प्रकृतोपयोगिवाक्यार्थप्रतिपत्तिफलशून्य
निग्रहस्थानचतुष्कप्रकरणम्


प्रकृतादर्थादप्रतिसंबद्धार्थमर्थान्तरम् ॥ ५ । २ । ७ ॥


व्याचष्टे—यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे सति वादे जल्पे
वितण्डयामित्यर्थः । हेतुतः साध्यसिद्धौ प्रकृतायां वादी साधनं ब्रूयाद् नित्यः
शब्दोऽस्पर्शत्वादिति
हेतुः इति । अत्रान्तरे सुखादिभिर्व्यभिचारेण स्वहेतोरसामर्थ्यं
पश्यन् तत्प्रच्छादनाय प्रसक्तानुप्रसक्त्या तं तमर्थमुपन्यस्यन्नर्थान्तरेण निगृह्यते ।
अभिधेयस्य क्रियान्तरयोगात् क्रियाविशेषस्य योगात् विशिष्यमाणरूपो
भिद्यमानरूपः शब्दो नामेति । यथा वृक्षस्तिष्ठति, वृक्षं च्छिनत्ति, वृक्षेण चन्द्रमसं
पश्यति, वृक्षायोदकमासिञ्चतीत्यादि । तदेवमभिधेयस्य क्रियाविशेषैर्योगाद्
विशिष्यमाणरूपो भिद्यमानरूपः शब्दो नामेति । आख्यातस्वरूपमाह—क्रियाकार
683 कसमुदाय
इति । विषयेण विषयिणमुपलक्षयति । पचति पच्यत इत्यादयः शब्दाः
क्रियां कारकं कर्तारं कर्म वा भिवदन्ति । तदेतल्लक्षणमसिद्धमतिव्यापकं च । न हि
कर्ता कर्म वा आख्यातेनाभिधीयते, क्रियाक्षेपेणैव तयोः प्रतिलम्भात्, अनन्यलभ्यस्य
च शब्दार्थत्वात् । कर्तृकर्मणोश्च कारकान्तरेभ्यो भावनायामभ्यर्हितत्वेन2421 तत्संख्या
भिधाननियमादसिद्धं कारकाभिधानम् । अतिव्यापकं च, पाचकः पाक्य इत्यादेर्नाम्नोऽपि
क्रियाकारकसमुदायाभिधायित्वात् । तदस्मिन् लक्षणेऽपरितुष्यन् लक्षणान्तरद्वयेनाख्या
तपदान्युपसंगृह्णाति—कारकसंख्याविशिष्टक्रियाकालयोगाभिधाय्याख्यातम् ।
पचति पच्यत इत्यादौ कर्तुः कर्मणो वा संख्यया कालेन वर्तमानादिना विशिष्टा क्रिया
प्रतीयते । कालश्च क्वचिदस्तीत्येतावतोक्तो न तु विवक्षितोऽत्र लक्षणे, पचेत
यजेतेत्येवमादौ तद्योगाप्रतीतेः । अनेन च लक्षणेन स्थीयते सुप्यते इत्यादी
नामाख्यातानामसंग्रहः, कारकतत्संख्ययोरप्रतीतेः । अतस्तत्संग्रहाय द्वितीयं
लक्षणमाह—धात्वर्थमात्रं च कालाभिधानविशिष्टम् । अभिधीयते इत्यभिधानम् ।
प्रयोगेष्विति क्रियान्तरप्रयोगेषु । नाम्नो वा आख्यातस्य वा तदर्थाद् अभिद्यमानरूपा
निपाताः ।
यथा समुच्चयविकल्पादिनामपदैः समुच्चयादयः समुच्चेत
व्यान्नामार्थादाख्यातार्थाद् वा भेदेनोच्यन्ते, तत्र षष्ठीप्रयोगात्, एषां समुच्चयो वा
विकल्पो वेति । नैवं चवादयः स्वार्थान् नामार्थादाख्यातार्थाद् वा भेदेनाभिदधति ।
रूप्यन्ते प्रतिपाद्यन्ते रूपाणि । अर्थात् नामार्थादाख्यातार्थाद् वा अभिद्यमानं रूपं
प्रतिपद्यमानं येषां निपातानां ते तथोक्ताः । उपसृज्यमानाः समीपे प्राक् प्रयुज्य
मानाः । क्रियावद्योतका उपसर्गाः । अवद्योतनं चोपलक्षणम् । अधिकार्था विपरीतार्था
श्चोपसर्गा 2422दृश्यन्ते । यथाभ्यागच्छति प्रतिष्ठत इत्यादिषु । तदस्य निग्रहस्थानत्वं
वार्त्तिककार उपपादयति—अभ्युपगतेति । यथा च साधनवादिनोऽर्थान्तरं
निग्रहस्थानम् एवमुत्तरवादिनोऽपि द्रष्टव्यम् ॥ ७ ॥


684

वर्णक्रमनिर्देशवन्निरर्थकम् ॥ ५ । २ । ८ ॥


वर्णक्रमनिर्देशवद् इति वतिः । अत्र यदा द्राविडः स्वभाषया तद्भाषानभिज्ञमार्यं
प्रति शब्दनित्यत्वं प्रतिपादयति, तदा तन्निरर्थकं निग्रहस्थानम् । स खल्वार्यभाषां
जानन्नसामर्थ्यप्रच्छादनाय तद्भाषानभिज्ञतया वा स्वभाषया साधनं प्रयुक्तवान् ।
सोऽयं पूर्वस्मिन् कल्पे विप्रतिपत्त्या निगृह्यते, उत्तरस्मिंस्त्वप्रतिपत्त्या । वस्तुतः
साधनसामर्थ्येऽपि मूकवदार्यप्रतिपादकशब्दाप्रतिपत्तेस्तत्प्रतिपादनारम्भवैयर्थ्यात् ।
अत्रैव च दृष्टान्तमात्रतया वतिना वर्णक्रमो निदर्शितः, न पुनरेतदुदाहरणं निग्रहस्थानस्य,
येन कपोलवादित्रादावपि प्रसङ्गः । यथा हि द्राविडस्यार्थभेदविवक्षोत्थापितं वचनं,
नैवं वर्णक्रमनिर्देशः कपोलवादित्रं वा । अप्रतिपादकत्वसामान्याद् वर्णक्रम निर्देशवदिति
दृष्टान्तः । अत+एवाह भाष्यकारः, एवंप्रकारमिति । न पुनरिदमेवेत्यर्थः ।


वार्त्तिकम्—उदाहरणं भाष्य इति । एवं प्रकारोदाहरणमित्यर्थः । साधना
नुपादानादिति ।
परप्रतिपादकं पञ्चावयवं वाक्यं साधनम् । तत्तु न वादिनोपात्तम्2423
तस्य स्वसमयेन प्रतिपादकत्वेऽप्यार्यान् प्रत्यप्रतिपादकत्वादित्यर्थः ॥ ८ ॥


परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम्
॥ ५ । २ । ९ ॥


यद् वाक्यं परिषदा प्रतिवादिना च न विज्ञायते समानसंकेतेन वादिना त्रिर
प्यभिहितम् । यावद्भिर्वारैः परिषत्प्रतिवादिनोरर्थप्रत्ययो भवति, स च प्रायेण त्रिभि
रिति त्रिरभिहितमित्युक्तम् । ननु समानसंकेतेन वादिना त्रिरभिहितमविज्ञातार्थं चेति
न संभवति । संभवे वा परिषत्प्रतिवादिनौ जडौ । न च जडानवबोधे प्रतिपादकस्य
कश्चिदपराधः न हि बधिरो गीतं न शृणोतीति 2424गायनो निगृह्यते इत्यत आह—
685 श्लिष्टशब्दम् । असति प्रकरणादौ नियामके, यथा श्वेतो धावतीति । अप्रतीत
प्रयोगं
जर्भरी तुर्फरी तु इति । अतिद्रुतोच्चारितमित्येवमादिना कारणेन,
तदविज्ञातार्थम् ।
अस्य निग्रहस्थानत्वमाह—असामर्थ्येति । वार्त्तिकं भाष्यव्याख्यया
गतार्थम् ॥ ९ ॥


पौर्वापर्यायोगादप्रतिसंबद्धार्थमपार्थकम् ॥ ५ । २ । १० ॥


यत्रानेकस्य पदस्याश्लिष्टस्य प्रतीतयोगस्याद्रुतोच्चारितस्य वाक्यस्य वानेकस्य
पौर्वापर्येणार्थयोगः संबन्धो नास्तीति तस्मादसंबद्धार्थता गृह्यते, तदपार्थकं निष्प्रयोजनं
निग्रहस्थानम् । कस्मात् ? समुदायार्थस्य वाक्यार्थस्य महावाक्यार्थस्य वापायात् ।
वाक्यमहावाक्यार्थप्रत्यायनप्रयोजनो हि पदानां वाक्यानां वा प्रयोगः, असति
तस्मिन्नपादर्थकमित्यर्थः । वाक्यस्य पौर्वापर्यासंबन्धे उदाहरणमाह—यथा दश
दाडिमानि षडपूपा
इति । पदानां पौर्वापर्यासंबन्धे उदाहरणमाह—कुण्डमजाजिनम्
इति । रौरुकं रुरुसंबन्धि । पाय्यं पाययितव्यम्2425अप्रतिशीनो वृद्धः ।


वार्त्तिककारः शङ्कते—निरर्थकापार्थकयोरिति । परप्रत्यायनप्रयोजनं हि
2426वर्णोच्चारणम् । तत्र निरर्थकेनेवापार्थकेनापि न परः प्रतिपाद्यत इति उभयोर
भेदः । न च 2427वर्णमात्रमेकत्रानर्थकमन्यत्र तु पदानीत्येतावता भेदेनोपादानं युक्तम् ।
एकत्र वाक्योपादानमन्यत्र पदोपादानमित्यपार्थकयोरप्यवान्तरभेदवत्त्वे भेदोपादान
प्रसङ्गादिति शङ्कार्थः । निराकरोति—भिद्यते इति । पृच्छति—कथम् ? उत्तरम्—तत्र
हि निरर्थके वर्णमात्रम् अभिधेयशून्यम्, इह तु अपार्थके पदानि पद्यते
गम्यतेऽभिधेयमेभिरिति पदानि वाक्यानि चामिधेयवन्ति असंबद्धानीति । निरभिधेय
निष्प्रयोजनयोर्निरर्थकापार्थकयोर्महान् विशेषः । न त्वीदृशो वाक्यपदयोर्निष्प्रयोजनयो
र्विशेषो येनानयोरवान्तरभेदमाद्रियामहे । परप्रत्यायनप्रयोजनाभावमात्रविवक्षया
686 त्वविशेषे सर्वनिग्रहस्थानाविशेषः, सर्वत्र परप्रत्यायनाभावात्, भावे वा
निग्रहस्थानानुपपत्तेरिति ॥ १० ॥


॥ प्रकृतोपयोगिवाक्यार्थप्रतिपत्तिफलशून्यनिग्रहस्थानचतुष्कप्रकरणम् ॥

  1. °र्हिततमत्वेन C

  2. गृह्यन्ते C

  3. तत्तेन नोपात्तम्C

  4. गायनस्य कश्चिदपराधःC

  5. याज्यं याजयितव्यम्J

  6. वचनो°C

  7. वर्णक्रममात्रमेकत्रान्यत्र चC