१।२ सस्पष्‍टप्रतिभासस्य च निर्विकल्पकत्वेन द्विचन्द्रादिज्ञानेपि संभवा
न्‍नैवमनुमानस्य स्वाभासेषु निश्‍चितत्रैरूप्यसम्भव इत्यनुमानभूतकारणशुद्धिद्वारे- 3a
णैव प्रत्यक्षस्य प्रामाण्यं निश्‍चेयं । यद्यप्यान्ये(?)षितमात्रं यथावस्तु प्रवर्त्तते
प्रत्यक्षन्तदप्यसकृत्प्रवर्त्तितव्यवहारतयान्वयव्यतिरेकाभ्यां विवेचितवस्त्वाकारं
यथार्थं सम्वेद्यत इत्यनुमानपूर्वकमेवैतदन्वयव्यतिरेकयोरनुमानरूपत्वात् । दृश्यते
चाभ्यासातिशयात्प्रत्यक्षमुत्पद्यमानमेव प्रमाणं मणिरूप्यादिविषयज्ञानवत्तथा
विधतत्स्वत एव प्रमाणं भ्रान्तिनिमित्तस्याभ्यासेनैव निराकृतत्वात् । अन्यथा
कथं लिङ्गज्ञानं प्रमाणं स्यात् । यत्र तु क्‍वचिद्विषये भ्रान्तिनिमित्तापनयासमर्थन्तत्
तत्रानुमानानिश्‍चय इति तत्पूर्वमुक्‍तं । नन्वनुमानमपि प्रत्यक्षपूर्वमेव नायन्‍नियमो
व्याप्‍तेरनुमानेन निश्‍चयात् । न हि व्याप्‍तिर्व्यापकस्य तत्र भाव एव । व्याप्यस्य
वा तत्रैव भाव इत्ययं नियमोऽध्यक्षेणेक्षते । लिङ्गमपि गृहीतसम्बन्धेनैव पुंसा
निश्‍चीयते इति सम्बन्धापेक्षणात्तदप्यनुमानपूर्वकमेव । न चानुमानप्रतिभास
काले प्रत्यक्षं व्याप्रियते इत्युक्‍तं । न हि प्रत्यक्षप्रतिभासवत् स्वाभासेऽनुमानं सम्भव
तीत्यप्युक्‍तं । अतोनुमानमुक्‍तार्थसाधकत्वात् पूर्वमुक्‍तं अथवा लक्ष्यन्ते स्कन्ध
धात्वायतनानि येन शास्‍त्रेण तल्लक्षणशास्‍त्रं त्रिपिटकं प्रमाणञ्‍च तदविसंवा
518 दित्वाल्लक्षणशास्‍त्रं चेति प्रमाणलक्षणशास्‍त्रं भगवत्प्रवचनं न तीर्थिकानामिव शास्‍त्रं
विसम्वादकमलक्षणञ्‍च वस्तुस्वरूपस्येति भावः । तथा हि भगवतां वचनं प्रमाणोप
पन्‍नमनित्यादिवस्तुरूपसम्बेद्यकं चाथवा प्रमाणं प्रत्यक्षानुमाने तयोर्लक्षणं भगवतैव
3b निर्दिष्‍टं यथोक्‍तम भि ध र्मे चक्षुर्विज्ञानसमङ्गी पुद्‍गलो नीलं जानाति । नो
तु नील मि
त्यनेन निर्विकल्पकं प्रत्यक्षमिन्द्रियज्ञानमुक्‍तं मनोविज्ञान
समङ्गी तु नीलं जानाति नीलमिति त्विति । अत्राद्येन मानसं निर्विकल्पकं
प्रत्यक्षमुक्‍तं द्वितीयेन तु विकल्पकं मन उक्‍तं । सम्वित्तिस्तु जानातिवचनेनोक्‍ता ।
न हि स्वयमप्रकाशमन्यं प्रकाशयति बाह्यप्रकाशवत् विशेषवचनमप्यस्त्यनुभवरूपं
ज्ञानमितिवचनात् । योगिज्ञानमपि श्रुतचिन्ताभावनाक्रमेण तत्रैवोक्‍तं
कार्यानुमानस्य तु लक्षणं


धूमेन ज्ञायते वह्‍निः सलिलञ्‍च वलाकया ।

निमित्तैर्ज्ञायते गोत्रं बोधिसत्त्वस्य धीमत इति ॥

स्वभावहेतोर्लक्षणं


अनित्या वत संस्कारा उत्पादव्ययधर्मिणः ।

उत्पद्य हि निरुध्यन्ते तेषां व्युपशमः सुखमिति ।

अत्र हि तद्‍भावमात्रानुबन्धित्वं साध्यधर्मस्योक्‍तमिति स्वभावोयमुक्‍त
एतत्प्रमाणं येन शास्यते भगवद्वचनेन तत्प्रमाणलक्षणशासकं वचनं शास्‍त्रं तद्
भगवदुक्‍तं प्रमाणलक्षणमाचार्य दि ग्‍ना गे न व्याख्यातं प्र मा ण स मु च्‍च ये नेत्याचा
र्यीयप्रमाणलक्षणशास्‍त्रस्य व्याख्यातस्यानिबन्धनमनुमानं अत्र वार्तिके प्रथम
व्यवस्थापितमुक्‍तप्रयोजनार्थमित्यर्थः । अवसरप्राप्‍तमिति सर्वत्रैव सन्तो नमस्कार
पूर्वकं प्रवर्त्तन्त इति सदाचारानुवृत्यर्थं विघ्‍नोपशमनार्थञ्‍चाचार्येण प्र मा ण स मु
च्‍च ये भगवतो नमस्कारश्‍लोक उक्‍तः । नमस्कारेण हि पुण्योपचयो भवति । स च
पापं निवर्त्तयति विरोधात् । पापञ्‍च निवर्त्तमानं स्वकार्यमपि विघ्‍नं निवर्त्तयतीति
विघ्‍नोपशमनो भवति । भगवत्प्रामाण्यनिबन्धनश्‍चानुमानमनन्तरमुक्‍तमित्यवसर
प्राप्‍ता व्याख्या भवति नमस्कारश्‍लोकस्य ।

प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्‍त्रे सुगताय तायिने ।

प्रमाणसिद्ध‍यै स्वमतात्समुच्‍चयः करिष्यते विप्रसृतादिहैकत(ः) ।

प्रमाणसमुच्‍चये १।१ इत्यस्य ॥


4a तत्र यथा प्रत्यक्षादिप्रमाणं पुरुषार्थोपयोगिनोनधिगतस्यार्थस्य प्रकाशकं
सम्वादकञ्‍च तथा भगवानपि यत्रोत्कृष्‍टः पुरुषार्थः प्रतिबद्धश्‍चतुरार्यंसत्य
लक्षणे तत्त्वे तद्विषयं हि ज्ञानमासाद्य मोक्षार्थिनां मोक्षाधिगमात् । तस्य
519 ह्यनधिगतस्य प्रकाशकोऽविसम्वादकश्‍च भगवान्‍नान्यः इति प्रमाणसाधर्म्यात्प्रमाणं ।
भूत उत्पन्‍नः । भूतवचनमप्रजातस्येश्‍वरादेः परपरिकल्पितनित्यस्य प्रतिषे
धार्थमिवार्थस्तु सामर्थ्यगत इति न तदर्थमेतदिति वक्ष्यते । प्रमाणञ्‍चासौ भूत
श्‍चेति प्रमाणभूतः । तस्मै प्रमाणभूताय प्रणम्येति योज्यम् ।


ननु च प्रणमनक्रियया व्याप्यमानत्वात् द्वितीययात्र भवितव्यं तत्कथं चतुर्थी
न चेयं नमः शब्दयोगे युज्यते नमःशब्देन सकारान्तेन नाम्‍ना तस्याविधानात्
न च प्रणम्येत्यत्र ल्यबन्ते सोस्ति । ल्यबन्तस्यैकदेशस्याप्रतिपादकत्वादसकारान्त
त्वाच्‍च ॥


उच्यते । क्रियाग्रहणमपि कर्त्तव्यमिति का त्या य न वचनात्पत्ये शेते
इत्यादिवदत्र चतुर्थी । भा ष्य कृ ता त्वयं सूत्रार्थ एवं वर्णितः । प्रार्थनाध्यवसाया
दिक्रियया प्राप्‍तुमिष्‍टतमत्वाल्लब्धकर्मव्यपदेशया प्रणतिक्रिययाऽभिप्रियमाणस्य
संप्रदानत्वविवक्षायामत्र चतुर्थी । यदा तु क्रियामात्रं क्रियान्तराव्याप्‍त्या विवक्ष्यते
तदा कर्मणि द्वितीया । एवञ्‍च न्यायमाश्रित्य गत्यर्थकर्मणीत्यादीसूत्रं प्रत्या
ख्यातम् । अमुना न्यायेनैव द्वितीयाचतुर्थ्योः सिद्धत्वात् न चातिप्रसंगः शिष्‍ट
प्रयोगानुसारितया लौकिकविवक्षासमाश्रयादन्यत्रापि विवक्षानियमेनैव साधुत्वं
4b दृश्यते । यथा ब्रुम इत्यादौ परस्मैपदमन्यथा कर्त्रभिप्राये क्रियाफल 4b
इत्यात्मनेपदमत्र स्यात् । वक्‍ता हि परं बोधयितुं वचनमुच्‍चारयन् क्रियाफल
योगी भवतीति नियतात्रात्मनेपदप्राप्‍तिः । अनुच्‍चारणव्यवच्छेदेन तु यदोच्‍चारणं
विवक्ष्यते तदा न न ब्रूमोऽपि तु ब्रूम एवेत्येतावन्मात्रविवक्षायां परस्मैपदं संगत
मेवेत्यदोषः । सुत्रकारमतेनाप्‍यनुगतार्था संप्रदानसंज्ञेत्यत्रापि कायवामङ्‍मनः
प्रणामेन भगवन्तमात्मसात्कुर्वन् स्तोत्रकर्त्ता च भगवते आत्मानं निवेदयतीति
ददाति क्रियाव्याप्येन प्रणतिकर्मणाऽभिप्रीयमाणतास्तीति न्याय्यैव संप्रदाने
चतुर्थीति मु नि त्र य मतेप्यविरुद्धं साधुत्वं । जगद्धितैषिणे इति जगद्धितं सा ह्य
पायहेयोपादेययोरात्यन्तिके दानोपादाने तदेषणशीलाय प्रणम्य कायवाङ्‏मनोभिः
प्रणामं कृत्वा स मु च्‍च यः करिष्यते इति सम्बन्धः। एतेन प्रणामतः पूजा विहिता
शास्‍त्रे इति तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटावित्यौणादिक इट् प्रति्‍षेधः ।
दुःखक्षयोपायोपदेशः शासनं । तच्‍चात्र हेत्ववस्थाभाव्यभिप्रेतं । सुगतायेति ।
फलावस्थानाभिधानात्तच्छासनं कुर्वन् भगवान् बोधिसत्वावस्थायां शास्तृशब्दे
नोक्‍तो मध्ये तु नमस्कारेणोभयावस्थायाः प्रणम्य तामाह । उभयी चावस्था हेतु
फलरूपा हेत्ववस्था चाशयप्रयोगरूपा आशयोपि द्विधा सर्वसत्वत्राणाकारो बोध्‏या
लम्बनः । प्रयोगोपि द्विधा विमुक्‍तिचर्याभावी भूमिगतश्‍च अधिमुक्‍तौ च प्रायोगि
520 को दानादयः । भूमौ तु वैपाकिकाः पारमिताख्याः तेपि द्विधा साभिसंस्कारान
5a भिसंस्कारभेदेन । भूमयो हि सप्‍त साभिसंस्काराः । आभोगनिमित्तबलेन समाधेः
प्रवर्तनात्तत्रापि सप्‍तम्यां निमित्तं निवर्त्तते नाभोगं निमित्तशङ्कासद्भावादष्‍टम्यान्त्वा
भोगोपि निवर्तते शुद्धिभूमिप्राप्‍त्योभयनिवृत्तेः स्वरसवाही समाधिर्भवति । यद्वला
त्सर्वजगदर्थसम्पादको भवति । सर्वसंविल्लाभाय सर्वानुशासको भवति । सा चेयं
हेत्ववस्था भगवतश्‍चित्तोत्पादादारभ्य बोधिमण्डोपसंक्रमणमारविध्वंसनवज्रोपम
समाधिपर्यन्ता दशपारमितात्मिका । फलन्त्वेकादशी भूमिः । क्षयानुत्पादज्ञानं
बोधिः । हेत्ववस्था चादावेव चतुःसम्पदा विशिष्यमाणत्वात्सर्वेभ्योऽतिशयवती ।


अशेषपुण्यज्ञानसम्भाराभ्यासो निरन्तराभ्यासो दीर्घकालाभ्यासः सत्कृत्या
भ्यासश्‍चेति सम्पच्‍चतुष्‍टयं । इहैव जन्मनि काव्यशास्‍त्रकलादिष्वभ्यासान्‍निरति
शया गुणप्रकर्षसम्पज्‍जायते याऽन्येमं साप्यशक्या चिन्तयितुं । तथैकजन्मो
पात्तकुशलेन देवादौ निरतिशयाष्‍टगुणैश्‍वर्यादिप्रकर्षसंपद् भवति किंपुनर्वशिता
प्राप्‍तोऽपरिभितानन्यकल्पाभ्यासोपचीयमानपुण्यज्ञानसम्भारो न यास्यति परां
सम्पदमित्य(स)म्भाव्यमेतत् । कारणविशेषाच्‍च कार्य विशिष्यत इति फल
सम्पदपि चतुर्धा विशिष्यते । प्रहाणज्ञानरूपकायप्रभावचतुःसंपद्योगात् । प्रहा
णसंपदपि चतुर्धा प्रकथ्यते । सर्वह्रे(?)णं प्रहाणमत्यन्तप्रहाणं सर्वसमाधिसमा
पत्त्यावरणप्रहाणञ्‍च । ज्ञानसम्पदपि चतुर्धा विशिष्यते । सर्ववस्तुज्ञानं अनुपदिष्‍ट
ज्ञानं अयुग्मज्ञानञ्‍च । रूपकायसंपदपि चतुर्विधा लक्षणसंपत् द्वात्रिंशन्महापुरुष
5b लक्षणप्रतिलम्भांत् । अनुव्यञ्‍जनसम्पद 5b शीत्यनुव्यञ्‍जनप्राप्‍तेः । बल
संपन्‍नारायणबलसमन्वितत्वात् । वज्रसारास्थिशरीरतासम्पत् दृढाभेद्यशरीर
त्वात् । प्रभावसम्पदपि चतुर्विधा । बाह्यविषयनिर्माणपरिणमनाधिष्‍ठानवशित्व
सम्पत् । आयुरुत्सर्गाधिष्‍ठानवशित्वसम्पत् । आवृताकाशसुदूरक्षिप्‍तगमनाल्पबहु
प्रवेशनवशित्वसम्पत् । विविधनिजाश्‍चर्यसर्वधर्मसम्पच्‍च । उपकारसम्पदपि उभया
वस्थाभाविनी चतुर्धा विव(?)शिष्‍यते । धर्मचक्रप्रवर्त्तनापायत्रयसंसार
दुःखात्यन्तनिर्मोक्षस्वभावतो यानत्रयसुगतिप्रतिष्‍ठापनतो वा ॥


सुगतायेति सुष्‍ठु गतः प्राप्‍तः सर्वथा सर्वहेयप्रहाणं ज्ञानादिसम्पदञ्‍चेति
सुगतः शोभनं वा गतोऽनुबुद्धवानिति सुगतो ज्ञानार्थोत्र गतिः पूर्वत्र तु
प्राप्‍तिवचनः । अनेन तु स्वार्थसम्पत्फलावस्थाभाविन्युक्‍ता । पूर्वन्तु हेतुभाविनी
परार्थसम्पदुक्‍ता निरूपमां फलावस्थाभाविनीं परार्थंसम्पदमाह । तायिने इति ।
तायतेऽनेनेति तायः सुदृष्‍टमार्गोपदेशः । सोऽस्यास्तीति तायी । प्रेक्षावदारम्भाणां
प्रयोजनेन व्याप्‍तत्वात्साक्षात्प्रयोजनमाह । प्रमाणसिद्ध‍्यै इति । प्रमाणव्युत्पत्तये
521 स्वप्रयोजनत्वान्‍नारब्धव्यमिदं प्रमाणसिद्धेर्न्या य मु खा दिनैव साधितत्वात्
यत् साधितं तत्र साध्यते यथा सिद्ध ओदनः इति व्यापकविरोधमाशङ्क्याह
स्वमताद्विप्रसृतादिति हेतौ पञ्‍चमी विस्तृतप्रकरणतार्थो हि दुःखेनावधार्यत
इति सुखबोधायेहैकत्र व्यवस्थापितोऽशेषविमत्यपाकरणेनेति न पुनरुक्‍तता दोषः ।
एकत इति सप्‍तम्यर्थे तसि (ः) । श्‍लोकश्‍चायं प्रमाणकथनप्रस्तावाद् भगवत्प्रामाण्य
साधकोऽनुलोमप्रतिलोमतो ज्ञेयः ।


प्रमाणं भगवान् जगद्धितैषित्वात् । यतश्‍च जगद्धितैषी अतः शास्ता यतश्‍च 6a
शासकोतो गोत्रभेदेन प्राज्ञजातीयत्वात् सुगतः। सुगतत्वाच्‍च सर्वजगत्त्रायकोऽतोयं
प्रमाणमिति अनुलोमव्याख्या ।


प्रतिलोमतस्तु प्रमाणं तायित्वात् । तायित्वं सुगतत्वात् । तच्‍च शास्तृत्वात् ।
एतच्‍च जगद्धितैषित्वात् । कार्यतः कारणानुमानमिति व्याख्याभेदः । तदत्र श्‍लोके
शास्‍त्रकृता प्रथमार्द्धे पञ्‍च पदानि प्रणम्येत्येतत्त्यक्‍त्‏वाऽमुना परिच्छेदेन व्याख्यायन्ते ।
नाधिकं सुगमत्वादिति


व्याख्येयार्हव्याख्यानात् श्‍लोकव्याख्येत्याह । प्रायश्‍चाध्यारोपितगुणा स्तुतिरन्य
देवतानां । भगवतस्त्वप्रतिसममहद्‍भूतगुणा स्तुतिरिति प्रतिहता अप्‍यत्र प्रवर्त्तन्ते ।
मध्यस्था अभिप्रसीदन्ति । अभिप्रसन्‍नास्त्वत्यन्तमेव तत्र वृंहितभक्‍तयो भवन्ति । इति
स्तोत्रकर्त्तुः परेषाञ्‍च पुण्योपचयो भवति । व्याख्यातुरपि तथैव सर्वं सम्पद्यते
यथोक्‍तं


स्तोत्रकर्त्तुर्यथा पुण्यं स्तुतेर्भुवि प्रवर्त्तते ।

तद्व‍्‍याख्यातुस्तथा सर्वमिति व्याख्या प्रवर्त्तते ।

ताञ्‍च शास्‍त्रकृदाह । प्रमाणमविसम्वादि ज्ञानमि १।३ त्यादि । वार्त्तिक
रूपेण चेयं व्याख्या । तल्लक्षणत्वादित्यर्थाक्षिप्‍तं । वार्त्तिकस्य च लक्षणमुक्‍तं ।
वक्ष्यते व्याख्या चोद्देशनिर्देशापेक्षाक्षेपातिदेशादिलक्षणा तत्र युक्‍तात्र योज्या ।
तत्रोद्देशनिर्देशौ समासव्यासकथनं । अपेक्षा च पूर्वोत्तराभ्यामपेक्षणं । आक्षेपोऽर्था
क्षिप्‍तार्थकथनं 6b विजातीयव्यावृत्तिश्‍च ।6b


तदत्र वृ त्ति का रः श्‍लोकपातनिकां कुर्वन् प्रमाणभूतायेत्येतत्स्वयं व्याचष्‍टे ।
प्रमाणं जात इति भूतशब्दः प्रादुर्भावार्थः । तेनाजातमवस्थत्वान्‍न प्रमाणमित्य
नन्तरमुक्‍तम्वक्ष्यते च । सर्वश्‍च शब्दोऽन्यत्र प्रयुज्यमानोऽन्तर्भूतोपमार्थः प्रयुज्यत
इत्याह प्रमाणमिवेति प्रमाणशब्दो ज्ञाने मुख्य इतरत्र तु केन साधर्म्येणोपमानो
पमेयत्वमित्याह ‘अविसम्वादी’ति । प्राप्‍तिवाची तु भवतिः स्पष्‍टार्थ इत्यसौ
न विवृतः प्रामाण्यं प्राप्‍तः प्रमाणभूत इति ।


522

ननु भावनाबलनिष्‍पन्‍ननिष्‍कल्पा विकल्पा विकल्पभ्रान्तज्ञानात्मकत्वाद् भगवतः
प्रत्यक्षप्रमाणस्वभावता साक्षादस्त्येव किमुपचाराश्रयेणेति चेददोषोयं सविकल्पज्ञा
नावस्थाश्रयेणाभिधानादित्येके । इदन्त्वत्र युक्‍तं यद्यपि यथोक्‍तप्रमाणात्मकः
सदा भगवान् तथाप्यसंव्यावहारिकोसौऽवस्थाभेदस्ततः सांव्यवहारिकप्रमाणेनोप
मीयते लोकबोधनाय अमुनैव व्यवहरन्ति मुक्‍ता न लोकोत्तरेणातद्विप (क्ष)
त्वादितरेषां । यथोक्‍तं


रूपणव्यपदेशाभ्यां लौकिके वर्त्मनि स्थितौ ।

ज्ञानं प्रत्यभिलापञ्‍च सदृशौ बालपण्डिताविति ॥

प्रमाणमविसम्वादि ज्ञानमिति । अविसम्वादित्वं ज्ञानत्वञ्‍चानूद्य प्रामाण्यं
विधीयते । एतच्‍च प्रमाणद्वयव्यापिसामान्यलक्षणं


7a यद्यपि चालम्बनमनुमानस्य भ्रान्तं प्रवृत्तिविषयस्तु वाध एवार्थः । सामान्य
विशेषाकाराभ्यां स्वलक्षणस्यैव परिच्छेदादविसम्वादित्वं तुल्यं । अर्थक्रियासमर्थ
प्रतिबद्धलिङ्गापेक्षयानुमानस्य बाह्य एव प्रवृत्तेरिति तुल्यत्वं ।


ननु चाध्यक्षानुमानाभ्यामपि प्रवृत्तस्य कदाचित्प्रतिबन्धादिसम्भवाद्विसम्वा
दोपि । तदाभासाभ्यामपि काकतालीयन्यायेन सम्वादोपि । अतः कथमेतत्प्रमाण
लक्षणं ।


न दोषः । सदैव प्रमाणाभ्यां प्रवृत्तस्य प्रतिबन्धादप्रतिबन्धादिसम्भवे नियतः
सम्वादो न त्वेवं तदाभासेऽवश्‍यम्भावी सम्वादः । प्रमाणशक्‍तिर्वा प्रामाण्यं सा च
प्रतिबन्धादावप्यस्ति प्रमाणयोर्न त्वेवं तदाभासयोरिति असाङ्कर्यमेव । द्विविधश्‍च
सम्वादो ज्ञेयधर्मो ज्ञानधर्मश्‍च । अत्रार्थमुपलभ्य प्रवृत्ताविष्‍टार्थप्राप्‍तिः सम्वादो
विषयधर्मः । अर्थसामर्थ्येन तत्सिद्धेः । तदाकारज्ञानोत्पत्तेस्त्वर्थक्रियाधिगतिर्विषयि
धर्मः सत्यपि बाह्येऽर्थे तद्व‍्यवस्थाश्रयं ज्ञानमेव तस्य स्वसम्विद्रूपतया
बाह्यप्रकाशकं स्वयंप्रकाशरूपत्वात् तदेवं विषयधर्मस्यापि सम्वादस्य सम्भवा
ज्ज्ञानग्रहणं कृतमित्येतत्कथयन्‍नाह । स पुनरर्थंपरिच्छेद्येत्यादि । स पुनस्संवादो
विषयधर्म इत्यनेन सम्बन्धः । कदा पुनरसौ भवतीत्याह । अर्थस्य विच्छिद्य
प्रवृत्ताविति । परिच्छेदः प्रमाणद्वयं । तत्तु इत्यत्रानयोः । प्रत्यासन्‍नकारणत्वमिति
सूचयति । अयन्तु भेदः प्रत्यक्षाविकल्पकत्वान्‍न निश्‍चयः किन्तु तदाभासोत्पत्तेः ।
अनुमाने तु निश्‍चय एव । यद्येवं प्रत्यक्षेणाविकल्पेन मिथ्याफलवादिनां विवेकस्य
7b कर्त्तुमशक्यत्वात्कथं ततोऽर्थं परिच्छिद्य प्रवृत्तिरिति चेद् उच्यते द्विधा
प्रत्यक्षाश्रया प्रवृत्तिराद्याभ्यासवती च । तत्र याऽद्या सार्थगता तत्राभ्याससामर्थ्याद्यथा
विषयमधिगतपाटवं सदसन्मणिरूप्यादिज्ञानवदुत्पद्यमानं यथावस्त्वेवाकारं परिच्छि
523 न्ददुत्पद्यते । तदाकारसम्वेदनश्‍च बाह्यार्थाधिगतिः सम्विन्‍निष्‍ठत्वादर्थस्थितेर्नियता
कारञ्‍च वेदनं द्वैराश्येनार्थानां व्यवस्थापकम् एतद्वशाच्‍च विधिप्रतिषेध
विकल्पः । इदमुपलभे इदं नोपलभ इति भवति । तथा भूतं तत्स्वत एव प्रमाणं पुरुषं
बाह्येऽर्थे प्रवर्त्तयतीत्यर्थं परिच्छिद्येति वचनं घटत एव अनिश्‍चितविवेकस्य तु
कारणपरिशुद्धिद्वारेण प्रवृत्ति (ः।) अत्रापि योऽसमर्थस्तस्य संशयेनैव प्रवृत्तिः ।
कथन्तर्हि परिच्छिद्येति वचनं एतन्मतेनेति चेद् उक्‍तमत्र तदाकारोत्पत्तिमात्रेण
तथा व्यपदेश इति । संशयेन प्रवर्त्तमानः कथं प्रेक्षापूर्वकारीति चेत् । को
विरोधोत्र न हि य एव निश्‍चयेन प्रवर्त्तते स एव प्रेक्षापूर्वकारी । तथा हि प्रवृत्तौ
हेतुद्वयमर्थसंशयोऽर्थनिश्‍चयश्‍च । निवृत्तावपि द्वयमेवानर्थनिश्‍चयोऽनर्थसंशयश्‍च ।
तत्राद्येन हेतुद्वयेन यः प्रवर्त्तते निवर्त्तते च पश्‍चाद् येन स प्रेक्षापूर्वकारी भण्यते
लोके । यदि च निश्‍चयेनैव प्रवृत्तिस्तदा कृषीबलादीनां कृष्यादिष्वप्रवृतिः । न हि
तेषामनागतशस्यादिनिष्‍पत्तौ निश्‍चायकं प्रमाणमस्ति ।


किं रूपोऽसौ विषयधर्मः सम्वाद इत्याह यथा समीहिते त्यादि यथा येन
रूपेण सा