१३

१।३७ यद्यप्यपूर्वसत्वाप्रादुर्भावो बुद्धाश्‍चापर्यन्तास्त्र्यध्वसु तथापि
न संसारक्षयोस्त्याकाशाक्षयतापर्यन्ततेव । एकैकस्यां दिश्यन्तत्वात्सत्ववाहोः ॥


अन्यत्र गतचित्तोपि चक्षुषा रूपमीक्षते ।

तत्संकेताग्रहस्तत्र स्पष्‍टस्तज्‍जा च कल्पना ॥

सामान्यवाचिनः शब्दास्तदेकार्था च कल्पना ।

अभावे निर्विकल्पस्य विशेषाधिगमः कथम् ॥

तदुपेक्षिततत्वार्थैः कृत्वा गजनिमीलनम् ।

केवलं लोकबुद्‍ध्यैव बाह्यचिन्ता प्रतन्यते ॥

531
को वा विरोधो बहवः संजातातिशयाः पृथक् ।

भवेयुः कारणं बुद्धेर्यदि नामेन्द्रियादिवत् ॥

भिन्‍नकालं कथं ग्राह्यमिति चेद् ग्राह्यताम्विदुः ।

आस्वाद्य कोपि लवणं जलमेकदेशे सर्वं तथेति लवणाम्भसि वेत्ति यद्वत् ।

धूमं महानसभवाग्‍निभवम्विदित्वा सर्वन्तथेति निपुणस्‍त्रिगत्यवैति (?) ॥

येषु सत्सु भवत्येव यत्तेभ्यो ह्यस्य कल्पने ।

तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थितिः ॥

रूपगन्धरसस्पर्शसमुदायघटे यथा ।

पृष्‍ठजस्यावसायः स्याद्रूपग्राहिणि चाक्षुषे ॥

अधिकोवसायोध्यवसायः धूममेकं दृष्‍ट्वा सर्वं वह्निमध्यवसितवान् ॥

अनुपलम्भसहायेन प्रत्यक्षेण मयाग्‍निजन्मा धूमः परिच्छिन्‍न इति सकल
तदन्यापोढव्यक्‍तिजातमन्तर्भाव्यैव तद्वतोत्पन्‍नस्याध्यवसायस्य सम्वेदनात् । चक्षु
र्विज्ञानेन रूपमात्रं दृष्‍टं तद्वलोत्पन्‍नपृष्‍ठजेन विकल्पेन रूपगन्धरसस्पर्शसमुदायो
घटो मया दृष्‍ट इत्यध्यवसीयते । अत्र विप्रतिपत्तौ प्रमाणव्यवहारोच्छेदः स्यात् ।