१
2१।२ अ...था । कस्मादयं वार्त्तिकन्यायेन प्र मा ण स मु च्च यं 1a
व्याचष्टे न पुनः स्वतन्त्रमेव शास्त्रमिति प्रश्ने प्राह । प्राय इत्यादि। अयमर्थः ।
चिन्तया करुणया च मे प्रमाणसमुच्चयव्याख्यायां चेतो जाताभिलाषं दिग्नागरचित
शास्त्रस्यास्योपकारित्वेन । तच्च श्रोतृजनापराधेन । पदार्थस्तूच्यते । प्रायो बाहु
ल्येन प्राकृतसक्तेर्ज्ञानानीचो(?)दुष्टान्वयः । तीर्थिकशास्त्राणि आचार्यनीतिदूषणानि
विपर्यस्तज्ञानप्रभवत्वात् दुष्टान्वयान्यतश्च प्राकृतानि तेषु सक्तिरनुरागो यस्य । कुतः
प्राकृतसक्तिरित्याह । प्रतिबलप्रज्ञ इति अतोसौ दुर्भाषितमपि सुभाषितं कृत्वा
त्यज्यते । अप्रतिबलप्रज्ञत्वादेव चाचार्यसुभाषितानि स्वयं यथावद् बोद्धुमक्षमो दोष
वत्त्वेन गृहीत्वा तैराचार्यसुभाषितैरनर्थी आचार्ये च विद्वेषवान्भवतीत्याह । केवल-
मित्यादि । न केवलमनर्थी सुभाषितैराचार्यीयैरपि तु विद्वेष्ट्यपीर्ष्यामलैः परिगतः
सन् दिग्नागं । किं भूतं सूक्ताभ्यासविवर्द्धितव्यसनं । व्यवहितानामपि सम्बन्धोस्ति।
शोभनमुक्तं सूक्तं तत्राभ्यासस्तत्र विवर्द्धितं व्यसनं तत्रैव चात्यर्थमासक्तत्वं अनेनोप
चितपुण्यज्ञानत्वमाह । तस्यैव तथात्वात् । येनानर्थी प्राकृतसक्तिस्तेन कारणेन
स मु च्च यो न परोपकारः परमुत्कृष्टं । अन्योपकारोस्त्येव प्रायशब्दसूचितः ।
इतिर्हेतौ । इति हेतोर्नास्माकं चिन्ता । महार्थमपीदं शास्त्रं न बहूनामुपकारकं
तत्कथमस्यार्थसाफल्यं कुर्यामित्येवमाकारा । आचार्ये विद्वेषः अन्योप्यनर्थहेतुरतो महा
नाचार्यनीतेन विपरीतार्थप्रकाशनेनाचार्ये बहुमानमुत्पाद्यानर्थहेतोर्जनं निवर्त्तयिष्या
मीत्येवंदुःख वियोगेच्छाकारा करुणाप्यपि शब्दात् । अत्रानुबद्धस्पृहमिति द्वितीयेनेति
शब्देन चिन्ताकरुणयोर्हेतुत्वमाह । इति चिन्ताकरुणाभ्यां चेतश्चिरन्दीर्धकालं
प्र मा ण स मु च्च य-व्याख्याभूतवार्तिकरचनायामनुबद्धस्पृहं सन्तानेन प्रवृत्तेच्छ
मिति ॥
-
प्रायः प्राकृते १।२ त्यादि कारिकायाम् ।
↩