17
शृङ्गादयोऽपि तैक्ष्ण्यादिभावतः सदृशात्मकाः ।
तैक्ष्ण्यमन्येन केनापि पर्यन्ते वासनैव हि ॥
कारणं सदृशत्वेन व्यवहारस्य गम्यताम् ।
तस्मादननुमानत्वं नोपमानस्य भाविकम् ॥
इति सर्वमिदं सुस्थमकारणमतः परम् ॥
इत्यनिन्द्यविधिना निरूपितं
नोपमानमनुमानतः परम् ।
एवमन्यदपि तेन गीयते
प्रज्ञया नहि स दृश्यतेऽधिकः ॥
इत्युपमानान्तर्भावो द्वितीयः परिच्छेदःउपमानान्तर्भावो द्वितीयः परिच्छेदः ॥ छ ॥
तृतीयः परिच्छेदः
प्रमाणषट्क-विज्ञातो यत्रार्थोऽनन्यथाभवन् ।
अदृष्टं कल्पयेदन्यं सार्थापत्तिरुदाहृता ॥
दृष्टः पञ्चभिरित्यस्माद्भेदेनोक्ता श्रुतोद्भवा ।
प्रमाणग्राहिणीत्वेन यस्मात्पूर्वविलक्षणा ॥
शब्दे वाचकसामर्थ्यात् तन्नित्यत्वस्य कल्पना ।
प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् ॥
गेहाच्चैत्रबहिर्भाव159सिद्धिर्या त्विह वर्ण्यते ।