्वर्त्यते,
II.672 यथा घटादि । किंचित् सदेवावरणव्यपनयनादिना प्रयत्नेना
भिव्यज्यते—यथा मृदन्तरितमुदकादि । एवं प्रयत्नकार्यनानात्वात् किं
प्रयत्नेनाविद्यमानः शब्दो निर्वर्त्यते धटवत्; उत विद्यमान एवाभिव्यज्यते
मृदन्तरितसलिलवदिति संशयः ॥


न चेयं संशयसमा जातिः, हेत्वर्थविकल्पनेनात्र प्रत्यवस्थानात् । तत्र
हि निरवयवत्वाद्याकाशधर्मोपन्यासेन संशय आपादितः; इह तु साधन
वाद्युक्तप्रयत्नानन्तरीयकत्वहेत्वर्थनिरूपणेनेति । उद्भावनाप्रकारभेदश्च
जातीनां वैचित्र्यकारणमित्युक्तमेव ॥


अत्रोत्तरम्—


कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणानुपपत्तेः
॥ ५-१-३९ ॥


यद्यपि प्रयत्नकार्यान्यत्व1682मुपलभ्यते; तथापि प्रकृते शब्दे प्रयत्न
स्याभिव्यक्तावहेतुत्वम् । न प्रयत्नतः शब्दमभिव्यनक्ति, किन्त्वभूत
प्रादुर्भावमेव विधत्ते । कस्मात् ? अनुपलब्धिकारणानुपपत्तेः । यत्र
हि सतः पदार्थस्य प्रत्यत्नोऽभिव्यक्तिहेतुः, तत्र तस्य सतः सलिलादेरनु
पलब्धिकारणमस्ति मृदादिव्यवधानम् । तदपोहमाचरता प्रयत्नेन तद
भिव्यक्तिः संपाद्यते । शब्दस्य तु न किंचिदनुपलब्धिनिबन्धनं व्यवधा
नादि संभवतीति वर्णितम् । अतस्तस्यासत एवात्मलाभनिमित्तमुच्चार
णादिप्रयत्नः न सतोऽभिव्यक्तिनिमित्तम् । तस्मादनित्यः शब्द इति
सिद्धम् ॥


तदेवमनेन चतुर्विशतिविधजात्युदाहरणप्रतिसमाधानोपदेशवर्त्मना
शब्दानित्यत्वसाधके परकीयमुपालम्भजातमेवंप्रायमखिलमपाकृतम्1683,
आम्रसेकपितृतर्पणन्यायेन भवति भगवता सूत्रकारेण ॥


II.673

षट्पक्षीविवरणम्


इदमपरमिदानीमुपदिश्यते चतुर्विशतावपि जातिवादिना प्रयुक्तासु
मूलसाधनवादी—विस्पष्टानुमानोदन्तपरीक्षणपुरस्सरं सदेवोत्तरं यथोप
दिष्टमभिदधीत; न तु जातिप्रयोगानुकारिदुरुत्तरालापचापलेन षट्पक्षीं
प्रवर्तयेत् । तस्यां हि प्रस्तुतायां उभयोरपि वादिप्रतिवादिनोरसिद्धिः
असद्वाचित्वात् । कथं पुनः षट्पक्षी प्रवर्तत इति—तत्पथं दर्शयितु
माह—


प्रतिषेधे हि समानो दोषः ॥ ५. १. ४० ॥


स्थापनाहेतुवादिना प्रथमपक्षस्थेन स्थापनाहेतुः प्रयुक्तः, अनित्यः
शब्दः, प्रयत्नानन्तरीयकत्वात्
इति ॥


ततो जातिवादी द्वितीयपक्षस्थः प्रयत्नकार्यानेकत्वात् इति प्रयत्ना
नन्तरीयकत्वं अभिव्यङ्ग्येऽपि शब्दे भवति
इति हेतोरनैकान्तिकत्व
माह ॥


तदधुना तृतीयपक्षस्थः स्थापनाहेतुवादी यदि यथोपदिष्टमावरणा
नुपलब्धिक्रममनुसृत्य विशेषमुपदर्शयन् अनैकान्तिकतामुद्धरति, ततस्ताव
त्येव पर्यवस्यति कथा—इति चतुर्थादिपक्षावसरविरहात् नावतरत्येव
षट्पक्षी ॥


यदि तु तं क्रममपहायैव तृतीयपक्षस्थोऽसौ वदति—'हेतोश्चेदनैकान्ति
कत्वमुद्भावयसि, अनैकान्तिकत्वादसाधकः स्यादिति—नन्वयं तावकः प्रति
षेधोऽप्यनैकान्तिकः—किंचित्प्रतिषेधति, किंचिन्नेति—हेतोस्साधकत्वं प्रतिषे
धति, न स्वरूपमिति । अत एवेत्थं प्रतिषेधस्यानैकान्तिकत्वात् सोऽपि
हि नाभिव्यक्तिपक्षमेव साधयेत्, उत्पत्तिपक्षेऽपि प्रयत्नसाफल्योपपत्तेः ।
उभयत्रापि च विशेषहेतोरनपदेशात् । एवमनैकान्तिकत्वमभिहितवति1684
II.674 साधनवादिनि, भवति प्रतिषैधवादिनोऽपि वचनावसर इति अवतरति
षट्पक्षी ॥


स हि चतुर्थपक्षस्थ एव वदति—


प्रतिषेधविप्रतिषेधे तत्प्रतिषेधदोषवद्दोषः ॥ ५-१-४१ ॥


विविधः प्रतिषेधः—विप्रतिषेध इहोच्यते, न व्याधातः, प्रकृतसङ्ग
तेरभावात् । योऽयं प्रतिषेधेऽपि समानोऽनैकान्तिकत्वदोष उच्यते, स
प्रतिषेधप्रतिषेधेऽपि भवत्प्रयुक्ते समानः, सोऽपि हि पूर्ववदनैकान्तिक
एवेति ततः पंचमं पक्षमबलम्ब्य मूलसाधनवादी 1685मतानुज्ञामुद्भावयति ॥


सा च—


प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानदोषप्रसंगो
मतानुज्ञा ॥ ५-१-४२ ॥


प्रतिषेधेऽपि समानो दोष इति समुद्भावितं दोषमनुद्धृत्य तं प्रतिषेधं
सदोषमभ्युपेत्य मदुक्ते प्रतिषेधविप्रतिषेधे—समानदोषप्रसङ्गमापादयतस्ते
मतानुज्ञा निग्रहस्थानं भवति । चोरो भवान् इत्युक्तेऽभियुक्तेन चौर्य
मात्मनो निराकरणीयम्, न तु भवानपि चोरः इति परः प्रतिपत्तव्यः
—इति ॥


एवं पंचमपक्षस्थे मूलसाधनवादिनि कथितवति, परः षष्ठं पक्षमा
स्थाय पुनरभिधत्ते—यदि स्वपक्षदोषानुद्धरणपुरस्सरपरपक्षदोषापादनो
पनतमतानुज्ञानिग्रहस्थानपात्रमहमादिश्ये, हन्त तर्हि तवापि तदेव निग्रह
स्थानमवतरति, त्वमप्येवमकार्षीः । तथा हि द्वितीयपक्षस्थेन मया
प्रयत्नकार्यानेकत्वात् इति यदनैकान्तिकत्वमुद्भावितम्, तदनुद्धृत्यैव
प्रतिषेधेऽपि समानो दोषः इति मय्येव प्रतीपमापादितम् । तदेवं त्वत्त
II.675 एव शिक्षित्वाऽहमपि चतुर्थपक्षस्थः तथैव त्वयि दोषमर्पितवानिति, मम
चेन्मतानुज्ञा, प्रथमतरं तवासौ भवेदिति1686


तदेतदाह—


स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारहेतुनिर्देशे परपक्षदोषा
भ्युपगमात्समानो दोषः ॥ ५-१-४३ ॥


स्वपक्षः मूलसाधनवाद्युक्तः—प्रयत्नानन्तरीयकत्वादनित्यः शब्दः
इति । तल्लक्षणः—तत्समुत्थानः, तद्विषयः प्रयत्नकार्यानेकत्वात् इति
प्रतिषेधः । तमपेक्षमाणः, तमनुद्धृत्य—अनुज्ञाय प्रवृत्तः प्रतिषेधेऽपि
समानो दोषः
इत्युपपद्यमानः, परपक्षेऽनैकान्तिकत्वदोषोपसंहारः । तस्य च
हेतुनिर्देश इत्ययमनैकान्तिकः प्रतिषेध इति, तस्मिन् सति परपक्षकथितानै
कान्तिकत्वदोषाभ्युपगमात्, तदनुद्धरणेन तस्यैव प्रतीपदोषोद्भावनात्
समानो मतानुज्ञादोष इति षष्ठः पक्षः ॥


षट्पक्ष्यां पक्षविवेचनम्


सेयं षट्पक्षी । तस्यां प्रथमतृतीयपंचमाः । स्थापनाहेतुवादिनः
। द्वितीयवतुर्थषष्ठाः प्रतिषेधवादिनः एते च साध्यसाधकतया
परीक्ष्यमाणाः पौनरुक्त्यमतानुज्ञादिदोषापहतत्वात् अन्यतरस्यापि वादिनः
साध्यसिद्धये न प्रकल्पन्ते ॥


तथा हि—चतुर्थषष्ठयोः पक्षयोः अर्थाविशेषात्पुनरुक्तदोषप्रसङ्गः ।
चतुर्थे पक्षे परस्य समानदोषत्वमुच्यते । षष्ठेऽपि तथैव समानः । तृतीय
पंचमयोस्तृतीये पक्षे परोक्षं समानदोषत्वमभ्युपगम्यते । पंचमेऽपि मता
नुज्ञामुद्भावयता तदङ्गीकृतमेव भवति । तृतीयचतुर्थयोश्च परोक्तदोषा
II.676 नुद्धरणात्तु मतानुज्ञेत्यैवं षट्पक्ष्यामुभयोरसिद्धिः । तस्मात् सदुत्तरैरेव
दोषचिकित्सा साधीयसी, नासदुत्तरैः, षट्पक्षीप्रसङ्गादिति1687


षट्पक्ष्यां विश्रान्तौ कारणम्


ननु ! असदुत्तरकथनेऽपि कथं षट्पक्ष्यामेव विरामः ? शतपक्षी
सहस्रपक्षी वा कथं न प्रवर्तते ? कोऽत्र नियमः ? इति चेत्—उच्यते—
इयत्येव निवर्तते वचनावकाश इति नानन्तपक्षता संभवति । तथा हि—
पूर्वोत्तरपक्षवादिनौ तावत् साधनदूषणवादिनौ भवत एव, कोऽत्र विचारः ।
तत्र स्थापनाहेतुवादिना तावत् प्रथमं स्वपक्षसाधनेऽभिहिते, दूषणवादिना
च तत्र दूषणे वर्णिते, तृतीये वचसि वर्तमानः साधनवादी सम्यङ्नीत्योप
क्रममाणः तद्दूषणमुद्धर्तुं शक्नुयान्न वेति तस्यामेव दशायां प्राङ्विवाकायत्तो
निर्णयः ॥


असदुत्तरोपन्यासे तु 1688तृतीयवचसा तेन कृते दूषणवाद्यपि लब्धाव
काशः, तत एव शिक्षित्वा चतुर्थे वचसि वर्तमानः तत्प्रतीपं योजयति ।
ततः स्थापनाहेतुवादी प्रतीपयोजनायामफलायां दुरुत्तरायां समव्ययफलायां
अशक्यक्रियायां च निरुद्योगः किंचिदभिनवं दूषणमुत्प्रेक्ष्य पंचमे वचसि
स्थितो मतानुज्ञामाह ॥


ततस्तामपि परपक्षमनतिवर्तमानां पश्यन् प्रतिषेधवादी षष्ठे
वचसि स्थित्वा तां तत्पक्ष एव योजयति—इत्येवं वृत्ते दूषणान्तरासंभवात्,
प्रतीपयोजने च भग्नरसत्वात् तूष्णीमेवासितुमुचितमिति तावत्येव भवति
वचनविरतिः, न शतसहस्रादिपक्षप्रसङ्गः प्रवर्तत इत्यतः षट्पक्षीमेव
II.677 दर्शितवानाचार्यः । स चान्तेवासिनं बोधयितुमेवमुपा दिशदनेन पथा
प्रवर्तेत भवान्, अन्येन मा प्रवर्तिष्टेति ॥


षट्पक्ष्युपदेशफलम्


वाच्यमुत्तरमतो निरवद्यं

जातिवादिनमपि प्रति तज्ज्ञैः ।

कश्मलोत्तरगिरा न तु कार्या

पक्षषट्कपरिकल्पनगोष्ठी ॥

यादृग्यज्ञो बलिरपि तथेत्येवमादाय बुद्धौ

यस्तु ब्रूयात्कलुषमफलस्तस्य शुद्धोऽपि हेतुः ।

षट्पक्षादिप्रसरणपरिम्लानकान्तिर्न बुद्धिं

शक्तः स्वार्थे जनयितुमसावग्रतः प्राश्निकानाम् ॥

जातिपरीक्षोपसंहारः


इतीदं व्याख्यातं निजसरणिसाङ्कर्यरहितं

स्वरूपं जातीनां स्फुटमिह चतुर्विशतिविधम् ।

अमूषां तत्त्वज्ञः परविरचितानां परिहृतौ

स्वयं चोपन्यासे न हि सदसि संमुह्यति नरः ॥

—इति जातिपरीक्षा—


निग्रहस्थानपरिक्षा


जात्यनन्तरं निग्रहस्थानोद्देशात् तल्लक्षणप्रतिपादनार्थमाह—


विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥ १. २. ६० ॥


II.678

निग्रहः—पराजयः, तस्य स्थानम्—आश्रयः, कारणमित्यर्थः ।
किंच पराजयनिमित्तं विप्रतिपत्तिः, अप्रतिपत्तिश्च । विपरीता—कुत्सिता
गर्हणीया प्रतिपत्तिः—विप्रतिपत्तिः—साधनाभासे साधनबुद्धिः, दूषणाभासे
दूषणबुद्धिः । अप्रतिपत्तिस्तु आरम्भविषयेऽनारम्भः । आरम्भस्य विषयः—
साधने दूषणं, दूषणे चोद्धारः । तयोरकरणं—अप्रतिपत्तिः ॥


जल्पे पराजयकारणे


द्विधा हि वादो पराजीयते—यथाकर्तव्यमनारभमाणः, विपरीतं वा
प्रतिपाद्यमानः । अत एव न 1689कर्मकरणयोर्निग्रहमादिशन्ति । न हि
ताभ्यां किंचिदपराद्धम्, स्वविषये प्रयुज्यमानयोः सामर्थ्यानपायात् ।
कर्ता तु प्रमाद्यन् अप्रयोज्यं प्रयुंजानः, प्रयोज्यमप्रयुंजानो वा निग्रहमर्हति ।
प्रायेण चातत्त्ववादिनो निगृह्या भवन्ति ॥


तत्त्ववाद्यपि कदाचन जल्पे वितण्डायां वा सम्यक्साधनमप्यपदिश्य
प्रतिवादिप्रतिपादितदूषणाभासनिराकरणसरणिमनुगुणामपश्यन् निगृह्यत
एव । अत एव च—भाष्यकृतोक्तम्—तत्त्ववादिनमतत्त्ववादिनं चाभि
प्लवन्ते निग्रहस्थानानि
न्या-भा-5-2-1 इति । असमासकरणमनेक
निग्रहस्थानभेदावरोधार्थम् ॥


अत एवानन्तरमाह—


तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ॥ १-२-६१ ॥


1690तदिति साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य, विप्रतिपत्त्यप्रतिप
त्त्योश्च परामर्शः । नानाकल्पो विकल्पः—प्रकारभेद इत्यर्थः । साधर्म्य
II.679 वैधर्म्याभ्यां प्रत्यवस्थानप्रकारस्य बहुत्वात् जातिबहुत्वम् । तद्व्याख्यातम् ।
विप्रतिपत्त्यप्रतिपत्तिप्रकारबहुत्वान्निग्रहस्थानबहुत्वम् ॥


निग्रहस्थानविभागः


तद्द्वाविंशतिधा विभज्य दशंयति—


प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासः
हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थकमपार्थकमप्राप्तकालं
न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो
मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो
हेत्वाभासाश्च निग्रहस्थानानि ॥ ५-२-१ ॥


अत्र अननुभाषणम्, अज्ञानम्, अप्रतिभा, विक्षेपः, पर्यनुयोज्योपेक्षणम्
—इति अप्रतिपत्त्या सङ्गृहीतानि; शेषाणि विप्रतिपत्त्या । पुनरुक्तम्,
अधिकम्
इत्यसमासकरणेन विप्रतिपत्त्यैव वाभिमतम् । किमसमास
क्लिष्टकल्पनया । साऽपि हि कुत्सितैव प्रतिपत्तिः, यत् पुनरुक्तम्,
अधिकं वा प्रयुज्यत इति । असङ्कीर्णोदाहरणविवक्षया च द्वाविंशति
भेदसङ्कीर्तनम् । अवान्तरभेदैस्तु जातिवदानन्त्यमेव तेषामिति ॥


धर्मकीर्तेराक्षेपः


अत्र कीर्तिराह—द्वाविंशतिधा निग्रहस्थानानि विभज्यन्ते । तेषां च
प्रतिपदमिदानीं विशेषलक्षणानि वर्ण्यन्त इति न मृष्यामहे । कुतः—


असाधनाङ्गवचनम् अदोषोद्भावनं द्वयोः ।

निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते ॥

II.680

वादिना सिषाधयिषितपक्षसिद्धये साधनमभिधेयम् । स चेदसाध
नाङ्गं ब्रूयात्, निगृह्येत । प्रतिवादिनाऽपि वाद्युक्ते साधने दूषणमुद्भाव
नीयम् । स चेददोषमेव दोषत्वेनोद्भावयेत्, निगृह्येत । ते एव द्वयो
र्वादिप्रतिवादिनोर्निग्रहस्थाने । अतोऽन्यथा निग्रहकरणमन्याय्यमेव ।
प्रतिज्ञाहान्यादिषु तत्प्रभेदेषु च प्रतिपदमयुक्ततां दर्शयिष्यते । कतिच्छात्र
शिशुप्रलापप्रायाणि निग्रहस्थानानि निर्दिष्टानि । तादृंशि शास्त्रे लक्ष्यन्त
इति परममप्रतिष्ठानम् ॥


धर्मकीर्त्याक्षेपस्य समाधानम्


अत्रोच्यते—संक्षेपविवक्षया द्वे एव निग्रहस्थाने इति वयमपि किं
नोक्तवन्तः—विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् इति । एतच्च
सामान्यलक्षणमखिलभेदसङ्ग्रहक्षमं भवति, न भवदुक्तम् ॥


तथा हि—उत्तराप्रतिभानेन वादिनोरन्यतरः पराजीयते, न वा ?
न पराजीयत इति कथमुच्यते ? तत्किं मूक व जित्वा गच्छतु ।
निगृह्यते चेत्, किमनेनापराद्धम्, नादोष उद्भावितः ॥


विप्रतिपत्यप्रतिपत्त्योस्सर्वान्तर्भावः


अथ प्रसज्यप्रतिषेधेनोद्भावनाभाव एव व्याख्यायते, तर्हि दूषणा
भासोद्भावनमनुमतं स्यात् । अथ दोषानुद्भावनमादौ व्याख्याय, पुनर
दोषोद्भावनम् आवृत्त्य पर्युदासेन वर्ण्यते, हन्त तर्हि ते एवैते विप्रति
पत्त्यप्रतिपत्ती उक्ते स्याताम् । दोषानुद्भावनमप्रतिपत्तिः, विपरीत
दोषोद्भावनं विप्रतिपत्तिः ॥


एवमसाधनाङ्गवचनमपि विकल्पनीयम् । प्रसज्यप्रतिषेधवृत्त्य ।
साधनाङ्गस्यावचनं चेत्—सेयमप्रतिपत्तिः । पर्युदासवृत्त्या साधनाङ्गा
II.681 दन्यच्चेत् वचनं, सेयं विप्रतिपत्तिः । अतः शब्दान्तरेणाक्षपादपादेभ्य
एव शिक्षित्वा, तदेव निग्रहस्थानद्वयमनेन1691 श्लोकद्वयेन निबद्धम्, न पुन
रभिनवमल्पमपि किंचिदुत्प्रेक्षितमिति ॥


निग्रहस्थानव्यवस्थापि न युक्ता


न च 1692यथासंख्यनियमेन द्वयोर्द्वे निग्रहस्थाने वर्णनीये, अपि तु यथा
संभवमुभयोरपि यथावसरं तत्तन्निग्रहस्थानमादेष्टव्यम् । द्वाविंशतिभेदत्वं
च निग्रहस्थानानामसङ्कीर्णोदाहरणविवक्षया कथ्यते, न नियमायेत्युक्त
मेव । परस्परविसदृशं च लक्षणमेषां इदानीमुपदिश्यत एव । तत्रैव
चायुक्तत्वमेषाम्, बालिशप्रलापकल्पत्वं वा पराक्रियत एवेत्यलमति
प्रसङ्गेन ॥


प्रतिज्ञाहानिः


एवं सामान्यलक्षणं विभागं चाभिधाय विशेषलक्षणान्याह—


प्रतिदृष्टान्तधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥ ५. २. २ ॥


प्रतिज्ञासिद्धये वादिना साधनेऽभिहिते, तत्र प्रतिवादिना च दूषणे
उद्भाविते, तृतीये वचसि तु वर्तमानो वादी यदि प्रतिदृष्टान्तधर्मं
स्वदृष्टान्तेऽनुजानाति, तदस्य प्रतिज्ञा हीयत इति प्रतिज्ञाहानिर्नाम
निग्रहस्थानं भवति ॥


तद्यथा—अनित्यः शब्दः, ऐन्द्रियकत्वात्, घटवत् इत्युक्ते, पर
आह—सामान्यमैन्द्रियकमपि नित्यं दृष्टमित्यनैकान्तिको हेतुः इति ॥


II.682

तत्र साधतवाद्याह—सामान्यमैन्द्रियकं नित्यम्, तर्हि तथैव घटो
ऽपि नित्योऽस्तु
इति । अयमस्यैवंवदतो भ्रमः—किल नित्यानित्यपक्ष
वृत्तिः अनैकान्तिको भवति हेतुः । घटस्य तु नित्यतायां एकस्मिन्नित्य
पक्ष एव वृत्तेः अनैकान्तिकतामेष विजह्यादिति1693 । तदेवमस्य ब्रुवत्
प्रतिज्ञाहानिर्भवति । घटस्य हि नित्यत्वे तद्दृष्टान्तबलादेव शब्दोऽपि
नित्यः स्यादिति ॥


धर्मकीर्त्याक्षेपः


अत्र कीर्तिराह—प्रतिज्ञैव तावदसाधनाङ्गवचनमिति तदभिधानं
निग्रहस्थानं भवितुमर्हति, न तद्धानिः । न च हानिरप्यस्ति । यदि नाम
घटस्य दृष्टन्तीकृतस्य प्रतिदृष्टान्तधर्मं नित्यत्वमयमभ्युपैति, किमियता
शब्दानित्यत्वप्रतिज्ञामवजहाति ॥


अपि च हेत्वाभासा अपि निग्रहस्थानवर्गे गणिता एव । स चाय
मनैकान्तिकहेत्वाभास1694प्रयोगादेव पराजीयते, न प्रतिज्ञाहान्येति तस्या
विषयान्तरं वक्तव्यम् ॥


आक्षेपस्य समाधानम्


अत्रोच्यते—प्रतिज्ञायास्तावदसाधनाङ्गवचनता नास्तीत्यवयवलक्षणे
नर्णीतमेतत् । प्रतिज्ञासिद्ध्यर्थ एव सर्ववादिनां प्रयासः । अनिर्दिष्टा
सा साधयितुमशक्यैवेति न तद्वचनमसाधनाङ्गवचनम् । लौकिके
ष्वपि ऋणादानादिविवादपदेषु प्रतिज्ञाहानिमेव मुख्यं पराजयकारणमाहुः ।
यथाऽऽह नारदः—


II.683
सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।

तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् इति ॥

प्रतिदृष्टान्तधर्मं च स्वदृष्टान्तेऽभ्युपगच्छन् उत्सृजत्येव प्रतिज्ञाम् ।
नित्यत्वं हि सामान्यवत् घटस्यापि सहते । तदृष्टान्तबलेन शब्देऽपि
सिषाधयिषतीति नूनमिदानीं नित्यत्वमेव घटधर्मः शब्दे सिद्ध्येदिति कथं
तदनित्यत्वप्रतिज्ञाऽस्य न हीयते ॥


अनैकान्तिकोद्भावनं नालम्


यत्तूक्तं हेत्वाभासप्रयोग एव निग्रहनिमित्तम्, न प्रतिज्ञाहानिरिति—
स्यादेतदेवम्, 1695यदि द्वितीये वचसि व्यवस्थितेन प्रतिवादिना व्यभिचा
रोद्भावनया प्रत्यवस्थितो वादी तावत्येव विरमेत् । स तु तृतीये वचसि
वर्तमानः तदुद्धरणबुद्ध्या तथाविधमभिधत्ते, येन प्रतिज्ञां जहाति ।
अतश्च व्यभिचारपरिहरणलोभाभिहितप्रतिदृष्टान्तधर्माभ्यनुज्ञ वचनोप
नततदर्थप्रतिज्ञाहानिनिबन्ध न एवास्य निग्रहो युक्तः, न हेत्वाभासप्रयोग
कृत इति अयमेव मुख्यः प्रतिज्ञाहानेर्विषयः ॥


प्रतिज्ञान्तरम्


प्रतिज्ञातार्थप्रतिषेधे धर्मे विकल्पात्तदर्थनिर्देशः
प्रतिज्ञान्तरम् ॥ ५. २. ३ ॥


प्रतिज्ञातार्थप्रतिषेधे परेण कृते, तत्रैव धर्मिणि धर्मान्तरं साधनीय
वादिनः प्रतिसान्तरं मभिदधतो नाम निग्रहस्थानं भवति ॥


II.684

अनित्यः शब्दः, ऐन्द्रियकत्वात् इत्युक्ते, पूर्ववत् सामान्येन व्यभि
चारोद्भावनया प्रत्यवस्थित आह—सामान्यमैन्द्रियकं यन्नित्यं, तद्युक्तम् ।
तद्धि सर्वगतम् । असर्वगतस्तु शब्द इति नो दर्शनम्
इति । सोऽयं
अनित्यः शब्दः इति पूर्वप्रतिज्ञातः अन्यम् असर्वगतः शब्दःति प्रतिज्ञां
कुर्वन् प्रतिज्ञान्तरेण निगृहीतो भवति ॥


धर्मकीर्त्याक्षेपः


अत्राह—नेदमप्रस्तुतप्रतिज्ञान्तरकरणम्, अपितु परोद्भावितव्यभि
चारनिराकरणविशेषोत्पादनम् ॥


एतदुक्तं भवति—असर्वगतत्वे सत्यैन्द्रियकत्वादनित्यः शब्द इति ।
तदिदमसर्वगतत्वप्रतिज्ञासिद्ध्यर्थमुपात्तं कथं निग्रहस्थानम् । यो हि
मीमांसकं प्रति अनित्यः शब्दः, कृतकत्वात् इत्युक्तवान् तेन कृतकत्वम
सिद्धमित्युपालब्धः, कृतकत्वसिद्धये यतेत, स किं कृतकत्वप्रतिज्ञान्तरकर
णान्निगृह्येत ॥


यस्तु पूर्वप्रतिज्ञामवधीर्य, तदनौपयिकमकस्मादेव प्रतिज्ञान्तरमा
रभेत, स तदा उन्मत्त एव भवेत् । न चोन्मत्तप्रलापानां शास्त्रे लक्षण
करणं युक्तम् । स्पष्टे च निग्रहहेतौ हेत्वाभासाभिधाने संभवति किमिति
प्रतिज्ञान्तरं निग्रहस्थानमुच्यत इति ॥


अक्षेपस्य समाधानम्


अत्रोच्यते—प्रतिज्ञासिद्धये हेतुदृष्टान्तौ प्रयोक्तव्यौ, न पुनः प्रति
ज्ञान्तरं करणीयमिति स्थितिः । इह च यो हेतुः अनेनोपात्तः तस्मिन्
परेणानैकान्तिकीकृते सति, न तत्परिहाप्रकारमनुगुणमयमास्थितवान् ।
अपि तु असर्वगतत्वप्रतिज्ञामन्यामारूढः ॥


II.685

ननु ! विशेषणमेतदनेकान्तिकत्वपरिहारार्थम्, न प्रतिज्ञान्तरमि
त्युक्तम्—न—असिद्धत्वात् । 1696सिद्धं हि विशेषणं भवति । नित्यत्व
वादिनं च प्रति शब्दस्यासर्वगतत्वमसिद्धम् । साध्यते चेत्, तर्हि प्रति
ज्ञान्तरमेवेदम्, हेत्वाद्यवयववैलक्षण्यात्, प्रतिज्ञालक्षणस्य च साध्यनिर्दे
शस्योपपत्तेः । अनैकान्तिकत्वपरिहृतये हि हेतुविशेषणं सिद्धं वाच्यम्,
न तु धर्मिविशेषणं साध्यं चेति ॥


हेत्वाभासताऽप्यस्य न युक्ता


अन्यतरासिद्धे तु हेत्वाभासे तत्समर्थनं प्रक्रमानुरूपमेवेति न प्रति
ज्ञान्तरं निग्रहस्थानं भवति । इह तु अनैकान्तिकत्वपरिहाराय यतमानः
मार्गमनुगुणमपश्यन् स्खलित इति निगृह्यते । न च हेतूदादरणादिप्रयोग
निपुणमतेरपि भ्रमादेवंविधमभिधानं न संभवति । न च प्रतिज्ञामात्रेण
सिद्धिमिच्छन्नेवं ब्रवीति, अपि तु व्यभिचारं परिजिहीर्षन्निति ॥


नाप्यस्यासंबद्धत्वम्


न चायमुन्मत्तप्रलाप एव, प्रस्तुतानुगुण्यबुद्ध्या प्रयोगात् । अपि च
अनित्यः शब्दः, चाक्षुषत्वात् इत्युभयासिद्धो नाम हेत्वाभासः भवद्भिरपि
शास्त्रे लक्षित एव । स उन्मत्तप्रलापो न भवति ! यथोदाहृतम्
तत् प्रतिज्ञान्तरमुन्मत्तप्रलाप इत्यपूर्व एष भिक्षोः स्वदर्शने रागः,
परदर्शने द्वेषो वा । को हि नाम शिशुरपि शब्दे चाक्षुषतां ब्रूयात् ।
1697इदं तु संभवत्येवाभिधानम् । केवलं हेतुविशेषणे सिद्धे च वक्तव्ये भ्रमात्
धर्मिविशेषणं साध्यं चायमुक्तवानिति निगृह्यते


II.686

तृती1ये वचसि स्थितश्चैवमसावुक्तवानिति निमित्तान्तरमिदमस्य निग्रहे
निरूपितम् । द्वितीय एव तु वचसि कथाविरतौ हेत्वाभासप्रयोगादेव
निग्रहमाप्नुयादिति प्रतिज्ञाहानिप्रस्ताव एवोक्तम् ॥


प्रतिज्ञाविरोधः


प्रतिज्ञाहेत्वोविरोधः प्रतिज्ञाविरोधः ॥ ५. २. ४ ॥


यत्र प्रतिज्ञा हेतुना विरुद्धयते, हेतुर्वा प्रतिज्ञया, सः प्रतिज्ञाविरोधो
नाम निग्रहस्थानं भवति । गुणव्यतिरिक्तं द्रव्यम् इति प्रतिज्ञा;
रूपादिभ्योऽर्थान्तरस्यानुपलब्धेः इति हेतुः । सोऽयं प्रतिज्ञाहेत्वोविरोधः—
यदि गुणव्यतिरिक्तं द्रव्यम्, न तर्हि रूपादिभ्योऽर्थान्तरस्यानुमलब्धिः ।
अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः, न तर्हि गुणव्यतिरिक्तं द्रव्यम् ।
गुणव्यतिरिक्त च, द्रव्यं च, रूपादिव्यतिरिक्तस्यानुपलधेरिति
याहतम् ॥


धर्मकीर्त्याक्षेपः


अत्राह—नेदं प्रतिज्ञाहेत्वोर्विरोधोदाहरणं भवतुमर्हति, हेतोरसंभ
वात् । संभवन् हि हेतुः प्रतिज्ञाया विरुणद्धि । तया वा विरुद्ध्यते । इह
तु उपलब्धिलक्षणप्राप्तस्यानुपलब्धिः न समस्त्येव, रूपादिभ्योऽर्थान्तरस्य
पृथक्त्वेनोपलब्धियोग्यत्वानुपपत्तेः । संभवन्नपि चैवंविधे विषये प्रतिज्ञा
विरोधे हेतुः न द्वयीं दोषजातिमतिवर्तते—विरुद्धत्वम्, 1698असिद्धत्वं वा ।
II.687 गुणव्यतिरिक्तद्रव्यवादिनो हि भेदेनाग्रहणमसिद्धो हेतुः । सिद्धत्वे वा
साध्यविपर्ययसाधनात् विरुद्ध इति । अतो हेत्वाभासग्रहणेन गतार्थत्वात्
न पृथग्वक्तव्यमिदं निग्रहस्थानम् ॥


उदाहरणान्तरस्याप्यसाधुत्वम्


यत् अन्यदन्यैरुदाहरणमभाणि नित्यः शब्दः सर्वस्यानित्यत्वात्
इति—तदप्यसाधु—वैधर्म्यदृष्टान्तस्यानेन प्रकारेण कुशिक्षितैरभिधानात् ।
तथा हि—सर्वशब्दोऽत्र सावयववचन इति निरवयवत्वं हेतुर्विवक्षितः—
नित्यः शब्दः, निरवयवत्वात् इति । तत्र वैधर्म्यदृष्टान्तः साध्या
भावे हेतोरभावं प्रदर्शयता वक्तव्यम्—नित्यः शब्दः, अनित्यसर्वत्वात्—
सावयवत्वात् इति । सोऽयमशिक्षितवैधर्म्यदृष्टांतप्रदर्शनप्रक्रमैः विपर्य
येण वैधर्म्यदृष्टान्त एव कथितः सर्वस्यानिस्यत्वात् इति । तदुक्तं—


स हि दुष्टान्त एवोक्तः वैधर्म्येण सुशिक्षितैः ।

इति । तस्मान्नेदमपि प्रतिज्ञाहेतुविरोधोदाहरणमिति ॥


धर्मकीर्तिदूषणपरिहारः


अत्रोच्यते—यदुक्तं—हेतोरसंभवान्नेदं निग्रहस्थानम्—इति
तदचारु—पंचम्यन्तनिर्दिष्टस्य हेतोः प्रदर्शितत्वात् । निरवद्यहेत्वभावात्तु
यदि तदसंभव उच्यते, तर्हि हेत्वाभासव्याकरणमप्यकरणीयं भवेत् ।
पुरुषबुद्धिप्रमादनिबन्धनहेतुप्रयोगस्तु तथाविधमप्यभिधानं संभवत्येव ॥


हेत्वाभासनिग्रहस्थानयोर्वैलक्षण्यम्


यप्पुनरभ्यधायि—संभवन्नपि हेतुरयम् असिद्धविरुद्धयोरन्यतरो
भवेत्, न दूषणान्तरमिति—तत्र ब्रूमः—सत्यमेतत् किन्तु हेतुस्वरूप
II.688 निरूपणावसरे स यदि तद्गतदोषादोषदर्शनात् विरुद्धता तस्याभिधीयते ।
था भवद्भिः नित्यः शब्दः, कृतकत्वात् इति विरुद्धहेतौ वर्णिते
क्वचित् सिद्धसाध्यत्वदृष्टान्तहीनतादिदोषान्तरसंभवे तदवधीरणया विरु
द्धत्वमेव दर्शितम् । यथा वा हेत्वाभासलक्षणे कथितमस्माभिः अनित्यः
शब्दः, चाक्षुषत्वात्
इत्यस्यानैकान्तिकत्वदोषे सत्यपि प्रथमतरमसिद्धतैव
हृदयपथमवतरति, तेनासिद्धोऽयमुच्यते, न सव्यभिचार इति । एवमि
हापि हेतुगुणदोषविचारे क्रियमाणे विरुद्धतादिहेत्वाभासताऽस्य
कथ्यते ॥


यदा तु परार्थानुमानवाक्यस्य पंचावयवस्य, परमतेन वा व्यवय
वस्य परस्परान्वितपदार्थसमुदायात्मा वाक्यार्थश्चिन्त्यते, तत्र इतरेतर
व्याहतार्थवादिनोः प्रतिज्ञाहेतुपदयोः असंसर्गात् तद्विरोध एव झटिति
मनसि विपरिवर्तत1699 इति स एव निग्रहनिमित्तं भवितुमर्हति, यत इतरे
तरविरोधिनमनन्वितार्थममिदधति वाक्येऽपि विप्रतिपत्तिरप्रति
पत्तिर्वा भवेदित्यद एव निग्रहस्थानम् ॥


विरुद्धप्रतिज्ञाविरोधयोर्विशेषः


अपि च साध्यविपर्ययसाधक एव विरुद्धहेतुरुच्यते, यः प्रतिज्ञा
मेव बाधते । इह तु प्रतिज्ञया हेतुर्वाध्यते, प्रतिज्ञा वा हेतुनेति
विकल्प्यमानत्वात् निग्रहस्थानान्तरमेवेदम् ॥


इत्थमस्यैवोदाहरणस्योपपत्तेः उदाहरणान्तरनिरूपणं वृथाऽटाट्यैव ॥


II.689

भाट्टोक्तोदाहरणम्


भाट्टौस्तु 1700भवदीयं निरालम्बनसाधनं प्रतिज्ञाविरोधोदाहरणं वर्णितम्
निरालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वात् इति । यतः प्रत्ययत्वहेतु
ग्राहकज्ञानसालम्बनत्वे तेनैवैषा प्रतिज्ञा विरुद्धध्यते । तन्निरालम्बनत्वे
तु हेत्वभाव एव स्यादिति । तदुक्तम्—


विस्पष्टश्चाक्षपादोक्तो विरोधो हेतुसाध्ययोः ।

यमदृष्टवा परैरुक्तमदूषणमिदं किल इति ॥

तत् सर्वथा सुलभोदाहरणमिदं प्रतिज्ञाहेतुविरोधाख्यं निग्रहस्थान
मिति स्थितिः ॥


प्रतिज्ञासंन्यासः


पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः ॥ ५-२-५ ॥


पक्षसाधने परेण दूषिते तदुद्धारणाशक्त्या प्रतिज्ञामेव निह्नुवानस्य
प्रतिज्ञासन्न्यासो नाम निग्रहस्थानं भवति ॥


अनित्यः शब्दः, ऐन्द्रियकत्वात् इत्युक्ते, तथैव सामान्येनानैकान्ति
कतायामुद्धाटितायां, यत् प्रतिब्रवीति—'क एवमाहानित्यः शब्द इति
—सोऽयमेवंब्रुवन् प्रतिज्ञासन्न्यासात् पराजीयते ॥


प्रतिज्ञासंन्यासे धर्मकीर्त्याक्षेपः


अत्राह—अतिस्थूलः खल्वयं प्रमादः । को हि नाम प्रतिवादी
प्राश्निकसन्निधाने प्रतिज्ञां कृत्वा, तदैव तेषामेवाभ्रष्टसंस्काराणां पुरतः
अपस्मारकाद्यनुपप्लुतमतिः तामेव निह्नुवीत ॥


II.690

अपि च द्यूतपराजितपणरहितशठकितववदुदासीनः प्रतिज्ञामजह
दपि हेतावनैकान्तिके किमसौ न निगृह्यते । न हि प्रतिज्ञायास्त्यागात्यागौ
तदीययोः निग्रहानिग्रहयोः प्रयोजकौ, अपि तु हेतुगुणदोषावेव । स
चायं साधनव्यभिचारादेवानित्यपक्षः पराजीयत इत्यलं सन्न्यासेनेति ॥


धर्मकीर्त्याक्षेपपरिहारः


अत्रोच्यते—परोद्भावितहेत्वनैकान्तिकत्वदूषणोद्धरणरणरणकतर
लितमतेः भवेदप्ययं प्रमादः । एवं ह्यसौ वदति मयोक्तं—संयोगवियोग
व्यङ्ग्यः शब्दो न भवति, न त्वनित्यः
इति ॥


अयमाशयस्त्वेवंदतः—किल संयोगविभागानभिव्यङ्ग्यत्वे मया
पक्षीकृते, सामान्येन व्यभिचारो न भविष्यतीति । तदपि हि तादृशमेव,
स्वाश्रयव्यङ्ग्यत्वादिति मुह्यतः नातिस्थूलममुमीदृशं प्रमादं प्रतिपन्नस्य
भवत्येव निग्रहहेतुः । अप्रमादिनोस्तु निग्रहो नाम नास्त्येव कश्चिदिह
लोके परलोके वा1701


यत्तु तदीययोः प्रतिज्ञात्यागात्यागयोरनैकान्तिकत्वेनैवासौ निगृह्यत
इति—स्यादेतदेवं, यदि व्यभिचारोद्भावनसमनन्तरमसौ तूष्णीमेवासीत ।
तथाविधं तु ब्रुवाणस्तस्यैव पराजयहेतोस्सन्निकृष्टत्वात्तेनैव निगृहीतो
भवति, नानैकान्तिकप्रयोगेणेति ॥


हेत्वन्तरम्


अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्
॥ ५-२-६ ॥


II.691

अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतः हेत्वन्तरं
नाम निग्रहस्थानं भवति । यथा सांख्यस्येत्थंवदतः एकप्रकृतीदं 1702व्यक्तम्
परिमाणात्, घटादिवत्' इति । द्विविधं च विकारेषु दृष्टम्—इयत्ता
लक्षणमङ्कुरादेः फलान्तरस्य, चतुरश्रता च टादेः मृत्पूर्वकस्य । तदे
तत्परिमितं निकारजातमेकप्रकृतिकं दृष्टमित्यतः सर्वमिदमेकप्रकृति
भवितुमर्हति । या च सैका प्रकृतिः, तत् प्रधानमिति ॥


अस्य हेतोर्व्यभिचारः, नानाप्रकृतीनामपि परिणामदर्शनादिति ।
तत्परिजिहीर्षया विशेषणमाह—समन्वयादिति । सुखदुःखमोहसमन्वितं
हि सर्वं व्यक्तं परिमितं दृश्यत इति । तस्य प्रकृत्यन्तररूपसमन्वयाभावा
देकप्रकृतिकत्वामिति । तदिदं हेत्वन्तरं निग्रहस्थानम्, प्रागुक्ताविशे
हेतोः स्वयमेव हेतुत्वामर्षणादिति ॥


अनैकान्तिकात् हेत्वन्तरस्य विशेषः


अत्राह—किमयं दग्धो दह्यते, मृतो वा मार्यते । अनैकान्तिकहेतू
पन्यासेनैव खल्वयं तपस्वी निगृहीत एव, असाधनाङ्गवचनादिति कृतं
हेत्वन्तराख्यनिग्रहस्थानान्तरोदीरणेनेति—अत्रोच्यते—युक्तमेव तत्
द्वितीये वचसि कथासमाप्तौ यथा तु भवानाह । यदा तु व्यभिचारनिरा
करणाय विशेषणमपरमधिकमधुनाऽभिधातुं प्रवृत्तः, तदा तदुपादानादेव
निगृह्यत इति पिष्टपेषणं संप्रत्येवायमिष्यते । पुरुषशक्तिपरीक्षात्मके च
जल्पे निग्रहस्थानमिदम् । वादे तु विशुद्धाशयतया वस्तुनि परीक्ष्यमाणे
विशेषणान्तरोपादानेऽपि तद्विचारः प्रस्तोतव्यः, न निग्रहः कार्य इत्यभि
युक्ताः ॥


II.692

अर्थान्तरम्


प्रकृतादर्थादप्रतिसंबद्धार्थमर्थान्तरम् ॥ ५. २. ७ ॥


प्रकृतादर्थादर्थान्तरं तदनौपयिकमभिदधतः अर्थान्तरं नाम निग्रह
स्थानं भवति ॥


यथा कश्चिद्वैयाकरणविटः स्फोटात्मानं शब्दं चेतसि निधाय तन्नित्य
त्वसिद्धये नित्यः शब्दः, निरवयवत्वात् इत्यभिधित्सुरेव दुरितकर्मा
दिभिः अनैकान्तिकतामाशङ्कमानः अर्थान्तरं नाम निग्रहस्थानं 1703जिग
मिषुः, तत्रैव वाक्यशेषच्छाययोत्तिष्ठति नित्यः शब्दः निरधयवत्वात्'
इति वयं पाणिनीयाः प्रतिपन्नोः, ये भगवतः पाणिनेश्छात्राः, इति । कः
पुनर्भगवान् पाणिनिरिति—


येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।

कृत्स्नं व्याकरणं प्रोक्तं आचार्यो नस्स पाणिनिः ॥

कः पुनर्महेश्वरः, यतोऽक्षरसमाम्नायमधिजगाम पाणिनिरिति—


अत्युद्भटजटाजूटकोटिग्रथितचन्द्रमाः ।

विश्वस्थितिभवध्वंसहेतुरेको महेश्वरः ॥

अपि च—


अचिन्त्यवेषाभरणस्य तत्क्तः

यदृच्छया यस्य निशासु ताण्डवम् ।

स भस्मभक्तीनि बिभर्ति मौलिना

कृतांजलिः पादरजांसि वासवः ॥

II.693

कीदृशं पुनस्ताण्डवं तनोति खण्डपरशुरिति—


इत्थंचारी क्रमो यस्मिन् इत्थं च करवर्तनाः ।

इत्थं यत्र कटिच्छेदाः दण्डपादास्तथेदृशाः ॥

इत्येकैकमुपदेशयन् उत्थाय नृत्यति । तदेतदर्थान्तरं निग्रहस्थान
मसाधनाङ्गमिति ॥


कीर्तिनाऽप्यनुमोदितम्—द्वयोरपि च वादिप्रतिवादिनोः प्रकृताननु
गुणमभिदधतोः भवत्यदो निग्रहस्थानम् । यथाक्रममेकस्य साधनमनवद्य
मपश्यतो द्वितीयस्य दूषणमिति ॥


निरर्थकम्


वर्णक्रमनिर्देशवन्निरर्थकम् ॥ ५. २. ८ ॥


अभिधेयरहितवर्णानुपूर्वीप्रयोगमात्रं निरर्थकं नाम निग्रहस्थानं भवति
अनित्यः शब्दः, कचटतपानां गजडदबत्वात्, घझढधमवत् इत्येवं
प्रकारम् । इदमपि वादिप्रतिवादिनोः प्रकृताननुगुणमभिदधतोर्भवत्यदो
निग्रहस्थानम् । यथाक्रमं साधनं दूषणं च यथोवितमभिधातुमजानतोः
पूर्ववदुभयोरपि निग्रहस्थानम् ॥


निरर्थकनिग्रहस्थानाक्षेपः


अत्राह—1704सोऽयमुन्मत्तप्रलापमेव शास्त्रे लक्षयितुमुपक्रान्तः । न
ह्यनुन्मत्तानामीदृंश्यक्षराणि मुखान्निर्गच्छन्ति । ईदृशां च निर्देशे कपोल
वादित्रकक्ष्याभिताडनादीन्यपि कामं शास्त्रे निर्दिश्यन्ताम् ॥


अपि च वर्णक्रमनिर्देशवदिति मतुपा निर्देश ष सूत्रे, वदिति
वतिप्रयोगो वा ? मतुप्पक्षे 1705सर्वं वर्णक्रमनिर्देशयुक्तं निग्रहस्थानं भवे
दिति हस्तसंज्ञादिभिरिदानीमुद्ग्राहिणिकाः प्रस्तूयेरन् ॥


II.694

अथानर्थकक्रमसिदेर्शयुक्तमिति व्याख्यायते, तथाऽपि नियमानुप
पत्तिः । न ह्यर्थरहितवर्णोच्चारणमेव प्रकृतानुपयोगान्निरर्थकमेव; वर्ण
क्रमनिर्देशस्यापि च क्वचित्प्रकरणे सार्थकता दृश्यत एव, प्रत्या
हारवत् ॥


वतिपक्षे तु भवति दिवप्रदर्शनमेतत्; किन्त्वर्थान्तरेणैव गतार्थत्वात्
पृथङन वक्तव्यम् ॥


उक्ताक्षेपसमाधानम्


अत्रोच्यते—मतुपा, वतिना वाऽभिधेयशून्यत्वमात्रमत्र विवक्षितम् ।
अभिधेयशून्यं वचो निरर्थकमित्युक्तमिति भवति । एष एव चार्थान्तरा
दस्य विशेषः । तत्राभिधेयस्य भावेऽपि प्रकृतानुपयोगः । इहत्वभिधेय
मेव नास्तीति यत्र क्वचित्प्रकरणवशेन वर्णक्रमनिर्वेशस्यापि सार्थकता;
न तदिहोदाहरणम् ॥


उदाहरणं यदि स्फुटं पृच्छसि, न कुप्यसि चेत्, तद्भवदीयं सर्वमेव
वचनमिहोदाहरणम् । 1706सौगतदर्शने शब्दानामर्थासंस्पर्शित्वात्,
स्वलक्षणे तेषामप्रवृत्तेः । अपोहस्य चातितुच्छत्वात्, सर्वं तदभिधाने
नरर्थकम् ॥


बौद्धास्सर्वेऽपि न दूप्याः


1707अत एव चोन्मत्तप्रलापिनः शाक्यभिक्षवोऽपि परिशुद्धवृत्तय
परलोकयाथार्थ्यदर्शिनः शौचाचारव्यवहारेषु अबाह्याः महान्तो विद्वांसस्ते
II.695 काममर्थशून्यमपि कथयन्तः नोन्मत्ता भवितुमर्हन्ति1708 । एवमन्यस्यार्पि
प्रज्ञाप्रमादात् कचटतपादि व्याहरतो नोन्मत्तता ॥


यच्योक्तं—ईदृशां गणने का परिनिष्ठेति—तत् परिहृतमसकृत्
असङ्कीर्णोदाहरणविवक्षया द्वाविंशतिभेदत्वमाश्रितमिति ॥


कपोलवादनादीनि पुनः अकधास्वभावत्वादचिन्त्यान्येव । यस्य
चास्मिन् कथाप्रसङ्गे गण्डवादित्रादि चेतसि स्फुरति, तस्यान्यदतिजघन्य
मपि हृदयमवतरेदित्यलं कश्मलगोष्ठ्येति ॥


अविज्ञातार्थम्


पर्षत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम्
॥ ५-२-९ ॥


यत् साधनवार्क्य, दूषणवाक्यं वा त्रिरभिहितं पर्षदा प्रतिवादिना न
विज्ञायते क्लिष्टशब्दप्रयोगम्, अप्रसिद्धप्रयोगम्, अतिद्रुतोच्चरित
मिन्येवंप्रकारमविज्ञातार्थं नाम निग्रहस्थानं भवति । असामर्थ्यसंवरणाय
च धूर्तैरिदमाश्रीयते ॥


निरर्थकाविज्ञातार्थयोर्विशेषः


अत्राह—अर्थासंप्रत्ययस्य समानत्वात् कोऽस्य निरर्थकाद्भेदः । अथ
प्रकृतोपयोगयोग्यमर्थमसौ वदति, तदा पर्षत्प्रतिवादिनोरमेधाविता कामं
भवेत्; न तु विदुषः वक्तुं विवदतः पराजयो भवितुमर्हति ॥


किंकृतश्चैष त्रिरुच्चारणनियमः ? किं राजाज्ञया, उत स्वाक्येन ?
इति न विद्मः ॥


II.696

अत्रोच्यते—निरर्थके सर्वेण सर्वार्थशून्यता; इह तु भवन्नप्यर्थो नाव
गम्यते, द्रुततरोच्चारणादिव्यतिकरवशादिति कथमविशेषः1709 । तत्र
च कल्प्यते नूनमसामर्थ्यमात्मीयमावरीतुमनाः एवमभिधत्ते—न हि
समर्थो विद्वान् विस्पष्टं न वक्तीति ॥


त्रिरमिधाननियमे विशेषः


त्रित्वनियमोऽपि न वेदवचननरपतिशासननिबन्धनः; किन्तु वस्तुस्थित्यु
पनत एव । यतः सकृत्, द्विरप्यभिहितमप्यनवधानादिना न गृहीतमिति
संभाव्यते । त्रिस्तु यदुक्तं न ज्ञायते, तत्र वक्तुरेव जाड्यम् । अनेक
प्राश्निकादिसमाजे कथितमवश्यं केनाप्यवगम्येत । सर्वेरनवगमात्तु
वक्तैव निगृह्यते । चतुर्धा पंचधा वाऽभिधाने त्विष्यमाणे निरवधिताऽ
भिधानस्य प्रसज्यत इति युक्तस्त्रिर्वंचननियम इति ॥


अपार्थम्


पौर्वापर्यादियागादप्रतिसंबद्धार्थमपार्थकम् ॥ ५-२-१० ॥


पूर्वापरासङ्गतपदकदम्बकोच्चारणादप्रतिष्ठितवाक्यार्थमपार्थकं नाम
निग्रहस्थानं भवति । तद्यथा—दशदाडिमानि षडपूपा कुण्डमजाजिर्न
पललपिण्डः कुमार्याश्चैत्रस्य पिता प्रतिशीन इति ॥


धर्मकीर्त्यांक्षेपः, समाधानं च


अत्राह—अप्रतिसंबद्धवदेवासंबद्धवाक्यं, असंबद्धप्रकरणं च निग्रह
स्थानान्तरं कस्मान्नोक्तम् ? एतेनैव गतार्थत्वादिति चेत्, यद्येवमनर्थ
II.697 केनैव गतार्थत्वादपार्थकमपि पृथङन वक्तव्यम्—अत्रोच्यते—निरर्थके न
पदार्थः, न वाक्यार्थः; केवलं वर्णा एव शुष्का उच्चार्यन्ते । अर्थान्तरे
ऽपि समन्वितपदार्थे व्यवस्थापितवाक्यार्थमनुपकृतं तूच्यते । इह तु पदार्थ
संप्रत्ययेऽपि तदन्वयासंभवेन वाक्यार्थानवसाय इति स्पष्टो भेदः ॥


प्रकृतविवादास्पदीभूते वस्तुनि को वा विशेष इति चेत्1710—उक्तमत्र
—संक्षेपविवक्षायां द्वे एव निग्रहस्थाने । असंकीर्णोदाहरणविवक्षया तु
द्वाविंशतिभेदत्वम् । प्रकृतवस्तुसिद्धिस्तु द्वाविंशतावपि तुल्यैव ॥


यत्तु असंबद्धवाक्यं, असंबद्धप्रकरणं च पृथगुपसंख्येयमिति—तन्न—
अप्रतिसंबद्धपदार्थेनैव तत्संग्रहात् । यदि त्वसंबद्धवाक्यमसंबद्ध
प्रकरणं चावश्यं वक्तव्यम्, तद्युक्तमेव भवदीयं शास्त्रम् । तथा हि
वैभाषिकाणामस्ति बाह्योऽर्थः, स च प्रत्यक्षः । सौत्रान्तिकानां च सन्नप्य
सावनुमेयः । योगाचाराणां साकारं ज्ञानमेव, न बाह्योऽर्थः, स च
प्रत्यक्षः । 1711माध्यमिकानां आकारशून्यं स्वच्छं ज्ञानमात्रमेव—इत्येव
मितरेतरानन्वितवाक्यप्रकरणमिदमशेषमेव शाक्यशास्त्रम् । आह च—


दशदाडिमवाक्यस्य बौद्धशास्त्रस्य चेदृशः ।

अन्यस्य चाप्यबद्धस्य प्रतिष्ठा केन लभ्यते ॥

II.698

अप्राप्तकालम्


अवयवविपर्यासवचनमप्राप्तकालम् ॥ ५-२-११ ॥


प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनक्रममतिलङ्घ्य—अवयवविपर्या
सेन प्रयुज्यमानमनुमानवाक्यमप्राप्तकालं नाम निग्रहस्थानं भवति ॥


पदानां प्रयोगक्रमे धर्मकीर्त्यांक्षेपः


अत्राह—न हि पदानां वाक्येषु नियतः क्रमः कश्चिदस्ति । नियत
क्रमका हि वर्णाः पदतामापद्यन्त इति युक्तम्, तदन्तरेण तदर्थानवग
मात् । न हि घट इत्युक्ते घटावगतिर्भंवति । वाक्येषु तु देवदत्त ! गां
शुक्लामभ्याज दण्डेन
दण्डेन शुक्लां गामभ्याज, देवदत्त ! इति
क्रमान्तरेणापि तथैवार्थप्रतिपत्तेः किं क्रमेण । अनुमानवाक्ये तु पंचाव
यवाः
इत्येतदेव तावत् प्रथममसांप्रतम्, प्रतिज्ञाद्यवयवानामसाधानाङ्ग
वचनत्वात् । तत्र तेषां पंचावयवानामपि प्रयोगः, प्रयोगेऽपि च क्रमो
विवक्षितः, तदुल्लङ्घनं च निग्रहस्थानमिति महती मूर्खप्रक्रियेति ॥


न्यायाबयवेषु क्रमः नियतः


अत्रोच्यते—वाक्यान्तरेषु क्रमविवक्षा भवतु, मा वा भूत्; नानेन
नः प्रयोजनम् । अनुमानवाक्ये तु आर्थः क्रम; बलादापतति, स्वप्रति
पत्त्यनुसारेण परप्रतिपतेरुत्पादनात् । स्वप्रतिपत्तौ च धर्मिदर्शन-तद्गत
हेतुधर्मावधारण-प्रतिबन्धस्मरण-परामर्शज्ञान-साध्यनिश्चयानां क्रमेण दर्श
नात् परं प्रति तथैव तदभिधानं कर्तव्यमिति सविस्तरमवयवलक्षणं
II.699 निर्णितमेतत् । असाधनाङ्गत्वचनत्वमपि, प्रतिज्ञाद्यवयवानां तत्रैव निर
स्तम् । अतः क्रमस्येह युक्तियुक्तत्वात्तवतिक्रमो भवत्येव निग्रहस्थानम्1712


न्यूनम्


हीनमन्यतमेनाप्यवथवेन न्यूनम् ॥ ५. २. १२ ॥


पंचावयवे वाक्ये प्रयोक्तव्ये स्थिते, तदन्यतमेनाप्यवयवेन हीनं प्रयुं
जानस्य न्यूनं नाम निग्रहस्थानं भवति ॥


न्यूनस्यादोषत्वाक्षेपः, समाधानं च


अत्राह—प्रतिज्ञाद्यवयवजातमसाधनाङ्गवचनमित्यतः तदनभिदधतो
न निग्रहः; प्रत्युत वदतो निग्रहो युक्त इति—अत्रोच्यते—अनन्तरमेवै
तत्परिहृतम्, विस्तरतश्चावयवलक्षणे । तथा हि—श्रोतुराकाङ्क्षानिवृ
त्तयेऽनुमानवाक्यं प्रयुज्यत इति प्रथमं तदाकाङ्क्षाविषयः साध्यधर्म
विशिष्टो धर्मी प्रदर्श्यते । ततः कारणाकाङ्क्षायां हेतुवचनमभिधीयते ।
क्वास्य प्रतिबन्धो दृष्ट इति बुभुत्सायां उदाहरणमुपपाद्यते । इत्थमेष
सिद्धप्रतिबन्धो हेतुः धर्मिणि भवेत्, न वेति शङ्कायामुपनयवचन
मुच्चार्यते । तदनन्तरं सर्वावयवानामेकत्रोपसंहाराय निगमनं प्रयुज्यत
इत्यन्यतमस्याप्रयोगात् निग्रहार्हता भवत्येवेत्यलमत्रैव वस्तुनि पदे पवे
कलहप्रस्तावनेनेति ॥


अधिकम्


हेतूदाहरणाधिकमधिकम् ॥ ५. २. १३ ॥


एकेनैव हेतुना दृष्टान्तेन वा प्रतिपादितेऽर्थे हेत्वन्तरं दृष्टान्तान्तरं वा
प्रयुंजानस्य अधिकं नाम निग्रहस्थानं भवति । एतच्च वादे तावद्वीतराग
II.700 कथात्मके वस्तुनिर्णयफले नेष्यत एव । जल्पेऽपि नियमाभ्युपगमेन
वदतो वादिनः इदं निग्रहस्थानम् । यो हि न मया, आवाभ्यां वा
साधनमधिकमभिधेयम्, उदाहरणं वेति नियम्योद्ग्राहयति, स एव तथा
निगृह्यते, नान्य इति ॥


एतच्च कीर्तिनाऽप्येवमेव कथितम्—1713'प्रपंचकथायां तु न दोषः, इति ॥


अस्य दोषत्वतदभावपक्षौ


अपर आह—नियमाभ्युपामेऽपि नायं दोषः, प्रतिपत्तिद्रढिम्ने तदभि
धानादिति—तदयुक्तम्—अभ्युपगतनियमत्यागादसौ निग्रहार्हो भवेत् ।
कश्चायं प्रतिपत्तिद्रढिमा ? प्रथमप्रयुक्तस्य हि हेतोः मृदुप्रतिपत्तिका
रिणः हेतुत्वमेव न स्यात् । उत्पन्नस्य प्रत्ययस्य पुनरुत्पादनं युक्तम् ।
तत्र न पूर्वहेतुरद्रढिम्ने । नाप्युत्तरो द्रढिम्ने । तस्मान्नियमाभ्युपगमेऽ
धिकाभिधानं दोष एव ॥


अपरं मतम्—अकृतनियमस्यापि दोष एव । प्रपंचकथायामप्ये
केन हेतुना दृष्टान्तेन वा कृते निर्णये द्वितीयस्य वैयर्थ्यात् । निर्णीतस्य
निर्णयानुपपत्तेः । अनिर्णयकारिणश्च प्रथमस्य हेतोः प्रयोगानर्हत्वा
दिति ॥


पुनरुक्तम्


शब्दार्थयोः पुनरुच्चारणं पुनर्वचनमन्यत्रानुवादात्
॥ ५. २. १४ ॥


II.701

अर्थादापन्नस्य स्वकण्ठेन पुनर्वचनम्, शब्दस्य वाऽर्थस्य वाऽभि
हितस्य पुनरभिधानं पुनरुक्तं नाम निग्रहस्थानं भवति, अनुवादं
वर्जयित्वा ॥


शब्दपुनरुक्तं तावत् यत्र पूर्वोच्चारित एव शब्दः पुनरुच्चार्यते—यथा
नित्यः शब्दः, नित्य शब्दः इति ॥


अर्थपुनरुक्तं तु—यत्र सोऽर्थः पूर्वमन्येन शब्देनोक्तः पर्यायान्तरेण
पुनरुच्यते । यथा अनित्यः शब्दः, निरोधधर्मको ध्वानः इति ॥


यद्यपि च शब्दपुनरुक्तेऽप्यर्थपौनरुक्त्यमस्त्येव; तथापि शब्दपूर्व
कत्वादर्थप्रत्यभिज्ञायाः प्रथमतरं शब्दप्रत्यभिज्ञानात् तत्पौनरुक्त्यमेव तदु
च्यते । 1714जात्यपेक्षश्च शब्दपौनरुक्त्यव्यवहारः, न व्यक्त्यपेक्षः; 1715क्षणं
भङ्गित्वाद्वर्णानां पुनः प्रयोगासंभवात् ॥


अनुवादे तु पौनरुक्त्यमदोषः । यथा—हेत्वपदेशात् प्रतिज्ञायाः पुन
र्वचनं निगमनम्
इति ॥


अर्थादापन्नस्यापि स्वशब्देन पुनर्वचनं भवत्येव पुनरुक्तम् । यथा
असत्सु मेघेषु वृष्टिर्न भवति इत्युक्ते अर्थादापद्यते सत्सु भवति इति ।
तत् किमर्थं स्वकण्ठेन पुनरुच्यते । अर्थप्रतीत्यर्थो हि शब्दप्रयोगः ।
प्रतीतेऽर्थे किं तेनेति ॥


एतच्च नियमाभ्युपगमे निग्रहस्थानं वेदितव्यम् । अकृतनियमस्यं
तु नातीव महानयमपराधः ॥


II.702

शब्दपौनरुक्त्यस्य दोषत्वाशङ्का


अत्राह—नार्थपुनरुक्तादन्यच्छब्दपुनरुक्तमुपपद्यते, शब्दसाम्येऽ
प्यर्थभेददर्शनात् ।1716 स्मरत गिरिशं गिरिशो नगरी यस्यासमर
द्वेषस्य क इव यदीयस्य मुदा न गरीयस्या समस्मरद्वेषस्य
इति ।
तस्मादर्थत एव पौनरुक्त्यं, न शब्दतः ॥


अपि च विस्तरकथासु कदाचन सम्यगश्रवणशङ्क्रायां पुनरभिधानं
नाम कियान् प्रमादः ? अर्थादापन्नस्य च स्वशब्देन पुनर्वचनं यदि निग्रह
स्थानमुच्यते, तर्हि प्रतिज्ञावचनमेव प्रथमं निग्रहस्थानम्1717


अधिकपुनरुक्तयोर्वा को विशेष इति वक्तव्यम् । यादृशं तादृशं च
विशेषलेशमाश्रित्य पृथगभिधाने निग्रहस्थानभेदपरिगणनमशक्यक्रियं
स्यात् ॥


अनुवादश्चेदुच्यते—हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनमिति—
तत्र प्रतिज्ञैव तावदसाध्वी । तस्याः पुनर्वचनं साधु भविष्यतीति केयं
कथा ॥


तेषां दोषत्वसमर्थनम्


अत्रोच्यते—यदुक्तमर्थपुनरुक्तादन्यन्न शब्दपुनरुक्तमिति—तदेवमेव ।
पृथङ्निर्देशस्त्वनया विवक्षया—यो हि शक्त्यतिशयचिख्यापयिषया सकृत्प्र
युक्तः शब्दः पुनर्मया न प्रयोक्तव्यः
इति प्रतिज्ञाय जल्पं प्रवर्तयति,
II.703 स शब्दपुनरुक्तेनापि निगृह्यत इति नियम्यवादिन एव निग्रहात् । ततः
अन्यस्य सम्यगश्रवणशङ्कया पुनर्वदतोऽपि न दोषः । अर्थाक्षिप्तकथन
मपि कृतनियमस्यैव दोषः, नान्यस्येति ॥


अत एव वादे न निग्रहस्थानमिदम्, अपि तु जल्पवितण्डयोरेव
विजिगीषुकथयोः । 1718तयोश्च सप्रयोजनत्वम्, कथान्तरत्वं च पुरा
समर्थितमेव ॥


यत्तु प्रतिज्ञोच्चारणमर्थाक्षिप्तत्वात्, तदनुवादश्च निगमनवचनमफ
लतरमिति—तदवयवलक्षणे विस्तरेण समाहितम् ॥


अधिकपुनरुक्तयोस्त्वयं विस्पष्ट एव विशेषः । अन्यं हेतुम्, अन्यं
वा दृष्टान्तं तत्रैव साध्येऽभिदधदधिकवादी भवति, तमेव हेतुं दृष्टान्तं वा
पुनर्चदन् पुनरुक्तवादीति ॥


यत्तु—एवंविधविशेषाश्रयणे परिगणनमधटमानमिति—तत् अवान्त
रविशेषविवक्षयैवमेव । असङ्कीर्णोदाहरणप्रदर्शनाय तु द्वाविंशतिनिर्देश
इत्युक्तम् ॥


अननुभाषणम्


विज्ञातस्य पर्षदा त्रिरभिहितस्याप्यनुच्चारणमननुभाषणम्
॥ ५. २. १७ ॥


पर्षदा विदितस्य वादिना त्रिरुच्चारितस्यापि यदप्रत्युच्चारणं—तत्
अननुभाषणं नाम निग्रहस्थानं भवति । अप्रत्युच्चारयन् किमास्पदं
दूषणमभिदधीत ॥


II.704

ननु ! यद्यननुभाष्यापि तत्रोत्तरं ब्रूयात्, किमिति निगृह्येत ।
न च योऽनुभाषितुमसमर्थः स उत्तरमपि दातुमक्षमो भवति; विचित्र
त्वात्पुरुषशक्तीनाम्—नैतदेवम्—अननुभाषणे तदुत्तरविषयापरिज्ञानात्
क्वोत्तरं प्रयुज्येत । प्रयुक्तं वा कथमवधार्येत ?


न चैवं ब्रूमः यावत्किंचित् वादिना सविस्तरमभिधीयते, तदखिल
न्यूनानतिरिक्तमनुज्झितक्रमकं प्रतिवादी तथैवानुभाषेतेति1719
यस्तु समस्तानुभाषणं तथा कुर्यादपि नाम, तेन स्वकौशलमेव केवलं
मुपदर्शितं भवति, मेधावित्वं वा । न त्वेवमकुर्वन् प्रत्यवेयादिति ।
स्तोकस्तोकमनुभाषमाणः, तथैव च क्रमेण दूषयन् न निग्रहमाप्नुयादिति ॥


धर्मकीर्त्यांक्षेपः


अत्राह—यदि वादी स्वपक्षमाधनविवरणवर्त्मना बहुतरमकृतक
मप्रकृतार्थमुपक्षिपेत्, तत् किं प्रतिवादिना सर्वमनुभाषणीयम् । हेतु
मात्रं त्वनूद्य दूषणमुद्भावयतः नास्य निग्रहो युक्तः । दूषणविषयं तु
हेतुमात्रमपि योऽनुभाषितुमकौशलः, स उत्तरविषयापरिज्ञानात् उत्तरमपि
प्रतिपत्तुमसमर्थ एवेत्यप्रतिभया निगृह्यताम् । किमननुभाषणेन ॥


अपि च, त्रिरभिहितस्येति केयं परिभाषा ? तथा च वादी पराव
बोधार्थं वाक्यं प्रयुंजीत, परोपद्रवार्थं वा ? तत्र परावबोधार्थे वाक्ये
परावबोध एवाभिधानविधिः, न द्विस्त्रिर्वा नियमः । यावत्कृत्वः प्रयुक्ते
वाक्ये परस्यायबोधो जायते, तावत्कृत्वः प्रयोक्तव्यम् । परोपद्रवार्थं तु
II.705 वाक्योच्चारणमक्षत एव धर्मः !1720 प्राश्निकान् यथा तथा सङ्केतेनापि
ब्रोधयित्वा दुःश्लिष्टकष्टशब्दप्रयोगाद्याडम्बरविरचनयापि आन्ध्यमुत्पाद्य
परानुपरुध्येतेति महत् कश्मलमेतत् । न चेदृशं शास्त्रे व्युत्पादनार्हम् ।
तस्मात् बहुकृत्वोऽप्यभिधाय प्रतिवादी बोधयितव्यः । न तु द्विरुच्चा
रितमप्रत्युच्चरन् निगृहीतव्य इति ॥


उक्ताक्षेपसमाधानम्


अत्रोच्यते—न खलु सकृदेव सकलपरविरचितवचनसंदर्भानुभाषण
मविलम्बितक्रमकमस्माभिरपि कर्तव्यतयोपदिष्टम् । अपि तु यथोचित
दूषणविषयानुभाषणमात्रमेव ॥


यस्तु स्तोकमप्यनुभाषितुमप्रगल्भः, तस्योत्तरप्रतिभानमपि नास्तीति
यदुच्यते—तदसम्यक्—1721अन्यदननुभाषणम्, अन्यदुत्तराप्रतिभानम् ।
कस्यचिदशेषमनुभाषितवतोऽपि उत्तराप्रतिभानदर्शनात् । तदिदं 1722अनु
त्तरविषयानुद्धोषणं निग्रहस्थानमुच्यते, नोत्तराप्रतिभानम् । उत्तरा
प्रतिभानमनन्तरं वक्ष्यते ॥


यत्तु त्रिरुच्चारणपरिभाषा कुतस्त्येति विकल्पितम्—तदविज्ञातार्थ
नाम्नि निग्रहस्थाने प्रतिविहितम् । वीतरागकथात्मके वादे शिष्टादि
भिस्सह क्रियमाणे काममस्तु परावबोधावधि वाक्योच्चारणम् । जल्पे तु
विजिगीषुकथायां पुरुषशक्तिपरीक्षणात् अवश्यमुच्चारणनियम आश्रय
II.706 णीयः । तत्र सकृद्वा द्विर्वाऽभिहितस्याग्रहणमनवधानादिनापि संभवन् न
निग्रहाय कल्पते । त्रिरभिहितस्य तु 1723सर्वैरग्रहणे वक्तुरेवापराधः ।
अन्यैर्गृहीतस्य प्रतिवादिना त्वग्रहणे तस्य निग्रहः । वारत्रयादूर्ध्वमप्यभि
धाने त्वाश्रीयमाणे जल्पादौ कथासमाप्तिरेव न स्यात् । छात्रशाला
ह्यसौ भवेत्, नोद्ग्राहिणिकाभूमिरिति ॥


अज्ञानम्


अविज्ञानं चाज्ञानम् ॥ ५. २. १८ ॥


परिषदा विज्ञातस्यापि वादिवाक्यस्य प्रतिवादिना यदविज्ञानं, तत्
अज्ञानं नाम निग्रहस्थानं भवति । अविदितोत्तरविषयो हि क्वोत्तरं
ब्रूयादिति ॥


अज्ञानम्अप्रतिभा इति नानयोर्विशेषं पश्यामः—अत्रोच्यते—
भिन्नविषयत्वाददोषः । उत्तरविषयाप्रतिपत्तिः अज्ञानम्, उत्तराप्रति
पत्तिस्त्वप्रतिभेति ॥


ननु ! उत्तरविषर्य यो न जानाति, स उत्तरमपि न जानात्येव—
मैवम्—उत्तरविषयं जानन्नपि किंचित् उत्तरं न जानातीति लोकदृष्टमेतत् ।
एवं तर्हि अननुभाषणेन गतार्थमज्ञानम्; अज्ञाते हि परकीये वाक्यार्थे
तदनुभाषणे सामर्थ्याभावदर्शनात्—सन्ति हि केचित्, येऽनुभाषितुमशक्नु
वन्तः, पत्रिकादिलिखितं तदावेदयन्तीति । एवं त्रयाणामपि च न पौनरु
क्त्यम् । उत्तरविषयाप्रतिपत्तिः अज्ञानम् । प्रतिपत्तावपि तदप्रत्युच्चा
रणं अननुभाषणम् । अनुभाषितेऽप्युत्तराप्रतिपत्तिः अप्रतिभेति ॥


II.707

ननु ! यद्यज्ञानसाम्येऽपि विषयभेदमाश्रित्य निग्रहस्थाननानात्व
मित्यमभिधीयते, तर्ह्यज्ञानप्रकारवैचित्र्यात् भेदान्तराण्यपि वक्तव्यानीति
—उक्तमत्र सारसंग्रहविवक्षया द्वे एव निग्रहस्थाने—विप्रतिपत्तिः अप्रति
पत्तिश्चेति । इतरेतरविसदृशोदाहरणदिक्प्रदर्शनाय द्वाविंशतिभेदत्वमुच्यते ।
अवान्तरविशेषैस्तु तदानन्त्यमभ्युपगम्यत एव । तथा च द्वाविंशतिवर्गे
हेत्वाभासाश्च इति पठितम् । ते च स्वरूपेणैव तावत्पंच—सव्यभिचार
विरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासा
इति । अवान्तरभेदाश्च1724
तेषामतिबहवः सन्त्येव । इह त्वेकमेव तन्निग्रहस्थानमादिष्टं हेत्वाभासाश्च
यथोक्ताः
इति । तस्मादित्थं समासव्यासवर्णनात् अलं पदे पदे पर्यनु
योगेनेति ॥


अप्रतिभा


उत्तरस्याप्रतिपत्तिरप्रतिभा ॥ ५. २. १९ ॥


परपक्षे गृहीतेऽपि तस्मिन्नुत्तराप्रतिभानमप्रतिभा नाम प्रतिवादिनो
निग्रहस्थानं भवति । अज्ञानादिभ्यो भिन्नताऽस्य दर्शितैव । कीर्ति
रपि चैतदनुमन्यत एव निग्रहस्थानम् ॥


ननु ! उत्तरमप्रतिपद्यमानः सदसि प्रतिवादी कथमासीत ?
यत्किंचिद्विकत्थमानः1725 । तद्यथा—


II.708
हृत्पुण्डरीकविकसत्सकलानवद्य-

विद्यावदातवदनः क्व जनोऽस्मदादिः ।

क्वायं वटुः ? कतिपयाक्षरलेशलिप्त-

जिह्वान्वितः कथमनेन सहाभिदध्मः ॥

दानार्द्रगन्धगजकुम्भकपाटभेदि-

भीमस्फुरन्नखशिखाशिखरः क्व सिंहः ।

क्वामी समीरणविधूतपूराणपर्ण-

1726पातोद्भवद्भयविलोलदृशः कुरङ्गाः ॥

इत्यादि यद्वा तद्वा प्रलपन्नास्ते ॥


विक्षेपः


कार्यव्यासंगात्कथाविच्छेदो विक्षेपः ॥ ५. २. २० ॥


उद्ग्राहणिकामुपक्रम्य वा, तद्ग्राहयितव्यं मयेति प्रतिश्रत्य वाऽभि
मुखं प्रतिवादिनि सन्निहितेषु प्राश्निकेषु कार्यव्यासङ्गं व्यपदिशति इदं
मे करणीयमपहीयते, गच्छामि
इत्यभिधाय कथां विच्छिनत्ति यः स
विक्षेपेण पराजीयते । अन्यतरनिग्रहान्ता हि1727कथा भवति । स चत्थं
कथां कुर्वन्—आत्मनैवात्मानं निगृह्णाति । प्रतिश्यायेन मे कण्ठोपरोधः
उदपादि, पदमपि वक्तुं न युज्यते
जननी मे जीवितं जहाति स्म,
तां श्मशानभुवं प्रापय्य वह्निसात्करोमि
इति ॥


II.709

विक्षेपस्यादोषत्वाशङ्का


अत्राह—यदि तावत् परमार्थत एव मातृमराणादिकार्यंमस्योपस्थितं,
तत् किमिति तपस्वी पराजीयते ? उद्ग्राहणिकाजितो मा भूवमिति
किमसौ मृतां मातरमपि मा धाक्षीदिति महत् सुभाषितमिति ॥


पीनसावरुद्धस्थानकरणो वा कथं वाचमुदीरयतु । अथासामर्थ्यस्थग
नाय वितथमपि कथयति तथाविधमसौ कार्यव्यासङ्गम्, तर्हि सत्यं
निगृह्यते । न तु विक्षेपेण, किन्तु अन्येनैव । वादी तावत् द्रुतकर्तव्य
व्याजव्यपदेशात् अर्थान्तरगमनादिना निगृह्यते, प्रतिवादी त्वप्रतिभयैवेति ।
अतिप्रसङ्गश्चैवंप्रकारणां निर्देशे भवेदिति ॥


उक्ताक्षेपसमाधानम्


अत्रोच्यते—कथामुपक्रम्य, प्रतिज्ञां वा, हेतुमभिधाय तद्विवरण
सरणिमिषमबलम्ब्य किंचिदर्थान्तरमुपन्यस्यति, यत्, तत् अर्थान्तर
मुदाहृतमादावेव । इह तु कथापूर्वरङ्गे कथायां वा किमपि करणीय
निभमभिधाय सभयमपसरति सदस इति कथमिव तत्तुल्यता भवति ?


अप्रतिभयाऽपि श्रुतपूर्वपक्षः पराजीयते । इह तु पूर्वपक्षमेव न
शृणोति वा न करोति वा । प्रथममेव पलायत इति महान् विशेषः ।
अतिप्रसङ्गस्त्वसकृत्पराकृतः ॥


यत्तु—हेत्वाभासेष्वन्तर्भावमस्य कीर्तिरकीर्तयत्—तदतीव सुभा
षितम्—क्व हेत्वाभासः ! क्व कार्यव्यासङ्गः ! संप्रधारणैव रमणीये
यम् । हेतवौ हेतुवदवभासमानाः हेत्वाभासाः किमस्य कार्य
व्यासङ्गस्याहेतोर्हेतुवदाभासनं कीर्तिना दृष्टमिति परं नः कुतूहलम्1728


II.710

मतानुज्ञा


स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसंगो मतानुज्ञा
॥ ५. २. २२ ॥


स्वदक्षे परापादितदोषमनुद्धृत्य—अभ्युपगम्य 1729तमेव परपक्षे प्रतीप
मापादयतः, परमतानुज्ञानात् मतानुज्ञा नाम निग्रहस्थानं भवति । यथा
चौरो भवान्, पुरुषत्वात्, प्रसिद्धचौरवत्' इत्युक्ते सति—आह भवानपि
चौरः, पुरुषत्वात्
इति । सोऽयमेवं वदन् आत्मनः परापादितं दोषमभ्यु
पगतवानिति मतानुज्ञया निगृह्यते ॥


मतानुज्ञाया दोषत्वशंका, समाधानं च


अत्राह—अनैकान्तिके हेतौ परेणोक्तेः तदुद्भावनमनेन प्रकारेण
प्रतिवादी करोति—इति किमिति निगृह्यते । वाद्येव हेत्वाभासप्रयो
गान्निगृह्यत इति ॥


अत्रोच्यते—उक्तमादावेव 'स्वपक्षे दोषमनुद्धृत्येति । एवं हि तेन
वक्तव्यम्—'अनैकान्तिकोऽयं हेतुः, अचौरेऽपि पुरुषत्वस्य दर्शनादिति ।
एवं हि स दोष उद्धृतो भवति । एवं त्वनभिधाय—भवानपि चोरः,
पुरुषत्वात्
इति वदन् अनुजानात्येव परमतम् । अतोऽनैकान्तिकत्वे
वक्तव्ये, तदुद्भावनानुक्रममवधीर्य अतिप्रसङ्गमापादयन् निग्रहार्हो भव
ष्येवेति । वादिनश्चानैकान्तिकहेतुप्रयोगेऽपि तदनुद्भावनान्नपराजयः ।
प्रतिवादिन एव हीदं सन्निकृष्टं निग्रहस्थानमिति ॥


II.711

पर्यनुयोज्योपेक्षणम्


निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥ ५. २. २२ ॥


पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः—इदं ते—निग्रहस्थान
मुपनतम्, अतो निगृहीतोऽसि
इत्येवं वचनीयः । त य उपेक्षते—नानु
युङ्क्ते, स पर्यनुयोज्योपेक्षणान्निगृह्यते ॥


धर्मकीर्त्याक्षेप !


अत्राह—कः कस्येदं निग्रहस्थानमापादयति—किं पर्यनुयोज्यः,
उत तदुपेक्षकः ? उपेक्षकस्तावदस्य पर्यनुयोज्यतामेव न जानाति । जानन्वा
कथमेनमुपेक्षेत ।—उपेक्ष्य वा किमात्मन एव निग्रहस्थानमुद्भावयन्नेवमाचष्टां
एष पर्यनुयोज्योऽपि मयोपेक्षित इति निगृहीतोऽस्मि इति । पर्यनुयोज्योऽपि
कथमात्मीयमवद्यं प्रकाशयेत्—इदं मे1730 दूषणम् । तच्च भवता नोद्भावितम् ।
अतो भवान् जितः' इति । स खल्वेवमभिदधत् अमेध्यं पाणौ निधाय परं
कलङ्कयितुकामः परं कलङ्कयन्नेवात्मकलङकमनुभवत्येवेति ॥


अपि च नेदं निग्रहस्थानान्तरमपदिश्यते किन्त्वप्रतिभैवेति । तथा
हि—यदि तावदुत्तरपाक्षिकः पूर्वपाक्षिकं साधनाभासमव्याचक्षाणं उपे
क्षेत—तत्र दूषणं नोद्भावयेत् । तदुत्तराप्रतिपत्त्या न निगृह्यते, न पर्यनु
योज्योपेक्षणेन ॥


वस्तुतस्तु द्वयोरपि तत्र जयपराजयनिर्धारणमनुपपन्नम्, एकस्य
साधनाभासवादित्वात्, इतरस्य च तदुत्तराप्रतिभानात् ॥


II.712

अथ पूर्वपाक्षिकः दूषणाभासवादिनं दोषप्राप्तं उत्तरपाक्षिकं न निगृ
ह्णाति—तथापि तस्य दुरुत्तराप्रतिभैव । न चान्यतरस्यापि जयः परा
जयो वा निर्धार्यते । एकस्य दूषणाभासवादित्वात्, इतरस्य च तदनु
द्भावनात् ॥


उक्ताक्षेपसमाधानम्


अत्रोच्यते—न—अप्रतिभायाः सम्यक्साधनविषयत्वात् । सम्यक्सा
धने च प्रयुक्ते तदुत्तरस्याप्रतिपत्तिः अप्रतिभा भवति । साधनाभासे तु
प्रयुक्ते तदाभासतानुद्भावनात् पर्यनुयोज्योपेक्षणं भवति । अत्र तु
साधनाभासवादी पर्यनुयोज्यः । स उपेक्षितः । तत्र सम्यक्साधनवादी
तु अपर्यनुयोज्य एवेति विशेषः ॥


यत्तु वस्तुवृत्तेन न कस्यचिदपि जयः पराजयो1731 वेति—तदेवमेव
किन्तु जल्पे पुरुषशक्तिपरीक्षायामिदं निग्रहस्थानमुच्यते ॥


तदुद्भावयितापि यद्विकल्पितः—तत्राप्युच्यते—पूर्वपाक्षिकेण साधना
भासे प्रयुक्ते, उत्तरपाक्षिकेण तस्मिंस्तथात्वेनानुद्भाविते, प्राश्निकानाम
पृष्टानां वक्तुमवसराभावात्स एव साधनाभासवादी कदाचिद्वैयात्यादेवं
ब्रूयात्—मयाऽस्य शक्तिं जिज्ञासमानेन साधनाभासप्रयोगः कृतः, एष तु
मूर्खः तं न जानाति
इति, तदा कथं न निगृह्यते । एतेन दूषणाभास
वाद्यपि व्याख्यातः ॥


अथवा उभयाभ्यर्थिताः सभापतिनियुक्ता वा प्राश्निकाः तथा कथ
यन्तो निगृह्णन्त्येव पर्यनुयोज्योपेक्षिणम् । साधनाभासवादिनो हि धूर्त
II.713 तया तदभिधानम् । सम्यक्साधनमजानतः अर्थसंशयाद्वा संभवति ।
उत्तरपाक्षिकस्य तु तदनुद्भावनं मोहादेवेति स एव पराजीयते ॥


निरनुयोज्यानुयोगः


अनिग्रहस्थाने निग्रहस्थानाभियोगः निरनुयोज्यानुयोगः
॥ ५. २. २३ ॥


अनुज्झितयथोचितक्रमं, उपपन्नवादिनं, अप्रमादिनमनिग्रहाहमपि
निगृहीतोऽसीति यो ब्रूयात्, स एवाभूतदोषो1732द्भावनान्निगृह्यते ॥


धर्मकीर्त्याक्षेपः


अत्राह—यदि तावदुत्तरपाक्षिकः पूर्वपाक्षिकमदुष्टसाधनवादिनम
भूतैरेव दोषैरभियुङ्क्ते, तथा सति भूतदोषोद्भावनस्योत्तरस्याप्रतिपत्तेः
अप्रतिभयैव स निगृह्यताम्, किं निरनुयोज्यानुयोगाख्यनूतननिग्रहस्थान
पराजीयते । भूतदोषाभियोगपक्षे तु पूर्वपाक्षिक एव साधनाभासयोगात्
अनुयोज्य एव खल्वसौ न निरनुयोज्यानुयोगस्य विषयो भवितुमर्हति ॥
कथनेन ।


उक्ताक्षेपसमाधानम्


अत्रोच्यते—अहो नु खल्वयं तपस्वी पर्युदासस्य, प्रसज्यप्रतिषेधस्य
च विशेषमपश्यन्नतिमात्रं मुह्यति । भूतदोषाप्रतिभानमन्यत्, अन्यच्चा
भूतदोषप्रतिभानम् । एकत्राप्रतिपत्तिः, इतरत्र विपरीतप्रतिपत्तिः ।
II.714 तत्र भूतदोषाप्रतिपत्तिः अप्रतिभा । अभूतदोषप्रतिपत्तिः अननुयोज्यानु
योगः ॥


अपि च—


असाधनाङ्गवचनमदोषोद्भावनं च यत् ।

भवता निग्रहस्थानमाख्यातं, तत्र कथ्यते ॥

त्र प्रसज्यप्रतिषेध एव केवलमाश्रियमाणे हेत्वाभासा अपि
निग्रहस्थाने भवेयुः ? साधनङ्गस्यानभिधानं मौक्यमेव केवलं
निग्रहस्थानं भवेत् । तस्मादसाधनाङ्गवचनं अदीषोद्भावनमपि पर्युदास
व्याख्यानार्ह भवत्येव । ततश्च भूतदोषानुद्भावनमप्रतिभा, अभुतदोषो
द्भावनं च निरनुयोज्यानुयोगः ॥


अथ 1733अभूतदोषोद्भावनेऽपि भूतदोषाप्रतिभानमस्त्येवेति तदेवास्तु
निग्रहस्थानमित्युच्यते—तर्हि मूकत्वमेवैकं निग्रहस्थानं स्यात्, असाधना
ङ्गवचनेऽप्येवं वक्तुं शक्यत्वादित्युक्तमेव ॥


अपसिद्धान्तः


सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽप्रसिद्धान्तः
॥ ५. २. २४ ॥


यः कंचन प्रथमं सिद्धान्तमभ्युपगम्य कथामुपक्रमते । तथा प्रवृत्तश्च
सिषाधयिषितार्थसमर्थनरभसेन, दूषणोद्धरणश्रद्धया वा सिद्धान्तविरुद्ध
II.715 मभिधत्ते, सः अपसिद्धान्तेन पराजोयते । तद्यथा सांख्यः प्रतिवादि
सन्निधाने—


नासतो विद्यते भावः नाभावो विद्यते सतः

इति 1734स्वसिद्धान्तं प्रथमं प्रतिज्ञाय प्रधानसिद्धये साधनप्रयोगं करोति,
व्यक्तं विकारजातम्, एकप्रकृति, समन्वयदर्शनात् । मृदन्विता हि
मृद्विकाराः कुण्डपिठरशरावप्रभृतय एकप्रकृतिका दृष्टाः; एवमस्यापि
गवाश्वादिविकारजातस्य सुखदुःखमोहान्वयदर्शनात् तदात्मकैकप्रकृति
प्रभवत्वेन भवितव्यम् ॥


एवमुक्तवानसौ नैयायिकेनानुयुज्यते—अथ का प्रकृतिर्नाम, का च
दिकृतिरिति । 1735अविदितप्रकृतिविकृतिस्वरूपो हि कथं विकृतीनां एक
प्रकृतित्वमेकत्वं जानीयादिति । एवमनुयुक्तः कापिलः आह—यस्या
वस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते, सा प्रकृतिः । यत् तद्ध
र्मान्तरं प्रवर्तते सा विकृतिरिति ।


सोऽयमेवं वदन् प्रागभ्युपगतसदसन्निरोधप्रभवाभावसिद्धान्तविरुद्धा
भिधानात् अपसिद्धान्तेन निगृह्यते ॥


यदि पूर्वधर्मनिरोधे धर्मान्तरप्रादुर्भावः, तदा—


नासतो विद्यते भावः नाभावो विद्यते सतः

II.716

इति स्वसिद्धान्तो हीयेते । अथ सिद्धान्तो न त्यज्यते, तर्हि प्रकृति
विकारानिश्चयात् हेत्वसिद्धौ साध्याभावः प्रसज्यत इति ॥


उक्ताप्रसिद्धान्तस्यादोषत्वाशङ्का


अत्राह—हेतुप्रयोगं कृतवति कपिले नैयायिकस्तदसिद्धतोद्भावनया
प्रत्यवतिष्ठतां, प्रकृतिविकृतिस्वरूपप्रश्नस्य कोऽवसरः ? तदिदमर्थान्तर
गमनमस्य भवेत् । एवं पृच्छतः अर्थान्तरगमनं स्वग्रन्थे निग्रहस्थान
उच्यते, अथ च अधुना तेनैव व्यवह्नियत इति कोऽयं नयः ?


यदि तु सांख्यमतं निराचिकीर्षितं, तदसिद्धतैव हेतोरुद्भाव्यताम्, प्रकृ
त्यन्वयस्य विकारेषु असंभवादिति । विकारा हि प्रवृत्तिनिवृत्तिधर्मकाः ।
न चैवंप्रकारमव्यक्तम्1736, अव्यक्तधर्मान्वये हि विकाराणां प्रवुत्तिनिवृत्त्या
त्मकत्वं हीयेतेत्येवमसिद्धत्वाद्धेतोः हेत्वाभासप्रयोगादेव सांख्यो निगृहीत
इति न निग्रहस्थानान्तरमपसिद्धान्त इति ॥


तस्य दोषत्वसमर्थनम्


अत्रोच्यते—सत्यमसिद्धो भवत्वयं कापिलकल्पितो हेतुः । प्रकृति
विकृतिप्रश्नक्रमेणापि तदसिद्धत्वमवधारयितुं शक्यत एव । किन्तु हेतु
रूपेऽवधारिते तद्दूषणमभिधानीयम्, अनवधारितस्य दूषयितुमशक्यत्वा
दिति तत्प्रश्नो नार्थान्तरगमनम्1737 । प्रश्नोत्तरमेव भाषमाणः परामर्शे
निकटतरपरिस्फुरदपसिद्धान्ताभिधाननिबन्धननिग्रहान्तरविषयतां प्रतिपन्न
इति हेत्वाभासवर्त्मनि न दूरं गम्यते ॥


II.717
क्वचिदपि परनिग्रहस्य हेतौ

हृदयपथं प्रथमं किलावतीर्णे ।

अपरमपि न कारणं विचिन्त्यं

किमिव फलं खलु पिष्टपेषणस्य ॥

हेत्वाभासरूपनिग्रहस्थानम्


हेत्वाभासाश्च यथोक्ताः ॥ ५-२-२५ ॥


हेत्वाभासास्तु पूर्वोक्तलक्षणैरेव लक्षिताः ।

निग्रहस्थानतां यान्ति यथोक्ता इत्यतोऽब्रवीत् ॥

प्रमाणस्य प्रमेयत्वं प्रमेयस्य प्रमाणता ।

यथा लक्षणभेदेन न तथैतेषु दृश्यते ॥

1738भेदेनोक्ताः किमर्थं त इति निगदिता पूर्वमेवात्र युक्तिः

वादे ह्येते प्रयोज्याः प्रगुणनयविदा तत्त्वशुद्धिं विधातुम् ।

एतेषां धर्मकीर्तेरपि च न विमतिः निग्रहस्थानतायां

इत्थं द्वाविंशतिर्नः गुरुभिरभिहिताः निग्रहस्थानभेदाः ॥

ग्रन्थोपसंहारः


इत्येवं सूत्रकारागममनुसरताऽनुज्झता भाष्यभूमिं

स्थाने स्थाने परेषां मतमतुलगति क्षिण्वता तार्किकाणाम् ।

कांचिद्वाक्यार्थचर्चामपि विरचयताऽनुक्रमेणावतीर्णा

निर्णीतः स्वे निबन्धे निपुणमिह मया षोडशैते पदार्थाः ॥

II.718
न्यायोद्गारगभीरनिर्मलगिरा गौरीपतिस्तोषितः1739

वादे येन किरीटिनेव समरे देवः किराताकृतिः ।

प्राप्तोदारवरः ततस्स जयति ज्ञानामृतप्रार्थना

नम्रानेकमहर्षिमस्तक वलत्पादोऽक्षपादो मुनिः ॥

वादेष्वात्तजयो जयन्त इति यः ख्यातस्सतामग्रणीः

अन्वर्थो नववृत्तिकार इति यं शंसन्ति नाम्ना बुधाः ।

सूनुर्व्याप्तदिगन्तरस्य यशसा चन्द्रस्य चन्द्रत्विषा

चक्रे चन्द्रकलार्धचूडचरणध्यायी स धन्यां कृतिम् ॥

नमश्शशिकलाकोटिकल्प्यमानाङ्कुरश्रिये ।

प्रपन्नजनसंकल्पकल्पवृक्षाय शम्भवे ॥

॥ इति श्री भट्टजयन्तकृतायां न्यायमञ्जर्यां द्वादशमाह्निकम् ॥


—समाप्ता चेयं न्यायमञ्जरी—


  1. असमासकरणं—प्रत्यवस्थानपदेन ॥

  2. आगमाद्वा इति श्रवणम् । युक्तितः इति मननम् ॥

  3. अन्येनासदुत्तरे दत्ते; तत्र समीचीनोत्तरादाने पराजयः ॥

  4. साधर्म्यमात्राद्वस्तुसिद्धिश्चेत्, सत्तासाधर्म्यात् गौरप्यश्वो भवेत् ॥

  5. सिद्धिः—ज्ञप्तिः, निष्पत्तिश्च । निष्पत्तिरत्र स्वरूपावाष्तिः । गोः रूपं हि गोत्वादेव सकले तरव्यावृत्तं सर्वसमानं च सिध्यति । सत्तादिः शुक्लादिर्वा न तादृशगोत्वस्वरूपसाधक भवति ॥

  6. वर्ण्यः—प्रकृत इति यावत् ॥

  7. साधर्म्यमात्राद्वस्तुसिद्धिश्चेत्, सत्तासाधर्म्यात् गौरप्यश्वो भवेत् ॥

  8. अतो न निर्णयः कर्तुं शक्यत इति ॥

  9. साधर्म्यं, वैधर्म्यं वा न स्वेच्छया निर्णेतुं युक्तमिति सारम् ॥

  10. न दृष्टान्तदार्ष्टान्तिकयोरभेदः, अभेदे तदसंभवात् । अतः सर्वत्र संप्रतिपत्तिरावश्यकी ॥

  11. सत्यं, साध्यसाधनयोः संबन्ध आवश्यकः । बह्निधूमयोः प्रतिबन्धः, अभिचारादाबुद्देश्यत्वं चास्त्येव । न हि एकरूपस्संबन्धः सर्वत्रेत्याशयः ॥

  12. सिद्धस्यैव खलु हेतुत्वं, दृष्टान्तत्वं वा ॥

  13. अन्यथा उत्पत्तिः कथम् ?

  14. सर्वत्र एतादृशसाधर्म्यवैधर्म्ययोः सुलभत्वेन सर्वत्र सदा संशयः स्यात्स्वात्

  15. सर्वत्र एतादृशसाधर्म्यवैधर्म्ययोस्सुलभत्वेन सर्वत्र सदा संशय एव स्यात् ॥

    1670
  16. This seems to be a duplicate of note n="2-659-a".
  17. This seems to be a duplicate of note n="2-659-a".
  18. अतश्च त्वया मत्पक्षः न निरस्त एवेति ममैव जयः ॥

  19. प्रमाणस्यैव कस्यचिदभावात् प्रमाणसिद्धे वस्तुनि इति कथम् ? इति यदि प्रत्यवनिष्टेत तदा प्रतिबन्द्येवोत्तरमित्यर्थः ॥

  20. नित्यपक्षस्य हानिः अर्थादापद्यत इत्यन्वयः ॥

  21. घनस्य ग्रावा—करका ॥

  22. इष्टापत्तौ च केवलवैतण्डिकः स्यात् । एतस्य तु वादे नाधिकारः ॥

  23. मूलोदकं—भूमेरन्तः, कूपखननादावभिव्यज्यमानं जलम् ॥

  24. अध्यात्मं—मानसानुभवः । मनो हि सुखादिभावग्राहकमिवाभावग्राहकमपि भवति ॥

  25. अन्ततः वाक्यत्वम् अस्ति साधर्म्यम् ॥

  26. प्रकृतस्यानित्यत्वस्य प्रतिषेधासिद्धिरित्यर्थः ॥

  27. न तु नित्यत्वं सिद्धयेत् । निराधारः धमः कथं स्यादिति चेत्, धर्मिणि सिद्धे साधारत्वम्, नेतरदेत्यदोषः । उपरिष्टादिदं स्पष्टम् ॥

  28. कार्यान्यत्वं—कार्यविशेषः ॥

  29. उदाहरणप्रदर्शनव्याजेन स्वसिद्धान्तोऽपि स्थापित इत्यर्थः ॥

  30. स्वपक्षे अनैकान्तिकत्वमनुद्धरन्, परपक्षे अनैकान्तिकत्वमापादयति चेदित्यर्थः ॥

  31. स्वपक्षे दोषमभ्युपगम्य परपक्षे दोषोद्भावनं मतानुज्ञा निग्रहस्थानम् ॥

  32. इयमेव प्रतिबन्दीत्युच्यते । स्वपक्षे दोषमनभ्युपगम्य ममाऽयं दोषः इत्यु च्यते, तर्हि तवैवायं प्रथमो दोषः स्यात् इति ॥

  33. वादिनोऽपि साध्यासिद्धिः स्यात् । अतः वादिना सावधानेन भवितव्यम् ॥

  34. तृतीयकक्ष्यायामित्यर्थः ॥

  35. कर्म—विषयः । करणं—न्यायप्रयोगादि । तयोर्न निग्रहः, किन्तु पुरुषस्यव । विषयः न हि केनाप्यन्यथयितुं शक्यः ॥

  36. पूर्वतनसूत्रद्वये उभयोः प्रस्तुतत्वात् तच्छब्दस्यैवं व्याख्यानम् ॥

  37. श्लोकद्वयं—सामान्यलक्षणपरविभागपरसूत्रद्वयम् ॥

  38. वादिनः विप्रतिपत्तिः, प्रतिवादिनः अप्रतिपत्तिरिति व्यवस्थायां ॥

  39. विजह्यादिति भ्रमः—इत्यन्वयः । अनैकान्तिकता परिहृता भवतीति भ्रमः ॥

  40. प्रयोगः—उद्भावनम् । हेत्वाभासस्यापि निग्रहस्थानपरिगणनमस्ति ॥

  41. तावत्येव वादी यदि विरमेत्, तदा रयादेतदेवम् इत्यन्वयः ॥

  42. सिद्धत्वे तु हेत्वन्तररूपं निग्रहस्थानं भवति ॥

  43. इदं—शब्दः अनित्यः, ऐन्द्रियकत्वादित्यादि ॥

  44. असिद्धत्वं—स्वरूपासिद्धिः ॥

  45. तथाच वस्तुदृष्टया हेत्वाभासः, उक्तिदृष्टया निग्रहस्थानमित्युक्तम् ॥

  46. भवदीयम्—इत्यत्र भवच्छब्दः बौद्धपरः ॥

  47. प्रमादं वै मृत्युमहं ब्रवीमि सदाऽप्रमादममृतत्वं ब्रवीमि इति वचनम् ॥

  48. व्यक्तं—महदादिस्थूलजगदन्तम् ।

  49. अवशादेवेति शेषः ॥

  50. सोऽयं—सूत्रकारः ॥

  51. निर्दुष्टन्यायप्रयोगादिकमपि । तत्राप्यस्ति हि वर्णक्रमनिर्देशः ॥

  52. नेदं केवलहास्यवचनम्, वस्तुस्थितिकथनमपीति प्रदर्शयति—सौगतदर्शन इत्यादिना ॥

  53. अत एव—अस्योन्मत्तप्रलापत्वाभावादेव ॥

  54. किन्तु भ्रान्ताः । भ्रान्तिः, उन्मादश्च नाविशेषः ॥

  55. सभ्यया रीत्या, भाषया च व्यवहरेदिति यावत् । स्वयमतिप्रौढपण्डितस्यापि लोकोत्तीर्णप्रज्ञस्यापि व्यवहारक्रमातिलङ्घनं पराजयहेतुः ॥

  56. वर्णोच्चारणं वा, पदोच्चारणं वा, वाक्यप्रयोगो वा—भवतु, सर्वत्र अर्थराहित्यं समानमेव किल ॥

  57. यद्यपि माध्यमिकाः सर्वशून्यवदिनः इति सर्वत्रप्र सिद्धिः । परन्त्विदमेव प्रामाणिकं वचः । प्रज्ञापारमितादौ हि शून्यस्यापि अनिर्वचनीयतत्त्वरूपत्वं स्पष्टं प्रतिपादितम् । तर्हि विज्ञानवादशून्यवादयोः को विशेष इति चेत्, उक्तमत्रैव योगाचाराणां साकारं ज्ञानम्, माध्यमिकानां तु आकारशून्यं स्वच्छं ज्ञानम् इति । तथा च योगाचारैः ज्ञाने कल्पितो वा आकारः अङ्गीक्रियते, माध्यमिकैस्तु सोऽपि नाङ्गीक्रियते इति । परिकल्पितस्वभावं, परिनिष्पन्नस्वभावं, परतन्त्रस्वभावं चेति वस्तु त्रिविधं बवेत् । तत्र विज्ञानवादिनः परिकल्पितस्वभाववप्दिनः । इतरौ तु परिनिष्पन्न स्वभाववादिनौ । माध्यमिकास्तु निस्स्वभाववादिनः । अतश्च स्वभावत्रयशून्यभ्वात्वस्तुनः, ते शून्यवादिन इत्येव तत्त्वम् ॥

  58. कदाचित्तु पूर्वसमयबन्धानुरोधेनान्यथापि संभवः ॥

  59. पूर्वोक्तरीत्या नियमाद्यकरणेन प्रवृत्ता कथा प्रपंचकथा ॥

  60. जातिः—अत्व-कत्वादिः ॥

  61. क्षणः—द्विक्षणम् । एकक्षणमात्रवर्तिनः अभावात् ॥

  62. गिरिशं—ईश्वरं स्मरत । असमस्मरद्वेषस्य—असाधारणकामरिपोः यस्य गिरिशः—हिमवान्, नगरी—वासभूमिः । कः—चतुर्मुखः गरीयस्या मुदेन यदीयस्य वेषस्य समस्मरम् । अधीगर्येत्यादिना षष्ठी ॥

  63. प्रतिज्ञाया अपि अर्थात् ज्ञातुं शक्यत्वात् ॥

  64. तयोः—जल्पविनण्डयोः ॥

  65. किन्तु, दूषणं श्रुत्वा वादी न मया तथोक्तमिति यदि अपलपेत् तदा असंबद्धार्थकथनात् प्रतिवादी निगृह्येतापि । तद्वारणाय वादिसंमतस्य दृढीकरणार्थमनुवाद इति भावः ॥

  66. उपहासवचनमिदम् ॥

  67. वाद्युक्तस्य ज्ञानमन्यत्, तस्योत्तरदानं चान्यत् ॥

  68. वाद्युक्तेषु यावतः अंशस्योत्तरं देयम्, तावदंशत्य सदसि सर्वेषां परिज्ञानायोद्धोषणमकुर्वतः अननुभाषणं दोषः ॥

  69. सर्वैः—मध्यस्थैः, सदस्यैश्च ॥

  70. असिद्धिविशेषा बहवः ॥

  71. वस्तुतस्त्विदमपि अर्थान्तरमेव । किन्तु स्वेदसंरंभभूनिरीक्षणादावप्रतिभा मध्यर्स्थैर्घोषणीया ॥

  72. पुराणपर्णपातः—पुराणपर्णपातजन्यशब्दः ॥

  73. प्राय इति शेषः । कदाचित् जयपराजयनिर्णयो न भवेदपि ॥

  74. एतावदपि स कथं न ज्ञातवानिति ॥

  75. अनेन प्रतिबन्दीतो वलक्षण्यम् । नायं दोषः, यतस्त्वयाऽपि तथाऽभ्युपगन्तव्यम् इति प्रदर्शनं प्रतिबन्दी ॥

  76. मे—मयि, मत्पक्ष इति यावत् ॥

  77. कस्यापि पक्षस्याप्रतिष्ठापनात् । ततश्च जयः विषयदृष्ट्या ॥

  78. अभूतेति—अविद्यमानेत्यर्थः ॥

  79. पूर्वं नञि पर्युदासः, उत्तरं नञि प्रतिषेधः ॥

  80. यद्यपीदं गीतावचनं सिद्धान्तेऽपि प्रमाणमेव । असतः शशशृङ्गादेः भावः— उत्पत्तिः न । सतः घटादेः अभावः—अनुत्पत्तिः न इति च तदर्थः । ततश्चानेन शून्यवाद एव निराकृतः, न सिद्धान्तसंमतः आरम्भवादः । तथापि सांख्यानां अभिमानमङ्गीकृत्यानुवादः क्रियते ॥

  81. प्रकृतिविकृत्यादिपदानि हि तन्मते पारिभाषिकाणि ॥

  82. प्रवृत्तिमात्रधर्मकं, तत् । तस्य कुत्रापि लयाभावात् ॥

  83. कथायां स्वपक्षमात्रसिद्धपारिभापिकपदप्रयोगे हि जिज्ञासाऽनिवार्या । अतः नार्थाग्तरं दोषः ॥

  84. किमर्थं पृथगत्र हेत्वाभासाः पुनरप्युक्ता इत्याक्षेपः । हेत्वाभासाना परिशीलनं वादेऽप्यावश्यकम् । जल्पे तु ते निग्रहहेतवो भवन्तीति द्विरूपत्वं हेत्वाभासानामस्तीति न पौनरुक्त्यमिति समाधानम् ॥

  85. किरातरूपिणा परमेश्वरेण नियुद्ध्य अर्जुनः यथा पाशुपतास्त्रं प्राप्तवान् तथा गौतमः वादे परमेश्वरं संतोप्य न्यायशास्त्रं प्राप्तवानिति कथा सूत्रकर्ता भविष्यसि इत्यादौ पुराणे सूचिता ॥

    अनुगृह्णन्तु सद्भावपवित्रितजगत्त्रयाः !
    अघ्राय मञ्जुलं न्यायमञ्जर्यास्सौरर्भ बुधाः !

    ॥ इति पण्डितरत्नेन विदुषा वरदार्येण विरचिते न्यायसौरभे द्वादशमाह्निकम् ॥