पञ्चमाध्याये प्रथमाह्निकम्


सत्प्रतिपक्षदेशनाभासप्रकरणम्


साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्रा
प्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोप
पत्त्युपलब्ध्यनुपलब्ध्यनित्यनित्यकार्यसमाः ॥ ५ । १ । १ ॥


अथ प्रमाणादयः पदार्था उद्दिष्टा लक्षिता परीक्षिताश्च । तत् किम् अपरमवशिष्यते
यदर्थं पञ्चमोऽध्याय आरभ्यत इत्यत आह—साधर्म्यवैधर्म्याम्यां प्रत्यस्थानस्य
विकल्पाज्जातिबहुत्वमिति भाष्यम् ।
तस्यार्थमाह वार्त्तिककारः जातेः
संक्षेपेणोक्ताया
इत्यादि । यद्यपि जातिनिग्रहस्थानभेदा जातिनिग्रहस्थानसामान्य
लक्षणानन्तरं प्रथमेऽध्याये युक्ता लक्षयितुम्, तथाप्येषां बहुतरत्वात् प्रमेयपरीक्षायां
विलम्बो मा भूत्, अपेक्षिता चासौ शिष्यैः, संशयादिपरीक्षां तु विना प्रमेयपरीक्षा
न शक्यते, तस्मान् मुनिः शिष्यानुरोधेन परीक्षां तावद् वर्तयांबभूव । तदनन्तरमवशिष्टं
जातिनिग्रहस्थानविशेषलक्षणं वर्तयति । जल्पवितण्डापरीक्षा चानन्तरं प्रवृत्ता । तदङ्गं
च जातिनिग्रहस्थाने इत्यवान्तरसंगतिरप्यस्तीति सर्वमवदातम् ।


साध…समाः ॥ विशेषोपयोगि सामान्यलक्षणमाह—तत्र जातिर्नामेति
प्रतिषेधबुद्ध्या प्रयुक्त इति शेषः । आह्निकारम्भमाक्षिपति—जातेः प्रयोगप्रतिषेधा
दिति ।
परिवर्जनं तु सामान्यमात्रज्ञानादपि भवन्न विशेषज्ञानमपेक्षत इति भावः ।
समाधत्ते—न आरम्भप्रयोजनस्योक्तत्वात् इति । एतदेव स्मारयति—स्वयं च
सुकरः प्रयोग
इति, प्राश्निकैः कतमा जातिरित्युक्ते स्वयं सुकरः प्रयोग इति ।
अथवा सद्विद्याविद्विषा अधिक्षिप्ते तत्त्वे अह्नाय च तन्निरासहेतावस्फुरति साक्षिणां
पुरत एकान्तपराजयाद् वरं सन्देहोऽप्यस्तु कथंचित् परपराजयो वेति बुद्ध्या
642 जल्पवितण्डयोः2335 पांशुभिरिवावकिरन् जातिं प्रयुङ्क्ते । तेन हि लोके तत्त्वमवस्थापितं
भवति । 2336अन्यथासन्मार्गप्रवृत्तो लोकः स्यात् । न च 2337खटचपेटादिभिर्विद्याविद्वेषिणो
निराकरणे तदुत्थापितकुहेतुनिराकरणधीरस्ति लौकिकानाम् । तस्मान्न खटचपेटादय
उपदेष्टव्याः शास्त्रकृतेत्यभिप्रायवानाह—साधुसाधननिराकरणार्थं चेति ।
अतत्त्वविषयत्वेन परमार्थतोऽसाध्वपि साधनमह्नाय दूषणस्याप्रतिभासनात्
साध्वित्युक्तम् । लाभपूजाख्यातिकामश्चेति अन्वाचये चकारः । प्रसिद्धं तावत्
तत्त्वपरिपालनं प्रयोजनम् । तस्मिन् सत्येवैतदप्यन्वाचीयत इत्यर्थः ।


मतान्तरं निराकर्तुमुपन्यस्यति—असाधुसाधनेति । तत्त्वविषयमपि
साधनमसाध्विति विदितवान् वादकाले चाप्रतिभयास्यासाधुत्वोपपादनं न परिस्फुरति ।
असाध्वेतदिति तु स्मरन्नेवासौ जातिं प्रयुङ्क्ते । तदिदमुक्तम्—अनभिज्ञतया
साधनदोषस्येति ।
अथवा जानन्नपि जातिं प्रयुङ्क्ते—तस्य साधनस्य दोषप्रदर्शनार्थं
प्रसङ्गव्याजेन
मदीयं तावद् दूषणाभासमेव । एवं त्वदीयमपि साधनाभासम् । यदि
तु तत् सम्यक् साधनं ततो मदीयमपि सम्यग् दूषणं स्यादिति प्रसङ्गः । तद्व्याजेन
साधनं दूषयतीत्यर्थः । तदेतत् परमतं दूषयति—एतत्त्विति । जात्यभिधाने हि
पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगश्चेति द्वयं निग्रहस्थानं तस्माद् बुद्ध्वेत्ययुक्तम्2338
अथ न बुध्यते तत् किमिति जातिं प्रयुञ्जीतेति । यो हि सभादर्शनमात्रात्
पूर्वाभ्यस्तमपि विस्मरति तस्य कैव कथा अननुसंहितपूर्वजात्युद्भावनस्येति
भावः । एतेन बुद्ध्वा चाबुद्ध्वा वेति विकल्पासंभवेन अनैकान्तिके साधने प्रयुक्ते
पञ्चानां साधर्म्यसमवैधर्म्यसमविकल्पसमसाध्यसमसंशयसमानां जातीनां
प्रयोगः प्रत्युक्तः । पूर्वापरभाव इति । पूर्वस्य युक्तस्य साधनस्य पूर्वं युक्तमुत्तरम् ।
अपरस्यायुक्तस्य साधनस्यापरमयुक्तमुत्तरमिति ।


ननु साधर्म्यसमादीत्युच्यते, न च वस्तुतः साधर्म्यसमादीनां साम्यमस्ति
643 स्थापनया, तथा सत्यजातित्वप्रसङ्गादित्यत आह—समीकरणार्थः प्रयोग इति ।
आभिमानिकं साम्यं न वास्तवमित्यर्थः । साधर्म्यमेव समं यस्मिन् प्रयोग इति
शेषः । तदिदमुक्तं समार्थः सादर्म्यसमार्थः समीकरणार्थः प्रयोगो द्रष्टव्य इति । एवं
2339साधर्म्यमेव सममित्यत्र विग्रहे स्वरूपेण साम्यमुक्त्वा विशेषहेत्वभावेन
साम्यमाह—विशेषहेत्वभावो वेति । ये त्वाहुः सर्वेष्वेवापदेशेषु सर्वासामेव
जातीनां प्रयोग इति, तान् प्रत्याह—न सर्वापदेशव्याप्तिः सर्वजातिप्रयोगस्य ।
अपदेशो हेतुवचनम् । ये पुनः साधर्म्यसम इत्यादौ समशब्दस्तस्य साधनवादिजाति
वादिनोस्तुल्यार्थत्वाद् यादृशो 2340जातिवादी तादृशः 2341वाद्यपि साधर्म्येण द्वौ समाविति
मन्यन्ते, तान् प्रत्याह—न च वादिप्रतिवादिनोस्तुल्यता समार्थः । प्रतिवादी
जातिवादी विवक्षितः ॥ १ ॥


साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्य
वैधर्म्यसमौ ॥ ५ । १ । २ ॥


प्रतिषेधाविति सूत्रपूरणेन पुंलिङ्गं समर्थयते, अन्यथा जातेः प्रकृतत्वात्
सामानाधिकरण्येन साधर्म्यवैधर्म्यसमे इति स्यात् । तद्धर्मविपर्ययोपपत्तेः कृते
साध्यविपर्ययोपपत्त्यर्थमित्यर्थः । भाष्यम्—निदर्शनं, क्रियावानात्मा द्रव्यस्य
क्रियाहेतुगुणयोगादिति ।
अस्ति खल्वात्मनः क्रियाहेतुर्गुणः प्रयत्नो वा, अदृष्टं
वा, लोष्टस्यापि क्रियाहेतुर्गुणः स्पर्शवद्वेगवद्द्रव्यान्तरसंयोग इति । एवमुपसंहृते
परः साधर्म्येणैव प्रत्यवतिष्ठते निष्क्रिय आत्मा
विभुत्वात् आकाशवदिति । अत्र
च साधनाभासमुत्तरं च न जातिः । विभुत्त्वस्याक्रियावत्त्वेन स्वभावतः प्रतिबन्धात् ।
तेनैतदुपेक्ष्य वार्त्तिककार उदाहरणान्तरमाह—यथा अनित्यः शब्द
उत्पत्तिधर्मकत्वात् ।
इदं हि सम्यक् साधनम्, उत्तरं त्वस्याभासमिति । साधर्म्योक्ते
644 साधर्म्यसमः, वैधर्म्योक्ते वैधर्म्यसमः । एवं साधर्म्योक्ते हेतौ वैधर्म्यसमः । एवं
वैधर्म्योक्ते हेतौ साधर्म्यसम इति ॥ २ ॥


गोत्वाद् गोसिद्धिवत्तत्सिद्धिः ॥ ५ । १ । ३ ॥


कथं पुनरियं जातिः ? अथ प्रकरणसमोद्भावनं सम्यगुत्तरमेव कस्मात् न
भवतीत्यत आह—अनयोः साधर्म्यवैधर्म्यसमयोः उत्तरम्—गोत्वाद्…सिद्धिः ॥
भवेदेतदेवं यद्यन्वयव्यतिरेकमात्राद्धेतोर्गमकत्वं स्यात्, ततो विशेषग्रहणाभावात्
प्रकरणसमत्वं भवेत् । न त्वेवं भवति, स्वाभाविकसंबन्धभाजो गमकत्वात् ।
स्वभावसंबद्धं च कृतकत्वमनित्यत्वेन, न त्वमूर्तस्य नित्यत्वेन स्वाभाविकः
संबन्धः, बुद्धिकर्मादौ व्यभिचारात् । तस्माद् गृह्यमाणविशेषत्वान्न प्रकरणसमः ।
यथा गोत्वाद् गौः सिध्यति स्वाभाविकप्रतिबन्धात्, न तु सास्नादिसंबन्धादिति
भाष्यम् ।
सास्नादीत्यतद्गुणसंविज्ञानो बहुव्रीहिः । तेन व्यभिचारिणः शृङ्गादयो
गृह्यन्ते ।


वार्त्तिकम्—एकस्यानन्वयादेकस्याव्यावृत्तेः । एकस्य सत्त्वस्य
गवाऽनन्वयाद् अश्वादौ चाव्यभिचारादनन्वयः । एकस्य चैकशफत्वादेर्वैधर्म्यस्य
गोष्वेवाव्यावृत्तेर्महिष्यादावपि व्यावृत्तेरित्यर्थः ॥ ३ ॥


॥ इति सत्प्रतिपक्षदेशनाभासप्रकरणम् ॥

  1. जल्पवितण्डयोःJ

  2. इतरथा°J

  3. नखचपेटा°C

  4. °त्यु
    क्तम्
    C

  5. वैधर्म्य°C

  6. वादीC

  7. प्रतिवाद्यपिC