363 ननु यदुक्तं (।) प्रमाणत्रय1807निवृत्तावपि नार्थाभावनिश्चय इति तन्मा भूत् प्रत्यक्षानुमानयोरसर्व्वविषय
त्वात् तन्निवृत्त्या (ऽ) भावनिश्चयः । आगमस्तु सर्व्व
विषय इति तन्निवृत्तौ युक्तोऽर्थासत्त्वनिश्चय इत्याह1808 ।
नान्तरीयकताया अविनाभावस्याभावाद् वस्तुभिः सह शब्दानां । ततः शब्देभ्यो
नार्थस्य सिद्धिर्निश्चयः । किन्तर्हि तेभ्यो गम्यत इत्याह1809 । वक्तुरभिप्रायस्य विवक्षायास्ते शब्दाः सूचकास्तदन्वयव्यतिरेकानुविधायित्वात् । न च विवक्षा
यथार्थं भवति1810
येन परंपरया तत्सम्वादः स्यात् । विसम्वादाभिप्रायादज्ञानाद्
वाऽन्यथापि विवक्षासम्भवात् ।
यद्येवं सर्व्वमेव वचनं प्रवृत्तिकामानां परीक्षार्हं स्यात् । कश्च सम्वादार्थः
कथञ्चाप्तवादसामान्यादनुमानतास्या चा र्ये णोक्तेत्याह ।1811
सम्बद्धवाक्यानां परस्पराभिसम्बद्धानामेकार्थोपसंहारात् (।) न च दशदाडि
मादिवाक्यमिवैकार्थानभिधायि । अनुगुणोणायं श
क्यानुष्ठानोपेयसाधनं न तु
-
आगमेन सह ।
↩ -
सिद्धान्ती ।
↩ -
...शास्त्राधिकार (३।१९८) इत्यत्र नागमे सर्व्वार्थनिबन्धनमुक्तं यत् तद्
↩
बाह्यार्थे यद्यपि घटविवक्षातः पटशब्दस्योत्पत्तिस्तथापि स्थानकरणाभिधातादेरेव
साक्षात्कारणादुत्पत्तेर्व्यभिचाराभावान्नाहेतुकत्वं । -
आगमप्रामाण्यमभ्युपगम्यात्र तु नैव बाह्यार्थेऽस्य प्रामाण्यमित्युक्तम् ।
↩ -
यो य आप्तवादः सोऽविसंवादी यथा क्षणिकाः सर्व्वसंस्कार इत्यादिकः ।
↩
आप्तवादश्चायमत्यन्तपरोक्षेप्यर्थे इत्यविसम्वादसामान्यादागमस्य बाह्येर्थे (दिग्)
नागेनानुमानमुक्तमित्यभ्युपेतबाधामाह । उच्यते न पुरुषोऽनाश्रित्यागमप्रामाण्य
मसितुं समर्थः । प्रत्यक्षफलाया हिंसादिविरतेः स्वर्गादिश्रुतेरविरतेर्नकादिश्रुतेः ।
तद्भावे विरोधाभावच्च । तत् सति प्रवर्त्तितव्ये वरमेवं प्रवृत्त इति परीक्षया
प्रामाण्यमाह (।) तच्च शास्त्रं न सर्व्वमधिकृतं किन्तु ।